अध्यात्मतीर्थाटनम्

अध्यात्मतीर्थाटनम्

धर्मक्षेत्रमुपागतोऽद्य भगवान् श्रीसत्यसायीश्वरः किञ्चात्रैव दिनद्वयं निवसति प्राज्यानुकम्पार्द्रधीः । कल्याणेऽवतरन्निमामश‍ृणवं वार्ता प्रहर्षाद्भुतो- त्कण्ठासङ्कुलमानसः पुनरगां वासाय पुत्रालयम् ॥ १॥ सायाह्णे दुहितुर्गृहं गतवता छेदानगर्यो मुदा, श्वोभाव्युत्कटपुण्यलभ्यभगवत्सन्दर्शनाकाङ्क्षिणा । स्मारं स्मारमुदारसायिचरितं भक्तार्तिविध्वंसनं हर्षोन्मादमुपेयुषा च गमिता रात्रिः कथाञ्चिन्मया ॥ २॥ प्रत्यूषे गुरुवायुमन्दिरपतिं छेदानगर्यो नवे क्षेत्रे भान्तममन्ददिव्यकरुणानिष्यन्दमन्दस्मितम् । शास्तारं शरणं समस्तजगतां दुर्गाञ्च विघ्नेश्वरं स्कन्दं चाप्युपनम्य सम्यगभवं शान्तप्रसन्नान्तरः ॥ ३॥ ``अन्धेरी'' मगमं प्रशान्तसुभगे तस्मिंश्च सायन्तने जामात्रा सुतया तथा दयितया साकं सदौहित्रकः । अद्राक्षं सुचिराद्दिदृक्षितमहं श्री सायिकृष्णस्य त- ``द्धर्मक्षेत्र''मनल्पशिल्पसुभगं विस्तीर्णपद्माकृतिः ॥ ४॥ तत्रारक्तमनोज्ञकान्तिविकसन्मार्तण्डबिम्बाननां शान्तां शोणमनोहराम्बरधरां मुग्धप्रकाशस्मिताम् । पुण्यक्षेत्रमिदं स्वकीयमहसा विद्योतयन्तीं शिवां सन्ध्यां पर्तिमहेशमूर्तिमपरां सानन्ददृष्ट्याऽपिबम् ॥ ५॥ धर्मक्षेत्रमहाङ्कणं जनसहस्राकीर्णमेकान्तव- न्निश्शब्दं स्फुटभक्तिभावविमलं संप्राविशं सादरम् । श्रीसायीशपदाम्बुजप्रणिहितस्वान्तः प्रशान्ताखिल- क्लेशः सम्यगुपाविशञ्च कुहचित् हर्षोन्मिषच्चेतनः ॥ ६॥ दृष्टं तत्र च मण्डपे विनिहितं सायिशासिंहासनं श्रद्धाभक्तिसमेतशिष्यनिवहैः सज्जीकृतं पावनम् । यत्तावत् भगवत्समागममहानन्दप्रतीक्षामृता- स्वादे मग्नमिव स्थितं सुविमलं भक्तान्तरङ्गं यथा ॥ ७॥ याताः कालकलाः कथञ्चन समुत्कण्ठाकुलाश्चायता- स्तावत् भक्तसहस्रनेत्रनलिनैराराधिते मण्डपे । ज्येतिः किञ्चन सान्ध्यकान्तिसुभगं प्रादुर्बभूव क्रमा- त्तन्मध्ये स्फुटमाबभौ च भगवद्रूपं जगन्मङ्गलम् ॥ ८॥ भावग्राहि विशुद्धमुग्धकरुणानिष्यन्दि नेत्राञ्चलं प्रेमार्द्राद्भुतभव्यशान्तिमधुरस्मेरं तदास्याम्बुजम् । तद्दिव्याभयहस्तमद्भुतमहाभूतिप्रदं तादृशं रूपं सायिहरेः मदीयहृदये भक्त्या दृढं मुद्रितम् ॥ ९॥ अद्धा मण्डपतोऽवरुह्र भगवान् भक्तावलीमध्यगः सुस्मेराक्षिकलावलोकनमहानन्दं प्रसादं दिशन् । मन्दं तत्र चचार पुण्यनिमिषान् कांश्चित् प्रतीक्षाकुलं चक्षुश्चाक्ष मापपात भगवन्मूर्तै समेषां नृणाम् ॥ १०॥ मन्दं मन्दमुपाससाद भघवांस्तस्थाविवाल्पं ममा- दूरे; मय्यकिरत् प्रशान्तमधुरस्मेरार्द्रदृष्ट्यामृतम् । भक्त्या मीलितलोचनः नतशिरस्याबद्धमुग्धाञ्जलिः प्रापं चास्तसमस्तदुःखनिवहां दिव्यानुभूतिं नवाम् ॥ ११॥ अस्मार्वं च पुराप्रशान्तिनिलये पत्न्यासमेतस्य मे लब्धं सायिमिथोऽवलोकनमिदं सम्भाषणञ्चावयोः । किं ते वाञ्छित मिष्यते भगवति प्रेमैव, भक्तोऽसि, त न्माभैषीर्विपद, स्त्वया सह सदा वर्ते हि भक्तप्रियः ॥ १२॥ चेतो क्षणमाततान निपुणं सिंहावलोकं स्वयं सङ्कीर्णे मम जीविताध्वनि ददर्शान्वर्यतां तद्गिरः । श्रीसायिश्वरकृष्णपादनलिनद्वन्द्वेननामाखिलं भक्त्या चार्पयदात्मनिर्वृतिभवापानन्यलभ्यां पराम् ॥ १३॥ किञ्चैतत् स्मृतिमण्डले स्फुटतरं निर्भातमासीन्मम प्रेयस्यै समदात्तदाद्भुवमहासिदिन्ध विभूतिं स्वयम् । भस्मालिप्तकराङ्गुलीमृदुतमस्पर्शेन चक्रे नवं पुण्ड्रं मे तनयस्य चापि निटिले श्रीसायिनाथो हरिः ॥ १४॥ धर्मक्षेत्र इदं गुरो! भगवता दत्तं पुनद्र्दर्शनं त्वन्माहात्मपदृढावबोधकमहं मन्येऽनुगीतासमम् । अद्यापास्तसमस्तशङ्कमवगच्छामि प्रभो, जीविते लक्ष्यं मार्गमपि त्वया निगदितं सत्यं शिवं सुन्दरम् ॥ १५॥ किन्तु श्रीभगवन् बिभेमि चपलान्मच्चेतसस्त्वत्कृपा- बद्धं निश्चलमस्त्विदं च विमले त्वत्पादपाथोरुहे । संसारार्णवतारणे मम गुरुस्त्वं कर्णधारः स्वयं निर्भीकं कुरु मां दयस्व भगवद्दासानुदासे मयि ॥ १६॥ धर्मक्षेत्रविशुद्धधाम्नि यदहो! लब्धं परं दुर्लभं सायीशस्य जगद्गुरोर्भगवतो यादृच्छिकं दर्शनम् । तन्मन्ये मम दूरदेशगमनं कार्यान्तरार्थं स्वयं सम्पन्नं भगवत्कृपालवबलादध्यात्मतीर्थाटनम् ॥ १७॥ इति श्रीवासुदेवन् एलयथेन विरचितं अध्यात्मतीर्थाटनं सम्पूर्णम् ।
% Text title            : Adhyatma Tirthatanam
% File name             : adhyAtmatIrthATanam.itx
% itxtitle              : adhyAtmatIrthATanam (vAsudevan elayathena virachitam)
% engtitle              : adhyAtmatIrthATanam
% Category              : misc, vAsudevanElayath
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : From Bhaktitarangini by Prof. P.C. Vasudevan Elayath
% Indexextra            : (Thesis, Text/)
% Latest update         : December 25, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org