भूमिरियं बलिदानस्य

भूमिरियं बलिदानस्य

इहिन्दी ``आओ बच्चो तुम्हें दिखाए झाँकी हिंदुस्थानकी'' संस्कृतानुवाद एत बालकाः दर्शयामि वस्तेजो हिन्दुस्थानस्य, तेजो भारतवर्षस्य अस्य मृत्तिका शिरसा वन्द्या भूमिरियं बलिदानस्य वन्दे मातरं, वन्दे मातरम् ॥ अस्य०॥ ध्रु०॥ उत्तरभागे रक्षणकर्ता नगाधिराजो विख्यातः दक्षिणदेशे पदक्षालको महासागरः प्रख्यातः पश्यत गङ्गायमुनातीरं परं पावनं भूलोके स्थाने स्थाने यद्दिव्यत्वं नैव सुराणामपि नाके एकमेव तत्स्थानं चैतद् देवानामवतारस्य ॥ अस्य०॥ १॥ रजपूतानामेतत्स्थानं खड्गे येषामभिमानः धर्मरक्षणे युद्धे मरणं यैर्मन्यते सम्मानः अत्रैवासीत्प्रतापवीरो विश्वेऽस्मिन्यो बहुमान्यः शीलरक्षणे भस्मीभूताः अत्रासङ्ख्याः पद्मिन्यः रजः सुपूतं वीरपदाब्जै स्थानं चैतद् देशस्य ॥ अस्य०॥ २॥ वङ्गोऽयं यद्धरणी हरिता मनोहारिणी सर्वत्र निजराष्ट्रार्थं सिद्धा मरणे सन्ति बालका अप्यत्र रामकृष्ण-गौराङ्ग-विवेकानन्द-प्रमुखाः यत्राऽऽसन् अरविन्दाद्याः क्रान्तिकारकाः शान्तिपूजकाः यत्राऽऽसन् जन्मभूरियं ``नेताजि'' ति प्रख्यातस्य सुभाषस्य ॥ अस्य०॥ ३॥ इयं दृश्यतां महाराष्ट्रभूः यत्र शिवाजी भूपोऽभूत् यस्य भवानी-करवालेन म्लेच्छानां संहारोऽभूत् स्थाने स्थाने पर्वतभागे सामथ्र्याग्निः प्रकटोऽभूत् घोषो ``हर हर महादेव'' इति बाले बाले प्राविरभूत् कृतं हि गौरवरक्षणकार्यं शिवेन हिन्दुस्थानस्य ॥ अस्य०॥ ४॥ भक्तिमानयं दक्षिणदेशो गोदा-कृष्णा-परिपुष्टः गगनस्पर्धित-शिल्पकलान्वित गोपुरबालैर्विभूषितः अत्र विद्यते सुजनस्थानं सीतापति-पद-परिपूतं अत्र शङ्कराचार्या वन्द्याः केरलभागे सम्भूताः विजयनगर-साम्राज्यमिहासीत्ख्यातं हिन्दूधर्मस्य ॥ अस्य०॥ ५॥ संस्कृतानुवादकः पं. दिगम्बर अनन्त पण्ढरपुरे, घोडनदी, पुणे
% Text title            : bhUmiriyaM balidAnasya
% File name             : bhUmiriyaMbalidAnasya.itx
% itxtitle              : bhUmiriyaM balidAnasya
% engtitle              : bhUmiriyaM balidAnasya
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : paM\. digambara ananta paNDharapure\, ghoDanadI\, puNe
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : From Sharada Magazine, Pune, January 1967,
% Indexextra            : (Video, Scan, Kannada, Hindi Video)
% Latest update         : May 19, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org