भजे भारतम्

भजे भारतम्

सदाज्ञानविध्वंसकारी मनोज्ञः समालोक्यते यत्र वाणी-विहारः । विधत्ते स्वमित्रं च यः प्राणिमात्रं भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ १॥ कुटुम्बं धरित्री दया यस्य मित्रं मनुष्यत्वसेवा यदीयोऽस्ति धर्मः । असत्यं च शत्रुः समस्तेऽपि लोके भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ २॥ प्रजातन्त्ररक्षा यदीयं हि लक्ष्यं तितिक्षा यदीयास्ति संसारगीता । तथैवार्जवं यस्य वित्तं वरेण्यं भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ ३॥ स्वकीयां बुभुक्षां पिपासां नियम्य सदा रक्षिता येन भीताः प्रपन्नाः । यमाहुर्विदग्धास्तथा शान्तिदूतं भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं सुदा भारतं दिव्यदेशम् ॥ ४॥ न मम्लौ यदीयं मुखं निःस्वतायां विमूढं चित्तं च वित्तोपलाभे । सदा दानशीलश्च यो याचकेभ्यो भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ ५॥ स्फुरद्रत्नसङ्काशविद्वद्वरेण्यैः समाराधिसानेक शास्त्रैश्च शिष्यैः । गभीरैश्च चित्तैः सदालङ्कृतो यो । भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ ६॥ क्वचिज्जाह्नवी तुङ्गवीचिः प्रसन्ना क्वचिद्भानु जागोमतीव्यासशिप्राः । क्वचिन्नर्मदायौवनश्रीः यदन्तो भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ ७॥ क्वचिद्वीरपुञ्जः समुत्साहधीरः क्वचिन्नेतृवर्गः प्रजोद् बोधरक्तः । क्वचिच्छीलवान् यत्र सङ्घो मुनीनां भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ ८॥ क्वचिद्विज्ञगोष्ठी क्वचिच्छास्त्रचर्चा क्वचित्काव्यसन्ध्या क्वचिन्नाट्यवेला । क्वचिद्गीतिगानं च यस्य स्वभावो भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ ९॥ कला कालिदासस्य बाणस्य वाणी रवीन्द्रस्य गीतिर्विवेकस्य वाणी । लता-तानसेन-स्वरा यत्र मुग्धाः भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ १०॥ निवासः सतामाश्रयः सद्गुणानां जरामृत्युहीनः प्रकृत्या विलासः । तथा सच्चिदानन्दसेवापरो यो भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ ११॥ धनं विद्यतेऽध्यात्म्यसंज्ञं यदीयं जगद्दुःखसङ्घातविध्वंसदक्षम् । कला यस्य चेतोहरा भान्ति लोके भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ १२॥ कलाज्ञानविज्ञानवाणिज्यशोधै- स्तथा कल्पनाभावनातर्कबोधैः । त्रिलोक्यां त्रिकाले प्रभाभासुरो यो भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ १३॥ अतीतं भविष्यत्तथा वर्तमानं जगत्प्रेरणादायकं वै यदीयम् । चतुर्वर्गसिद्धिं दिशन् यः प्रसिद्धो भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ १४॥ पवित्रैर्व्रतैरुत्सवैस्तीर्थसङ्घै- स्तथा दर्शनज्ञानचारित्र्यपुञ्जैः । नवाभिः कथाभिस्समृद्धश्च योऽस्ति भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ १५॥ क्षिपन्नैपलं भास्करं चार्यभट्टं हसन्-भाखड़ाभा-नरौरा-मिषेण । भिलाई-बुकारोस्वनैर्यश्च गर्जन् भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ १६॥ ८८३ क्वचिच्चञ्चलायाः नवीनैर्विलासैः क्वचिच्छारदायास्तथा शुक्लहासैः । सदा नूतनो मोदते राजते यो । भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ १७॥ क्वचिद्राजनी तेर्वितानैः प्रपूर्णः । क्वचिद्गृध्रगोमायु संवादपूर्णः क्वचिद्यश्च साहित्य सङ्गीत पूर्णः भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ १८॥ क्वचिच्चाटुकारैः क्वचिन्मानवित्तैः क्वचिन्मित्रघातैः क्वचिद्भीत चित्तैः । क्वचित्सिंहनादैश्च यश्चित्रवर्णो भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ १९॥ नितान्तं विहीनः कदाचित्तु यः स्याद् गृहस्फोटकैर्दस्युभिः षिड्गसङ्घैः । तथा वञ्चकैस्तस्क रैर्भ्रष्टकृत्यैः भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ २०॥ बलात्कारहत्यापहारप्रहाराः अशिक्षावधूदाहभिक्षाप्रचाराः कदाचित्तु लुप्ताः भविष्यन्ति यस्मात् (अवश्यं विलुप्ता भविष्यन्तिं यस्मात्)। भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ २१॥ ``मदीयः स्वदेशः'' , ``प्रियं भारतं मे'' ``मदीया प्रिया मातृभूमिः पवित्रा'' । इतीत्थं त्रिलिङ्ग्यां जनैर्गीयते यो भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ २२॥ न यत्राङ्कुशः कस्यचिद्वाचि शक्यो न वा कार्यजाते, न वा चित्तवृत्तौ । विनीतोऽपि यः स्वाभिमानव्रतोऽस्ति भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ २३॥ मदीया परिच्छिन्नवाणी यदीयान् अशेषान् विशेषान् यथार्थं प्रगातुम् । अशक्तास्त्यशक्तास्त्यशक्तास्ति नूनं भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ २४॥ अहो यस्य लोकोत्तरैः स्तोत्रपुञ्जैः रमाकान्तशुक्लोऽपि धन्योऽद्य जातः । विदग्धाशिषां राशिभिर्लाल्यते च भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ २५॥ न यत्रास्तु कश्चिद्बुभुक्षापरो ना न वा वासहीनो न वासोविहीनः । न वा शोषितः क्वापि केनापि कोऽपि भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ २६॥ प्रणम्यः प्रणम्यो मया यः स्वदेशः सदा कीर्तनीयः सदा वन्दनीयः । सदा वर्धतां मोदतां राजतां यो भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ २७॥ उपेक्ष्येत नो यत्र वैदुष्यपुञ्जो न वै वर्धतां यत्र दारिद्र्यपुञ्जः । तथा दुर्बलाघात आस्तां न यत्र भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ २८॥ जय भारतभूमे ! (संस्कृतकाव्यम्) रचना - डाॅ. रमाकान्त शुक्लः Proofread by Mandar Kulkarni
% Text title            : Bhaje Bharatam
% File name             : bhajebhAratamdivyadesham.itx
% itxtitle              : bhaje bhAratam divyadesham (ramAkAntashuklena virachitaM gItam)
% engtitle              : bhaje bhAratam divyadesham 
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Dr. Ramakant Shukla
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mandar Kulkarni
% Indexextra            : (Scan)
% Acknowledge-Permission: Dr. Ramakant Shukla, Devavani Parishad, Delhi
% Latest update         : May 10, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org