श्रीसुदर्शनकवचम् ५
अस्य श्रीसुदर्शनकवचमहामन्त्रस्य अहिर्बुध्न्य ऋषिः ।
अनुष्टुप् छन्दः । सुदर्शनरूपी परमात्मा देवता ।
सहस्रारं इति बीजम् । सुदर्शनं इति शक्तिः ।
चक्रराडिति कीलकम् । मम सर्वरक्षार्थे जपे विनियोगः ।
ॐ आचक्राय स्वाहा - अङ्गुष्ठाभ्यां नमः । हृदयाय नमः ।
ॐ विचक्राय स्वाहा - तर्जनीभ्यां नमः । शिरसे स्वाहा ।
ॐ सुचक्राय स्वाहा - मध्यमाभ्यां नमः । शिखायै वषट् ।
ॐ धीचक्राय स्वाहा - अनामिकाभ्यां नमः । कवचाय हुम् ।
ॐ ज्वालाचक्राय स्वाहा - कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वौषट् ।
ॐ सुचक्राय स्वाहा - करतलकरपृष्ठाभ्यां नमः । अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्बधः ।
ध्यानम्-
शङ्खं शार्ङ्गं सुखेटं हलपरशुगदापाशमन्तर्दधाने
सव्ये वामेऽ थ चक्रेऽप्यसिमुसललसद्वज्रहस्तं त्रिशूलम् ।
ज्वालाकेशं च पाशं ज्वलदनलशिखा विद्युदृङ्गपडलस्थं
प्रत्यालीढं त्रिणेत्रं पुरगणमथनं भावये मन्त्रराजम् ॥
मूलमन्त्रं- ॐ श्रीं ह्रीं क्लीं सहस्रार हुं फट् स्वाहा ।
ॐ मस्तकं मे सहस्रारं पातु फालं सुदर्शनम् ।
भ्रूमध्ये चक्रराट् पातु नेत्रेऽग्न्यर्केन्दुलोचनः ॥ १॥
कर्णौ वेदस्तवः पातु घ्राणं पातु विभीषणः ।
महादेवः कपोलं मे चक्षू रुद्रो वरप्रदः ॥ २॥
दन्तान् पातु जगद्वन्द्यो रसनां मम सर्वदः ।
सर्वविद्यां नृपः पातु गिरं वागीश्वरोऽवतु ॥ ३॥
वीरसिंहो मुखं पातु चिबुकं भक्तवत्सलः ।
सर्वदा पृष्ठदेशे मे देवानामभयप्रदः ॥ ४॥
नाभिं षट्कोणगः पातु घण्टारावः कटिं तथा ।
ऊरू पातु महाशूरो जानुनी भीमविक्रमः ॥ ५॥
जघे पातु महावेगो गुल्फावदितिरञ्जनः ।
पातु पादतलद्वन्द्वं विश्वभारो निरन्तरम् ॥ ६॥
सुदर्शननृसिंहो मे शरीरं पातु सर्वदा ।
पातु सर्वाङ्गकान्तिं मे कल्पान्ताग्निसमप्रभः ॥ ७॥
मम सर्वाङ्गरोमाणि ज्वालाकेशस्तु रक्षतु ।
अन्तर्बहिश्च मे पातु विश्वात्मा सर्वतोमुखः ॥ ८॥
रक्षाहीनं च यत्स्थानं प्रचण्डस्तत्र रक्षतु ।
सर्वतो दिक्षु मे पातु ज्वालासाहस्रसंस्तुतम् ॥ ९॥
इति सौदर्शनं दिव्यं कवचं सर्वकामदम् ।
सर्वपापोपशमनं सर्वव्याधिनिवारणम् ॥ १०॥
सर्वशत्रुक्षयकरं सर्वमङ्गलदायकम् ।
त्रिसन्ध्यं जपतां नॄणां सर्वदा सर्वकामदम् ॥ ११॥
प्रातरुत्थाय यो भक्त्या पठेदेतत्सदा नरः ।
तस्य कार्येषु सर्वेषु विघ्नः कोऽपि न जायते ॥ १२॥
यक्षराक्षसवेतालपिशाचाश्च विनायकः ।
शाकिनी डाकिनी माला कालिका चण्डिकादयः ॥ १३
भूतप्रेतपिशाचाश्च येऽन्ये दुष्टग्रहा अपि ।
कवचस्य प्रभावेन दृष्टिमात्रेण तेऽखिलाः ॥ १४॥
पलायन्ते यथा नागाः पक्षिराजस्य दर्शनात् ।
अस्यायुतं पुरश्चर्या दशांशं तिलसर्पिषा ॥ १५॥
हवनं तत्समं चैव तर्पणं गन्धवारिणा ।
पुष्पाञ्जलिं दशांशेन मृष्टान्नैः सुघृतप्लुतैः ॥ १६॥
चतुर्विंशद्विजा भोज्यास्ततः कार्याणि साधयेत् ।
विन्यस्य जवनो धीरो युद्धार्थं योऽधिगच्छति ॥ १७॥
क्षणाज्जित्वाऽखिलान् शत्रून् विजयी भवति ध्रुवम् ।
मन्त्रिताम्बु त्रिवारं वै पिबेत्सप्तदिनावधि ॥ १८॥
व्याधयः प्रशमं यान्ति सकलाः कुक्षिसम्भवाः ।
मुखरोगाक्षिरोगाणां नाशनं परमं मतम् ॥ १९॥
भीतानामभिषेकाच्च महाभयनिवारणम् ।
सप्ताभिमन्त्रितानेन तुलसीमूलमूत्तिका ॥ २०॥
लिम्पेन्नश्यन्ति तद्रोगाः सप्त कृच्छ्रादयोऽखिलाः ।
ललाटे तिलकं नृणां मोहनं सर्ववश्यकृत् ॥ २१॥
परेषां मन्त्रतन्त्रादि नाशनं परमं मतम् ।
अग्निसर्पादिसर्वेषां विषाणां हरणं परम् ॥ २२॥
सौवर्णे राजते वापि पत्रे भूर्जादिकेऽपि वा ।
लिखित्वा पूजयेद्भक्त्या स श्रीमान्भवति धुवम् ॥ २३॥
बहुना किमिहोक्तेन यद्यद्वाञ्छति मानवः ।
सकलं प्राप्नुयादस्य कवचस्य प्रभावतः ॥ २४॥
इति सुदर्शनकवचं ४ समाप्तम् ।
Proofread by PSA Easwaran psaeaswaran at gmail.com