नक्षत्रमालिका
श्रीमदभिरामवरगुरुभिरनुगृहीता
श्रीरस्तु ।
श्रीमते हयग्रीवाय नमः ।
श्रीमते रामानुजाय नमः ॥
अस्मासु वत्सलतया कृपया च भूयः
स्वेच्छावतीर्णमि(व) ह सौम्यवरं मुनीन्द्रम् ।
आचार्यपौत्रमभिरामवराभिधानं
अस्मद्गुरुं परमकारुणिकं नमामि ॥
श्रीमान् पराङ्कुशमुनिर्जीयात् यज्ज्ञानमुद्रया ।
नेन्द्रियाश्वयुजो नॄणां नित्यं विषयवीथयः ॥ १॥
यदुरसि भरणीया स्रग्विकसितवकुलानद्धा ।
स जयति महिमा नाथो मुररिपुपदसक्तो नः ॥ २॥
नन्ताऽनन्ताङ्घ्रिनलिनयुग्मे कर्ता लोकार्तिकबलनानाम् ।
भद्राय द्राविडनिगमानां द्रष्टा पुष्टाय वकुलभृत्स्यात् ॥ ३॥
स्यादेव सा मे फणितिश्शठारेः ययोदितोच्चैस्सरणिर्जनानाम् ।
आरोहिणी नाप्यवरोहिणी हि वेदोदिता तु द्वयमभ्युपैति ॥ ४॥
तिलकमाह न काचिदपि श्रुतौ त्रिजतामृगशीर्षसमुत्थिता ।
स्फुटतरं वकुलाभरणीयवाक् पुरुषमादिमशेषपदैरपि ॥ ५॥
पित्रादिस्सकलविधोऽपि बन्धुवर्गः यस्यासीत्सरसिजवासिनीसहायः ।
आविस्स्युर्घनकरुणारसावसेकैरार्द्रा मे वकुलभृतः कटाक्षपाताः ॥ ६॥
तामाश्रयामि करुणां वकुलाभिरामां
याऽसौ पुनर्वसुमतीवलयेऽवतीर्णा ।
प्रज्ञादृशोन्मिषितया प्रथितानुभावा
ज्योतिः परं यदनिदं तदिदं चकार ॥ ७॥
रचितवति रमाया नायकस्याङ्घ्रिपुष्यत्-
प्रणयरससुधाब्धिस्रोतसि स्वैरगाहम् ।
प्रभवति कलिघर्मप्रावृषेण्याम्बुवाहे
वकुलधरमुनीन्द्रे तापवार्ता कथं नः ॥ ८॥
नमज्जनस्य चित्तभित्तिभक्तिचित्रतूलिका
भवाहिवीर्यभञ्जने नरेन्द्रमन्त्रयन्त्रणा ।
प्रपन्नलोककैरवप्रसन्नचारुचन्द्रिका
शठारिहस्तमुद्रिका हठाद्धुनोतु मे तमः ॥ ९॥
मनस्स्फटिकदर्पणप्रतिफलत्परब्रह्मणः
प्रदर्शनमिवाचरन् प्रथितबोधमुद्राङ्कितः ।
सतामभयशंसिता भवभयाभितप्तात्मनामघानि
शमयेत नः शठरिपोरवामः करः ॥ १०॥
रमयतु शठशत्रुरत्युन्नताचारयुक्तैर्जनैः
अवनतपदपद्मयुग्मोऽनुकम्पामृताम्भोनिधिः ।
बहुविधकृतपूर्वफल्गुन्यगाचारचिन्ताकुलं
हृदयमसदृशात्मपादारविन्दानुषङ्गान्मम ॥ ११॥
मग्नं मानस! मास्म भूः शठरिपोरव्याजसिद्धा कृपा
नौका काचन नाविकोऽपि स पुनस्सन्तारकग्रामणीः ।
एतेनोत्तर फल्गुनीरसपरिक्लिष्टोपभोगोर्मिकं
दुःखावर्तदुरन्तपारगमनं संसारवाराकरम् ॥ १२॥
रत्नदीपिकायमानहस्तमुद्रिकाकृतत्रयीगिरीन्द्र-
कन्दरान्तरालगाढरूढरूढिमन्निधानसूचनेन ।
द्राविडागमोपगीतिमूलसेकशीतवीतनिद्रपत्र-
दिव्यतिन्त्रिणीसमीपगेन नाथवानहं पराङ्कुशेन ॥ १३॥
नत्या नत्यागकारी क्षणमपि चिदचित्त्रयकामेयकामे
छन्दश्छन्दस्वरूपे महसि कमलया भासमानेऽसमाने ।
श्रेयः श्रेयस्विसङ्घैः परिचयसुरभिः कैसराणां सराणां
पातात्पाताद्भवाब्धौ शठरिपुरिह नो वीक्षणेन क्षणेन ॥ १४॥
नप्रपत्तिवर्त्मनःप्रवर्तनापदानवासनानुसारि
नव्यपेतसर्वदाजलाशयान्वयं कथं समं सरोजम् ।
स्वातिकामियोगिवृन्दचित्तपद्मबद्धसौहृदानुरक्त-
रूपयोश्शठारिपादयोर्युगेन सन्नतार्तिभञ्जनेन ॥ १५॥
नत्वा यां कुसुमायुधेषुधिरुचिव्याघातमातन्वतीं
शेमुष्या महतामहायि तरुणीजङ्घासु जङ्घालता ।
विस्तीर्णच्छविशाखया शठरिपोर्वृत्तानुपूर्वीजुषा
जङ्घाकल्पतरुश्रिया सुरभितञ्चिन्तावनं मामकम् ॥ १६॥
कनदवयवलोलशोभाभिधानापगास्रोतसः
समुदितगुरुबुद्बुदाकारसन्देहसन्दायिनोः ।
ककुदधिगतमित्रभावं स्वभावाद्युगं जानुनोः
मम हृदि शठवैरिनाम्नो मुनीशस्य सन्दीव्यतु ॥ १७॥
तुलासरणिसीमनि प्रथितरूपया हस्तिनां
करण करभेण वा कदलिकाप्रकाण्डेन वा ।
तथोपरि च पश्यतां नयनबन्धनज्येष्ठया
चमत्कृतिमती मतिश्शठरिपूरुलक्ष्म्या मम ॥ १८॥
महःप्ररोहमञ्जरीमनोज्ञरत्नमेखला-
कलापपुष्पिता कटीतटीपटी शठद्विषः ।
उरस्स्रवत्प्रभाझरीनिपातनिम्ननाभिका-
ऽवटोत्थफेनमण्डलीवितर्कमूलमेव नः ॥ १९॥
नयनसुभगनाभीमुद्दिशन्ती शठारेः
सर इति परिभाषा ढौकते सार्थकत्वम् ।
सततमितरथा नः संहता नेत्रमीनाः
कथमिह विहरेयुः कौतुकोद्रेकयुक्ताः ॥ २०॥
तां मध्यदेशसुषमामवलोकयामि
रोमावलित्रिवलिकारुचिरां शठारेः ।
रेखोत्तरा यदुपमामधिकाभिलाषा
ढौकेत वा यदि न वा वटपत्रशोभा ॥ २१॥
भासा न व्यतिभिदुरीभवन्ति भृङ्गा
हारस्थादुरसि हरिन्मणेश्शठारेः ।
आरूढा वकुलमयीं स्रजं सुगन्धिं
शब्देन श्रवणसुखेन यान्ति भेदम् ॥ २२॥
दमवतः कुरुते मदनोद्धतान् सुघटयत्यबुधान् बुधनिष्ठया ।
प्रथितमुद्रमनिद्रसरोरुहप्रणयि पाणितलं शठजिन्मुनेः ॥ २३॥
नेह संसरणरोगसंहृतिः जायते शतभिषक्चिकित्सया ।
अन्तरेण शठवैरिकन्धरालम्बमानवकुलस्रजां रजः ॥ २४॥
जन्मध्वंसं दिशति जनानां वक्त्रं दीप्रोष्ठपदमनोज्ञम् ।
मन्दस्मेरं मधुरकटाक्षं सुभ्रूलेखं सुभगकपोलम् ॥ २५॥
लसति हि भजतां भद्रोत्तरपदकरणारूढम् ।
शठरिपुमकुटं भासा परिहृतदुरितध्वान्तम् ॥ २६॥
अन्तरेण शठारातिं कस्संसारेऽवतीह नः ।
तदहं हृदये नित्यं निदधे तद्वपुःश्रियम् ॥ २७॥
वाचिकी वरिवस्या मे तारकामालिकात्मिका ।
पराङ्कुशपदाब्जेन परिष्कारवती भवेत् ॥ २८॥
इति नक्षत्रमालिका समाप्ता ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com