शिशु-अनन्तदासः

शिशु-अनन्तदासः

लेखकः - नन्दप्रदीप्तकुमारः शिशु-संप्रदायस्य प्रतिष्ठाता शिशु-अनन्तः ``पञ्चसखा'' गोष्ठीषु सर्वकनिष्ठत्वेन परिगणितः । अयं महात्मा १४८६ ख्रीष्टाब्दे पुरी जिल्लायाः ``बालिपाटणा'' नामके स्थाने एकस्मिन् करण परिवारे अजायत । केचन अस्य जन्मस्थानं कौणार्कभूमौ अभवदिति कथयन्ति, तन्मृग्यम् । अस्य पिता कपिल महान्तिः माता च गौरी देवी आस्ताम् । तदुक्तम् ईश्वरदासेन चैतन्यभागवते- ``कपिल महान्ति ता नाम । ताहार पुत्र अनुपम ॥ अनन्त माहान्ति बोलाइ । कोठ करण होइथाइ ॥ '' भुवनेश्वरस्थितः ``खण्डगिरि'' स्थानमस्य महात्मनः साधनपीठ आसीत् । किम्बदन्ती आसीत्सः सूर्यदेवादेशेन पुरीं गत्वा चैतन्यात् दीक्षां प्रगृह्य एकाक्षर-सूर्यमन्त्रं प्राप्तवान् । तस्मात् सहस्रश्लोकानपि प्राप्तवान् । शिशु अनन्तः प्रख्यातो योगी आसीत् । योगशक्त्या शिशुः भूत्वा सः देव्याः महालक्ष्म्याः कोलमण्डनं चकार । अनया योगविभूत्या सन्तुष्टः सन् स्वयं देवाधिदेवो जगन्नाथस्तस्मै शिशु-उपाधिं दत्तवान् इति कर्णाकर्णिकया श्रुत्या ज्ञायते । अयं सम्बादः ईश्वरदासकृत-चैतन्यभागवतात् प्रमाणीक्रियते । यच्चोक्तम्- ``शिशु रूपरे मोते भ्रम । अनन्त शिशु तोर नाम ॥ पृथिवी येते दिन थिव । तो नाम विख्यात होइव ॥ '' इति । अनन्तदासस्य बहवो ग्रन्था आसन् । तेषु हेतु उदय भागवतं, चुम्बक मालिका, अणाकार शवद, भवमुक्तिदायक गीता, अर्थतारिणी, भजनतत्त्वम्, मन्त्रचन्द्रिका, गरुड-केशव संम्बादः, पिण्ड-ब्रह्माण्ड गीता, ठिक बाखरः, उदे बाखरः, छाट बाखरः, आगत भविष्यः, पद्मवन रासः, ठुल शून्यरासः, यन्त्रटीका, धामछत्रम्, वैष्णव पुराणम्, शिशुमन्त्रविचारादयः प्रसिद्धाः वर्तन्ते । अनन्तदासस्य बहु शिष्या आसन् । शिशु अर्जुन दासः, शिशु वनमालि दासः, शिशु शंकर दासः, शिशु प्रताप रायः एवं शिशु दयानिधि दासप्रमुखाः मूर्द्धन्याः सन्ति । एते सर्वे शिशु संप्रदायेषु अन्तर्भुक्ता भवन्ति । ``पञ्चसखा'' इति कल्पना ओडिआ साहित्यस्य बलिष्ठा परंपरा । अयं विशालः फलपुष्पयुक्त-पनसवृक्षरूपेण परिगणितः कदाचित् । वृक्षस्यात्मा स्वयं जगन्नाथः । द्रष्टा श्रीचैतन्यः । तथाहि- ``जगन्नाथ दास शुणिले । मञ्जिरूपी वृक्ष स्थापिले ॥ प्रभुंकु कले सुमरण । बालुत वृक्ष कले पुण ॥ बालुत वृक्षकु बलराम । कले युवा डाल पत्रेण ॥ मो आज्ञा पाइ वृक्ष तोष । वौले फलिला पणस ॥ अच्युत आज्ञारे पणस । वृक्षरे पाचिण अवश्य ॥ आज्ञा प्रमाणे वृक्ष पुण । भूमिकु ओहलि पडिण ॥ पणस तोलि शिशु नेइ । चैतन्य पारुशे दिऐ ॥ पक्व पणस चैतन । भांगिण वाण्टिले आपण ॥ '' इति । इदं सुवासितं सुन्दरतमं मधुरफलं षोडशशताब्द्याः आरभ्य अद्यावधि सर्वत्र सादु भोजनरूपेण प्रतिभाति । ``हेतूदय भागवतम्'' अनन्तदासस्य कृतिषु अन्यतमम् । अस्मिन् ग्रन्थे पिण्ड ब्रह्माण्डतत्त्वम्, काया साधनम्, जगन्नाथस्य बुद्धरूप स्वीकारः, शरीरे जगन्नाथस्य अवस्थितिः एवं राधाकृष्णयोः जीवात्म-पपरमात्म रूपेण वर्णनं मिलति । यच्चोक्तं- ``श्रीराधाकृष्ण वेनि जन । जीव परम रूपे जाण ॥ '' इति । अनयोः राधाकृष्णयोरवस्थानं धवलांगद्वीपे वर्तते । गोपीभक्तेः निदर्शन स्वरूपेण केवलं कामिनी भावेन हि कृष्णप्राप्तिर्जायते । अपि च तत्र- ``कामिनी गणे आभासै । पुरुष लेश तहिं नांहि ॥ '' इति प्रेमभक्तेः पराकाष्ठा वर्णिता । सृष्टिप्रक्रिया चात्र- आदौ ओंकारः । तस्मादाकाशः । आकाशात् विन्दुः । विन्दोः मनः । मनसो माया । मायायाः सत्यम् । सत्यात् विराड् इति समुत्पद्यन्ते । हेतूदय-भागवते आदौ गुरुतत्त्वं वर्णितम् । गुरुः सर्वेषां जीवानां समुद्धरकर्ता । तं विना मुक्तौ नाधिकारो वर्तते । शिष्यस्य जिज्ञासा बहुविधा अस्ति । आदौ शास्त्र श्रवणम् । तत्तु - ``यदि शुणै मूढपणे । वधिर जन्म अकारणे । यदि शुणै ममतारे । असुर जन्म लभे नरे । यदि शुणै अहं गुणे । नर्क भोजन अनुदिने । ये शुणि करे उपहास । नर्करे जन्म ता अवश्य । '' अपि चात्र- ``येवण जन ए दीक्षाकु । विख्याति कहै आनकु । एमन्ते सात जन्म गले । पुणि जन्मै भाट घरे । भाट वनिता पणे पुन । दिन वञ्चै अनुदिन । एहि मतरे दिन जाइ । जीव उद्धरि न पारै । येउं गुपत गुरुवाणी । विख्यात कला मूढ प्राणी । तेणु पाइला सेहु फल । जन्म लभिला भाट कुल । गुरु ये शिष्यंक विचार । अन्यकु दिशे अन्धकार ॥ '' इति गुरोः तत्त्वश्रवणविधानं वर्णितम् । ``असाधन-मार्गः'' अथवा अजपाजपविधिः अनन्तदासस्य महती साधना वर्तते । अवनाक्षर-जपेन कोटिजन्मस्य पापं विधौति इति तस्य नय आसीत् । अयं मार्गः न केनापि साधनकोटिषु अन्तर्भुक्तः । तस्मादसाधनमार्गत्वेन परिगणितः स्वीकृतश्च । तथाहि- ``दन्त ओष्ट न हलिब शिर कण्ठ न कम्पिब । मन्त्र यन्त्र नांहि तंहि देखिव ब्रह्मस्वरूप ॥ '' इति समर्थयति दादु महाराजः- ``नैनविन देखिवा अंगविन पेखिवा । रसनविन वोलिबा ब्रह्म सेती । श्रवन् विन शुणिवा चरण विन चालिवा चित्त विन चेतिवा सहज एति । '' इति अतिन्द्रिय मार्गेण ब्रह्मसाक्षात्कारः सम्भव इति निष्कर्षः । तीर्थ्व्रतादिकमपि न साधनमार्गे सहायका भवन्ति । शरीरमेव सकलसाधन स्थलम् । सुस्थे शरीरे सकलाः साधनाः सिध्यन्ति । तस्मात्पिण्डब्रह्माण्डसाधनं सर्वश्रेष्ठम् । यतो हि - ``न या तीर्थ व्रत करि । हृदे जप राम हरि । कहन्ति अनन्त शिशु तरिवु ए भवकु---- ॥ '' इति नामस्मरणस्य सर्वित्कृष्टा साधना उक्ता । रा म अथवा ह रि इति संयुक्ताक्षर-स्मरणं नक्तन्दिवं कार्यम् । तद्व्यतिरिक्तं द्वितीयो मार्गो नावशिष्यते । तथाहि- ``ए वेनि अक्षर येवे एकत्र होइव । हरि वोलि करि नाम हृदरे बुणिव । हरि उदे हेउछन्ति न जाणन्ति केहि । कहन्ति अनन्त शिशु हरीन्द्रकु ध्यायी ॥ '' इति सर्वं हरिमयं जगदिति सप्रमाणं निगदितं तेन । साधनसिद्धः अनन्तदासस्य आसीत् जगन्नाथे प्रगाढो विश्वासः । परम-भागवतोत्तमस्य श्रीहरेर्विशुद्धभक्तिं प्राप्तुं तेन सर्वादौ चेष्टितः । सफलीकृतश्च । जय जगन्नाथ । सहायक ग्रन्थाः १- पञ्चसखा ओडिआ साहित्य-अध्यापकः देवेन्द्र महान्तिः २- सन्थ भक्ति साहित्य-चित्तरंजन दासः ३- कृष्णचन्द्र साहु रचनासम्भार ५ भाग ४- ओडिआ स्नातक पाठ्यक्रमः- Odisha state open university, sambalpur ५- ओडिआ साहित्यर इतिहास- डाॅ वंशीधर महान्तिः ६- ओडिआ साहित्यर आदिपर्व- सुरेन्द्र महान्तिः ७- ओडिआ साहित्यर इतिहास- पं सूर्यनारायण दासः ८- ओडिआ साहित्यर सांस्कृतिक विचारधारा- चित्तरंजन दासः ९- ओडिशार धर्मधारारे पञ्चसखा परिकल्पना- डाॅ नटवर सामन्त रायः १०- महापुरुष परिचय ओ बाणी- निमांइ चरण दासः ११- wikipidia org --- लेखकः - नन्दप्रदीप्तकुमारः Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : anantadAsaH
% File name             : anantadAsaH.itx
% itxtitle              : anantadAsaH (lekhaH)
% engtitle              : anantadAsaH
% Category              : misc, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : August 29, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org