ब्रह्माण्डमहापुराणान्तर्गते जम्बूद्वीपे नववर्षवर्णनम्

ब्रह्माण्डमहापुराणान्तर्गते जम्बूद्वीपे नववर्षवर्णनम्

सूत उवाच - एवं प्रजासन्निवेशं श्रुत्वा वै शांशपायनिः । पप्रच्छ नियतं सूतं पृथिव्युदधिविस्तरम् ॥ १॥ कति द्वीपा समुद्रा वा पर्वता वा कति स्मृताः । कियन्ति चैव वर्षाणि तेषु नद्यश्च काः स्मृताः ॥ २॥ महाभूतप्रमाणं च लोकालोकं तथैव च । पर्यायं परिमाणं च गतिं चन्द्रार्कयोस्तथा । एतत्प्रब्रूहि नः सर्वं विस्तरेण यथार्थतः ॥ ३॥ हन्त वोऽहं प्रवक्ष्यामि पृथिव्यायामविस्तरम् ॥ ४॥ सङ्ख्यां चैव समुद्राणां द्वीपानां चैव विस्तरम् । द्वीपभेदसहस्राणि सप्तस्वन्तर्गतानि च ॥ ५॥ न शक्यन्ते क्रमेणेह वक्तुं यैः सततं जगत् । सप्त द्वीपान्प्रवक्ष्यामि चन्द्रादित्यग्रहैः सह ॥ ६॥ तेषां मनुष्यास्तर्क्केण प्रमाणानि प्रचक्षते । अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत् ॥ ७॥ प्रकृतिभ्यः परं यच्च तदचिन्त्यं प्रचक्षते । नववर्षं प्रवक्ष्यामि जम्बूद्वीपं यथातथम् ॥ ८॥ विस्तरान्मण्डलाच्चैव योजनैस्तन्निबोधत । शतमेकं सहस्राणां योजनाग्रात्समन्ततः ॥ ९॥ नानाजनपदाकीर्णः पुरैश्च विविधैश्शुभैः । सिद्धचारणसङ्कीणः पर्वतैरुपशोभितः ॥ १०॥ सर्वधातुनिबद्धैश्च शिलाजालसमुद्भवैः । पर्वतप्रभवाभिश्च नदीभिः सर्वतस्ततः ॥ ११॥ जम्बूद्वीपः पृथुः श्रीमान् सर्वतः पृथुमण्डलः । नवभिश्चावृतः सर्वो भुवनैर्भूतभावनैः ॥ १२॥ लवणेन समुद्रेण सर्वतः परिवारितः । जम्बूद्वीपस्य विस्तारात् समेन तु समन्ततः ॥ १३॥ प्रागायताः सुपर्वाणः षडिमे वर्षपर्वताः । अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ ॥ १४॥ हिमप्रायश्च हिमवान् हेमकूटश्च हेमवान् । सर्वर्त्तुषु सुखश्चापि निषधः पर्वतो महान् ॥ १५॥ चतुर्वर्णश्च सौवर्णो मेरुश्चारुतमः स्मृतः । द्वात्रिंशच्च सहस्राणि विस्तीर्णः स च मूर्द्धनि ॥ १६॥ वृत्ताकृतिप्रमाणश्च चतुरस्रः समुच्छ्रितः । नानावर्णास्तु पार्श्वेषु प्रजापतिगुणान्वितः ॥ १७॥ नाभिबन्धनसम्भूतो ब्रह्मणोऽव्यक्तजन्मनः । पूर्वतः श्वेतवर्णश्च ब्राह्मणस्तस्य तेन तत् ॥ १८॥ पार्श्वमुत्तरतस्तस्य रक्तवर्णः स्वभावतः । तेनास्य क्षत्त्रभावस्तु मेरोर्नानार्थकारणात् ॥ १९॥ पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्यते । भृङ्गपत्रनिभश्चापि पश्चिमेन समाचितः ॥ २०॥ तेनास्य शूद्रभावः स्यादिति वर्णाः प्रकीर्त्तिताः । वृत्तः स्वभावतः प्रोक्तो वर्णतः परिमाणतः ॥ २१॥ नीलश्च वैदूर्यमयः श्वेतः शुक्लो हिरण्मयः । मयूरबर्हवर्णस्तु शातकौम्भश्च श‍ृङ्गवान् ॥ २२॥ एते पर्वतराजानः सिद्धचारणसेविताः । तेषामन्तरविष्कम्भो नवसाहस्र उच्यते ॥ २३॥ मध्ये त्विलावृतं नाम महामेरोः समन्तमः । नवैवं तु सहस्राणि विस्तीर्णं सर्वतस्तु तत् ॥ २४॥ मध्ये तस्य महामेरुर्विधूम इव पावकः । वेद्यर्द्धं दक्षिणं मेरोरुत्तरार्द्धं तथोत्तरम् ॥ २५॥ वर्षाणि यानि षट् चैव तेषां ये वर्षपर्वताः । द्वे द्वे सहस्रे विस्तीर्णा योजनानां समुच्छ्रयात् ॥ २६॥ जम्बूद्वीपस्य विस्तारात्तेषामायाम उच्यते । योजनानां सहस्राणि शतं द्वावायतौ गिरी ॥ २७॥ नीलश्च निषधश्चैव ताभ्यां हीनास्तु ये परे । श्वेतश्च हेमकूटश्च हिमवाञ्छृङ्गवांस्तथा ॥ २८॥ नवती द्वे अशीती द्वे सहस्राण्यायतास्तु तैः । तेषां मध्ये जनपदास्तानि वर्षाणि सप्त वै ॥ २९॥ प्रपातविषमैस्तैस्तु पर्वतैरावृतानि तु । सन्ततानि नदीभेदैरगम्यानि परस्परम् ॥ ३०॥ वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः । इदं हैमवतं वर्षं भारतं नाम विश्रुतम् ॥ ३१॥ हेमकूटं परं ह्यस्मान्नाम्ना किम्पुरुषं स्मृतम् । नैषधं हेमकूटात्तु हरिवर्षं तदुच्यते ॥ ३२॥ हरिवर्षात्परं चापि मेरोश्च तदिलावृतम् । इलावृतात्परं नीलं रम्यकं नाम विश्रुतम् ॥ ३३॥ रम्यकात्परतः श्वेतं विश्रुतं तद्धिरण्मयम् । हिरण्मयात्परं चैव श‍ृङ्गवत्तः कुरु स्मृतम् ॥ ३४॥ धनुःसंस्थे तु विज्ञेये द्वे वर्षे दक्षिणोत्तरे । दीर्घाणि तत्र चत्वारि मध्यमं तदिलावृतम् ॥ ३५॥ अर्वाक् च निषधस्याथ वेद्यर्द्धं दक्षिणं स्मृतम् । परं नीलवतो यच्च वेद्यर्द्धं तु तदुत्तरम् ॥ ३६॥ वेद्यर्द्धे दक्षिणे त्रीणि त्रीणि वर्षाणि चोत्तरे । तयोर्मध्ये तु विज्ञेयो मेरुर्मध्य इलावृतम् ॥ ३७॥ दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु । उदगायतो महाशैलो माल्यवान्नाम नामतः ॥ ३८॥ योजनानां सहस्रं तु आनील निषधायतः । आयामतश्चतुस्त्रिंशत्सहस्राणि प्रकीर्तितः ॥ ३९॥ तस्य प्रतीच्यां विज्ञेयः पर्वतो गन्धमादनः । आयामतोऽथ विस्तारान्माल्यवा निति विश्रुतः ॥ ४०॥ परिमण्डलयोर्मेरुर्मध्ये कनकपर्वतः । चतुर्वणः स सौवर्णः चतुरस्रः समुच्छ्रितः ॥ ४१॥ सुमेरुः शुशुभे शुभ्रो राजवत्समधिष्ठितः । तरुणादित्यवर्णाभो विधूम इव पावकः ॥ ४२॥ योजनानां सहस्राणि चतुरशीतिरुच्छ्रितः । प्रविष्टः षोडशाधस्ताद्विस्तृतः षोडशैव तु ॥ ४३॥ शरावसंस्थितत्वात्तु द्वात्रिंशन्मूर्ध्निविस्तृतः । विस्तारात्त्रिगुणस्तस्य परिणाहः समन्ततः ॥ ४४॥ मण्डलेन प्रमाणेन त्र्यस्रे मानं तदिष्यते । चत्वारिंशत्सहस्राणि योजनानां समन्ततः ॥ ४५॥ अष्टाभिरधिकानि स्युस्त्र्यस्रे मानं प्रकीर्त्तितम् । चतुरस्रेण मानेन परिणाहः समन्ततः ॥ ४६॥ चतुःषष्टिसहस्राणि योजनानां विधीयते । स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः ॥ ४७॥ भुवनैरावृतः सर्वो जातरूपमयैः शुभैः । तत्र देवगणाः सर्वे गन्धर्वोरगराक्षसाः ॥ ४८॥ शैलराजे प्रदृश्यन्ते शुभाश्चाप्सरसां गणाः । स तु मेरुः परिवृतो भुवनैर्भूतभावनैः ॥ ४९॥ चत्वारो यस्य देशा वै चतुःपार्श्वेष्वधिष्ठिताः । भद्राश्वा भरताश्चैव केतुमालाश्च पश्चिमाः ॥ ५०॥ उत्तराः कुरवश्चैव कृतपुण्यप्रतिश्रयाः । गन्धमादनपार्श्वे तु परैषाऽपरगण्डिका ॥ ५१॥ सर्वर्त्तुरमणीया च नित्यं प्रमुदिता शिवा । द्वात्रिंशत्तु सहस्राणि योजनैः पूर्वपश्चिमात् ॥ ५२॥ आयामतश्चतुस्त्रिंशत्सहस्राणि प्रमाणतः । तत्र ते शुभकर्माणः केतुमालाः प्रतिष्ठिताः ॥ ५३॥ तत्र काला नराः सर्वे महासत्त्वा महाबलाः । स्त्रियश्चोत्पलपत्राभाः सर्वास्ताः प्रियदर्शनाः ॥ ५४॥ तत्र दिव्यो महावृक्षः पनसः षड्रसाश्रयः । ईश्वरो ब्रह्मणः पुत्रः कामचारी मनोजवः ॥ ५५॥ तस्य पीत्वा फलरसं जीवन्ति च समायुतम् । पार्श्वे माल्यवतश्चापि पूर्वेऽपूर्वा तु गण्डिका ॥ ५६॥ आयामादथ विस्ताराद्यथैषापरगण्डिका । भद्राश्वास्तत्र विज्ञेया नित्यं मुदितमानसाः ॥ ५७॥ भद्र शालवनं चात्र कालाम्रस्तु महाद्रुमः । तत्र ते पुरुषाः श्वेता महोत्साहा बलान्विताः ॥ ५८॥ स्त्रियः कुमुदवर्णाभाः सुन्दर्यः प्रियदर्शनाः । चन्द्र प्रभाश्चन्द्र वर्णाः पूर्णचन्द्र निभाननाः ॥ ५९॥ चन्द्रशीतलगात्र्यस्ताः स्त्रिय उत्पलगन्धिकाः । दशवर्षसहस्राणि तेषामायुरनामयम् ॥ ६०॥ कालाम्रस्य रसं पीत्वा सर्वे च स्थिरयौवनाः । दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण च ॥ ६१॥ वर्षं रमणकं नाम जायन्ते तत्र मानवाः । रतिप्रधाना विमला जरादौर्गन्ध्यवर्जिताः ॥ ६२॥ शुक्लाऽभिजनसम्पन्नाः सर्वे च प्रियदर्शनाः । तत्रापि सुमहान्वृक्षो न्यग्रोधो रोहितो महान् ॥ ६३॥ तस्यापि ते फलरसं पिबन्तो वर्त्तयन्ति वै । दशवर्षसहस्राणि शतानि दश पञ्च च ॥ ६४॥ जीवन्ति ते महाभागाः सदात्दृष्टा नरोत्तमाः । दक्षिणे वै श‍ृङ्गवतः श्वेतस्याप्युत्तरेण च ॥ ६५॥ वर्षं हैरण्वतं नाम यत्र हैरण्वती नदी । महाबलाः सुतेजस्का जायन्ते तत्र मानवाः ॥ ६६॥ यक्षा वीरा महासत्त्वा धनिनः प्रियदर्शनाः । एकादशसहस्राणि वर्षाणां ते महौजसः ॥ ६७॥ आयुः प्रमाणं जीवन्ति शतानि दश पञ्च च । यस्मिन्वर्षे महावृक्षो लकुचः षड्रसाश्रयः ॥ ६८॥ तस्य पीत्वा फलरसं ते जीवन्ति निरामयाः । त्रीणि श‍ृङ्गवतः श‍ृङ्गाण्युच्छ्रितानि महान्ति च ॥ ६९॥ एकं मणिमयं तेषामेकं चैव हिरण्मयम् । सर्वरत्नमयं चैकं भवनैरुपशोभितम् ॥ ७०॥ उत्तरे वै श‍ृङ्गवतः समुद्रस्य च दक्षिणे । कुरवस्तत्र तद्वर्षं पुण्यं सिद्धनिषेवितम् ॥ ७१॥ तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः । वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥ ७२॥ सर्वकामप्रदास्तत्र केचिद्वृक्षा मनोरमाः । गन्धवर्णरसो पेतं प्रक्षरन्ति मधूत्तमम् ॥ ७३॥ अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः । ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम् ॥ ७४॥ सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका । सर्वर्तुसुखसम्पन्ना न्निष्पङ्का नीरजा शुभा ॥ ७५॥ देवलोकच्युतास्तत्र जायन्ते मानवाः शुभाः । शुक्लाभिजनसम्पन्नाः सर्वे च स्थिरयौवनाः ॥ ७६॥ मिथुनानि प्रसूयन्ते स्त्रियश्चाप्सरसः समाः । तेषां ते क्षीरिणां क्षीरं पिबन्ति ह्यमृतोपमम् ॥ ७७॥ मिथुनं जायते सद्यः समं चैव विवर्द्धते । समं शीलं च रूपं च प्रियता चैव तत्समा ॥ ७८॥ अन्योन्यमनुरक्ताश्च चक्रवाकसधर्मिणः । अनामया ह्यशोकाश्च नित्यं सुखनिषेविणः ॥ ७९॥ त्रयोदशसहस्राणि शतानि दश पञ्च च । जीवन्ति ते महावीर्या न चान्यस्त्रीनिषेविणः ॥ ८०॥ ॥ इति ब्रह्माण्डमहापुराणे जम्बूद्वीपे नववर्षवर्णनम् ॥ ॥ ब्रह्माण्डमहापुराणम् । वायुप्रोक्तं पूर्वभागः । अनुषङ्गपादः - २। अध्यायः १५ - पृथिव्यायामविस्तरः ॥ Notes: .. brahmANDamahApurANam . vAyuproktaM pUrvabhAgaH . anuSha~NgapAdaH - 2. adhyAyaH 15 - pRRithivyAyAmavistaraH .. Brahmāṇḍa Mahā-Purāṇa ब्रह्माण्ड महापुराण ; in this chapter has the description about the spread of the nine Varṣa वर्ष (parts of Land separated by Mountain Ranges, akin to subcontinents) viz; Il̤āvṛtavarṣa इळावृतवर्ष, Ramyakavarṣa रम्यकवर्ष / Ramaṇakavarṣa रमणकवर्ष, Hairaṇyavatvarṣa हैरण्यवत्वर्ष / Hiraṇmayavarṣa हिरण्मयवर्ष, Kuruvarṣa कुरुवर्ष, Harivarṣa हरिवर्ष, Kimpuruṣavarṣa किम्पुरुषवर्ष, Bhadrāśvavarṣa भद्राश्ववर्ष, Ketumālā केतुमाला, and Bhāratavarṣa भारतवर्ष (Haimavatavarṣa हैमवतवर्ष / Himavatavarṣa हिमवतवर्ष) - that together constitute Jambūdvīpa जम्बूद्वीप - one of the seven dvīpa सप्तद्वीप (akin to continents). The main Mountain Ranges demarcating these lands are known as the Varṣa-Parvata वर्षपर्वत; and these include - Nīla नील, Śveta श्वेत, Śṛṅgavān श‍ृङ्गवान्, Niṣadha निषध, Hemakūṭa हेमकूट, and Himavān हिमवान् (Himālaya हिमालय). Mount Meru मेरुपर्वत is central to all of the above lands and mountain ranges; and, is surrounded by four main deśa देशः Bhadrāśva भद्राश्व towards East, Bhārata भारत in the South, Ketumālā केतुमाला in the West, Kuru कुरु in North. Encoded and proofread by Ruma Dewan
% Text title            : Jambudvipe Navavarsha Varnanam from Brahmanda Mahapurana
% File name             : jambUdvIpenavavarShavarNanam.itx
% itxtitle              : jambUdvIpe navavarShavarNanam (brahmANDapurANAntargatam)
% engtitle              : jambUdvIpe navavarShavarNanam
% Category              : misc
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : Brahmanda Mahapurana vAyuproktaM pUrvabhAgaH . anuShangapAdaH \- 2.  adhyAyaH 15
% Indexextra            : (Scan)
% Latest update         : November 12, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org