ब्रह्मपुराणान्तर्गते भुवनकोशद्वीपवर्णनं

ब्रह्मपुराणान्तर्गते भुवनकोशद्वीपवर्णनं

मुनय ऊचुः - अहो सुमहदाख्यानं भवता परिकीर्तितम् । भारतानां च सर्वेषां पार्थिवानां तथैव च ॥ १॥ देवानां दानवानां च गन्धर्वोरगरक्षसाम् । दैत्यानामथ सिद्धानां गुह्यकानां तथैव च ॥ २॥ अत्यद्भुतानि कर्माणि विक्रमा धर्मनिश्चयाः । विविधाश्च कथा दिव्या जन्म चाग्र्यमनुत्तमम् ॥ ३॥ सृष्टिः प्रजापतेः सम्यक्त्वया प्रोक्ता महामते । प्रजापतीनां सर्वेषां गुह्यकाप्सरसां तथा ॥ ४॥ स्थावरं जड़मं सर्व मुत्पन्नं विविधं जगत् । त्वया प्रोक्तं महाभाग श्रुतं चैतन्मनोहरम् ॥ ५॥ कथितं पुण्यफलदं पुराणंश्लक्ष्णया गिरा । मनःकर्णसुखं सम्यक्प्रीणात्य मृतसम्मितम् ॥ ६॥ इदानीं श्रोतुमिच्छामः सकल मण्डल भुवः । वक्तुमर्हसि सर्वज्ञ परं कौतूहलं महत् ॥ ७॥ यावन्तः सागरा द्वीपास्तथा वर्षाणि पर्वताः । वनानि सरितः पुण्यदेवादीनां महामते ॥ ८॥ यत्प्रमाणमिदं सर्वं यदाधारं यदात्मकम् । संस्थानमस्य जगतो यथावद्वक्तुमं र्हसि ॥ ९॥ लोमहर्षण उवाच - मुनयः श्रूयतामेतत्सङ्क्षेपाद्वदतो मम । नास्य वर्षशतेनापि वक्तुं शक्योऽतिविस्तरः ॥ १०॥ जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलश्चापरो द्विजाः । कुशः क्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः ॥ ११॥ एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः । लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम् ॥ १२॥ जम्बूद्वीपः समस्तानामेतेषां मध्यसंस्थितः । तस्यापि मध्ये विप्रेन्द्रा मेरुः कनकपर्वतः ॥ १३॥ चतुरशीतिसाह स्रैर्योजनैस्तस्य चोच्छ्रयः । प्रविष्टः षोडशाधस्ताद्द्वात्रिंशन्मूर्ध्नि विस्तृतः ॥ १४॥ मूले षोडशसाहस्रैर्विस्तारस्तस्य सर्वतः । भूपद्मस्यास्य शैलोऽसौ कर्णिकाकारसंस्थितः ॥ १५॥ हिमवान्हेमकूटश्च निषधस्तस्य दक्षिणे । नीलः श्वेतश्च श‍ृङ्गी च उत्तरे वर्षपर्वताः ॥ १६॥ लक्षप्रमाणौ द्वौ मध्ये दश हीनास्तथाऽपरे । सहस्रद्वितयोच्छ्रायास्तावाद्वस्तारिणश्च ते ॥ १७॥ भारतं प्रथमं वर्षं ततः किम्पुरुषं स्मृतम् । हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विजाः ॥ १८॥ रम्यकं चोत्तरं वर्षं तस्यैवानु हिरण्मयम् । उत्तराः कुरवश्चैव यथा वै भारतं तथा ॥ १९॥ नवसाहस्रमेकैकमेतेषां द्विज सत्तमाः । इलावृतं च तन्मध्ये सौवर्णो मेरुरुच्छ्रितः ॥ २०॥ मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्तृतम् । इलावृतं महाभागाश्चत्वारश्चात्र पर्वताः ॥ २१॥ विष्कम्भा वितता मेरोर्यजनायुतविस्तृताः । पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ॥ २२॥ विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्थितः । कदम्बस्तेषु जम्बूश्च पिप्पलो वट एव च ॥ २३॥ एकादशशतायामाः पादपा गिरिकेतवः । जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्द्विजोत्तमाः ॥ २४॥ महागजप्रमाणानि जम्ब्बास्तस्याः फलानि वै । पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ॥ २५॥ रसेन तेन विख्याता तत्र जम्बूनदीति वै । सरित्प्रवर्तते सा च पीयते तन्निवासिभिः ॥ २६॥ न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः । तत्पानस्वस्थमनसां जनानां तत्र जायते ॥ २७॥ तीरमृत्तद्रसं प्राप्य सुखवायुविशोषिता । जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ॥ २८॥ भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे । वर्षे द्वे तु मुनिश्रेष्ठास्तयोर्मध्ये त्विलावृतम् ॥ २९॥ वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनम् । वैभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम् ॥ ३०॥ अरुणोदं महाभद्रमसितोदं समानसम् ॥ सरांस्येतानि चत्वारि देवभोग्यानि सर्वदा ॥ ३१॥ शान्तवांश्चक्रकुम्भश्च कुररी माल्यवांस्तथा । वैकङ्कप्रमुखा मेरोः पूर्वतः केसराचलाः ॥ ३२॥ त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा । निषधादयो दक्षिणतस्तस्य केसरपर्वताः ॥ ३३॥ शिखिवासः सवैदूर्यः कापिलो गन्धमादनः । जानुधिप्रमुखास्तद्वत्पश्चिमे केसराचलाः ॥ ३४॥ मेरोरनन्तरास्ते च जठरादिष्ववस्थिताः । शङ्खकूटोऽथ ऋषभो हंसो नागस्तथाऽपरेः ॥ ३५॥ कालाञ्जराद्याश्च तथा उत्तरे केसराचलाः । चतुर्दश सहस्राणि योजनानां महापुरी ॥ ३६॥ मेरोरुपरि विप्रेन्द्रा ब्रह्मणः कथिता दिवि ॥ तस्यां समन्ततश्चाष्टौ दिशासु विदिशासु च ॥ ३७॥ इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः । विष्णुपादविनिष्कान्ता प्लावयन्तीन्दुमण्डलम् ॥ ३८॥ समन्ताद्ब्रह्मणः पुर्यां गङ्गा पतति वै दिवः । सा तत्र पतिता दिक्षु चतुर्धा प्रत्पद्यत ॥ ३९॥ सीता चालकनन्दा च चक्षुर्भद्रा च वै क्रमात् । पूर्वेण सीता शैलाच्च शैलं यान्त्यन्तरिक्षगा ॥ ४०॥ ततश्च पूर्ववर्षेण भद्राश्वेनैति साऽर्णवम् । तथैवालकनन्दा च दक्षिणेनैत्य भारतम् ॥ ४१॥ प्रयाति सागरं भूत्वा सप्तभेदा द्विजोत्तमाः । चक्षुश्च पश्चिमगिरीनतीत्य सकलांस्ततः ॥ ४२॥ पश्चिमं केतुमालाख्यं वर्षमन्वेति साऽर्णवम् । भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून् ॥ ४३॥ अतीत्योत्तरमम्भोधिं समभ्येति द्विजोत्तमाः । आनीलनिषधायामौ माल्यवद्गन्धमादनौ ॥ ४४॥ तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः । भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा ॥ ४५॥ पत्राणि लोकशैलस्य मर्यादाशैलबाह्यतः । जठरो देवकूटश्च मर्यादापर्वतावुभौ ॥ ४६॥ तौ दक्षिणोत्तरायामावानीलनिषधायतौ । गन्धमादनकैलासौ पूर्वपश्चात्तु तावुभौ ॥ ४७॥ अशीतियोजनायामा वर्णवान्तर्व्यवस्थितौ । निषधः पारियात्रश्च मर्यादापर्वतावुभौ ॥ ४८॥ तौ दक्षिणोत्तरायामावानीलनिषधायतौ ॥ मेरोः पश्चिमदिग्भागे यथा पूर्वौ तथा स्थितौ ॥ ४९॥ त्रिश‍ृङ्गो जारुधिश्चैव उत्तरौ वर्षपर्वतौ । पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ ॥ ५०॥ इत्येते हि मया प्रोक्ता मर्यादापर्वता द्विजाः । जठरावस्थिता मेरोर्येषां द्वौ द्वौ चतुर्दिशम् ॥ ५१॥ मेरोश्चतुर्दिशं ये तु प्रोक्ताः केसरपर्वताः ॥ शीतान्ताद्या द्विजास्तेषामतीव हि मनोहराः ॥ ५२॥ शैलानामन्तरद्रोण्यः सिद्धचारणसेविताः । सुरम्याणि तथा तासु काननानि पुराणि च ॥ ५३॥ लक्ष्मीविष्ण्वग्निसूर्येन्द्रदेवानां मुनिसत्तमाः । तास्वायतनवर्याणि जुष्टानि नरकिन्नरैः ॥ ५४॥ गन्धर्वयक्षरक्षांसि तथा दैतेयदानवाः । क्रीडन्ति तासु रम्यासु शैलद्रोणीष्वहर्निशम् ॥ ५५॥ भौमा ह्येते स्मृताः स्वर्गा धर्मिणामालया द्विजाः । नैतेषु पापकर्तारो यान्ति जन्मशतैरपि ॥ ५६॥ भद्राश्वे भगवान्विष्णुरास्ते हयशिरा द्विजाः । वाराहः केतुमाले तु भारते कूर्मरूपधृक् ॥ ५७॥ मत्स्यरूपश्च गोविन्दः कुरुष्वास्ते सनातनः । विश्वरूपेण सर्वत्र सर्वः सर्वेश्वरो हरिः ॥ ५८॥ सर्वस्याऽऽधारभूतोऽसौ द्विजा आस्तेऽखिलात्मकः । यानि किम्पुरुषाद्यानि वर्षाण्यष्टौ द्विजोत्तमाः ॥ ५९॥ न तेषु शोको नाऽऽयासो नोद्वेगः क्षुद्भयादिकम् । स्वस्थाः प्रजा निरातङ्काः सर्वदुःखविवर्जिताः ॥ ६०॥ दश द्वादशवर्षाणां सहस्राणि स्थिरायुषः । नैतेषु भौमान्यन्यानि क्षुत्पिपासादि नो द्विजाः ॥ ६१॥ कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना । सर्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः । नद्यश्च शतशस्तेभ्यः प्रसृता या द्विजोत्तमाः ॥ ६२॥ ॥ इति ब्रह्मपुराणे भुवनकोशद्वीपवर्णनम् ॥ ॥ ब्रह्मपुराणम् । भुवनकोशद्वीपवर्णनम् ॥ (भूगोलवर्णनं , सप्तद्वीपवर्णनं , जम्बूद्वीपवर्णनं , मेरुवर्णनं , भारतादिनववर्षवर्णनं , मर्यादपर्वतवर्णनञ्च) Notes: brahmapurANam bhuvanakoshadvIpavarNanam Chapter 16 Brahma Purāṇa ब्रह्मपुराण; in this chapter has the description about Bhāratavarṣa भारतवर्ष as one of it’s subcontinent that is constituted of Nine Parts viz. Indradvīpa इन्द्रद्वीप, Kaśerumān कशेरुमान्, Tāmraparṇa ताम्रपर्ण, Gabhasti गभस्ति, Saumya सौम्य, Gāndharva गान्धर्व, Varuṇa वरुण, Nāga नाग, and Bhārata भारत. Seven Principal Mountain Ranges, i.e. Kulaparvata कुलपर्वत include: Mahendra महेन्द्र, Malaya मलय, Sahya सह्य, Śuktimata शुक्तिमत, Ṛkṣa ऋक्ष, Vindhya विन्ध्य, Pāriyātra पारियात्र. Several regions, climes, rivers and their tributaries are outlined. The chapter numbering in the referenced publications varies. Encoded and proofread by Ruma Dewan
% Text title            : Bhuvana Kosha Dvipa Varnanam
% File name             : bhuvanakoshadvIpavarNanam.itx
% itxtitle              : bhuvanakoshadvIpavarNanam (brahmapurANAntargatam)
% engtitle              : bhuvanakoshadvIpavarNanam
% Category              : misc
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : November 12, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org