ब्राह्मी विद्या २

ब्राह्मी विद्या २

अथोच्यते ब्रह्मविद्या सद्यः प्रत्ययकारिणीम् । शिवः श्रीभूतिराजो यामस्मभ्यं प्रत्यपादयत् ॥ १॥ सर्वेषामेव भूतानां मरणे समुपस्थिते । यया पठितयोत्क्रम्य जीवो याति निरञ्जनम् ॥ २॥ या ज्ञानिनोऽपि सम्पूर्णकृत्यस्यापि श्रुता सती । प्राणादिच्छेदजां देहव्यथां सद्यो व्यपोहति ॥ ३॥ यामाकर्ण्य महामोहविवशोऽपि क्रमागताम् । प्रबोधं वक्तृसाम्मुख्यमभ्येति रभसात्स्वयम् ॥ ४॥ तारं मायां निष्कलं च तनुत्रं च नवात्मकः । एषा पञ्चाक्षरी ब्रह्मविद्या भवति निष्कला ॥ ५॥ प्रतिवाक्यं यथाद्यन्तयोजिता सकला भवेत् । सा पञ्चदशभिर्वाक्यैरस्याः षोडशधान्तरे ॥ ६॥ अत्र तारं ``ओं'' माया ``ह्रीं'' निष्कला ``ह्रूं'। तनुत्रबीजान्तरे यथा ``ह्रैं'' इति कथयन्ति ``ह्रूं'' च ॥ ७॥ ओं ह्रीं ह्रूं ह्रैं हसरक्षमलवयऊँ ॥ ९ँ ॥ परमपदात्त्वमागतः सनातनस्त्वं जहीहि देहान्तरम् । पादाङ्गुष्टादि विभो निबन्धनं बन्धनं जहीत्युग्रम् ॥ ॐ ह्रीं ह्रूं हसरक्षमलवयऊँ९ँ ॥ १॥ ॐ ह्रीं ह्रूं ह्रैं ऊँ हसरक्षमलवयऊँ ९ँ गुल्फान्तं जानुगतं जत्रुस्थं बन्धनं तथा मेढम् । जहीहि पुरमग्र्यं हृत्पद्मात्त्वं समुत्तिष्ठ । ४ँ । ९ँ ॥ २॥ ४ँ । ९ँ । हंस हयग्रीव विभो सनातनस्त्वं परोऽसि जीवाख्यः ।रविसोमवद्विसङ्घट्टं बिन्दुं देव हहह समुत्क्राम । ४ ँ । ९ ँ ॥ ३॥ ४ ँ ।९ ँ । हंसमहामन्त्रमयः सनातनस्त्वं शुभाशुभापेक्षी मण्डलमध्य- निविष्टः शक्तिमहसेतुकारणमहार्थः । ४ ँ ९ ँ ॥ ४॥ ४ ँ ९ ँ कामलोभोभयनिविष्टः प्रबोधमायाहि हे देव । अज्ञानात्त्वं बद्धः प्रबोधितं उत्तिष्ठ देहाद्देव । ४ ँ ९ ँ ॥ ५॥ ४ ँ ९ ँ गजतालु- माह्वयन्तमौदुम्बरघट्टितं महाद्वारं प्राप्य प्रयाहि हंहो हंहो वामदेवपदम् । ४ ँ ९ ँ ॥ ६॥ ४ ँ ९ ँ ग्रन्थीश्वर परमात्मन्शान्त महातालुरन्ध्रमासाद्य उत्क्राम हे देवेश्वर निरञ्जनं शिवपदं प्रयाह्याशु ४ ँ ९ ँ ॥ ७॥ ४ ँ ९ ँ आक्रम्य मध्यमार्गे प्राणापानौ समाहृत्य । धर्माधर्मौ त्यक्त्वा नारायण याहि शान्त्यन्तम् । ४ ँ ९ ँ ॥ ८॥ ४ ँ ९ ँ । हे ब्रह्मन् हे विष्णो हे रुद्र शिवोऽसि वासुदेवस्त्वम् । अग्निष्टोम सनातन त्रिपिण्डकं जहि महाकोशम् । ४ ँ ९ ँ ॥ ९॥ ४ ँ ९ ँ । अङ्गुष्ठमात्रममलं सावरणं जहिहि महासूक्ष्मम् । गुणातीतं निरावरणं स्वस्वरूपं प्रत्यभिज्ञां नय । ४ ँ ९ ँ ॥ १०॥ ४ ँ ९ ँ । पुरुषस्त्वं प्रकृतिमयैर्बद्धो- ऽहङ्कारतन्तुना बन्धैः । अभवाभव नित्योदित परमपुरुष त्यज स्वरागमध्वानम् । ४ ँ । ९ ँ ॥ ११॥ ४ ँ । ९ ँ । मन्त्रशरीरमविलम्बमाशु त्वमेहि देहान्तम् । तदिदं भ्रममात्र- सिद्धं देहपञ्जरे नितान्ततः सङ्घम् । ४ ँ । ९ ँ ॥ १२॥ ४ ँ । ९ ँ । नन्विदं गुणभूतमयं त्यजस्व षाट्कौशिकं पिण्डम् । एतेन सङ्घं जानीहि केवलमहङ्कारमात्रमेव । ४ ँ ९ ँ ॥ १३॥ ४ ँ ९ ँ । मा देहं भूतमयं प्रगृह्यतां किन्तु शाश्वतं नित्यम् । स्वानुभव- मात्रसिद्वं सच्चिदानन्दमात्रं स्वमेव । ४ ँ ९ ँ ॥ १४॥ ४ ँ ९ ँ । मोहमयं त्रिधास्थितं दृश्यात्मैतज्जगद्भित्त्वा । मण्डलमनन्त- ममलं विमृश्यान्तर्धियाऽऽगच्छ । ॐ ह्रीं ह्रूं ह्रैं ४ ँ हसरक्षमलवयऊँ ९ ँ ॥ १५॥ आर्यात्मपद्यबन्धानि वाक्यानि दश पञ्च च । पदानां ब्रह्मविद्येयं षष्ठषष्ट्यधिकं शतम् ॥ १॥ अथवा सर्वभूतानां मरणान्ते उपस्थिते । इयमुत्क्रामणी विद्या येनात्मा याति सङ्गतिम् ॥ २॥ इति श्रीनिःश्वाससंहितायां अष्टमे पटले ब्राह्मी विद्या समाप्ता । Proofread by PSA Easwaran
% Text title            : brAhmIvidyA 2
% File name             : brAhmIvidyA2.itx
% itxtitle              : brAhmIvidyA 2
% engtitle              : brAhmIvidyA 2
% Category              : misc
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : BhaktivivekasAra
% Indexextra            : (Scanned)
% Latest update         : November 18, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org