पौराण प्रयोग दर्पणः

पौराण प्रयोग दर्पणः

अथाचमनम् । केशवाय नमः, नारायणाय नमः, माधवाय नमः, इति त्रिरपः पिबेत् । अथ पवित्रधारणम् । स्नाने दाने जपे होमे स्वाध्याये पितृकर्मणि । पवित्रं तु करे कुर्यात् सौवर्णं राजतं तु वा ॥ कुशपाणिः सदा तिष्ठेन्नरो दम्भविवर्जितः । स नित्यं हन्ति पापानि तूलराशिमिवानिलः ॥ पवित्रधारको यश्च न स पापेन लिप्यते । पवित्रयुतहस्तस्य विद्रवन्ति दिशो दिश ॥ जपहोमहरा ह्येते असुरादिव्यरूपिणः । पवित्रकृत हस्तस्य विद्रवन्ति दिशो दिश ॥ इति पवित्रं धृत्वा ह्रीं इति प्राणानायम्य तिलकं धारयेत् । मन्त्रार्थाः सफलाः सन्तु पूर्णाः सन्तु मनोरथाः । शत्रूणां बुद्धिनाशोस्तु मित्राणामुदयस्तथा ॥ तिलकं कुङ्कुमेनैव सदा मङ्गलकर्मणि । कारयित्वा सुमतिमान्न श्वेतचन्दनं मृदा ॥ इति ॥ अथ गणपतिवन्दनम् । सिद्‍ध्या बुद्ध्या समेतं गुणगणनिचयं सर्वसङ्कष्टदाहं, यक्षैरक्षोभि रीशप्रभृतिभिरमलैर्दानवैर्मानवैश्च । सर्वारम्भेभिवन्द्याङ्घ्रिकमलममलं भालचन्द्रं गजास्यं, रक्ताभं पद्ममालाधरमभयकरं विघ्नराजं भजेहम् ॥ इति महागणपतिं नत्वा श्री गणेशाय नमः । श्री सरस्वत्यै नमः । श्री गुरुभ्यो नमः । अविघ्नमस्तु गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धुकावेरि कलशे सन्निधिं कुरु ॥ गङ्गाद्यास्सर्वतीर्थदेवतास्सन्निहितास्सन्तु । इति तीर्थान्यावाह्य, देशकालौ सङ्कीर्त्य, करिष्यमाण कर्माङ्गत्वेन शरीरशुद्‍ध्यर्थं तीर्थस्नानं गव्यस्नानं तत्प्राशनं उपवीतधारणं च करिष्ये ॥ इति सङ्कल्पयेत् । अथ तीर्थस्नानम् । देव देव जगन्नाथ शङ्खचक्रगदाधर । आज्ञां देहि च मे विष्णो तवतीर्थावगाहने ॥ नमः पुण्यजले देशे नमः सागरगामिनि । नर्मदे सिन्धु कावेरी जलेस्मिन् सन्न्निधिं कुरु ॥ सागरः स्वननिर्घोषदण्डहस्तसुरान्तक । जगत्स्रष्टर्जगन्मर्दिन्नमामि त्वां सुरेश्वर ॥ तीक्ष्णदंष्ट्र महाकाय कल्पान्तदहनोपम । भैरवाय नमस्तुभ्यं अनुज्ञां दातुमर्हसि ॥ उत्तिष्ठतु महाभूता ये भूता भूमिपालकाः । भूतानामविरोधेन स्नानकर्म समारभे ॥ विष्णुपादाग्रसम्भूते गङ्गे त्रिपथगामिनि । धर्मद्रवेति विख्याता पापं मे हर जाह्नवी ॥ जाह्नवी सर्वतः पुण्या ब्रह्महत्याघहारिणी । वाराणस्यां विशेषेण गङ्गाह्युत्तरवाहिनी ॥ मज्जन्ति मुनयः सर्वे त्वमेकः किं न मज्जसि । मुक्तिस्त्वद्दर्शनाद्देवी न जाने स्नानजं फलम् ॥ प्रभाते वहते गङ्गा मध्याह्ने तु सरस्वती । अपराह्णेन्यतीर्थानि रात्रौ वहति नर्मदा ॥ विष्णुपादाग्रसम्भूते गङ्गेत्रिपथगामिनि । धर्मद्रवेति विख्याता पापं मे हर जाह्नवी ॥ कुशमूले स्थितो ब्रह्मा कुशमध्ये जनार्दनः । कुशाग्रे शङ्करो देवः तेन नश्यतु पातकम् ॥ इति ॥ अथ गव्यस्नानम् । गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् । सर्वपापविशुद्‍ध्यर्थं पञ्चगव्यं पुनातु माम् ॥ इति ॥ अथ पञ्चगव्यप्राशनम् । यत्वगस्थिगतं पापं देहे तिष्ठति मामके । प्राशनात्पञ्चगव्यस्य दहत्वग्निरिवेन्धनम् ॥ ह्रीं इति प्राशयेत् । अथोपवीतधारणम् । यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥ इत्युपवीतं धृत्वा, आचम्य, प्राणानायम्य, प्रधानसङ्कल्पं कुर्यात् । सुमुखश्चेत्यादिदेशकालकीर्तनान्ते अमुक कर्म करिष्ये ॥ तदादौ निर्विघ्नार्थं गणपतिपूजनं, क्षेत्रपालवास्तोष्पति प्रार्थनं, शान्त्यर्थं पुष्ट्यर्थं तुष्ट्यर्थं वृद्‍ध्यर्थं च ब्राह्मणैः सह पुण्याहवाचनं च करिष्ये ॥ इति ॥ अथ गणपतिपूजनम् । श्वेताङ्गं श्वेतवस्त्रं सितकुसुमगणैः पूजितं श्वेतगन्धैः, क्षीराब्धौ रत्नदीपैः सुरतरुविमले रत्नसिंहासनस्थम् । दोर्भिः पाशाङ्कुशेष्टाभयधृतविशदं चन्द्रमौलिं त्रिणेत्रं, ध्यायेच्छान्त्यर्थमीशं गणपति ममलं श्रीसमेतं प्रसन्नम् ॥ हे हेरम्ब त्वमेह्येहि अम्बिकात्र्यम्बकात्मज । सिद्धिबुद्धिपते त्र्यक्ष लक्षलाभ पितः प्रभो ॥ नागास्य नागहारत्वं गणराज चतुर्भुज । भूषितः स्वायुधैः र्दिव्यैः पाशां कुशपरश्वधैः ॥ आवाहयामि पूजार्थं रक्षार्थं च मम क्रतौ । इहागत्य गृहाण त्वं पूजां रक्ष क्रतुं च मे ॥ श्री महागणपतये नमः श्री महागणपतिमावाहयामि । इत्यावाह्य, पूजयेत् । तत्र स्नाने विशेषः - कावेरी नर्मदा वेणी तुङ्गभद्रा सरस्वती । गङ्गा च यमुना तोयं मया स्नानार्थमर्पितम् ॥ तथा दूर्वार्पणे - दूर्वाङ्कुरान् सुहरितान् अमृतान् मङ्गलप्रदान् । आनीतांस्तव पूजार्थं गृहाण गणनायक ॥ नैवेद्ये - सत्पात्रसिद्धं सुहविः विविधानेकभक्षणम् । निवेदयामि देवाय सानुगाय गृहाण तत् ॥ नीराजनेपि - कर्पूरकं महाराज रम्भोद्भूतं च दीपकम् । मङ्गलार्थं महीपाल सङ्गृहाण सुरेश्वर ॥ मन्त्रपुष्पसमर्पणे \- त्वां विघ्नशत्रुदलनेति च सुन्दरेति भक्तप्रियेति सुखदेति वरप्रदेति । विद्याप्रदेत्यघहरेति च ये स्तुवन्ति तेभ्यो गणेशवरदो भव नित्यमेव ॥ नमस्कारे तथा प्रार्थने - नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः । नमस्ते रुद्ररूपाय करिरूपाय ते नमः ॥ विश्वरूप स्वरूपाय नमस्ते ब्रह्मचारिणे । भक्तप्रियाय देवाय नमस्तुभ्यं विनायक ॥ लम्बोदरनमस्तुभ्यं सततं मोदकप्रिय । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ अनेन पूजनेन गणपतिः प्रीयताम् । इति ॥ अत्रैव क्षेत्रपालं वास्तोष्पतिं च सम्प्रार्थयेत् । अथ कलशस्थापनम् अथ भूमिं स्पृशेत् \- विश्वाधारासिधरिणी शेषनागोपरिस्थिता । उद्धृतासि वराहेण कृष्णेन शतबाहुना ॥ इति ॥ अथ कलशं \- हेमरूप्यादि सम्भूतं ताम्रजं सुदृढं नवम् । कलशं धौतकल्माषं छिद्रवर्णविवर्जितम् ॥ इति ॥ अथ जलपूरणं \- जीवनं सर्वजीवानां पावनं पावनात्मकम् । बीजं सर्वौषधीनां च तज्जलं पूरयाम्यहम् ॥ इति ॥ अथ वस्त्राच्छादनं \- सूत्रं कार्पाससम्भूतं ब्रह्मणा निर्मितं पुरा । येन बद्धं जगत्सर्वं वेष्टनं कलशस्य च ॥ इति ॥ अथ ओषध्यः \- देवेभ्यः पूर्वतो जाता देवेभ्यः स्त्रियुगं पुरा । शतं तनुश्च या बभ्रू जीवनं जीवनाय च ॥ इति ॥ अथ दूर्वाः \- दूर्वेह्यमृतसम्पन्ने शतमूले शतां कुरे । शतं पातकसम्पत्ती शतमायुष्यवर्धिनी ॥ इति ॥ अथ पल्लवान् \- अश्वत्थोदुम्बरप्लक्षच्यूतन्यग्रोधपल्लवाः । पञ्चभगा इति प्रोक्ताः सर्वकर्मसु शोभनाः ॥ इति ॥ अथ पुष्पाणि \- विविधं पुष्पसञ्जातं देवानां प्रीतिवर्धनम् । क्षिप्रं यत्कार्यसम्भूतं कलशे प्रक्षिपाम्यहम् ॥ इति ॥ अथ मृत्तिकाः \- अश्वस्थानाद्गजास्थानाद्वल्मीकात्सङ्गमाद्ध्रदात् । राजद्वाराच्च गो गोष्ठान्मृदमानीय निक्षिपेत् ॥ इति ॥ अथ रत्नानि \- कनकं कुलिशं नीलं पद्मरागं च मौक्तिकम् । एतानि पञ्चरत्नानि कलशे प्रक्षिपाम्यहम् ॥ इति ॥ अथ पूर्णपात्रापिधानं \- पिधानं सर्ववस्तूनां सर्वकार्यार्थ साधनम् । सम्पूर्णः कलशो येन पात्रं तत्कलशोपरि ॥ इति ॥ अथ वरुणपूजनम् नमो नमस्ते स्फटिकप्रभाय, सुश्वेतहाराय सुमङ्गलाय । सुपाशहस्ताय झषासनाय, जलाधिनाथाय नमो नमस्ते ॥ पाशहस्तं च वरुणमम्भसापतिमीश्वरम् । आवाहयामि यज्ञेस्मिन् पूजेयं प्रतिगृह्यताम् ॥ इत्यावाह्य, पूजयेत् । तत्र स्नाने विशेषः - परमानन्दबोधाब्धिनिमग्ननिजमूर्तये । साङ्गोपाङ्गमिदं स्नानं कल्पयामि जलाधिप ॥ नैवेद्ये - सत्पात्रसिद्धं सुहविः विविधानेकभक्षणम् । निवेदयामि देवाय सानुगाय गृहाण तत् ॥ नीराजनेपि - कर्पूरकं महाराज रम्भोद्भूतं च दीपकम् । मङ्गलार्थं महीपाल सङ्गृहाण सुरेश्वर ॥ नमस्कारे - नमो नमस्ते स्फटिकप्रभाय, सुश्वेतहाराय सुमङ्गलाय । सुपाशहस्ताय झषासनाय, जलाधिनाथाय नमो नमस्ते ॥ तत्र प्रार्थना - शिवः स्वयं त्वमेवासि विष्णुत्वं च प्रजापतिः । आदित्यावसवो रुद्राः विश्वेदेवाः सपैतृकाः ॥ त्वयि तिष्ठन्ति सर्वेपि यतः कामफलप्रदाः । त्वत्प्रसादिमं यज्ञं कर्तुमीहेजलोद्भव ॥ पाशपाणे नमस्तुभ्यं पद्मिनी जीवनायक । पुण्याहवाचनं यावत्तावत्त्वं संस्थितो भव ॥ इति ॥ अनेन पूजनेन वरुणः प्रीयताम् । ततः कलशं स्पृष्ट्वा देवता भावयेत् । कलशस्य मुखे विष्णुः --- कलशे सन्निधिं कुरु ॥ इति ॥ अथ यजमानः मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । इत्याशिषो गृहीत्वा, ब्राह्मणहस्ते जलं ददाति । ह्रीं आपः शिवा आपः सन्तु । ह्रीं गन्धाः सुगन्धाः पान्तु । ह्रीं अक्षताः अस्त्वक्षतमरिष्टं च । ह्रीं सुमनसः सौमनस्यमस्तु । ह्रीं दक्षिणाः स्वस्ति दक्षिणाः पान्तु । सन्तु पञ्चोपचाराः । शान्तिरस्तु ॥ कलशं स्पृष्ट्वा वदति । दीर्घा नागा नद्यो गिरयस्त्रीणिविष्णुपदानि च । तेनायुः प्रमाणेन पुण्यं पुण्याहमस्तु मे ॥ इति ॥ पुण्यं पुण्याहं दीर्घमायुरस्तु । पत्न्यान्वारब्धयजमानदक्षिणबाहुनान्वारब्धः कलशधारको मनः समाधीयताम् । इति वदति । ब्राह्मणाः -समाहितमनसस्स्मः ॥ इति प्रतिवदन्ति । प्रसीदन्तु भवन्तः प्रसन्नाः स्मः ॥ शान्तिरस्तु । पुष्टिरस्तु । तुष्टिरस्तु । वृद्धिरस्तु । अविघ्नमस्तु । आयुष्यमस्तु । आरोग्यमस्तु । शिवं कर्मास्तु । इत्युक्तं प्रतिब्रूयात् ॥ ब्राह्म्यं पुण्यं महर्यच्च सृष्ट्युत्पादनकारकम् । वेदवृक्षोद्भवं नित्यं तत्पुण्याहं ब्रुवन्तु नः ॥ मह्यं सह कुटुम्बिने --- पुण्यं पुण्याहं भवन्तो ब्रुवन्तु । पुण्यं पुण्याहम् ।इति प्रतिवचनम् । स्वस्त्यस्तु या विनाशाख्या पुण्यकल्याणवृद्धिदा । विनायकप्रिया नित्यं तां च स्वस्तिं ब्रुवन्तु नः ॥ मह्यं सह कुटुम्बिने --- स्वस्त्यस्त्विति भवन्तो ब्रुवन्तु । आयुष्मते स्वस्ति ।इति प्रतिवचनम् । सागरस्य यथावृद्धिर् महालक्ष्म्यादिभिः कृता । सम्पूर्णा सुप्रभा वाचा तां च ऋद्धिं ब्रुवन्तु नः ॥ मह्यं सह कुटुम्बिने --- ऋद्धिं भवन्तो ब्रुवन्तु । कर्म ऋद्‍ध्यताम् ।इति प्रतिवचनम् । समुद्रमथनाज्जाता जगदानन्दकारिका । हरिप्रिया च माङ्गल्य तां श्रियं च ब्रुवन्तु नः ॥ मह्यं सह कुटुम्बिने --- श्रीरस्त्विति भवन्तो ब्रुवन्तु । अस्तु श्रीः ।इति प्रतिवचनम् । पृथिव्यामुधृता यान्तु यत्कल्याणं पुराकृतम् । ऋषिभिः सिद्धगन्धर्वैः तत्कल्याणं ब्रुवन्तु नः ॥ मह्यं सह कुटुम्बिने --- कल्याणं भवन्तो ब्रुवन्तु । अस्तु कल्याणम् ।इति प्रतिवचनम् । अथ कलश जलधारां करोति । शुक्राङ्गारकबुधबृहस्पतिशनैश्चरराहुकेतुसोमसहिता आदित्यपुरोगा सर्वे ग्रहाः प्रीयन्ताम् । कर्माङ्गदेवताः प्रीयन्ताम् । शकुननिमित्तस्वप्नाः शिवा भवन्तु । आयुषोभिवृद्धिरस्तु आयुषोभि वृद्धिरस्तु । शिवं शिवमस्तु । सर्वग्रहसंस्थित्यमस्तु । सत्या एता आशिषः सन्तु । बहिर्देशे अरिष्टनिरसनमस्तु । इति किञ्चित्कलशोदकमीशान्ये निनीय, यत्पापं तत्प्रतिहतमस्तु । यच्छ्रेयस्तदस्तु । उत्तरे कर्मण्यविघ्नमस्तु । उत्तरोत्तरमहरहरभिवृद्धिरस्तु । उत्तरोत्तराः क्रिया श्शुभास्सम्पद्यन्ताम् । तिथिकरणमुहूर्तनक्षत्रदिग्देवताः प्रीयन्ताम् ॥ अथ कलशजलमन्योन्यं संस्राव्य तज्जलं पात्रान्तरे निनीय, तत्र हिरण्यं निधाय, दर्भैर्ब्राह्मणाः सपत्नीकं यजमानं संस्कार्यं च प्रोक्षेयुः । तत्काले पत्नी वामभागे उपविशति ॥ सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः । वासुदेवो जगन्नाथः तथा सङ्कर्षणो विभुः ॥ प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयायते । आखण्डलोग्निर्भगवान् यमो वै निरृतिस्तथा ॥ वरुणः पवनश्चैव धनाध्यक्षस्तथाशिवः । ब्रह्मणा सहिताः सर्वे दिक्पालाः पान्तु ते सदा ॥ कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः । बुद्धिर्लज्जावपुः शान्तिः कान्तिस्तुष्टिश्च मातरः ॥ एतास्तामभिषिञ्चन्तु देवपत्न्यः समागताः । आदित्यश्चन्द्रमा भौम बुध जीव सितार्कजाः ॥ ग्रहास्त्वामभिषिञ्चन्तु राहुकेतुश्च तर्पिताः । देवदानवगन्धर्वा यक्षराक्षसपन्नगाः । ऋषयो मुनयो गावो देवमातर एव च ॥ देवपत्न्योद्रुमानागा द्यैत्याश्चाप्सरसां गणाः । अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च ॥ औषधानि च रत्नानि कालस्यावयवाश्च ये । सरितः सागराः शैलास्तीर्थानि जलदानदाः ॥ एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये । सहस्राक्षं शतधारं ऋषिभिः पावनं कृतम् ॥ तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते । भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः ॥ भगमिन्द्रश्च वायुश्च भगं सप्तऋषयो दधुः । यत्ते केशेषु दौर्भाग्यं सीमन्ते यश्च मूर्धनि ॥ ललाटे कर्णयो रक्ष्णोरापो निघ्नन्तु ते सदा । अमृताभिषेकोस्तु ॥ अथ गृहं \- वास्तोष्पते भूमिशयान देव, पाहि त्वमस्मान् सकलादरिष्टात् । चतुष्पदां च द्विपदां शिवं नो, भवत्वभीक्ष्णं तव सुप्रसादात् ॥ इति प्रोक्ष्य, शिवं शिवं शिवं इति शेषजलमप्सु विसृजेत् । अनेन पुण्याहवाचनकर्मणा श्री परमेश्वरः प्रीयतां इति समर्प्य, श्रद्धां मेधां यशः प्रज्ञां विद्यां बुद्धिं श्रियं बलम् । आयुष्यं तेज आरोग्यं देहि मे जलनायक ॥ इति प्रसादं स्वीकृत्य, यान्तु देवगणाः सर्वे पूजामादाय मत्कृताम् । इष्टकाम्यार्थसिद्‍ध्यर्थं पुनरागमनाय च ॥ इति विसृजेत् ॥ ततः पुण्याहवाचनफल समृद्ध्यर्थं अस्मै आचार्याय यथाशक्ति फलहिरण्य तण्डुलं सम्प्रददे न मम । इति त्यजेत् ॥ आचार्यः पुण्याहवाचन फलसमृद्धिरस्तु इति प्रतिवदति । अथ कृच्छ्राचरणम् करिष्यमाण अमुक कर्मणि मम देहमनोविशुद्धिपूर्वकं अधिकारसिद्‍ध्यर्थं कृच्छ्रप्रत्याम्नायत्वेन हिरण्यदानं करिष्ये । इति सङ्कल्प्य, नमः सकलकल्याणदायिने ब्रह्मरूपिणे । सदसे सर्वपूज्याय दुष्कृतारण्यवह्नये ॥ इति प्रदक्षिणं कृत्वा ``ह्रीं हिरण्य गर्भगर्भस्थं'' इति पठित्वा, मम देहमनो विशुद्धिपूर्वकं करिष्यमाण कर्मणि अधिकारसिद्‍ध्यर्थं कृच्छ्रप्रत्याम्नायत्वेन परिषदुपविष्टेभ्यः ब्राह्मणेभ्यः यथाशक्तिदक्षिणां विभज्य, दातुमहमुत्सृजे । इति त्यजेत् ॥ सर्वे धर्मविवेक्तारो गोप्तारः सकला द्विजाः । कुर्वन्तु मम देहस्य संशुद्धिं गतकिल्बिषाः ॥ पूज्यैः कृतपवित्रोहं भविष्याम्यनघस्तथा । प्रसादः क्रियतां मह्यं शुभानुज्ञां प्रयच्छथ ॥ पुरा कृतं महाघोरं ज्ञाताज्ञातं च किल्बिषम् । जन्मतोद्य दिनं यावत्तस्मात्पापात्पुनन्तु माम् ॥ अशेषे हे परिषत् ! भवत्पादमूले समर्पितामिमामल्पीयसीमपि दक्षिणां यथोक्तदक्षिणामिव स्वीकृत्य मम देहमनोविशुद्धिपूर्वकं करिष्यमाण कर्मणि अधिकारसिद्धिरस्त्विति-अनुगृहाण ॥ इति परिषदं नमस्कृत्य अनुज्ञां सम्पादयेत् । अनेन कृच्छ्राचरणेन श्री परमेश्वरः प्रीयताम् ॥ इति ॥ प्रधान सङ्कल्पान्ते ऋत्विजो वरयेत् । यथा- अमुक कर्माङ्गत्वेन आचार्यादि ऋत्विजो वरयिष्ये । इति सङ्कल्प्य ब्राह्मणान्नमस्कृत्य, आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः । तथा त्वं मम यागेस्मिन्नाचार्यो भव सुव्रत ॥ इति स्व दक्षिणपाणिना तस्य दक्षिणपाणिं स्पृष्ट्वा वरयित्वा, भवन्तः सर्वधर्मज्ञाः सर्वधर्मभृतां वराः । वितते मम यज्ञेस्मिन् ऋत्विजो भवत द्विजाः ॥ इति ऋत्विजः अथ गृहीत-कुसुमाञ्जलिना यजमानेन ब्राह्मण प्रार्थना - ब्राह्मणास्सन्तु मे शास्ताः पापात्पान्तु समाहिताः । देवानां चैव दातारः पातारः सर्वदेहिनाम् ॥ जपयज्ञैः तथा होमैर्दानैश्च विविधैः शुभैः । देवानां च पितृणां च तृप्त्यर्थं याचकाः स्मृताः ॥ येषां देहे स्थिता देवाः पावयन्ति जगत्त्रयम् । ते मां रक्षन्तु सततं जपयज्ञे व्यवस्थिताः ॥ अदुष्टभाषणास्सन्तु मा सन्तु परनिन्दकाः । ममापि नियमाह्येते भवन्तु भवतामपि ॥ इति ॥ अथ सर्वे ऋत्विजः तत्तत्कर्म विधिवदनुष्ठाय प्रधान कर्मान्ते पूर्णाहुतिमाचरन्ति । अथ पूर्णाहुतिः । इदं फलं मया देव स्थापितं तु हुताशन । तेन मे सुफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥ इति फलं समर्प्य, आचार्यः स्रुचि द्वादशवारं चतुर्वारं वा स्रुवेणाज्यमादाय द्वाभ्यां शङ्खमुद्रया गृहीत्वा यजमानान्वारब्धस्तिष्ठन् पूर्णाहुतिं जुहुयात् । तत्र मन्त्राः - देवा यज्ञभुजो ये ते साङ्गं कुर्वन्त्विमां क्रतुम् । रक्षत्वस्मान् सदा यज्ञे तेभ्य आज्याहुतिं नमः ॥ यो विष्णुस्त्रिपदैः सर्वमाक्रम्य भुवनत्रयम् । अधितिष्ठति सर्वात्मा तस्मा आज्याहुतिं नमः ॥ त्वं यज्ञपुरुषः साक्षादग्ने त्वं यज्ञ एव च । वैगुण्यदोषशान्त्यर्थं तुभ्यमाज्याहुतिं नमः ॥ एह्येहि सर्वामर हव्यवाह मुनिप्रवर्यैरभितोभिजुष्ट । तेजोवता लोकगणेन सार्धं ममाध्वरं पाहि कवे नमस्ते ॥ कल्याणदात्रीं कल्याणीं सर्वकामप्रपूरणीम् । हवनस्य फलप्राप्त्यै पूर्णाहुत्यै नमो नमः ॥ दिव्यवस्त्रा दिव्यदेहा नानालङ्कारभूषिताः । वसोर्धारा महाभागा वरदाः सन्तु मे सदा ॥ शुद्धस्फटिकसङ्काशा दिव्यायुधकरावृताः । एकभोगाः साक्षसूत्राः वसोर्धारा नता वयम् ॥ भो अग्ने! हव्यवाहन! वैश्वानर! सर्वदेवमय! सर्वदेवतामुख! जातवेदस्तनूनपात्कृशानो हुतभुग्विभावसो बृहद्भानो हिरण्यरेतः सप्तार्चिर्दमनश्चित्रभानो ! ज्वलनपावकेळाह्वयाय तुभ्यमिमां सर्वकर्मप्रपूरणीं पूर्णाहुतिं ददामि । एनां गृहाण । गृहाणास्माकमनामयमनिशं कुरु कुर्विष्टं देहि देहि सर्वतोस्मान्दुरितदुरिष्टात्पाहि पाहि भगवन्नमस्ते नमस्ते । ह्रीं अग्नये नमः । अग्नये इदं न मम ॥ पूर्णाहुतिमुहूर्तः सुमुहूर्तोस्त्विति भवन्तो ब्रुवन्तु । सुमुहूर्तोस्तु । इति प्रतिवचनम् ॥ इति ॥ अथ कर्मान्ते श्रेयोग्रहणम् ॥ आचार्यः स्वस्त्यस्तु दीर्घमयुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्चास्तु । भवन्नियोगेन मया एभिर्ब्राह्मणैस्सह यत्कृतं अमुक कर्म तदुत्पन्नं यच्छ्रेयस्तुभ्यं सम्प्रददे । तेन त्वं आयुष्मान् आरोग्यवान् पुत्रपौत्रवान् धनधान्यवान् भव । इत्युक्त्वा यजमानाञ्जलौ अक्षतजलं निक्षिपेत् । ततो यजमानः ब्राह्मणानभ्यर्च्य, भूयसीं दक्षिणां ददाति । सन्तुष्टास्ते आशिषमाशास्ते । आशीर्वादमन्त्राः मन्त्रार्थाः सफलाः सन्तु पूर्णाः सन्तु मनोरथाः । शत्रूणां बुद्धिनाशोऽस्तु मित्राणामुदयस्तव ॥ आरोग्यं सविता तनोतु भवतामिन्दुर्यशो निर्मलं, भूतिं भूमिसुतस्सुधांशुतनयः प्रज्ञां गुरुर्गौरवम् । काव्यः कोमलवाग्विलासमतुलं मन्दो मुदं सर्वदा, राहुर्बाहुबलं विरोधशमनं केतुः कुलस्योन्नतिम् ॥ दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति । नरनारीनृपाणां च भवेद्दुस्स्वप्ननाशनम् ॥ ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम् । ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः ॥ ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः । न च चोरभयं, न च सर्पभयं, न च व्याघ्रभयं, न च मृत्युभयं, यस्यापमृत्युर्न च मृत्युः । स सर्वं लभते । स सर्वं जयते ॥ यस्त्वन्निमित्तेन मया कृतोऽयं स पुण्यसारस्तव दीयते मया । तस्मात्वदीयं परिगृह्यसारं सपुण्यवान् पुण्यसमृद्धिमान् भव ॥ ह्रीं श्रीर्वर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते । धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥ इति पौराण प्रयोग दर्पणः समाप्तः ॥ सम्पादकः परमेश्वर पुट्टनमने Encoded and proofread by Parameshwar Puttanmane poornapathi at gmail.com
% Text title            : paurANaprayogadarpaNaH
% File name             : paurANaprayogadarpaNaH.itx
% itxtitle              : paurANaprayogadarpaNaH
% engtitle              : paurANaprayogadarpaNaH
% Category              : misc, pUjA
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Parameshwar Puttanmane poornapathi at gmail.com
% Proofread by          : Parameshwar Puttanmane poornapathi at gmail.com
% Latest update         : October 6, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org