सूतप्रोक्तं शिवविश्वाधिक्यप्रमाणं तथा शिवद्वेषप्रकारवर्णनम्

सूतप्रोक्तं शिवविश्वाधिक्यप्रमाणं तथा शिवद्वेषप्रकारवर्णनम्

सूतः शिवं विश्वाधिकं साम्बमनन्यसदृशं प्रभुम् । योऽन्यथा मनुते मोहात्स भवेत्पुल्कसाधमः ॥ ३७॥ शिवद्वेषोऽपि विविधः स मयात्र निरूप्यते । श्रोतव्यं सावधानेन शुद्धनिश्चलचेतसा ॥ ३८॥ विष्ण्वादिदेवतासाम्यं यो वदेदीश्वरे शिवे । स दुर्भगः शिवद्वेष्टा द्वेषस्तत्साम्यधीः शिवे ॥ ३९॥ शिवेन देवदेवेन सदृशो नास्ति सर्वथा । तस्माद्विश्वाधिकत्वेन शिवः सर्वश्रुतिश्रुतः ॥ ४०॥ यतः श्रुतौ शिवान्यस्य विष्णोराराधनं द्विजाः । विश्वाधिकत्वं नैवोक्तं स्तोत्रार्थमपि सर्वथा ॥ ४१॥ अतो विश्वाधिको रुद्रः कथं विष्णुसमो भवेत् । रुद्रो विश्वाधिकः श्रेष्ठो देवोत्तम इति श्रुतेः ॥ ४२॥ विप्रा विश्वाधिको रुद्रो यदि विष्णुसमस्तदा । श्रुतिर्विश्वाधिको रुद्रो ह्यन्येषां बाधिता भवेत् ॥ ४३॥ विष्णोर्विश्वाधिकः सोमो जनितेति श्रुतिर्यतः । ततो विष्णुर्न सोमेन जनकैन समो ध्रुवम् ॥ ४४॥ पवनादिभिरप्येनं न सोमः सोम उच्यते । सोमोऽयं पवनादीनां जनितेति श्रुतिर्यतः ॥ ४५॥ शिवं विश्वाधिकत्वेन श्रुतिश्रुतमनामयम् । यो विष्णुसाम्यतां ब्रूयात्स देवेभ्यो बहिष्कृतः ॥ ४६॥ विश्वाधिकः शिवो नेति यो वदेन्मोहतोऽपि वा । स नूनं कर्मचण्डालो रौरवाय प्रकल्पते ॥ ४७॥ विश्वाधिके महारुद्रे यो विष्णुसमतां वदेत् । स नूनं कर्मचण्डालो रौरवाय प्रकल्पते ॥ ४८॥ विश्वाधिकं महारुद्रं योऽन्यथा वर्णयेद्भ्रमात् । स नूनं कर्मचण्डालः कुम्भीपाकाय कल्पते ॥ ४९॥ चक्राङ्कग्रावसाम्येन शिवलिङ्गस्य पूजनम् । शिवद्वेषः सुतद्वेषः सर्वथा निरयप्रदः ॥ ५०॥ शिवलिङ्गं शिवाकारं चक्राङ्कप्रस्तरैः सह । तं निवेश्य महापापैः संयुतो भवति ध्रुवम् ॥ ५१॥ अत्युत्तमस्थानसंस्थं शिवलिङ्गं शिवात्मकम् । पूजनीयं प्रयत्नेन त्यक्त्वान्याराधनं द्विजाः ॥ ५२॥ पतिव्रता यथा भक्तया पतिमात्रपरायणा । तथा द्विजैः शिवो ध्येयः शिवः पूज्यो न संशयः ॥ ५३॥ महेश्वरातिरिक्तं यो भ्रमेणाराधयेदपि । स चण्डाल इति ज्ञेयः सत्यं सत्यं न संशयः ॥ ५४॥ विभूतिधारणं त्यक्त्वा यः शिवं पूजयिष्यते । स दुर्भगः शिवद्वेष्टा स द्वेषो नरकप्रदः ॥ ५५॥ सर्वकर्मबहिर्भूतो भस्मधारणवर्जितः । भस्मना रहितं कर्म वृथा भवति सर्वथा ॥ ५६॥ विभूतिधारणं त्यक्त्वा कुर्वन्हेमतुलामपि । तत्फलं न समाप्नोति पतितोऽपि भविष्यति ॥ ५७॥ सन्ध्याशिवार्चनादीनि कर्माण्येतानि वस्तुतः । वैदिकानि ततस्तेषु कर्तव्यं भस्मधारणम् ॥ ५८॥ यथोपवीतरहितैः सन्ध्या न क्रियते द्विजैः ॥ तथा सन्ध्या (पूजा) न कर्तव्या विभूतिरहितैरपि ॥ ५९॥ गतोपवीतैः सन्ध्यायां कार्यः प्रतिनिधिः क्वचित् । विभूतिधारणेऽप्य(त्व)न्यो नास्ति प्रतिनिधिध्रुवम् ॥ ६०॥ विभूतिधारणाभावे सन्ध्यात्यागोऽपि वस्तुतः । द्विजो न प्रच्यवत्येव नाधिकारी यतस्तदा ॥ ६१॥ विभूतिधारणाभावे यदि सन्ध्यां करोति सः । प्रत्यवैत्येव येनासौ नाधिकारी तदा द्विजः ॥ ६२॥ यथाऽधीतांस्त्यजन् वेदान्प्रत्यवैति द्विजोत्तमः । प्रत्यवैति न सन्देहः सन्ध्याकृद्भस्मवर्जितः ॥ ६३॥ सन्ध्यायां नाधिकारोऽस्ति मूर्छितानां यथा तथा । विभूतिरहितानां च सन्ध्यायां नाधिकारिता ॥ ६४॥ सम्पादनीयं यत्नेन श्रौतभस्म सदा द्विजैः । स्मार्तं वा तदभावे तु लौकिकं वा समाहितैः ॥ ६५॥ यादृशं तादृशं वास्तु पवित्रं भस्म सम्मतम् । धारणीयं प्रयत्नेन द्विजैः सन्ध्यादिकर्मसु ॥ ६६॥ न संविशन्ति पापानि भस्मलिप्तं नरं सदा । कर्तव्यमतियत्नेन ब्राह्मणैर्भस्मधारणम् ॥ ६७॥ यत्कृतं भस्मलिप्तेन श्रीमहादेवपूजनम् । तत्सर्वाभीदं तस्मात्कर्तव्यं भस्मधारणम् ॥ ६८॥ शिवस्यार्धनमस्कारः शिवद्वेष इति श्रुतः । स पुण्यनाशकस्तस्मात्तत्कर्ता पापकृद्भवेत् ॥ ६९॥ साष्टाङ्गं दण्डवद्भूमौ प्रणामो भक्तिपूर्वकम् । निरन्तरं द्विजैः कार्यः शाम्भवेभ्यस्तथैव हि ॥ ७०॥ शिवस्यार्धेनमस्कारो महादोषावहो भुवि । स पुण्यनाशकस्तस्मात्तत्कर्ता पापकृद्भवेत् ॥ ७१॥ साष्टाङ्गं दण्डवद्भूमौ प्रणामो भक्तिपूर्वकः । कर्तव्यः श्रीमहेशाय देवाधीशाय सर्वदा ॥ ७२॥ महेश्वरजनद्वेषः शिवद्वेष इति श्रुतः । स पुण्यनाशकस्तस्मात्तत्कर्ता पापकृद्भवेत् ॥ ७३॥ स द्वेषः पापफलदः पापकर्मप्रवर्धकः । शिवभक्ताः पूजनीया स्वशक्त्या साधुसम्मताः ॥ ७४॥ हेमरौप्यान्नवस्त्राद्यैः प्रीणनीयाः प्रयत्नतः । शाम्भवान्मधुरालापैः प्रणामाद्यैश्च सन्ततम् ॥ ७५॥ यः प्रणीयेत्स गौरीशं प्रीणयत्येव वस्तुतः । या कृता शाम्भवे पूजा सा शम्भोरेव वस्तुतः ॥ ७६॥ साक्षादभ्यर्चितः शम्भुः शाम्भवस्यैव पूजया । यतः शम्भोः प्रियतमाः शाम्भवा भस्मभूषणाः ॥ ७७॥ ततः कर्तव्यमनिशं शाम्भवाभ्यर्चनं मुदा । सदाशिवकथाभिन्नकथाश्रवणवाचने ॥ ७८॥ शिवद्वेषो दुरन्तोऽसावघोरनरकप्रदः । श्रोतव्याः सर्वदाऽनेन सदाशिवकथाः शुभाः ॥ ७९॥ ततस्ता मोक्षदाः श्रौताः सर्वपातकनाशकाः । कीर्तनीयो महादेवो जिह्वया पुण्यपूतया ॥ ८०॥ महेशकीर्तनं यस्मान्महापातकनाशकम् । भुक्तिमुक्तिप्रदं पुण्यं शिवश्रवणकीर्तनम् ॥ ८१॥ ततस्तैर्यत्नतः कार्यं ब्राह्मणाद्यैर्मुमुक्षुभिः । शिवेतरसुरध्यानं शिवद्वेष इति श्रुतिः ॥ ८२॥ स द्वेषः सर्वपुण्यान्नि विनाशयति सर्वथा । एतत्प्रभृतयो द्वेषा बहवः पापहेतवः ॥ ८३॥ तस्मादेतादृशैः पापैः पच्यन्ते नरके जनाः । तस्मादेतादृशैर्दोषैविमुक्ता ये भवादृशाः ॥ ८४॥ ॥ इति शिवरहस्यान्तर्गते सूतप्रोक्तं शिवविश्वाधिक्यप्रमाणं तथा शिवद्वेषप्रकारवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १३ । ३७-८४॥ - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 13 . 37-84 .. Notes: Sūta सूत elucidates the Supremacy of Śiva शिव and enumerates the types of Śivadveṣa शिवद्वेष. Encoded and proofread by Ruma Dewan
% Text title            : Sutaproktam Shivavishvadhikyapramanam Tatha Shivadveshaprakaravarnanam
% File name             : shivadveShaprakAravarNanam.itx
% itxtitle              : shivadveShaprakAravarNanaM athavA sUtaproktaM shivavishvAdhikyapramANaM (shivarahasyAntargatam)
% engtitle              : shivadveShaprakAravarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 13 | 37-84||
% Indexextra            : (Scan)
% Latest update         : April 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org