शूद्रमुनिः बलरामदासः

शूद्रमुनिः बलरामदासः

लेखकः - नन्दप्रदीप्तकुमारः मध्ययुगीय ओडिआ साहित्यस्य प्रख्यात साहित्यिकः पञ्चसखिषु ज्येष्ठो बलरामदासः अन्यतमः विलक्षणप्रतिभासंपन्नश्च बभूव । असौ महात्मा न केवलं ज्ञानिभक्तेषु सम्मानित अपितु महात्मना चैतन्येनापि अभिनन्दितः इति चैतन्यभागवते चैतन्यचरितामृते च प्रामाणिक-विषयः । श्रीजगन्नाथस्य अनन्यभक्तेषु बलरामः श्रेष्ठतमः ज्ञानीनामग्रगण्य आसीत् । यद्यपि अस्य महानुभावस्य जन्मविषये वंशानुचरित-विषये च किमपि विशेषतथ्यं न समुपलभ्यते तथापि असौ महापुरुषः १४७२ १४८४ वा ख्रिष्टाब्द-मध्ये (कोणार्क) गोप अन्तर्गत ``एरबंग'' नामके स्थाने एकस्मिन् शुद्रपरिवारे उत्कलराज्ये जनिमलभत । तत्र अद्यापि तस्य स्मृतयः मिलन्ति । यथा बलरामस्य मन्दिरं विद्यते । एरबंगस्य अनतिदूरे ``बेगुनिआ'' इति स्थाने तस्य समाधिपीठो वर्तते । कविः वैष्णव आसीत् मात्र न सन्न्यासी, वस्तुतः आदर्शो गृही एव । जगमोहन रामायणस्य अन्तिमे काण्डे कविना प्रोक्तम्- ``भावग्राही प्रभु मोते दया कले । हृदयरे वसि मोते रामायणे कहिले ॥ से प्रभु कवित्व अटै एथिर । लोभे मोहर नाम भणाइलि ग्रन्थर ॥ पण्डित जन शुणि न धर मो दोष । समुद्र पंहरिबाकु कलंइ साहस ॥ नारायेण प्रसादे भवसिन्धु तरि । एहा जाणिण शरधा होइला मोहोरि ॥ जन्मेण शूद्र मुंहि अलप वयेस । ग्रन्थ करिवा काले वयस वतिश ॥ दारा सुत धन सुख भोग शिरी । अरोगी दातापण देइछन्ति हरि ॥ ए मर्त्त्यलोके मुं जगन्नाथ सेविवि । इछा होइले पुण वैकुण्ठकु यिवि ॥ '' इति । '' ईश्वरदासस्य चैतन्यभागवते सः याजपुर प्रदेशे चन्द्रपुरे अजायत इति लिखितमस्ति । किन्तु दार्ढ्यताभक्ति रसामृत-पुस्तके सः सपरिवारं पुर्यां अवसत् इति ज्ञायते । अस्य पिता सोमनाथ महापात्रः माता च यमुनादेवी आस्ताम् । तस्य पिता प्रतापरुद्र देवस्य कर्मचारी आसीत् । अन्ते सोऽपि प्रतापरुद्र देवस्य राजभवने राजसेवां कृतवान् । चैतन्यदेवस्य सम्मेलनेन तेन राजसेवां विहाय वैष्णवधर्मं गृहीतवान् । एकदा सः जगन्नाथमन्दिरस्थित मुक्तिमण्डपसभायां वेदान्तशास्त्रे पण्डितगोष्ठीषु भागं गृहीतवान् । किन्तु तदानीन्तन पण्डिताः तं शूद्र इति मन्यमानाः अनादरं कृतवन्तः । अत्यधिक भावप्रवणता सकाशात् केचन तं मत्त बलराम इति कथयन्ति । तत्प्रोक्त भगवद्गीतायां तेन स्वपरिचयः इदृशः प्रदत्तः- महापात्र सोमनाथ तनये । बलरामदास गीतारे कहे ॥ अपि च रामायण्स्य आदिकाण्डे तेन भणितम् । ``सोमनाथ महापात्र कोले होइलि सम्भूत । एहुं पिता मोर विष्णुरे भकत ॥ तेणु जगन्नाथ मोते दया कले । रामायण ग्रन्थ मो मुखे वखाणिले ॥ महामन्त्रीवर सोमनाथ महापात्र । बलराम दास मुं ये ताहांकर पुत्र ॥ '' इति । बलरामदास एकाधारेण कविः साधकः भक्तश्च । प्रत्येकक्षेत्रे स अनन्यगुणसंपन्न आसीत् । भक्तिसाहित्यपरंपरासु ज्ञान-योग-भक्तीनामेकीकरणं तस्य अनवद्य-कृतिसु अन्यतमम् । उत्कलीय वैष्णव धर्मस्य पञ्चसाधकाः ``पञ्चसखा'' इति उत्कलभाषया परिचिताः सन्ति । बलराम-जगन्नाथ-अच्युतानन्द- यशोवन्त-अनन्तदासाः पञ्चसखायः भवन्ति । अच्युतानन्दस्य ``शून्यसंहिता'' यां यशोवन्तस्य ``चौराशी-आज्ञा'' यां च पञ्चसखीनां सम्यक् सूचना मिलति । किन्तु चैतन्य चरितामृते चैतन्य भागवते च एतेषां विषये न किमपि तथ्यं समुपलभ्यते । दिवाकरदासस्य जगन्नाथ चरितामृते बलरामदास विषये लिखितमास्ते । १५/०९/१५१० ख्रीष्टाब्दे चैतन्येन सह बलरामस्य संयोगो विहितः । चैतन्यदेवः बलरामस्य प्रतिभया विमुग्धोऽभूदिति कतिपयेषु ग्रन्थेषु उपलभ्यते । कथ्यते बलरामो वेश्यासक्त आसीत् । यमुनानाम्नी कामपि वेश्यालयं सः प्रत्यहं गच्छति स्म । एकदा रथयात्राकाले सहसा वेश्यागृहादागत्य सः रथमुपरि आगतवान् । सेवकाः बलरामं वारितवन्तः । तदा बलरामः समुद्रतीरं गत्वा तत्र सिकताभिः रथं निर्माय रथयात्रां कृतवान् । अत्र बडदाण्डे रथः न चलितः । पश्चात् जगन्नाथस्य स्वप्नादेशेन राजा बलरामं क्षमां याचित्वा ससम्मानं तं पुनः रथं प्रति आनीतवान् । वस्तुतः यमुना न वेश्याऽऽसीत् । जगन्नाथस्य परमा साधिका आसीत् । जगन्नाथस्य निर्देशेन हि बलरामः प्रत्यहं यमुनागृहं गच्छ्ति स्म । बलरामदासः सिद्धसाधकस्थथा प्रख्यातो हठयोगी आसीत् । पिण्ड-ब्रह्माण्डतत्त्वेषु तस्य साधना बलीयसी आसीत् । प्रबुद्ध-बलरामस्य जगन्नाथे आसीत् अखण्ड विश्वासः । तन्मतानुसारं जगन्नाथः स्वयं वैकुण्ठवासी । पुरी एव नित्यधाम । कायासाधनया हि मोक्षप्राप्तिः चरमलक्ष्यम् । एतद् बलरामदासस्य मुख्य-दर्शनम् । ज्ञान-योग-भक्तीनां समीकरणार्थं हि बलरामस्य प्रयासोऽत्र सिद्धः । । बलरामदास आसीत् जातिस्मरः । सारलादासः गोरक्षनाथ इव तत्पूर्वजन्मवृतान्तः तेन बहुषु ग्रन्थेषु समुल्लिखितः । तथाहि रामायणस्य लंकाकाण्डे- ``मुं बलरामदास रामायण अबतारे थिलि । दिहुडि धरिण मु समस्त देखिलि ॥ मते आज्ञा देले मर्त्त्य पुरकु यिबु । कलियुगे शूद्रमुनि होइण जनमिबु ॥ जन्महुं वर्णकथा सुमरिबु तुहि । श्रीजगन्नाथ प्रभु ये मोहर गोसांइ'' ॥ इति । यदि वा बलरामः शूद्र आसीत् किन्तु न अधमः नापि पतितः नापि अज्ञानी एव । कवेः विनम्रता हि तस्य स्वभावं प्रमाणयति । तदुक्तिः अयोध्या काण्डे- ``मुंहि पामर ये विशेषे शूद्रयोनि । सुज्ञ जने कोप न करिबे एहा शुणि ॥ नीलगिरि जगन्नाथ किछु दया कला । तेणु से ग्रन्थमो हृदरु स्फुरिला ॥ बलराम दास मुं श्रीहरि सेबक । शुणि उपहास न कर दुष्ट लोक '' ॥ तन्मतानुसारं मनुष्यः ब्राह्मणगृहे जाते सति न ब्राह्मणो भवितुं पारयति, कर्म मनुष्यं ब्राह्मणं करोति शूद्रं वा करोति । तस्मात् कर्म प्रधानमत्र । पुराणालोचन-शास्त्रालोचन-सभायां तस्य सदैव योगदानमासीत् । बलरामदासस्य प्रतिभां सन्दर्श्य तदानीं ब्राह्मणानां इर्षा सीमा लंघिता । एकदा मुक्तिमण्डपे भगवद्गीता-आलोचना प्रसंगे शूद्रो बलरामः उपस्थित आसीत् । पण्डित-ब्राह्माणास्तं तत्र दृष्ट्वा भर्सितवन्तः । तं विताडयितुं राजानं प्रतापरुद्रदेवं अनुरोधितवन्तः । किन्तु एकेन शूद्रमुखेन वेदोच्चारयितुं बलरामः ब्राह्मणानां सम्मुखे प्रतिज्ञां कृतवान् । तदा पण्डिताः जनैकं मुक-वधिर-भिक्षुक-हरिदासं मुक्तिमण्डपं प्रति आनीतवन्तः । यदा बलरामः हरिदासस्य मस्तकस्पर्शं कृतवान् तदा स निरर्गलतया वेदपाठं चकार । एतद्दृष्ट्वा पण्डिताः आश्चर्यचकिताः बभूवुः । राजा बलरामस्य अलौकीकतां सन्निरीक्ष्य प्रसन्नोऽभूत् । ससम्मानं बलरामं प्रणामं चकार । श्रूयते जगमोहन-रामायण-रचनावसरे बलरामदासः प्रभु-जगन्नाथेन सह लंकां गतवान् । तस्मिन्नेव काले जगन्नाथः बलरामाय किमपि सुवर्णहारं रक्षणाय प्रदत्तः । प्रातः श्रीमन्दिरे सेवकैः जगन्नाथ समीपे हारो न दृष्टः । अत्र बलरामः जगन्नाथस्य हारं स्व समीपे दृष्ट्वा तस्मै प्रत्यावर्त्तयितुं श्रीमन्दिरमागतवान् । सर्वे बलरामं चौर इति कथितवन्तः । कारागारेऽपि निपतितः सः । रात्रौ स्वप्ने बलरामस्य स्वरूपं महाप्रभोः ज्ञात्वा क्षमां ययाच कारामुक्तं च चकार राजा । जगन्नाथः सदैव सिद्ध-योगिनिभिः प्रपूजितः इति बलराम अभाणि । बलरामदासः रामतारकमन्त्रस्य सिद्धसाधक आसीत् । समग्र-मध्ययुगीय-साहित्येषु बलरामस्य कतिपयानि साहित्यानि कुसंस्कारादि क्षेत्रेषु समाजविप्लवस्य वह्निं प्रज्वालयन्ति । सम्माज संस्कारकार्येषु सहायकाः भवन्ति । बलरामस्य बहवो रचनावल्यः दृष्टिगोचरा भवन्ति । तेषु जगमोहन रामायण(दाण्डि रामायण)- ब्रह्मपुराण-महाभारत- चण्डीपुराण- लक्ष्मीपुराण- कुरालपुराण- नामरत्नगीता-मृगुणीस्तुति- दुर्गास्तुति- कान्तकोइलि- कमललोचन चौतिषा-वारमासी- भावसमुद्र- वट अवकाश-भक्ति रसामृत सिन्धु- सभाविनोद- रामविभा-कृष्णलीला-रसकेलि- ब्रह्माण्डभुगोल- शरीरभुगोल- बेढा परिक्रमा-अर्जुनगीता- गजनिस्तारण गीता- भगवद्गीता- अमरकोशगीता- गुप्तगीता- छतिश गुप्तगीता- गरुड गीता-विराटगीता- गणेश विभूति गीता- गीतासार-नीलसुन्दर गीता- कलिभारत- बौला अध्याय- पणस चोरी इत्यादि ग्रन्थाः वैशिष्ट्यमावहन्ति । एषु ग्रन्थेषु जगमोहन रामायणं साहित्यदृष्ट्या अत्युन्नतम् । दाण्डि रामायणं सप्तकाण्ड विशिष्टम् । मूल-संस्कृत-रामायणस्य स्वाधीनानुवादः । ब्रह्माण्ड भुगोलः तत्त्वमूलकः । अत्र पिण्ड-ब्रह्माण्डविवरणी समुपलभ्यते । गुप्तगीता वा ब्रह्मगीता गद्यपद्ययोः संगठनम्, आध्यात्मिकी प्रवृत्तिः । अमरकोषगीता विराटगीतयोः ब्रह्मज्ञानं प्रचुरम् । ज्ञानचूडामणिः गद्यः यौगिकः । श्रीमद्भगवद्गीता मूलगीतायाः सहज लोकप्रसिद्धः पद्यानुवादः । लक्ष्मीपुराणं क्षुद्रकाव्यम् । नारीसशक्तीकरण-विशुद्ध-भक्तेश्च प्रतिपादनमत्र । अन्ये ग्रन्थाः आध्यात्मिकचेतनाषु परिपूर्णाः । जगमोहन रामायणं दाण्डिवृत्तेन (विषमाक्षर) लिखितमस्ति । स्वकीय मौलिकप्रतिभया तेन रामायणस्य विरचनं कृतम् नानुवादेन । तात्कालिक समाजस्य जातिभेदप्रथां विलोक्य सत्शिक्षायै तेन लक्ष्मीपुराणं संपादितम् । यत्तु सर्वेषामुत्कलीयानां गृहे गृहे परिचितम् । मध्ययुगीय सिद्धसाहित्य परंपरायां तस्य स्थानं महत्वपूर्णं भजते । साहित्य माध्यमेन सः आध्यात्मिकविप्लवं सृष्टिकर्तुं समर्थोऽभूत् । ओडिआजातेः सश्चिरो नमस्यः । --- लेखकः - नन्दप्रदीप्तकुमारः Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : balarAmadAsaH
% File name             : balarAmadAsaH.itx
% itxtitle              : balarAmadAsaH (lekhaH)
% engtitle              : balarAmadAsaH
% Category              : misc, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : August 4, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org