लाइबनित्सदर्शनम्

लाइबनित्सदर्शनम्

लेखकः - नन्दप्रदीप्तकुमारः देशः कालः परिचयश्च- नव्यदर्शनस्य दार्शनिकः लाइविनित्सः जर्मन् देशीय आसीत् । १६४६ ईसवीये ``लिपजिग'' इत्यस्मिन् स्थाने स्वास्तित्वसंपन्नः सन् सर्वत्र ख्यातो बभूव । तस्य पिता ``लाइप्त्सग'' Leipzig विश्वविद्यालये नीतिशास्त्राध्यापक आसीत् । बाल्यकाले हि तस्य पितृवियोगो जातः । महाधनिकस्य पितुः उत्तरदायादरूपेण परिगणितः सन् पूर्वग्रन्थागारस्य विस्तारः कृतः । अध्ययनलिप्सुः लाइविनित्सः स्वकीये ग्रन्थागारे विभिन्नभाषासम्बधीय-पुस्तकानि संरक्ष्य गभीराध्ययनेन महाज्ञानी अभुत् । विश्वविद्यालये विधिशास्त्रविषये अध्ययनं कृत्वा Doctorate of Laws इत्युपाधिं प्राप्तवान् । उदारमनोवृत्तिः ज्ञानलिप्सा दार्शनिकचेतना च तस्य चिरसहचराः आसन् । परवर्तिकाले विश्वविद्यालये अध्यापकपदवीं समलंकृत्य स्वकीयपराकाष्ठां च प्रदर्शितवानसौ महात्मा दार्शनिकः । बहुराजसम्मानस्य अधिकारी लाइविनित्सः दर्शनशास्त्रे अतीव धुरन्धर आसीत् । इउरोपीयविद्वद्भिः सह घनिष्ठसम्बन्धं प्रतिष्ठाप्य तैः सह साक्षात्कारमपि संपादितवान् । अस्य प्रख्यातदार्शनिकस्य अन्तिमावस्था कष्टदायका आसीत् । रोगशोकाभ्यां वार्द्धक्यमतिक्रम्य अन्ते १७१६ तमे ख्रीष्टाब्दे पञ्चत्वमवाप । कृतयः- लाइविनित्सः बहुनि पुस्तकानि विरचितवान् । तेषु १७१४ ख्रीष्टाब्दे ंओनदोलोग्य् आध्यात्मिकाणुशास्त्रम् रचितवान् । असौ ग्रन्थस्तस्य प्रख्यातो बभूव । १६८४ तमे ``In defence of the ontological proof of god'', १६९५ तमे ``System nouveau de la nature'', १७०३ तमे ``nouveaux essays'', १७१० तमे च ``Theo dicee'', इति पुस्तकानि तेन संपादितानि । नीति-इतिहास-राजनीतिविज्ञान-गणित-कूटनीति-पदार्थविज्ञान-दर्शनादिक्षेत्रेषु च तस्य विशिष्टं ज्ञानमासीत् । स्पिनोजा लाइविनित्स अनयोर्मध्ये कदापि ऐक्यमतं नासीत् । क्रान्तदर्शी बहुशास्त्रवेत्ता अयं पाश्चात्यदेशेषु स्वकीयमतवादं प्रदर्शयन् आत्मानं प्रतिष्ठापयामास । मोनाडवादः- स्पिनोजामतेन यद्द्रव्यं तत्तु अत्र मोनाडनाम्ना अभिहितः । स्पिनोजामतेन द्रव्यमेकमद्वितीयञ्च । लाइविनित्सनये तु मोनाडा असंख्याः । इतः पूर्वं ``डेमोक्रेटिस प्रवर्तित अणुवादः, प्लेटो स्वीकृतः प्रत्ययवादश्च आस्ताम् । द्वयोः सम्मिल्य लाइविनित्समहोदयेन मोनडवादः मोनदिस्म् सृष्ट इति केचन दार्शनिका वदन्ति । यद्भवतु अयं वादः पाश्चात्यदर्शनेषु सुप्रसिद्ध एव । मोनड नाम चिदणुः शक्त्यणुर्वा । असौ स्वतन्त्रश्चेतनविन्दुस्वरूपः । अयमात्मनिहितः स्वनिर्भरः शाश्वतो नित्यश्च । यद्यपि इतः पूर्वं नैके पाश्चात्यदार्शनिका अणुवादं स्वीकृतवन्तस्तथापि लाइविनित्सः स्वतन्त्रतया मोनडवादं वभाष । अखण्डनीयस्य चिदणोः शक्तिद्वयं विद्यते । एका ईक्षणात्मिका perception ज्ञानोपलब्धिस्वरूपा अपरा प्रयासनात्मिका Appettion विकासप्रक्रियात्मिका । ईक्षणेन ज्ञानं प्रयासनेन च पूर्णता सम्भाव्यते । यद्यपि इमे चिदणवो बहवः किन्तु सोपानक्रमेण ईश्वरादेशेन एतेषां मध्ये क्रमवद्धता जायते । एकश्चिदणु अपरं प्रभावितकर्तुं नैव समर्थः । परस्परमसंलग्नत्वात् । सर्वदा स्वस्थितौ व्यवस्थितत्वाच्च । एकस्य अन्येन सह सादृश्यं नैव विद्यते । मोनडः परिमाणवाचकः अणुः । ज्ञानसमं चेतनविन्दुः । अतः चिद्विन्दुरिति मन्यते । अनेन मोनडवादेन लाइविनित्सः बुद्धि-संवेदनयोः समन्वयः संस्थापितः । इमाः प्रक्रियाः प्रारम्भे यद्यपि अस्पष्टास्तथापि विकासक्रमेण सर्वशेषे सुस्पष्टा भवन्ति । ज्ञानारम्भकाले संवेदनस्य आरम्भः पश्चात् बुद्ध्या हि तस्य परिपुष्टता समायाति । तन्मतानुसारं Knowledge begins with sense and ends in reason । सर्वे प्रत्यया आत्मजाताः । देकार्त-स्पिनोजावत् लाइविनित्सः अपि बुद्धिवादी आसीत् । देकार्तः द्वैतवादी, स्पिनोजा अद्वैतवादी,लाइविनित्स द्वैताद्वैतवादी आसीत् । मोनाडेषु अतीत-वर्त्तमान-भूतादीनि सर्वाः घटनाः सम्मिलिता भवन्ति । मोनाड आत्माश्रयी अणुविशेषो यत्र विश्वं सम्मिलितम् । मोनाडाः संख्यया बहवः । समोपादानेन निर्मिता अविच्छिन्नश‍ृंखलया क्रमबद्धा शुद्धचैतन्यशक्तिकेन्द्रस्वरूपाः स्वयंसंचालिता तिष्ठन्ति । एषु प्रत्येकः स्वतन्त्रः अद्वितीयः भिन्नश्च । मुख्यतः एषु त्रिविधो भेदः स्वीक्रियते । सर्वे भेदा आपेक्षिकाः । एकजातीया अणवः साधारणाः स्वल्पचेतनाः Bare monad एतेषां प्रत्यक्षमस्पष्टम् । द्वितीयाः सचेतनाः । पशुपक्षिणां देहगठनसहायकाः । एतेषां प्रत्यक्षं प्राञ्जलमपेक्षाकृतं स्पष्टम् । अन्तिमा न चेतना अपितु आत्मसचेतना Rational monad एव । मनुष्या दैवीसत्तासंपन्नाश्च एषु अन्तर्भुक्ता भवन्ति । यस्मिन् चिदणौ चैतन्यं सुप्तं स जडः यस्मिंश्च जाग्रत् स आत्मा । एको व्यक्तिः असंख्य-चिदणूनां समाहारः । अस्मिन् समुदाये एकः प्रमुखश्चिदणुः विद्यते । ज्ञानमीमांसा- ईश्वरवादविषये लाइविनित्सः प्लेटो-स्पिनोजादिमतेषु बहु प्रभावितः । प्लेटोः प्रत्ययतन्त्रे शुभप्रत्ययस्य idea of god शिखरत्वेन निर्दिष्टः । यं प्रति सर्वे आकृष्टा भवन्ति । स्पिनोजामते तत्त्वमेकं परमसत्यम्,तत्तु ईश्वरस्वरूपम् । अन्ये सर्वे जीवाः क्षणभंगुरा अनित्याश्च । ननु ईश्वर-मोनड अनयोर्मध्ये संयोगो नास्ति चेत्तर्हि द्वयोर्मध्ये पूर्वस्थापित-पारस्परिकः सम्बधाभावः सिद्ध्यति । तत्कथं ईश्वरो मोनाडस्य निर्माताभवितुमर्हति ? उच्यते- मोनडवादे ईश्वरो न त्यक्तः, तत्प्रतिविम्बत्वात् । सर्वे मोनाडाः ईश्वरस्य प्रतिविम्बरूपेण स्वीकृताः । सर्वे ईश्वराधीना ईश्वरसृष्टाश्च । ननु शुभसंकल्पी ईश्वरः सृष्टिकर्ता चेत्कथं संसारे अशुभोद्भवः ? उच्यते- सर्वशक्तिमता ईश्वरेण सर्वं विचार्य्य साधु संपादितम् । अत्र अशुभत्वं नाम न शुभवैपरीत्यम् । शुभमेव सत् । Evil is foil to the god अर्थात् अशुभतुलनया हि शुभं सम्भाव्यते, नान्यथा । शरीरकष्टादयः सीमितजीवानां कृते अनिर्वार्य्यमेव । नैतिकानि अशुभानि स्वेच्छा-स्वातन्त्र्यादीनां दुरुपयोगेन समायान्ति । अतः God does not will, but allows moral evil । इत्युक्तिरत्र प्रशस्यते । समतालवादः- इमे चिदणवो गवाक्षहीनाः अर्थात् एषु वाह्यपदार्थानां प्रवेशो बाध्यते । ईश्वरद्वारा अन्येषु चिदणुषु कार्य्यं स्वतः जायते । यथा शरीरकार्यं पूर्वनिर्दिष्टरूपेण प्रचलति तथैव आत्मकेन्द्रेपि बोध्यः । द्वयोर्मध्ये पूर्वस्थापित एकतन्त्रता pre-established Harmony विद्यते । यथा एकसमयसंचालित-घटिकायन्त्रयोर्मध्ये कदाचित् समयान्तरं नास्ति तथात्मशरीरकेन्द्रयो संचालने भेदाभावः स्वीकर्त्तव्यः । लाइविनित्समतेन देहः स्वल्पचेतनः सामान्यचिदणूनां समाहारः, मनश्च अपेक्षाकृतश्चेतन एकश्चिदणुविशेषः । राज्ञी मधुमक्षिका यथा अन्येषां मधुमक्षिकाणां निर्देशको भवति तथा मनसः देह-संचालने मुख्यभूमिका विद्यते । अनयोर्मध्ये समतालवादः समायाति । एकस्मिन् समये चिदणुषु सहयोगिता अस्ति । फलतः चिदणुषु पारस्परिका समतालिका क्रिया इति सिद्धा । ननु चिदणवः परस्परस्य व्यावर्त्तकः तत्कथं तेषु संसर्गः ? यदि नास्ति चेत् कथं समतालिकाः ? उच्यते- स्वयं सक्रियत्वात्तेषाम् । सत्तागतसामञ्जस्यहेतोः बहिप्रभावं विना प्रत्येकेषु एकस्मिन् समये कार्यारम्भो दृश्यते । एतस्मादिमे समकालिकाः समतालिका वेति उच्यन्ते । अनेन समतालवादेन पूर्वसंगतिवादेन वा देहात्मनोः संगतिः साध्यते । आत्मा स्वनियमेन देहश्च स्वनियमेन संचालितौ भवतः । प्राक्प्रतिष्ठित संगतिहेतोरनयोः क्रियासामञ्जस्यं सिद्ध्यति । यद्वा भिन्नरूपाणि विविध वाद्ययन्त्राणि भिन्न-भिन्न स्वरयुक्तानि भवन्ति किन्तु संगीतकाले एकसंगतिं साधयन्ति तथैव चिदणवः पूर्वसाधित सामञ्जस्यवशात् समतालीया उच्यन्ते । --- लेखकः - नन्दप्रदीप्तकुमारः श्रीजगन्नाथसंस्कृतविश्वविद्यालयः पुरी Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : About Gottfried Wilhelm Leibnitz
% File name             : lAibanitsadarshanam.itx
% itxtitle              : lAibanitsadarshanam (lekhaH parichayo deshakAlashcha)
% engtitle              : lAibanitsadarshanam
% Category              : misc, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Indexextra            : (Info)
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : June 27, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org