ब्रह्माण्डमहापुराणान्तर्गते भारतवर्षवर्णनम्

ब्रह्माण्डमहापुराणान्तर्गते भारतवर्षवर्णनम्

सूत उवाच - एवमेव निसर्गो वै वर्षाणां भारते शुभे । दृष्टः परमतत्त्वज्ञैर्भूयः किं वर्णयामि वः ॥ १॥ ऋषिरुवाच - यदिदं भारतं वर्षं यस्मिन्स्वायम्भुवादयः । चतुर्दशैते मनवः प्रजासर्गेऽभवन्पुनः ॥ २॥ एतद्वेदितुमिच्छामस्तन्नो निगद सत्तमः । एतच्छ्रुतवचस्तेषामब्रवीद्रोमहर्षणः ॥ ३॥ अत्र वो वर्णयिष्यामि वर्षेऽस्मिन् भारते प्रजाः । इदं तु मध्यमं चित्रं शुभाशुभफलोदयम् ॥ ४॥ उत्तरं यत्ममुद्रस्य हिमवद्दक्षिणं च यत् । वर्षं तद्भारतं नाम यत्रेयं भारती प्रजा ॥ ५॥ भरणाच्च प्रजानां वै मनुर्भरत उच्यते । निरुक्तवचनाच्चैवं वर्षं तद्भारतं स्मृतम् ॥ ६॥ इतः स्वर्गश्च मोक्षश्च मध्यश्चान्तश्च गम्यते । न खल्वन्यत्र मर्त्यानां भूमौ कर्म विधीयते ॥ ७॥ भारतस्यास्य वर्षस्य नव भेदान्निबोधत । समुद्रान्तरिता ज्ञेयास्ते त्वगम्याः परस्परम् ॥ ८॥ इन्द्र द्वीपः कशेरूमांस्ताम्रवर्णो गभस्तिमान् नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथ वारुणः ॥ ९॥ अयं तु नवमस्तेषां द्वीपः सागरसंवृतः योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरात् ॥ १०॥ आयतो ह्याकुमार्य्या वै चागङ्गाप्रभवाच्च वै तिर्यगुत्तरविस्तीर्णः सहस्राणि नवैव तु ॥ ११॥ द्वीपो ह्युपनिविष्टोऽयं म्लेच्छैरन्तेषु सर्वशः । पूर्वे किराता ह्यस्यान्ते पश्चिमे यवनाः स्मृताः ॥ १२॥ ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः । इज्यायुधवणिज्याभिर्वर्त्तयन्तो व्यवस्थिताः ॥ १३॥ तेषां संव्यवहारोऽत्र वर्त्तते वै परस्परम् । धर्मार्थकामसंयुक्तो वर्णानां तु स्वकर्मसु ॥ १४॥ सङ्कल्पः पञ्चमानां च ह्याश्रमाणां यथाविधि । इह स्वर्गापवर्गार्थं प्रवृत्तिर्येषु मानुषी ॥ १५॥ यस्त्वयं नवमो द्वीपस्तिर्यगायाम उच्यते । कृत्स्नं जयति यो ह्येनं संराडित्यभिधीयते ॥ १६॥ अयं लोकस्तु वै संराडन्तरिक्षं विराट् स्मृतम् । स्वराडसौ स्मृतो लोकः पुनर्वक्ष्यामि विस्तरात् ॥ १७॥ सप्तैवास्मिन्सुपर्वाणो विश्रुताः कुलपर्वताः । महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥ १८॥ विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः । तेषां सहस्रशश्चान्ये पर्वतास्तु समीपगाः ॥ १९॥ अविज्ञाताः सारवन्तो विपुलाश्चित्रसानवः । मन्दरः पर्वतश्रेष्ठो वैहारो दुर्दुरस्तथा ॥ २०॥ कोलाहलः ससुरसो मैनाको वैद्युतस्तथा । वातन्धमो नागगिरिस्तथा पाण्डुरपर्वतः ॥ २१॥ तुङ्गप्रस्थः कृष्णगिरिर्गोधनो गिरिरेव च । पुष्पगिर्युज्जयन्तौ च शैलो रैवतकस्तथा ॥ २२॥ श्रीपर्वतश्चित्रकूटः कूटशैलो गिरिस्तथा । अन्ये तेभ्योऽपरिज्ञाता ह्रस्वाः स्वल्पोपजीविनः ॥ २३॥ तैर्विमिश्रा जनपदा आर्या म्लेच्छाश्च भागशः । पीयन्ते यैरिमा नद्यो गङ्गा सिन्धुः सरस्वती ॥ २४॥ शतद्रुश्चन्द्र भागा च यमुना सरयूस्तथा । इरावती वितस्ता च विपाशा देविका कुहूः ॥ २५॥ गोमती धूतपापा च बुद्बुदा च दृषद्वती । कौशिकी त्रिदिवा चैव निष्ठीवी गण्डकी तथा ॥ २६॥ चक्षुर्लोहित इत्येता हिमवत्पादनिस्सृताः । वेदस्मृतिर्वेदवती वृत्रघ्नी सिन्धुरेव च ॥ २७॥ वर्णाशा नन्दना चैव सदानीरा महानदी । पाशा चर्मण्वतीनूपा विदिशा वेत्रवत्यपि ॥ २८॥ क्षिप्रा ह्यवन्ति च तथा पारियात्राश्रयाः स्मृताः । शोणो महानदश्चैव नर्म्मदा सुरसा क्रिया ॥ २९॥ मन्दाकिनी दशार्णा च चित्रकूटा तथैव च । तमसा पिप्पला श्येना करमोदा पिशाचिका ॥ ३०॥ चित्रोपला विशाला च बञ्जुला वास्तुवाहिनी । सनेरुजा शुक्तिमती मङ्कुती त्रिदिवा क्रतुः ॥ ३१॥ ऋक्षवत्सम्प्रसूतास्ता नद्यो मणिजलाः शिवाः । तापी पयोष्णी निर्विन्ध्या सृपा च निषधा नदी ॥ ३२॥ वेणी वैतरणी चैव क्षिप्रा वाला कुमुद्वती । तोया चैव महागौरी दुर्गा वान्नशिला तथा ॥ ३३॥ विन्ध्यपादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः । गोदावरी भीमरथी कृष्णवेणाथ बञ्जुला ॥ ३४॥ तुङ्गभद्रा सुप्रयोगा बाह्या कावेर्यथापि च । दक्षिणप्रवहा नद्यः सह्य पादाद्विनिःस्मृताः ॥ ३५॥ कृतमाला ताम्रपर्णी पुष्पजात्युत्पलावती । नद्योऽभिजाता मलयात्सर्वाः शीतजलाः शुभाः ॥ ३६॥ त्रिसामा ऋषिकुल्या च बञ्जुला त्रिदिवाबला । लाङ्गूलिनी वंशधरा महेन्द्र तनयाः स्मृताः ॥ ३७॥ ऋषिकुल्या कुमारी च मन्दगा मन्दगामिनी । कृपा पलाशिनी चैव शुक्तिमत्प्रभवाः स्मृताः ॥ ३८॥ तास्तु नद्यः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः । विश्वस्य मातरः सर्वा जगत्पापहराः स्मृताः ॥ ३९॥ तासां नद्युपनद्योऽन्याः शतशोऽथ सहस्रशः । तास्विमे कुरुपाञ्चालाः शाल्वा माद्रेयजाङ्गलाः ॥ ४०॥ शूरसेना भद्रकारा बोधाः सहपटच्चराः । मत्स्याः कुशल्याः सौशल्याः कुन्तलाः काशिकोशलाः ॥ ४१॥ गोधा भद्राः कलिङ्गाश्च मागधाश्चोत्कलैः सह । मध्यदेश्या जनपदाः प्रायशस्तत्र कीर्त्तिताः ॥ ४२॥ सह्यस्य चोत्तरान्तेषु यत्र गोदावरी नदी । पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः ॥ ४३॥ तत्र गोवर्द्धनं नाम पुरं रामेण निर्मितम् । रामप्रियाथ स्वर्गीया वृक्षा दिव्यास्तथौषधीः ॥ ४४॥ भरद्वाजेन मुनिना तत्प्रियार्थेऽवरोपिताः । अतः पुरवरोद्देशस्तेन जज्ञे मनोरमः ॥ ४५॥ बाह्लीका वाटधानाश्च आभीरा कालतोयकाः । अपरान्ताश्च सुह्माश्च पाञ्चलाश्चर्ममण्डलाः ॥ ४६॥ गान्धारा यवनाश्चैव सिन्धुसौवीरमण्डलाः । चीनाश्चैव तुषाराश्च पल्लवा गिरिगह्वराः ॥ ४७॥ शका भद्राः कुलिन्दाश्च पारदा विन्ध्यचूलिकाः । अभीषाहा उलूताश्च केकया दशमालिकाः ॥ ४८॥ ब्राह्मणाः क्षत्रियाश्चैव वैश्यशूद्रकुलानि तु । काम्बोजा दरदाश्चैव बर्बरा अङ्गलौहिकाः ॥ ४९॥ अत्रयः सभरद्वाजाः प्रस्थलाश्च दशेरकाः । लमकास्तालशालाश्च भूषिका ईजिकैः सह ॥ ५०॥ एते देशा उदीच्या वै प्राच्यान्देशान्निबोधत । अङ्गवङ्गाश्चोलभद्राः किरातानां च जातयः ॥ तोमरा हंसभङ्गाश्च काश्मीरास्तङ्गणास्तथा ॥ ५१॥ झिल्लिकाश्चाहुकाश्चैव हूणदर्वास्तथैव च ॥ ५२॥ अन्ध्रवाका मुद्गरका अन्तर्गिरिबहिर्गिराः । ततः प्लवङ्गवो ज्ञेया मलदा मलवर्तिकाः ॥ ५३॥ समन्तराः प्रावृषेया भार्गवा गोपपार्थिवाः । प्राग्ज्योतिषाश्च पुण्ड्राश्च विदेहास्ताम्रलिप्तकाः ॥ ५४॥ मल्ला मगधगोनर्दाः प्राच्यां जनपदाः स्मृताः । अथापरे जनपदा दक्षिणापथवासिनः ॥ ५५॥ पण्ड्याश्च केरलाश्चैव चोलाः कुल्यास्तथैव च । सेतुका मूषिकाश्चैव क्षपणा वनवासिकाः ॥ ५६॥ माहराष्ट्रा महिषिकाः कलिङ्गश्चैव सर्वशः । आभीराश्च सहैषीका आटव्या सारवास्तथा ॥ ५७॥ पुलिन्दा विन्ध्यमौलीया वैदर्भा दण्डकैः सह । पौरिका मौलिकाश्चैव अश्मका भोगवर्द्धिनाः ॥ ५८॥ कोङ्कणाः कन्तलाश्चान्ध्राः कुलिन्दाङ्गारमारिषाः । दाक्षिणाश्चैव ये देशा अपरांस्तान्निबोधत ॥ ५९॥ सूर्य्यारकाः कलिवना दुर्गालाः कुन्तलैः सह । पौलेयाश्च किराताश्च रूपकास्तापकैः सह ॥ ६०॥ तथा करीतयश्चैव सर्वे चैव करन्धराः । नासिकाश्चैव ये चान्ये ये चैवान्तरनर्मदाः ॥ ६१॥ सहकच्छाः समाहेयाः सह सारस्वतैरपि । कच्छिपाश्च सुराष्ट्राश्च आनर्ताश्चर्बुदैः सह ॥ ६२॥ इत्येते अपरान्ताश्च श‍ृणुध्वं विन्ध्यवासिनः । मलदाश्च करूषाश्च मेकलाश्चोत्कलैः सह ॥ ६३॥ उत्तमानां दशार्णाश्च भोजाः किष्किन्धकैः सह । तोशलाः कोशलाश्चैव त्रैपुरा वैदिशास्तथा ॥ ६४॥ तुहुण्डा बर्बराश्चैव षट्पुरा नैषधैः सह । अनूपास्तुण्डिकेराश्च वीतिहोत्रा ह्यवन्तयः ॥ ६५॥ एते जनपदाः सर्वे विन्ध्यपृष्ठनिवासिनः । अतो देशान्प्रवक्ष्यामि पर्वताश्रयिणश्च ये ॥ ६६॥ निहीरा हंसमार्गाश्च कुपथास्तङ्गणाः शकाः । अपप्रावरणाश्चैव ऊर्णा दर्वाः सहूहुकाः ॥ ६७॥ त्रिगर्त्ता मण्डलाश्चैव किरातास्तामरैः सह । चत्वारि भारते वर्षे युगानि ऋषयोऽब्रुवन् ॥ ६८॥ कृतं त्रेतायुगं चैव द्वापरं तिष्यमेव च । तेषां निसर्गं वक्ष्यामि उपरिष्टादशेषतः ॥ ६९॥ ॥ इति ब्रह्माण्डमहापुराणे भारतवर्षवर्णनम् ॥ ॥ ब्रह्माण्डमहापुराणम् । वायुप्रोक्तं पूर्वभागः । अनुषङ्गपादः - २। अध्यायः १६ - भारतवर्णनम् ॥ .. brahmANDamahApurANam . vAyuproktaM pUrvabhAgaH . anuSha~NgapAdaH - 2. adhyAyaH 16 - bhAratavarNanam .. Notes: Brahmāṇḍa Mahā-Purāṇa ब्रह्माण्ड महापुराण; in this chapter has the description about the subcontinent and Karmabhūmi कर्मभूमि - Bhāratavarṣa भारतवर्ष and it's nine main zones - including the hills, mountains and rivers that span the land. Encoded and proofread by Ruma Dewan
% Text title            : Bharatavarsha Varnanam
% File name             : bhAratavarShavarNanam.itx
% itxtitle              : bhAratavarSha varNanam (brahmANDapurANAntargatam)
% engtitle              : bhAratavarSha varNanam
% Category              : misc
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : brahmANDamahApurANam . vAyuproktaM pUrvabhAgaH . anuShaNgapAdaH - 2.  adhyAyaH 16
% Indexextra            : (Scan)
% Latest update         : November 12, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org