अत्रिकृता शिवचरणवन्दना
पावितोऽस्मि महादेव प्रसन्नोऽसि यतो मम ।
इतोऽप्यभीष्टमन्यन्मे किमस्ति करुणानिधे ॥ ८५॥
यद्विष्णुनेत्रभ्रमरालीढं ते पदपङ्कजम् ।
मया दृष्टं महादेव किमभीष्टमतः परम् ॥ ८६॥
यत्सिद्धहृत्पङ्कजगं तव पादाब्जमुत्तमम् ।
मया दृष्टं महादेव किमभीष्टमतः परम् ॥ ८७॥
यद्ध्यातं योगिवर्यस्ते पादमद्ममभीष्टदम् ।
मया दृष्टं महादेव किमभीष्टमतः परम् ॥ ८८॥
विष्णुनेत्रार्चितं यत्ते पदद्वन्द्वमनुत्तमम् ।
मया दृष्टं महादेव किमभीष्टमतः परम् ॥ ८९॥
यत्ते श्रुतिशिरोरत्नं चरणद्वन्द्वमुत्तमम् ।
मया दृष्टं महादेव किमभीष्टमतः परम् ॥ ९०॥
यन्मौनिमानससरोहंसभूतं पदाम्बुजम् ।
मया दृष्टं महादेव किमभीष्टमतः परम् ॥ ९१॥
यदनायासेन मोक्षाय कल्पते पदपङ्कजम् ।
तत्ते दृष्टं महादेव किमभीष्टमतः परम् ॥ ९२॥
पूर्णा मनोरथाः सर्वे यण्पदद्वन्द्वन्दर्शनात् ।
तत्ते दृष्टं महादेवं किम्मभीष्टमतः परम् ॥ ९३॥
धन्यं मम कुलं जातं यत्पदद्वन्द्वदर्शनात् ।
कृतार्थोऽस्मि कृतार्थोऽस्मि महादेव कृपानिधे ॥ ९४॥
मच्चित्तभ्रमरो नित्यमस्मिंस्त्वत्पदपङ्कजे ।
यथा तिष्ठति देवेश तथा कुरु महेश्वर ॥ ९५॥
अस्य देहस्यावसाने मोक्षपात्रं कुरुष्व माम् ।
न त्वदन्यो मोक्षहेतुरिति वेदा वदन्ति यत् ॥ ९६॥
॥ इति शिवरहस्यान्तर्गते अत्रिकृता शिवचरणवन्दना सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १४ । ८५-९६॥
- .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 14 . 85-96 ..
Notes:
Ṛṣi Atri ऋषि अत्रि expresses the gratification that he is experiencing at having witnessed the Presence of Śiva शिव and pays obeisance to His Feet - Caraṇadvandva चरणद्वन्द्व Ṛṣi Atri ऋषि अत्रि then beseeches Śiva शिव to bestow upon him the Liberation i.e. Mokṣa मोक्ष when he leaves his mortal coil.
Encoded and proofread by Ruma Dewan