महापुरुष अच्युतानन्ददासः

महापुरुष अच्युतानन्ददासः

लेखकः - नन्दप्रदीप्तकुमारः ``पञ्चसखा'' युगस्य न केवलं ओडिआ साहित्यक्षेत्रे प्राधान्यता वर्तते अपितु उत्कलीय सामाजिकस्थथा आध्यात्मिकयुगस्य अभ्युदय अत्र संघटते इति नैव अत्युक्तिः । महान् साधकः एवं कविः अच्युतानन्दः ओडिआभाषा साहित्ये उत्कलीयधर्मधारायां च अभूतपूर्वो विस्मयः । षोडशशताब्द्यां तल्लेखनीद्वारा अजस्र संहिताः,पुराणानि,गीताः, वंशानुचरितानि,मालिकाः,राहासाः,कोइली-गुज्जरी-टीकाः,कल्पाः,ओगालाः,यन्त्राणि एवं वसाण-प्रभृतयः सृष्टयः निर्झरिताः अवारितरूपेण । श्रीजगन्नाथं केन्द्रीकृत्य तस्य रचनाः उत्फुल्लिताः पल्लविताः । जगन्नाथं अक्षरब्रह्मरूपेण कदाचित् बुद्धरूपेण कदाचिद्वा शून्यदेहि निराकारब्रह्मरूपेण सः पूजयामास । दिव्यद्रष्टा दार्शनिकः, रहस्यवादी कविः, असाधारण शब्दनिर्माता, समाजसंस्कारकः एवं आध्यात्मिकगुरुरूपेण च सः आत्मनः परिचयं प्राददात् । सारस्वत भाष्यकारत्वेन अच्युतानन्द आसीत् अनन्य सन्थः । पञ्चसखीनां मध्ये अच्युतानन्दः असाधारण प्रतिभावान् बभूव । महामान्य-महापुरुष-अच्युतानन्ददासस्य निर्दिष्ट-जन्मदिनांकविषये बहु विप्रतिपत्तयः श्रूयन्ते । कथ्यते पुरुषोत्तमदेवस्य २१ अंके अर्थात् १४८२ ख्रीष्टाब्दे कटकमण्डलस्य ``नेमाल'' इत्यस्य अनतिदूरे ``तिलकणा'' ग्रामे माघ शुक्ल एकादश्यां तिथौ अयं महात्मा एकस्मिन् शूद्रकुले अजनि । ``उदय काहाणी'' ग्रन्थे सांकेतिकरूपेण तेन स्वजन्मदिनांकविषये स्वशिष्यं रामचन्द्रं प्रति इत्थं कथितम्- ``पचारिलु राम जनम अंक । अति हिं गुपत बड विवेक ॥ डाहाण अंककु गुणिवु येवे । वाम अंक गोटि मिशाअ तेवे ॥ एमन्त साल होइव निजर । शुण रामचन्द्र एथि भितर ॥ सात भुज अरि मणि मित्ररे । तारि सन घेन ओड्र राष्ट्ररे ॥ ए अंके मुंहि जनम हेलि । अच्युत पामर नाम पाइलि ॥'' ``ओडिआ साहित्यर इतिहासे'' पण्डित सूर्यनारायण दासेन तस्य जन्मांकः १४८२ इति स्वीकृतः । तल्लिखित शून्यसंहिताग्रन्थावलोकनेन केचन ऐतिहासिकाः तज्जन्मदिनांकः १५०२ इति कथयन्ति । अपरे १५११-१५१२ मध्ये इति समामनन्ति । केचन १४८५ इति स्थिरीकुर्वन्ति । यद्भवतु तत्परिचयविषये तेनोक्तम्- ``अच्युतानन्द दास नाम मोहर नेमाल ग्रामरे घर । शूद्रकुले मुंहि जनम लभिछि आज्ञा घेनि प्रभुंकर ॥'' इति । ईश्वरदासस्य चैतन्यभागवते सः करणकुले जन्मोऽभूदिति लिखितमस्ति । अच्युतो जात्या कर्मकार आसीदिति ``भावनावर'' ग्रन्थे संसूच्यते । सः जात्या गोपाल इति किम्बदन्ती अस्ति । वर्णटीकायां तेन भणितम्- ``मोर पितामह से गोपीनाथ । दास तांकर अटे पाधित ॥ श्रीक्षेत्रे छामुकरण से थिले । छामु आज्ञारे दिन से काटिले ॥ तांक पुत्र मोर पिता अटन्ति । श्रीक्षेत्रे खुण्टिआ कर्म करन्ति ॥ प्रताप नृपति सन्तोष ह्वन्ते । खुण्टिआ पद देले मोर ताते ॥'' इति । अच्युतानन्दः जातिस्मर आसीत् । तत्पूर्वजन्मप्रसंगे अनन्तयुगे सुदामः,सत्ययुगे कृपाजलः,त्रेतायां नीलः,द्वापरे सुबाहुः कलौ च सः अच्युतनामधारी आसीदिति तेन ``गोपालंक ओगाल'' पुस्तके भणितम् । गुरुभक्तिगीतायां तु पञ्चसखीषु चतुर्णां नामानि इत्थं भणितानि । यच्चोक्तं- ``अनन्त शिशु ये रामानन्द वैष्णव । यशोवन्तदास मध्वाचार्य वैष्णव ॥ बलरामदास विष्णु श्यामदास होइ । नित्यानन्द वैष्णव अच्युत वोलाइ ॥'' इति । अत्र जगन्नाथदासस्य नाम नास्ति । अच्युतानन्दस्य पिता दीनबन्धु खुण्टिआ माता च पद्मावती आस्ताम् । तस्य धर्मपत्न्याः नाम चम्पावती आसीत् । चम्पावती अडंग-गडस्य राज्ञः रघुरामचम्पतेः कन्या आसीत् । अच्युतस्य गदाधरः नामा पुत्रः, द्वौ भ्रातरौ एका च भग्नी आसन् । श्रूयते दीनबन्धुः बहुकालात् अनपत्य आसीत् । श्रीजगन्नाथ-कृपया हि तस्य सन्तानमभूत् । पुरीयात्रा समये गरुडस्तम्भं निकषा सः एकं शिशुपुत्रं दृष्टवान् । पश्चात् श्रीजगन्नाथसेवया तस्य गुणवान् पुत्र अजनि । तस्य श्रद्धानाम अगणि आसीत् । यदुक्तं शून्यसंहितायाम्- ``खुण्टिआ दीनबन्धु नाम बोलि ता पद्मावती वोलि नारी । प्रभु आज्ञा घेनि प्रवेश होइलि गर्भेण मुंहि ताहारि ॥ दशमास दशदिवस मध्यरे शुक्लमास एकादशी । जनम लभन्ते पिता मो देखन्ते अपुत्रीक दोष ध्वंसी ॥ जात कर्ममान पिता माता कले षठी उठिआरि तुले । अगणा अपोछा करिण मो नाम अनेक प्रकार देले ॥ के वोले अनाम अगणि त नाम के वोले अनन्त हरि । पिता माता शेषे डाकिलेत मोते अच्युत नामटि धरि ॥'' दारिद्रता तस्य नित्य-सहचर आसीत् । उक्तं च शून्यसंहितायाम् अष्टादशाध्याये- ``तिलकणारे मुं जनम लभिलि केहि न चिन्हिले मोरे । अगणि त वोलि माता डाकुथान्ति अन्न न मिलै घरे ॥'' इति । एकदा पित्रा सह सप्तमवयसि सः पुरीं गतवान् । तन्मिन्नेव काले श्रीचैतन्यः पुर्यामासीत् । पितुः निर्देशेन सः चैतन्यदेवस्य पादौ साष्टांगं प्रणिपपात । श्रीचैतन्यः अच्युतं दीक्षादातुं सनातनं आदिदेश । उक्तं च शून्यसंहितायाम्- ``शिरी सनातन स्वामींकु चाहिण आज्ञा देले शचीसुत । अच्युतानन्दंकु तुमे उपदेश कर हे याइ तुरित ॥'' अपि च गुरुभक्तिगीतायां- ``नन्द किशोर वर्णमूले । रामकृष्ण ये गुरु देले ॥ सनातन ये दासंकु हिं । नन्दकिशोर देले कहि ॥ मुं अटे अच्युत ये देही । सनातन ये कृपा वहि ॥'' अपि च तत्र- ``दोलि ग्रामे तांक वास वैरागीर देही । एक शिष्य मुंहि तांक अन्य शिष्य नांहि ॥'' अत्र यः सनातनः सः न चैतन्यदेवस्य अन्तरंग अपितु भिन्न एवेति प्रतीयते । दीक्षां पश्चात् तस्य भावान्तरो जातः । स्वग्रामं प्राप्य सः एकस्मिन् वटमूले श्रीजगन्नाथं ध्यानकर्तुं चेष्टितवान् । कियत्कालानन्तरं ध्यानावस्थायां स्वप्ने एकः ज्योतिर्मयः पुरुषस्तत्रागत्य गुरुरुपेण तमुपदिष्टवान् । गुरुणा उपदिष्टः सन् आध्यात्मिकमार्गे मनोनिवेश । पश्चात् चैतन्यदेवात् मन्त्रं गृहीत्वा कौपीनं परिधाप्य गीतादिशास्त्रं प्रशिक्ष्य करतालं गृहीत्वा तीर्थाटनं कृतवान् । नानातीर्थं परिभ्रम्य वृन्दावने वर्षद्वयं उषित्वा पुनः चैतन्य सकाशात् नीलाचलं प्रस्थितः । तथाहि जन्मविवरणे- ``त्रिपुर ग्रामरे पटणा कुलरे पश्चिम वट मूलरे । अपूर्व वेश से धरि गुरुब्रह्म विजे कले मंगलरे ॥ पश्चिम वटर मूलरे वसिण स्वपन कथा पाञ्चिलि । से रूपकु ध्यान करिण मुंहि ये साक्षात प्राय मणिलि ॥ स्पूरिला ये पद से ज्ञानरे भेद गीता भागवत आदि । सिद्धान्त योगान्त सर्व विधिमत मन्त्र तन्त्र हिं इत्यादि ॥ मने मोर मिशि मनकु विध्वंसि हेतु पाटणारे वसि । हानिलाभ विकाकिणा लागिला मो सकल मिलिला आसि ॥ वाञ्चित फल तरुवर फलिला दिशिला ज्ञानर वाट । तेणु ग्राम स्थान मान मुं चिन्हिलि पाइलि तुमरि भेट ॥'' इति । अच्युतानन्दो महान् दार्शनिक आसीत् । न केवलं वेदादिशास्त्रेषु अपितु अस्मिन् संसारे यानि शास्त्राणि सन्ति तान्ति परमात्मतत्त्वं प्रतिपादयितुमसमर्थानि भवन्ति । तेषु परमात्मा अलभ्य इति तस्य बलिष्ठा युक्तिरासीत् । तन्मते ``चारिखानि'' ग्रन्थे- ``बेद होइला ये मो तहुं आग । वेदान्त कहे उपदेश भाग ॥ एमाने यहुं जाणि न पारिले । निरंजन वोलि नाम धैले ॥ वेद आदि होइ तहिंकि नांहि । तहिंकि आन पटान्तर कांहि ॥ आवर येतेक ग्रन्थ पढिवा । कवि कृत्य वोलि ताहा छाडिवा ॥ विद्या पढिवा धन लोभे सेठि । विद्यंहु भिन्ने ज्ञान वोलि येटि ॥'' अनुभवं विना गुरूपदेशः सारहीनः । गुरुः मार्गप्रदर्शकः । किन्तु शिष्यः स्वानुभवेन अग्रेसरणीयः । कर्मणा ज्ञानोदयः पुनः ज्ञानेन कर्मनाशः, इत्यत्र कर्म-ज्ञानयोः पारस्परिक-सम्बन्धः स्थिरीकृतः । अनयोः संपर्कः पुष्प-फलवत् स्वीकार्यः । तथाहि- ``फुलकु लागि फ्ल येन्हे बढे । फ्ल बढिले फुल झडि पडे ॥'' इति । मनः मनुष्यकृते सर्वश्रेष्ठं साधनम् । मनसः स्थिरीकरणं हि तस्य कृते अभ्युदयोपायः । उपनिषद् वचनानुसारं मन एव मनुष्याणां कारणं बन्ध-मोक्षयोः इति । अच्युतमतेन तु- ``तु मन तिनि जगतकु राजा । तोहो न आपिले देवे अपूजा ॥ तु यहुं तोते परते न याउ । जन्म मरण तेणु करि पाउ ॥ परकु थापि पर सिद्ध करु । मोह जले बुडि आपणे मरु ॥ रहि आतयात करु संसार । तो विना नांहि तिनिपुर ॥ असिद्ध रूप सिद्ध करि पारु । सिद्ध कु किम्पा सद्भावे मारु ॥ यावत चन्द्र दिवाकर थिव । तोहो रखिले देह किम्पा यिव ॥'' ( द्वितीय खानि-९-१४) इति । अच्युतानन्दः संसारस्य अनित्यता प्रमाणीकृता । सर्वे सांसारिक-बन्धवोऽपि अनित्याः । देह एव स्वस्य सखा इति तेन भणितम् । देहं विना न कोऽपि मुक्तिं प्राप्तुं शक्नोति । सुतरां देहस्य रक्षणं सर्वादौ कर्तव्यम् । उक्तं च- ``विद्या संपत्ति यौवन धन । देह थिले सिना थिव एमान ॥ सवु हजिले देह थिले पाइ । देह हजिले कि संसारु याइ ॥'' ( प्र०खा०-८५-८६) ``जन्म हिं एका मरण हिं एका । बन्धु बान्धव ए काहा सखा ॥ अर्थ लुवुधे कथा भावे संग । ये याजा करम ताहारि अंग ॥'' (द्वि०खा०-४३-४४) अपि च तत्र- ``काहा होइ नांहु देह निमन्ते । एते मान देह लेछु केमन्ते ॥ देह नाशके तु रहिवु कांहि । सबु होइअछु देहरे थाइ ॥ ए देह गले तु कांहिकि लेखा । देह जीवन ए तोहरि सखा ॥'' (द्वि०-३८) अच्युतानन्दः परमो वैष्णव आसीत् । वेदपाठ विरहितेभ्यः पञ्चसखिभ्यः तदानीं ब्राह्मणाः स्वीय असूयाभावं प्रदर्शयन्ति स्म । जातिभेदप्रथां विलोपयितुं तस्य चेष्टा अवारिता आसीत् । शास्त्रं शस्त्ररूपेण व्यवहृत्य सः ब्राह्मणानां कुचेष्टा खण्डितवान् । श्रीकृष्णसेवां स्वीकृत्य आत्मानं शुद्र इति मन्यमानं दाससंज्ञया अभिहितः । तथाहि चौरासी मन्त्रे- ``अच्युति दास मुं वैष्णव जाति । वैष्णव सेवारे थाइ मो मति ॥'' अपि च उदयकाहाणी ग्रन्थे- ``शुण रामचन्द्र गोप कुमर । सेवा आमर श्रीकृष्ण पयर ॥ तहुं पञ्चसखा शूद्र होइलु । ज्येष्ठ कनिष्ठ वारि न पारिलु ॥'' इति । साधनापीठे नेमाले तस्य देहावसानं भवतु इति तेन स्वयं प्रार्थितम् पटलसंहितायाः पंचमे पटले- ``सनातन धर्म स्थापि देह हजाइवि । नेमाल भूमिरे शून्य समाधि पाइवि ॥'' अपि च विचित्र यन्त्रे- ``चित्रोत्पला कूले नेमाल घर । समाधि वट मो तहिं वेहार ॥'' अष्टगुज्जर्यामपि- ``चित्रोत्पला नदी उत्तरे ग्राम लेम्बाल स्थान । सेठारे ए देह भजिव मागे एहि धिआन ॥'' इति नेमालस्थ साधनापीठे १०५ वयसि तस्य देहावसानमभूत् । अच्युतानन्दस्य रचनासम्भारो विशाल आसीत् । स्वकृत रचनावलीनां परिचयदातुं तेन अणाकार संहितायां भणितम्- ``छतिश संहिता अठस्तरि गीता वंशानु सप्तविंशरे । उपवंशानु द्वाविंश खण्ड घेनि भविष्य शत खण्डरे ॥ पद पदावली लक्षेक ये ग्रन्थ सवु श्रीकृष्ण महिमा । तो आगे कहिलु वरज कुमर ब्रह्म सारस्वत सीमा ॥'' इति । नैके ग्रन्थाः तेन विलिखिताः । संहितासु- शून्यसंहिता- छायासंहिता-ज्योतिसंहिता- अबाड संहिता-अनाहत संहिता- ज्ञान संहिता-हज संहिता-अणाकार संहिता-अकलित संहिता- वट संहिता-शब्द ब्रह्म संहिता वा चारिखानि-राज संहिता-ब्रह्म संहिता-एकाक्षर संहिता-भक्ति संहिता-पटल संहिता-मन्त्र संहिता-जन्म संहिता-क्षेत्र संहिता-पद्म संहिता-गोलक संहिता-बीज संहिका-जुमर संहिता- अकार संहिता-अमर संहिता एवं यन्त्र संहिताः अन्यतमाः । आसु संहितासु गुरुशिष्य परंपरा साधन प्रणाली च वर्णिता । तत्प्रोक्त ७८ गीतासु उपलब्धाः गुरुभक्ति गीता-गरुड गीता-कैवर्त्त गीता-जाति पाटक गीता-युगाब्द गीता-भक्तिलीला गीता-वरण चरित गीता-हरिलीला गीता-उपदेश चक्र गीता-ज्ञान प्रदीप गीता-हरितिलक गीता-बीजसार गीता-जन्मलीला गीता-विन्दुसार गीता-मण्डल गीता-मणिबन्ध गीता-मणिवरण गीता-युगान्त सागर गीता-शून्यगीता-इन्द्रगोविन्द गीता-तत्त्वसागर गीता-परमगुप्त गीता-एकाक्षरी गीता एवं परमज्ञान गीताः प्रमुखा अन्यतमा भवन्ति । वंशानुचरितेषु सप्तखण्ड विशिष्टं हरिवंशपुराणं उत्कलराज्यस्य प्रतिगृहेषु प्रसिद्धम् । शतमालिकासु संप्रति अवतार मालिका-कलियुग मालिका-आगत भविष्यत मालिका-दशपटल मालिकाः उपलब्धाः । रासग्रन्थेषु नित्यराहास-शून्यराहास-गुज्जरी राहास-ठुलशून्य राहास-महानित्य राहास-वृन्दा राहास- परम राहास- दूती राहास-राहास प्रेमपञ्चामृत-विष्णु राहास-अनन्तजल राहास-राधारास-नित्यरास एवं पद्मवन राहासाः भक्तिरसेन ओतःप्रोताः । बोलिरचनासु ज्ञानसागर बोलि-हेतुसागर बोलि-ज्ञानतत्त्वसार बोलि-अलंकार बोलि-पद्म बोलि-ब्रह्माण्डसागर बोलि-वणभोजि बोलि-कुसुमकेलि बोलि-आदि बोलि-घटसागर बोलि प्रमुखाः सन्ति । कोइलि ग्रन्थेषु ज्ञानोदय कोइलि-वाखर कोइलि- डिबिडिबि कोइलि च प्रसिद्धाः । अच्युतानन्दः लक्षाधिक पद-पदावलीनां निर्माणं कृतवान् । तेषु अष्ट गुज्जरी-नव गुज्जरी-वर्णटीका-कल्पटीका-गणभूत टीका-चन्द्रकल्प टीका-पद्मटीका-शिवकल्प-वैशाखकल्प-तुलसीकल्प-पद्मकल्प-कलिकल्प-दशपटल-षोडश पटल-चबिश पटल-आगतसार- छाया परचे-रसाम्बुज सिन्धु-निर्घण्ट-परार्द्ध- Oंकार बसाण-बारमास चबिश उपदेश-आठतत्त्व-विप्रचालक-अनन्तगोइ-वट वर्णना-श्रीसप्तांग सुधारण-श्रीहीन विधान भक्तियोग निर्णय-वारमासी गीत-निशि अवकाश-मन्त्र यन्त्र तन्त्रभेद-गुपत ग्रन्थ-ब्रह्मविद्या-अणाकार ब्रह्म यन्त्र-कलि काहाणी-षडचक्र विचार-चौराशि यन्त्र-द्वितीबोध विलास-लक्ष्मीधर विलास-शरण पञ्जर-घाटसधा-गोपालंक ओगाल- उदय काहाणी- ब्रह्मशांकोलि- अभेदकवच- भवनावर-अमर जुमर-सर्वार्थ चिन्तामणि एवं सप्ता भागवतादि असंख्यग्रन्थाः विद्यन्ते । उत्कलीय गीतिसाहित्यक्षेत्रे तस्य अवदानमतुलनीयम् । भजन-जणाण-ओगाल-वारमासी गीतानि तस्य आध्यात्मिकक्षेत्रे स्वकीयं महत्वपूर्णस्थानानि भजन्ते । तद्यथा- ``बाइ मन हो वसि अवना वना अबना बनिले अमिशा मिशिब अमापरे मपा हेव तो धन ।'' इत्यादि । अच्युतानन्दः श्रीजगन्नाथं शून्यपुरुष इति कथितवान् । शून्यपुरुषो नाम अणाकार ब्रह्म निर्गुणः । स नित्यकृष्णो वा गोलककृष्णः । पुरीधाम गोलकपुरो नित्यवैकुण्ठो वा । जगन्नाथः पुरुषोत्तमः शून्यपुरुषः । अत्र शून्यो नाम नाभावः किन्तु सक्रिय ज्योतिःस्वरूप एव । काया साधना- हठयोग- पिण्डब्रह्माण्ड तत्त्वेषु अच्युतानन्दः सिद्धहस्त आसीत् । शून्यपुरुष प्रसंगे तेन भणितम्- ``भला पचारिलु गुपत सन्धि । शून्यपुरुष शून्यपरे वन्दि । शुन्यपुरुष उदासरे रहे । शून्यपुरुष सबु माया भ्याये ॥ शून्यपुरुष दयालु अटै । शून्यपुरुष सर्व घटे रहि ॥ शून्यपुरुष कले नटघट । शून्यपुरुष जाणे छन्द कूट ॥ शून्यपुरुष शून्यरे मारै । मारि शून्य गति करै ॥ शून्यपुरुष अलगे रहिछि । शून्यपरे रहि लीला करुछि ॥'' इति । आध्यात्मिको गुरुः अच्युतानन्दो नमस्यः । भक्तिसाहित्ये तस्य योगदानमविस्मरणीयम् । अलं पल्लवितेन । सहायक ग्रन्थाः १-सन्थकवि अच्युतानन्द दास ओ शून्यसंहिता- मृत्युञ्जय नायकः २-अच्युतानन्द रचनावली- रत्नाकर चैनि ३-अच्युतानन्द दास- कुञ्जविहारी महान्तिः ४-अनादि संहिता -अच्युतानन्दः ५-अणाकार संहिता- अच्युतानन्दः ६-शब्दब्रह्म संहिता- अच्युतानन्दः ७-छयालिश पटल- अच्युतानन्दः ८-गोपालंक ओगाल- अच्युतानन्दः ९-प्रफेसर कृष्णचरण साहु रचना सम्भार १०-महापुरुष परिचय ओ बाणी- निमांइ चरण दासः ११-ओडिआ साहित्यर इतिहास- विनायक मिश्रः १२-ओडिशार धर्मधारारे पंचसखा परिकल्पना- नटवर सामन्तरायः १३-पञ्चसखा ओडिआ साहित्य- देवेन्द्र महान्तिः १४-सन्थ भक्ति साहित्य-चित्तरंजन दासः --- लेखकः - नन्दप्रदीप्तकुमारः Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : achyutAnandadAsaH
% File name             : achyutAnandadAsaH.itx
% itxtitle              : achyutAnandadAsaH (lekhaH)
% engtitle              : achyutAnandadAsaH
% Category              : misc, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : August 4, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org