निगमानन्ददर्शनसमीक्षणम्
लेखकः - नन्दप्रदीप्तकुमारः
श्रीचैतन्यपथस्य भक्तितनयां संघीयधारां शुभां
श्रीमच्छंकरमार्गतः प्रियतमं ज्ञानात्मजं शाश्वतम् ।
धृत्वा मन्त्रमहानिधिं जयगुरुं प्रेमाम्बुधौ मज्जति
वन्दे तं परमेश्वरं गुरुवरं भक्तस्य चिन्तामणिम् ॥
स्वामिनिगमानन्दः वंगप्रदेशस्य नदीयामण्डलान्तर्गत- कुतवपुराख्ये ग्रामे १८७९ खीष्टाब्दे अगष्टमासस्य ऊनविंशतिदिनांके श्रावणपौर्णमास्यां शुभतिथौ रात्रौ द्विवादनसमये एकस्मिन् ब्राह्मणपरिवारे जनिमलभत । अस्यपितुर्नाम भुवनमोहन भट्टाचार्यः मातुश्च माणिक्यसुन्दरी आसीत् । अस्य पूर्वनाम नलिनीकान्तः आसीत् । तन्त्र-ज्ञान-योग-प्रेमसिद्धस्य निर्विकल्पसमाधिव्युत्थितस्य स्वामिनिगमानन्दपरमहंसपरिव्राजकाचार्यप्रवर्तितस्य इदं ज्ञानभक्तिसम्मेलनात्मकं दर्शनं भारतीयदर्शनाकाशे ध्रुवताराप्रायं प्रतिभातीति निःसन्देहमेव ।
श्रीमदादिशंकराचार्यप्रोक्तमद्वैतमतस्याधिकारिनियमदृष्ट्या संकीर्णमिति मत्वा तस्यैवमतं श्रीचैतन्यदेवप्रवर्तितप्रशस्तभक्तिसिद्धान्तमाध्यमेन प्रचारयितुमनेन परमर्षिणा यदभिनवदर्शनस्याविष्कारः कृतस्तदेव भारतीयदर्शनेषु स्वकीयं महत्त्वपूर्णस्थानं भजते । स्वामिनिगमानन्ददर्शने त्वयं विशेषः-ऋते ज्ञानान्न मुक्तिः इति यत् शांकरसिद्धान्तः स च साधनचतुष्टयसंपन्नानां तत्त्वमस्यादिश्रुतिसैद्धान्तिकानां पक्षे सम्भवति । एवं तत्र अधिकारिदृष्ट्या मार्गः संकीर्ण इति प्रतीयते । श्रीचैतन्यमते किन्तु भक्तिरेव मुक्तेः प्रधानोपायत्वेन निरूपिता । यद्यपि अनेन महानुभावेन भगवतः श्रीकृष्णस्य भजनव्यतिरिक्तः कश्चिदुपायो न विहितस्तथापि तत्प्रोक्तभक्तिमार्गस्तु अधिकारिदृष्ट्या प्रशस्त एव । प्राणिमात्रस्य भक्तावधिकारश्रवणात् । एतस्मात्कारणात् श्रीचैतन्यदेवस्य भक्तिपथेन श्रीशंकरप्रोक्तज्ञानलाभः सुकर इति दर्शयितुमनेन शंकरस्य मतं चैतनस्य पन्था इति सम्मेलनात्मकमार्गो दर्शितः ।
यद्यपि सन्ति भारतीयप्राचीनपरंपरायां बहूनि दर्शनानि तथाप्यस्य ज्ञानभक्तिसम्मेलनात्मकदर्शनस्य तत्त्वप्रतिपादनप्रकारः सर्वानतिशेते । निगमानन्ददर्शने अनेका विषया सज्जीकृताः । तेषु विशिष्टविषयास्त्वेते ब्रह्मचर्यसाधन-आदर्शगृहस्थजीवन-संघशक्तिप्रतिष्ठा-भावविनिमय-भक्तसम्मिलनी-सत् शिक्षाविस्तार-शिवज्ञाने जीवसेवा-सनातनधर्मप्रचारादयो मुख्याः दृष्टिपथं समायान्ति ।
निगमानन्ददर्शनोद्देश्यस्तु पूर्णानन्दानुभवः । असावनुभवः साक्षात्कारजन्यः । पूर्णानन्दपदेन न द्वैतं नाप्यद्वैतं ज्ञेयम्, किन्तु द्वैताऽद्वैतयोर्यत् सन्धिस्थलं तदेवास्माकं पक्षे परमानन्दविषय इति भावः । ज्ञानं विश्लेषणात्मकं, भक्तिस्तु संश्लेषणात्मिका । अनयोः कार्येण कारणस्य कारणेन च कार्यस्य युगपत् ज्ञानकरणमेव पारमार्थिकम् । अन्यथा ये विश्लेषणात्मकं ज्ञानं ज्ञानमार्गेण संश्लेषणात्मिकां भक्तिं च भक्तिमार्गेण मन्यन्ते वस्तुतस्ते संप्रदायान्धा एव । ज्ञानमार्गेणापि ज्ञानकर्मभक्तीनां समन्वयसत्वात् । अत्रेदं बोद्ध्यम्-जडजगद्विषये नेति नेतीति वदन्तः स्थूलसूक्ष्मातिक्रमपूर्वकं ये ब्रह्मानन्दे विश्राम्यन्ति ते ज्ञानमार्गिणः । ये ब्रह्मस्वरूपं सम्यक् ज्ञात्वाऽखिलं जगत्तस्य लीलावयव इति मत्वा लीलानन्दे विश्राम्यन्ति ते भक्तिमार्गिण इत्यनयोर्भेदः फलितः । यथा ज्ञानिनां कृते लीलानन्दस्य अत्यन्ताभावस्तथा भक्तानां कृते ब्रह्मानन्दस्य । किन्तु यः विश्लेषणमार्गेण गच्छन् संश्लेषणमार्गेण पुनरायाति अर्थात् युगपत् ब्रह्मानन्दं लीलानन्दं च भोक्तुं शक्नोति स एव पूर्णः । स एव परमहंसः । स एव पूर्णानन्दस्य विशिष्टो ज्ञाता । असौ सर्वधर्मसमन्वयस्य परिभाषा । अयमेव सार्वभौमगुरुस्वामिनिगमानन्ददर्शनस्य मौलिकसिद्धान्तः । अत्राद्वैतशब्देन स्वरूपानन्दो द्वैतशब्देन च लीलानन्दो बोद्धव्यः । पूर्णानन्दानुभवात्मकोद्देश्यस्य सत्यासत्यमुपपद्यते न वेति विमर्शः परीक्षा । सा तु सद्गुरुसेवापेक्षा । प्रयोजनं द्विविधम् । स्वरूपावस्थानं प्रेमभक्तिविलासश्चेति । सद्गुरुसेवया प्रयोजनं सिद्ध्यति । तत्त्वपिपासुरेवाधिकारी ।
ननु पूर्णानन्दशब्दः सगुणो निर्गुणः साकारो निराकारः सविशेषोऽविशेषो वेति चेदुभयमेव सत्यम्, श्रुतिस्मृतिप्रामाण्यात् । किन्त्वधिकारिविशेषात् तत्तदनुभवस्तत्तदुपासकेषु प्रमाणितः ।
उपासना द्विविधा । स्वरूपतटस्थभेदात् । तत्राद्या निर्गुणा, सन्न्यासिनोऽधिकारिणः । फलं निर्गुणब्रह्मसाक्षात्कारः । गतिरिह्यैव जीवन्मुक्तिरन्ते च ब्रह्मनिर्वाणम् । द्वितीया सगुणा तटस्था, फलं ब्रह्मात्मभगवतां युगपत्साक्षात्करणम् । दार्शनिकेषु ज्ञानिनो बौद्धाश्च ब्रह्मज्ञाः । फलं परंब्रह्मसाक्षात्कारः । आत्मज्ञा योगिनः, फलमात्मसाक्षात्कारः । भक्ता भगवद्द्रष्टारः । फलं च प्रेमभक्तिलाभः ।
भगवान् ब्रह्माण्डपतिः, कूटस्थो भावगम्यः । द्विविधो भावः । माधुर्यैश्वर्यभेदात् । तत्र माधुर्यभाववादिनो वैष्णवा यीशोरनुयायिनश्च । ऐश्वर्यभाववादिनः शाक्ताः मुहम्मदानुयायिनश्च स्युः । माधुर्यानां क्रममुक्तिरभिप्रेता । सा सालोक्यसारूप्यस्थानीया । ऐश्वर्यशालिनामपि क्रममुक्तिरभिप्रेता, किन्तु सा सायुज्यात्मिका इति विशेषः ।
उपासना तु गुरुसेवापरपर्यायरूपा पारंपरिकी । गुरु ब्रह्मा गुरु विष्णुर्गुरुदेवो महेश्वरप्रमाणसाहचर्यात् सर्वदेवमयो गुरुरेव भुक्तिमुक्तिप्रदाता परमेश्वरत्वेन सर्वोपास्यो लक्ष्यः । ननु श्रवणमनननिदिध्यासनादयो ज्ञानस्य मुख्यहेतवरूपेण स्थिरीकृताः, तत्कथमुपासना इति चेत् सत्यम् । श्रवणं हि गुरुमुखात् भवति सुतरां तत्पूजा सर्वादौ कर्त्तव्या इति न्यायात् गुरुपूजासेवादिभिस्तेषां चरमज्ञानदर्शनात् तद्वाक्यमननं ध्येयं पश्चाद्निदिध्यासनमिति विचारे त्वियं व्यवस्था सुस्था फलवती च ।
नराकारस्य सद्गुरोर्भोजनशयनादिदेहधर्मो दिव्यः । तत्र सन्देह अकरणीयो देवो वा मानुषो वेति, जीवित उत मृतो वा । तद्वाक्यमेव प्रमाणम् । तदेव सत्यम् । तमनुसरमिति । तथाहि विवेकचूडामणौ-
स्वाराज्यसाम्राज्यविभूतिरेषा भवत्कृपाश्रीमहिमप्रसादात् ।
प्राप्ता मया श्रीगुरवे महात्मने नमो नमस्तेऽस्तु पुनर्नमोऽस्तु ॥(५१८)
इति । अपि च तत्र मंगलाचरणे-
सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् ।
गोविन्दं परमानन्दं सद्गुरुं प्रणतोऽस्म्यहम् ॥
किं चान्यत्र- यत्र श्रीगुरोरनुगमनं सर्वत्र सर्वभजनसाधने अनुसरणं सर्वदा सर्वकाले जीवने मरणे विपदि संपदि दूरे निकटे दिनादौ निशादौ संकीर्तनादौ महाप्रसादे अनुशीलने इत्येवमादिभिः गुरुरेव मुख्यत्वेन निर्द्दिश्य तदनुसन्धानेन भाव्यो मार्गः समुद्घोषितः ।
तन्त्रज्ञानयोगप्रेमाणश्चतुर्विधमार्गाः तत्त्वानि वा । तन्त्रं शक्तितत्वमतिगोपनीयम् । आत्मतत्वं योगः । ब्रह्मतत्वं ज्ञानम् । तत्तु वेदान्तापरपर्यायरूपम् । भावतत्वं भक्तिः । ज्ञानं नामानुभावः । अनुभवो भाववाचकः । भक्तिरत्र भावप्रधानया चित्तवृत्त्या विग्रहादिपूजनं, सद्गुरो वा कस्यापि उपास्यदेवस्य श्रद्धामात्रेण विश्वासेन मुमुक्षुचेतसा वा यदुपासनं तत्तु भक्तिरर्थैः प्रगुम्फितं तत्तदाचार्यैः ।
गुरुस्तत्त्वदर्शी परमाचार्यः । तच्छुश्रूषया प्रणिपातेन च को बन्धः कथं विमुक्तिः इति स्पष्टं भगवता गीतायां-
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञाणं ज्ञानिनस्तत्त्वदर्शिनः ॥(४/३४)
कठे -दुर्गं पथस्तत् कवयो वदन्ति (२/३/१४)
छान्दोग्ये च -आचार्यवान् पुरुषो वेद् (६/१४/२) इत्यादयः श्रुतिस्मृतयो न मौनाः गुरुतत्त्वविषये । एतस्मादाचार्योपासनं सर्वादौ फलितमिति निगमानन्ददर्शनस्य मतमिति दिक् ।
--- लेखकः - नन्दप्रदीप्तकुमारः
Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com