$1
श्रीदक्षिणशेषाचलेशश्रीनिवासभगवत्सुप्रभातम्
$1

श्रीदक्षिणशेषाचलेशश्रीनिवासभगवत्सुप्रभातम्

श्रीमते प्रसन्नवेङ्कटेशश्रीनिवासाय नमः । कौसल्यासुप्रजा राम पूर्वासन्ध्या प्रवर्तते । उत्तिष्ठनरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ १॥ उत्तिष्ठोत्तिष्ठगोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ २॥ उत्तिष्ठादिवराहत्वमुत्तिष्ठ कमलानिधे । कटाक्षैः करुणादिग्धैः स्वामिन् पालय विष्टपम् ॥ ३॥ कारुण्यपूर्णहृदये जगतां त्रयाणां मातस्सुसुन्दरतनो निगमाभिनुत्ये । पत्युर्हरेरुरसिनित्यविहारशीले श्रीश्रीनिवासदयितेतवसुप्रभातम् ॥ ४॥ तव सुप्रभातमरविन्ददृक्प्रिये भुजगाचलेशभुजमध्यमन्दिरे । सुरसुन्दरीभिरखिलाभिरादरात् कलितार्हणेऽस्तु कलिकल्मषापहे ॥ ५॥ दिव्यो भवत्प्रियतमः किल सूरिसङ्घो हंहो विकस्वरदयादिगुणं भवन्तम् । निर्वेष्टुमेति लघु दक्षिणशेषशैलं श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ ६॥ वाणीविहाररुचिरास्यचतुष्टयात्स्वात् निर्गच्छतो युगपदृङ्मुखवेदराशेः । वाक्यैर्विधित्सुरज एति सुमैस्तवार्चां श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ ७॥ सप्तस्वरीमधुरसामगिरां सुगानात् त्वत्प्रीणनाय स शिवः शिवया समेतः । आरुह्य नन्दिनमुपैति तवान्तिकन्द्राक् श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ ८॥ लक्ष्म्या त्वयाच किल लम्भितराज्यलक्ष्मी- र्दिव्यां स्रजं त्वदुरसः परिमण्डनार्हाम् । आदाय भक्तिभरितो मघवैति शच्या श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ ९॥ देव त्वदीयकरुणां बहुलामभीप्सन् वह्यं निजं समधिरुह्य सहाग्रजेन । धामोपयाति तव षड्वदनो रयेण श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ १०॥ देवा इमे निजसुधाशनताप्रसिद्धौ कूर्मत्वमन्थनसुसुन्दरमोहिनीत्वैः । नानोपकर्तुरिह ते नमनाय सज्जाः श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ ११॥ सौन्दर्यसान्द्रवपुषो नवयौवनाढ्या वासोविभूषणसुमैः परिभूषिताङ्गाः । देवस्त्रियस्तवसमीपमिमाः प्रपन्नाः श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ १२॥ आदित्यचन्द्रकुजचान्द्रि सुरार्यकाव्य- मन्दाश्च राहुरिति केतुरितिप्रतीतौ । एते ग्रहा नव पुरस्तव भान्ति भक्त्या श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ १३॥ स्वर्लोकरक्षक इति प्रथितो मरुत्त्वान् साह्याय यं श्रयति सैष गुरुः पुरस्ते । सन्तिष्ठते पिपठिषुर्दिवसस्य शुद्धिं श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ १४॥ स्वर्लोकवैणिकवरौ च मिथस्सखायौ शेषाद्रि मेत्य लघु नारदतुम्बुरू द्वौ । उद्गायतस्तवयशो मधुरं पुरस्तात् श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ १५॥ ऊरोस्तवोदयवती विदितोर्वशीयं नाट्येन तावकमनः परितोषणाय । हर्म्यं विशत्यहह तेसहिताप्सरोभिः श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ १६॥ मन्दाकिनीसलिलमध्यविगाह पूताः सप्तर्षयस्सुकृतिनः परिगृह्य पद्मान् । दिव्यां स्तवार्चनविधौ त्वरयोपयाताः श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ १७॥ नार्यो नराश्च सुजलाप्लवनेन शुद्धा- धौताम्बरास्सुतिलकाभरणा विनीताः । धामोपयन्ति तवपादनिषेवणाय श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ १८॥ वाराहतीर्थकलिताप्लवना महान्तो वैखानसाः सुहृदया लसदूर्ध्वपुण्ड्राः । नित्यार्चनाय तव मन्दिरमाशुयन्ति श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ १९॥ श्रीवैष्णवास्सुमनसस्सुधृतोर्ध्वपुण्ड्राः सान्ध्यं समाप्य विधिमास्थितवेदनादाः । सङ्घीभवन्ति भवदङ्घ्रिनिषेवणाय श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ २०॥ त्वत्कैङ्करीप्रवणवाक्तनुमानसोऽयं सीतादिराम इति शोभननामधेयः । प्रासादमेति शुभवस्तुकरैस्सह स्वैः श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ २१॥ वाराहपुष्करणिकाजलपूर्णकुम्भान् मूर्ध्नावहन्त उपयान्ति सबाद्यघोषाः । देव त्वदीय परिचार कृतिप्रवीणाः श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ २२॥ त्वद्विश्वरूपविधये च पुरः स्थिता ते वत्सेन साकमिह कामदुघासमा गौः । हेषारवं मधुरमातनुते तुरङ्गः श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ २३॥ क्रीडाशुकाः कनकपञ्जरगर्भभाजः त्वद्भुक्तशेषपय आद्युपयोगहृष्टाः । नामानि ते श्रुतिसुखानि पठन्ति रम्यं श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ २४॥ प्राच्यामुदेति सविता विकसन्तिपद्मा भृङ्गावलिर्ध्वनति है मधुपानमत्ता । वातस्सुशीतसुरभिः परिवाति मन्दं श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ २५॥ काले प्रबुध्य विहगास्तरुवासिनोऽमी आहार्यसङ्ग्रहकृते बहिरुत्पतन्तः । है कीशुकीशिति मनोहरमास्वनन्ति श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ २६॥ आश्लिष्य कान्तमभिहृष्यति चक्रवाकी घूका विशन्ति तरसा तरुकोटराणि । अन्धं तमो गिरिगुहामधिगम्य लीनं श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ २७॥ गोप्यश्च भाण्डदधिमन्थनसक्तहस्ताः कृष्णावतारचरितानि सुपावनानि । गायन्ति हन्त मधुरैर्निजकण्ठनादैः श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ २८॥ सर्वेश सर्वगुणसागर सर्वबन्धो सर्वागमाभिनुत सर्वतनोऽन्तरात्मन् । योगाधिरूढसनकादिविभाव्यमान श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ २९॥ हैमीनकच्छपवराहनृसिंहखर्व- रूप प्रवृद्ध भृगुनन्दन राम राम । श्रीकृष्ण कर्कमधिरोढुमनः परेश श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ ३०॥ श्रीश्रीनिवासभगवत्स्तुतिसुप्रभात- पद्यानि ये भुवि पठन्त्युषसीह मर्त्याः । तेषां प्रसन्नवदनो भगवान्प्रकामं दत्ते मनोरथफलान्यखिलानि सश्रीः ॥ ३१॥ सरलमिममुदारं राघवार्येण गीतं भुजगशिखरिवासी सुप्रभातस्तवं स्वम् । श्रुतिपथमुपनीय स्मेरवक्त्रः प्रहर्षात् पुलकितनिखिलाङ्गो राजते श्रीनिवासः ॥ ३२॥ इति सरलकविराघवाचार्यगीतं दक्षिणशेषाचलेशश्रीनिवासभगवत्सुप्रभातं सम्पूर्णम् । शुभमस्तु । श्रीः । Proofread by Aruna Narayanan
$1
% Text title            : Shri Dakshina Sheshachalesha Shrinivasa Bhagavat Suprabhatam
% File name             : dakShiNAsheShAchaleshashrInivAsabhagavatsuprabhAtam.itx
% itxtitle              : dakShiNasheShAchaleshashrInivAsabhagavatsuprabhAtam
% engtitle              : dakShiNasheShAchaleshashrInivAsabhagavatsuprabhAtam
% Category              : vishhnu, suprabhAta, venkateshwara
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Author                : saralakavi rAghavAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aruna Narayanan narayanan.aruna at gmail.com
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : for the Deity on the hill of Vaiyavur
% Indexextra            : (Tamil)
% Latest update         : March 20, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org