मध्वतन्त्रमुखमर्दनम्

मध्वतन्त्रमुखमर्दनम्

उपोद्घातप्रकरणम्

शिवं विष्णुं वा यद्यभिदधति शास्त्रस्य विषयं तदिष्टं ग्राह्यं नः सगुणमपि तद्ब्रह्म भजताम् । विरोधो नातीव स्फुरति नहि निन्दा नयविदां न सूत्राणामर्थान्तरमपि भवद्वार्यमुचितम् ॥ १॥ तथाऽप्यानन्दतीर्थीयं मतमग्राह्यमेव नः । यत्र वैदिकमर्यादा भूयस्याकुलतां गता ॥ २॥ अतः पञ्चाधिकरणीं लक्षीकृत्यैव तन्मते । दूष्यस्थलानि सर्वत्र सूच्यन्ते सुधियां मुदे ॥ ३॥ इत्युपोद्घातप्रकरणम् ।

जिज्ञासाधिकरणपूर्वपक्षदूषणप्रकरणम्

आत्मा ब्रह्मेत्यधीतः श्रुतिशिखरगणैर्निवेशेषश्च सर्वैः किं तत्र स्वप्रकाशे गुणलवरहिते वस्तु शास्त्रेण चिन्त्यम् । इत्याक्षेपो गुरूणां नतिचयविषये स्वाप्रणम्यत्ववादं श्रुत्यन्तानां निरूप्यः स यदि जडमते केन शास्त्रस्य न स्यात् ॥ ४॥ प्रामाण्यं सिद्धमेव ह्यकृतकवचसां त्वन्मते तर्कशास्त्रे शस्त्रस्याङ्गं यदस्य स्मरसि हरिकृतं ब्रह्मतर्काभिधानम् । तच्चेद्भज्येत नित्यं स्फुरदगुणलवप्र्तयागात्मैदमर्थ्ये तन्निर्वाहाय तेषां सगुणविषयता पूर्वपक्षेऽपि ते स्यात् ॥ ५॥ साक्षी जीवः सुखादीन्यनिशमनुभवन्सर्वमानाधिकस्ते तेषां तर्के त्वदिष्टो बलवदबलतासंविभागश्च सिद्धः । तस्यात्यन्तानुकूलं श्रवणमपि तव प्राग्विचारादपेक्षं श्रुत्यन्तानां कुतः स्यादगुणविषयतापूर्वपक्षस्य लाभः ॥ ६॥ श्रुत्यन्तानामखण्डो विषय इति च ते केन बोद्धव्यमेत न्न्यायैस्तादर्थ्यमेषां घटयदतिदृढैः शास्त्रमेकं न चेत्स्यात् । तच्चेदङ्गी क्रियते प्रतिहतविभिदप्रत्यगात्मैकनिष्ठं कस्यानारम्भासिद्ध्यै प्रभवति भवतः पूर्वपक्षप्रयासः ॥ ७॥ सिद्धेऽसिद्धे च सिद्धान्त्यभिमतविषये दूषणं चेत्क्रियते न्यायापेक्षा न तस्योन्मिषति निजमतप्रक्रियार्थानुवादे । सिद्धान्त्यस्वीकृतेऽर्थे यदि तु विषयतापादनं पूर्वपक्षे कर्तव्यं तर्ह्युपायः कथमिव सुधिया तत्र नापेक्षणीयः ॥ ८॥ एकं वाक्यं विचार्य यदि भवति नयो वाऽपि सर्वत्र तुल्य स्तत्किञ्चिन्नायकॢप्त्याऽनाभिमतरचना युज्यते पूर्वपक्षे । सर्वेषामेव नानाविधनयनिकरानेतात्पर्यसीम्नां वेदान्तानां विमर्शाद्विषयविरचना त्वेकमीहते शास्त्रम् ॥ ९॥ तच्छास्त्रं चोदितोऽन्यत्करणचरमतवत्कल्प्यते पूर्वसिद्धं जीवं तस्य स्वसिद्धं विषयमुयतो हन्त तेऽस्यैव सोऽस्तु । तेनैकार्थ्ये विरोधेऽप्यपहृतविषयं शङ्क्यते चेदिहेदं जीवांसदिग्धतोक्तिः घटनी पूर्वपक्षस्य ते स्यात् ॥ १०॥ का चात्रानुपपत्तिर्जीवस्य स्वप्रभस्य विषयत्वे । आविद्यकमावरणं जानीषे चानुमन्यसे च त्वम् ॥ ११॥ पुंस्त्वादिवत्त्विति नये पुरुषस्य हि त्व- मानन्दमावृतमभिन्नमुपेत्य नित्यम् । तत्त्वावबोदकसमनन्तरमस्मदुक्तं मुक्तौ तदावरणभञ्जनमन्ववादीः ॥ १२॥ अभेदे दृढे तत्प्रकाशाप्रकाशावविद्याभिधब्रह्मशक्त्योपपन्नौ । विशेषेऽपि ते जीवचैतन्यरूपं विरोद्धुं न शक्नोति तस्य प्रकाशम् ॥ १३॥ मुख्यो भेदः सन्नपि ब्रह्मदृष्टिं नेष्टे रोद्धं तत्र को वा विशेषः । तद्दृष्टिस्ते नित्यसिद्धो हि जीवस्तस्मादन्यन्नास्ति तद्गोचरत्वम् ॥ १४॥ इति तव सविशेषानन्दतद्ब्रह्मवच्च स्फुरणयुतमखण्डाननन्दमप्याद्रियन्तेयन्ते । अनधिगतमविद्याशक्तिभूम्नैव धीराः स हि सकलमनूद्य प्रश्नतोऽपि प्रसिद्धः ॥ १५॥ यदि त्वेवं सत्यप्यगुणविषयं नानुमनुषे तदा शास्त्रं कामं भवतु सगुणब्रह्मविषयम् । श्रुतीनां कासाञ्चित्तदपि कथयत्येव विषयं महातात्पर्येण प्रगुणमगुणे न स्थितिजुआम् ॥ १६॥ तस्मात्तुच्छं प्राचि पक्षे शास्त्रानारम्भवर्णनम् । तथैव तत्सिद्धान्तेऽपि तदारम्भसमर्थनम् ॥ १७॥ इति जिज्ञासाधिकरणपूर्वपक्षदूषणप्रकरणम् ।

जिज्ञासाधिकरणसिद्धान्तदूषणप्रकरणम्

अद्वैते यद्येशेषश्रुतिसशिखरगिरामेऐकमत्यं निरास्यं तासां ब्रह्मेतिशब्दो गुणगरिमनिमित्तोऽपि नेष्टे गुणत्वात् । निर्दोषाशेषदीव्यद्गुणजुषि कलयन्सर्ववेदैकमत्यं तद्बद्धत्वादिवाचा त्वमपि खलु तथैवाऽन्यपर्यं ब्रवीषि ॥ १८॥ नाऽऽशङ्क्योत्पत्तिशिष्टस्थितिरिह यत इत्यन्यसिद्धानुवादा त्यक्तं चोत्पत्तिवाक्यावगतिमपि पशोर्भूरिबाधाद्घविष्ट्वम् । अस्ति श्रुत्यन्तरानुग्रह इति सुशकं तद्घविष्ट्वेऽपि वक्तुं रूपत्वादीव कुम्भे गुणिनि गुणगतं नापि नाम्नो निमित्तम् ॥ १९॥ यश्चेशे गुणगरिमा न जीववर्गे भूमाख्यस्त्वदभिमतो विरुद्ध एषः । यत्तस्मिन्नपि घटते सदा सतोऽस्य स्वानन्दप्रभृतिवदावृतेरभानम् ॥ २०॥ अपि च भगवानेकोऽनेकस्तनुस्तनुमानपि स्वयमवयवा नास्त्यैश्वर्याद्विरोध इतीदृशम् । विषयगुणसाङ्कर्यं वर्यं तवाभ्युपगच्छतः कथमितरवद्भेदः सिध्येद्विरुद्धगुणान्वयात् ॥ २१॥ विशेषं वैकुण्ठे यदि वदसि भेदप्रतिनिधिं तमेकानेकत्वप्रभृतिगुणसंवासघटकम् । सजीवब्रह्मत्वव्यतिकरविरोधं च शमयत् समं खल्वत्रापि श्रुतिशिरसि भेदापवदनम् ॥ २२॥ वक्तव्यं ते विरुद्धं घटयति भगवच्छक्तिरेवेत्यवश्यं नो चेत्कृत्स्नप्रसक्तिर्निरवयववचःक्षोभणं वा कथं स्यात् । एकोऽनेकः स्थितश्चेत्यणुरखिलजगद्व्यापकश्चेति वा ते तत्र व्यर्थो विशेषः क्वचन तव तया सर्वनिर्वाहसिद्धेः ॥ २३॥ किञ्चायं भेदसाध्यं कमपि घटयितुं कल्प्यते न त्वयाऽर्थं किन्तु व्याहारमात्रं क्वचन कथमिव स्याद्विरुद्धार्थयोगः । सम्बन्धः स्याद्गुणानां गुणिभिरितरथा गोचरस्तत्प्रतीते- र्न स्याद्भेदः पटादिषष्वपि च घटयता सत्सु तन्तुष्वसत्त्वम् ॥ २४॥ ऐश्वर्याज्जीवभावं कथमिव स भजेद्दुःखभीत्यादिदुष्यं मेऐवं दुःखादयस्ते करणगुणतया न स्पृश्यन्त्येव जीवम् । स्वामित्वे न स्पृशन्तीत्यपि न तव मते तत्परस्यैव हीष्टं तस्मात्तस्याखिलान्तः करणगणपतेर्जीवतैवार्थनीया ॥ २५॥ दुःखित्वाद्येव हेयं न यदि कथय तत्किं न बन्धेषु हेयं नीचत्वं तत्प्रयुक्तं यदि तदिदमिति व्याकुरुष्व स्फुटोक्त्या । यच्चाक्रन्दादि दुःखाद्युतितनयहतं नापि सार्वत्रिकं त- द्यत्किञ्चित्तस्य कार्यं यदि तदिह जगद्व्यापृते नित्यसिद्धम् ॥ २६॥ एवं सुखित्वकृतमेव हि नर्तनादि ग्राह्यं फलं तव भवेन्न सुखित्वमेव । अस्त्वित्युशन्तमनुभूतिमुपक्षिपन्त लोकाः विशाच इति निश्चिनुयुर्भवन्तम् ॥ २७॥ विष्णौ विश्वातिशायिन्यन्वाधिगुणके जीववर्गाद्विभिन्न सर्वश्रुत्यैकमत्यं समरसबलवल्लिङ्गसङ्गत्युपेयम् । अद्वैते च श्रुतीनामधिकविरसतामत्र संसाध्य कुर्याः सिद्धान्तं चेत्किञ्चितफलमुपरि तयोः साधकत्वे नयौघः ॥ २८॥ अग्रे वाच्योऽपि कस्ते कथय नय इह स्थापको भिन्नताया जीवेशित्रोर्गुणानां स खलु विषमता सा तु दत्तोत्तरैव । निर्भेदत्वं तवेष्टं विषमगुणजुषां शक्रपार्थादिकाना मन्यत्वस्योक्तिरन्योन्तर इति बहुशः सम्मता भेदहीने ॥ २९॥ प्राबल्यं भवतोऽप्यभेदवचसां भेदश्रुतिभ्यो मतं नो चेदन्नमयादयो वद कथं भिन्ना भवेयुर्न ते । भेदे सत्यपि युज्यते हि भगवच्छक्त्यैव निर्दोषता शक्तः किं न स एक एव बहुधा भिन्नो हरिः क्रीडितुम् ॥ ३०॥ शब्दान्तरादिकथनं त्विह भेदसिद्ध्यै हासास्पदं सदसि दर्भपवित्रनीत्या । पूर्वत्र तन्त्र इव काल्पनिकेऽपि भेदे तेषां घटेत किमिहापि न चारितार्थ्यम् ॥ ३१॥ निर्मयादप्रवृत्ते तव तु हतमते सोऽपि भेदो न सिध्ये- द्यस्त्वं नानाधिकारश्रुतपरगुणसाङ्कर्यमिच्छस्युपास्तौ । अंशानां खल्वभेदेऽप्यथ च भगवता सन्ति शब्दान्तराद्या- स्ततस्यान्मत्स्यादिरीत्या सकलजनिमतां वासुदेवांशभावः ॥ ३२॥ इत्थं जीवब्रह्मभेदे निरस्ते शास्त्रारम्भस्थापनार्थं त्वदिष्टे । जीवाभेदेऽप्यावृत्तत्वाद्विचार्यं ब्रह्मत्यस्मद्रीतिरेवाऽऽश्रयस्ते ॥ ३३॥ (इति प्रथमाधिकरणदूषणम् ।) अप्पदीक्षितसुधीविनिर्मिते मध्वदर्शनमुखापमर्दने । आदिमाधिकरणस्य दूषणं भूषणं भवतु धीमतामिदम् ॥ ३४॥ इति जिज्ञासाधिकरणसिद्धान्तदूषणप्रकरणम् ।

जन्माद्यधिकरणदूषप्रकरणम्

तद्ब्रह्मेत्यस्य रूढ्या तनुधरपरतामुज्झतोऽनूक्त्ययोगा- त्किं त्वन्नाद्येषु युक्ता भवति तव मते सा यतो वेत्यनूक्तिः । ब्रह्मैक्यात्ते, युक्ता यदि किमिति तदा जीववर्गे न युक्ता जीवान्भेदेऽप्याभिन्नानपि कथयसि भो ब्रह्मणा तद्गुणेन ॥ ३५॥ यतो वेत्याद्युक्तिः कथमिव हि जीवे न घटते कथं तद्ब्रह्मेतिश्रुतिरपसरेद्रूढिविषयात् । जगत्स्रष्टुं सर्वं प्रभवति खलु ध्यानविषयः समस्तेऽयं मानोरथिक इति जीवस्तव मते ॥ ३६॥ स्थूलप्रपञ्चो यदि चानुवाद्यः सोऽप्यस्ति ते ध्यानमनोरथार्थः । सन्त्येव तत्राप्यतिदुर्घटितानि सर्वापरोक्षादिषु को विरोधः ॥ ३७॥ यद्येवं रोचयेथाः कथमिपि न गतिं स्वेषसंसिद्धबुद्ध्या लब्धुं ते वृद्धिमृद्धां ध्रुवमभिलषो मूलमेव प्रणश्र्येत् । अत्यन्ताभेद एव परतरनुधरयोरापतेत्तद्विरोधे राजन्योक्थ्यादिरीत्या बत विपरिणमेद्बाध्यतेऽत्रानुवाद्यम् ॥ ३८॥ उक्थ्यान्निष्टोमसंस्थापरिकरविधयो विप्रजाताविवैते सर्वस्रष्टृत्ववादाः परपरपठिताः सन्तु कस्मिन्हताः । अत्रैवाऽऽरोपबाधद्वितयमनुभवन्त्वद्वितीयत्वसिद्ध्यै चित्यग्निहोत्रे विधय इव पयःशस्तये जर्तिलादेः ॥ ३९॥ तद्ब्रह्मेत्येक एव प्रभवति निखिलस्रष्टृतावादवृन्दं विष्णोर्नानाश्रुतस्थं विधिरपवदितुं त्वन्मते पूर्वरीत्या । सर्वाद्वैतश्रुतिभ्यो यदि हि स बलवान्यौगिको ब्रह्मशब्दः सर्वद्वैतश्रुतिभ्यः कथमिव न भवेत्तत्र रूडिं प्रपन्नः ॥ ४०॥ किञ्च श्रुत्येकगम्य रव इव रसनं साधनं बाधनं वा कर्तुं शक्तं न मानान्तरमखिलजगत्कर्तरीति स्वरीतिः । स्मृत्यारूढां कथं न व्यपगमयति ते लोकदृष्ट्या निरूढा- मेकत्वायोगशङ्कां परतनुधरयोर्वल्गनं तन्मुधैव ॥ ४१॥ (इति द्वितीयाधिकरणदूषणम् ।) इत्यप्यदीक्षितकृतौ मध्वमतारम्भमर्दनग्रन्थे । द्वैतीयीकाधिकरणदूषणमस्तु त्रयीविदां प्रीत्यै ॥ ४२॥ इति जन्माद्यधिकरणदूषप्रकरणम् ।

शास्त्रयोनित्वाधिकरणदूषणप्रकरणम्

कथं निरस्या कथय त्वयाऽनुमा प्रसाधयन्तीदमनेककर्तृकम् । तथैव तातपर्यमपि श्रुतेर्हि सा नये तदेकार्थनियत्यभावतः ॥ ४३॥ कर्मब्रह्मोभयार्थं खलु सकलमपि व्याकरोः कर्मकाण्डं ब्रह्मस्वार्थोभयार्थानुपनिषदुदितानप्यतद्वाचिशब्दान् । अन्यांश्चोमादिवागाद्युभयविधपरान्वाङ्मनःप्राणमुख्या- न्केन स्याद्वाक्यमर्थत्रयमपरिमितार्तं च वह्न्यादिसूक्तम् ॥ ४४॥ श्रेषप्राये कवित्वे प्रमितपरतया श्लाघनीये च सूत्रे । नानाकर्मोपयोगश्रुतिसमधिगतानेकबोध्ये च मन्त्रे । एकार्थत्वव्यवस्थात्यजनमनुमतं सर्वमीमांसकाना- मन्त्रत्रापीच्छया तद्यदि भवति तव ब्रह्मवाक्येष्वपि स्यात् ॥ ४५॥ सृष्ट्यादिश्रवणैर्विशेषवचनान्नारायणैकान्तिभिः स्पृश्या नेतरदेवता इति वचस्त्वेकार्थवादोचितम् । तस्मात्तपरता भवत्तेव परं नान्यार्थधीवारणं स्रष्टॄणां च विमुक्तवत्तव मते नाऽऽशङ्क्यमीर्ष्यादिकम् ॥ ४६॥ स्रष्टुं प्रत्येकमीशाः सकलमपि परब्रह्मभूतास्रयश्चे- त्सम्भूयैते मृजेयुः किमिति भजति ते नात्र शङ्गावकाशम् । स्रष्टुं शक्तो विनैव स्वयमुपकरणैरच्युतस्तद्व्यपेक्षा सृष्टौ लीलाऽस्य दण्डग्रहणमिव गतौ जाङ्घिकस्येतिगन्तुः ॥ ४७॥ कर्त्रैकत्वं वदन्ती कलयतु फणितिर्वारणेरनार्थवत्ता एकैकस्यैव कर्तुबहुभवनमुखानीतभेदप्रसक्तेः । येन त्वं नेह नानाप्रभृतिमुपनिषद्भारतीं विप्रलब्धुं निर्द्वैतब्रह्मचौर्यव्यसनमनुभवन्नीहसे साहसेन ॥ ४८॥ यो यस्योपास्तियोग्यः स्फुरति नियमतस्तस्य कर्ता स एवे- त्यर्थं तं तावदैक्यश्रुतरनुवदतु श्रोत-धीभेदभिन्नम् । कॢप्तो यस्याल्पभूयो नकिलगुणपरोपास्तियोग्यत्वभाजा- मात्मेत्येवेत्युपासाविधिरवधृतिमानित्थमर्थं ब्रुवाणः ॥ ४९॥ पूर्णत्वं ते निमित्तं निरवधिगणनं भूमशब्दस्य वृत्तौ वैकुण्ठे तद्गुणानां तदपि किल ततस्तारतम्येन वेद्यम् । इत्थं वस्तुस्वभावं क्वचिदविगणयन्बोध्यधीवृत्तिभेदा- द्वेदः स्यादस्तिवादी यदि तव भवति व्यासकः काऽत्र चिन्ता ॥ ५०॥ किञ्च स्थाणुविरिञ्चयोरपि जगत्कृर्तृत्वमावेदय- न्नास्त्येव श्रुतिमस्तकेषु बहुधा वैशिषिको गीर्गणः । ऐकार्थ्यं सहते स सृष्टिवचसां नैव त्वदीये मते तत्तन्नामपदप्रसिद्ध्यतिगतौ हेतुश्च नास्त्येव ते ॥ ५१॥ (इति तृतीयाधिकरणदूषणम् ।) इत्यप्यदीक्षितकृतौ कृतिना मतेऽस्मि- न्नानन्दतीर्थकृतशास्त्रमुखापमर्दे । एतत्तृतीयमधिकृत्य नयं प्रवृत्तं दोषप्रदर्शनमुपस्करणीयमार्यैः ॥ ५२॥ इति शास्त्रयोनित्वाधिकरणदूषणप्रकरणम् ।

समन्वयाधिकरणदूषणप्रकरणम्

रोद्धा नोपक्रमादिः श्रुतिषु नयगणस्त्वन्मतेऽर्थान्ताराणां रोद्धा चेत्कर्मकाण्डे कथमपि न भवेद्ब्रह्मनिष्ठा पदानाम् । किञ्चात्रोपकर्मादावपि तव विसरेद्भूमशब्दस्य रीति- स्तस्मात्सर्वस्तमेव श्रयति नयगणं स्वस्वसिद्धान्तसिद्ध्यै ॥ ५३॥ स्फारात्तत्तत्पुराणागमवचनशतप्रापिता याऽन्यनिन्दा तत्तद्भक्त्यादिसिद्ध्यै स्तवनविरचने सा भवद्द्वारमात्रम् । कर्मानुष्ठापनार्थं किमि निरतिशयां ब्रह्मसंस्तादिनिन्दा- मापस्तम्बादिवाक्ये न कलयसि ततः काऽस्य हानिस्तवेष्टा ॥ ५४॥ (इति चतुर्थाधिकरणदूषणम् ।) इत्यप्पदीक्षितकृतौ मध्वतन्त्रविमर्दने । दृष्ट्वा सन्तोऽनुगृह्णन्तु चतुर्थनयदूषणम् ॥ ५५॥ इति समन्वयाधिकरणदूषणप्रकरणम् ।

ईक्ष्यत्यधिकरणदूषणप्रकरणम्

न ध्येयं ब्रह्म नेदं यदिदमिति गिरि ह्यभ्युपेतं त्वयाऽतो ध्येयार्थानां श्रुतीनां क्वचिदपि न च तद्वाच्यमित्यभ्युपेयम् । नो चेन्न ध्येयमेतत्कथमिति भवति स्यादवार्यैव शङ्का यद्वाचेति श्रुतिश्च क्षिपति तदसनायैव वाच्यत्वमस्य ॥ ५६॥ ध्येयार्था एव वाच्यास्तव निगमगिरः स्रष्टृतादीन्वदन्त्य- स्त्वं हि ध्यानैकनिष्ठां गुणगणफणितिं ब्रह्मणो वक्ष्यशेषाम् । तत्तासां ब्रह्मणः स्यात्प्रतिफलनभिदा काऽपि वाच्या मते ते यद्वाचेत्येवमाद्यैः कतिपयवचनैब्रह्म शुद्धं च लक्ष्यम् ॥ ५७॥ (इति पञ्चमाधिकरणदूषणम् ।) मध्वशास्त्रमुखमर्दने मनागप्यदीक्षितकृताविदं बुधाः । पश्यत प्रणयवश्र्यचेतसः पञ्चमाधिकरणस्य दूषणम् ॥ ५८॥ इतीक्ष्यत्यधिकरणदूषणप्रकरणम् ।

उपसंहारप्रकरणम्

इत्थं त्वत्कॢप्त्यैव प्रतिहतिमयति न्यायमर्यादया ते शास्त्रस्यास्यान्तरङ्गे मुखनयनिकरे दूषणीयं किमग्र । तेनैवाग्रे नया हि स्फुटमतिशिथिलास्ते यदि स्युः समर्था- स्त्वद्दृष्टैर्वेदवाक्यैर्जहिहि जड तदा न्यायचिन्तां दुरन्ताम् ॥ ५९॥ इत्यप्पदीक्षितेनेदं मध्वोपक्रममक्रमम् । तद्रीत्यैव मतं ध्वस्तं सङ्क्षेपेण समन्ततः ॥ ६०॥ तस्माद्यत्तेऽनुपास्यं विमलसुखतनु ब्रह्म कूटस्तमिष्टं शास्त्रेऽप्यस्मिन्विचार्य गमितमुपनिषल्लक्ष्यतां मुक्तभोग्यम् । सोऽसावानन्द एवेत्युचितमसुमतामावृतो यस्त्वयोक्त स्तद्भेदे नास्ति मानं किमपि निगमतो लाघवेनैक्यसिद्धेः ॥ ६१॥ मध्वादिभिर्मुषितमत्र सदद्वितीयं प्रत्याहरन्तदिदमागममौलिरत्नम् । आच्छाद्य गोपितमसारतरैस्तदर्थै- स्तत्क्षुल्लकाधिकरणस्थलमर्दनेन ॥ ६२॥ आद्रियध्वमिदमध्वदर्शनं व्यध्वनं त्यजत मध्वदर्शनम् । शाङ्करं भजत शाश्वतं मतं साधवः स इह साक्ष्युमाधव ॥ ६३॥ आसुरान्विजिगीषोः स्वयमद्वैतब्रह्मरत्नहरान् । विबुधेन्द्रस्य सखायो मरुत इव सन्त्विमे मुख्याः ॥ ६४॥ विद्वद्गुरोर्विहितविश्वजिदध्वरस्य श्रीसर्वतोमुखमहाव्रतयाजिसूनोः । श्रीरङ्गराजमखिनः श्रितचन्द्रमौलि- रस्त्यप्पदीक्षित इति प्रथितस्तनूजः ॥ ६५॥ सोऽयं मितपदमकरोन्मिहातार्थं मध्वशास्त्रमुखभङ्गम् । प्रीत्यै पुरामरातेः श्रीकामाक्षीसमेतस्य ॥ ६६॥ इत्युपसंहारप्रकरणं समाप्तम् ॥ इति श्रीमदप्पय्यदीक्षितविरचितं मध्वतन्त्रमुखमर्दनं सम्पूर्णम् । Encoded and proofread by Rahul Maity
% Text title            : Madhva Tantra Mukha Mardanam by Appaya Dikshitar
% File name             : madhvatantramukhamardanam.itx
% itxtitle              : madhvatantramukhamardanam (appayyadIkShitavirachitam)
% engtitle              : madhvatantramukhamardanam
% Category              : misc, sahitya, appayya-dIkShita
% Location              : doc_z_misc_general
% Sublocation           : misc
% Subcategory           : sahitya
% Author                : Shri Appaya Dikshitar
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Rahul Maity
% Proofread by          : Rahul Maity
% Indexextra            : (Scans 1, 2)
% Latest update         : July 7, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org