कण्वप्रति कश्यपप्रोक्तं शिवार्चनोपदेशम्

कण्वप्रति कश्यपप्रोक्तं शिवार्चनोपदेशम्

कण्व उवाच - संसारदावखिन्नानां मर्त्यानामकृतात्मनाम् । घोरसंसारविच्छेदः कथं भवति सत्वरम् ॥ १०९॥ किमर्चनीयं किं ध्येयं कि वा सर्वार्थदं महः । किमाराध्यं किमाशास्यं तद्वदस्व महामुने ॥ ११०॥ काश्यप उवाच - शिवाभिधं महः सेव्यं सर्ववेदान्तसम्मतम् । तत्सेवयैव सर्वेषां मुक्तिर्भवति शाश्वती ॥ १११॥ सच्चिदानन्दमद्वैतं यन्महः शिवसंज्ञितम् । तन्महः सततं सेव्यमन्यत्त्यक्त्वाखिलं मुने ॥ ११२॥ तुरीयमेकं विमलं शिवं मत्वा यथार्थतः । ये भवन्ति शिवं नित्यं न ते संसारभागिनः ॥ ११३॥ ये मायातीतमद्वैतं शिवमेव भजन्ति ते । कदापि जननीगर्भं न विशन्त्येव सर्वथा ॥ ११४॥ संसारदन्दशूकेन सन्दष्टा ये मुहुर्मुहुः । ते तद्विषाद्विमुच्यन्ते शिवसेवौषधाशनाः ॥ ११५॥ संसारसागरोद्धारा शिवसेवारतिः शुभा । ततः सर्वात्मना नित्यं कर्तव्यं शिवसेवनम् ॥ ११६॥ संसारसागरे घोरे ते मज्जन्ति मुहुर्मुहुः । ये मुहुर्न भजन्तीशं शिवं संसारतारकम् ॥ ११७॥ अनन्यशरणा नित्यं शिवमव्यभिचारतः । ये भजन्त्यन्वहं भक्त्या ते यान्ति शिवमद्वयम् ॥ ११८॥ बहुपुण्यफलैः कण्व शिवे भक्तिः प्रजायते । साप्यनन्ततपोधर्मैर्भवत्यव्यभिचारिणी ॥ ११९॥ येषां चेतस्तपःपूतं तेषामेव महात्मनाम् । जायते गिरिजाकान्ते भक्तिरव्यभिचारिणी ॥ १२०॥ या भक्तिः श्रीमहादेवे भवत्यव्यभिचारिणी । सैव मोक्षप्रदेत्याहुर्वेदाः सर्वेऽपि सर्वदा ॥ १२१॥ ब्रह्मविष्ण्वादिदेवानामधिपं गिरिजाधिपम् । भजन्ति धीराः सततं निष्कलं निर्गुणं शिवम् ॥ १२२॥ रसना यस्य सततं शिवनामरसैषिणी । स धन्यः स कृतार्थश्च तीर्णः संसारसागरात् ॥ १२३॥ संसारपाशसम्बद्धस्तावद्भवति मानवः । न यावद्भजति प्रीत्या देवदेवं महेश्वरम् ॥ १२४॥ देवोत्तममनाद्यन्तं निरवद्यं महेश्वरम् । भजन्ति येऽन्वहं प्रीत्या ते धन्या इति मन्महे ॥ १२५॥ शिवं प्रयान्त्ययत्नेन सर्वेऽपि शिवपूजया । अतो नानाविधोपायैः कर्तव्यं शिवपूजनम् ॥ १२६॥ सर्वज्ञः श्रीमहादेवः स सर्वव्यापकोऽपि सन् । स्वभक्तानुग्रहायात्र लिङ्गाकारेण तिष्ठति ॥ १२७॥ विभूतिराशयो यत्र यत्र बिल्ववनान्यपि । यत्र शैवाः शिवपरास्तत्र सन्निहितः शिवः ॥ १२८॥ यत्र रुद्राक्षतरवो यत्र रुद्राक्षभूषणाः । यत्र लिङ्गानि शैवानि तत्र सन्निहितः शिवः ॥ १२९॥ यत्र पञ्चाक्षरासक्तो यत्र श्रीरुद्रपूजकाः । यत्र पाशुपताचारास्तत्र सन्निहितः शिवः ॥ १३०॥ विभूतिराशयः सन्ति पश्यात्र शतशो मुने । कोटिशः सन्ति पश्यात्र नवबिल्वदलान्यपि ॥ १३१॥ रुद्राक्षवृक्षान्पश्यात्र पक्वरुद्राक्षसंयुतान् । कोटिशः सन्ति रुद्राक्षा महारुद्रप्रिया मुने ॥ १३२॥ रुद्राक्षदर्शनेनापि नश्यत्यघकुलं क्षणात् । पश्य पश्यात्र रुद्राक्षान् राशीभूताननेकधा ॥ १३३॥ अत्र नानामुखाः सन्ति रुद्राक्षाः शिवसम्मताः । रुद्राक्षमालिकां कृत्वा कुरु रुद्राक्षधारणम् ॥ १३४॥ मुखं मुखेन संयोज्य कुरु रुद्राक्षमालिकाम् । कण्ठकर्णादिदेशेषु बहुरुद्राक्षमालिकाः ॥ १३५॥ सहस्रमात्रं रुद्राक्षा यस्याङ्गे सन्ति सर्वदा । स सर्वदुःखनिर्मुक्तः प्रयाति शिवसन्निधिम् ॥ १३६॥ एतानेकादशमुखान् रुद्राक्षान्पश्य कोटिशः । अनर्घ्याननघान्पुण्यान्धारयस्व यथेच्छया ॥ १३७॥ रुद्राक्षधारणं कृत्वा भस्मधारणपूर्वकम् । कृतानन्तमहापापोऽप्यनायासेन मुच्यते ॥ १३८॥ मुने केवलभस्माङ्गैः कार्यं रुद्राक्षधारणम् । तेषामेवाधिकारोऽस्ति पुण्ये रुद्राक्षधारणे ॥ १३९॥ वेदस्याध्ययनं कार्यमुपनीतैर्यथा तथा । रुद्राक्षधारणं कार्यं भस्मोद्धूलनपूर्वकम् ॥ १४०॥ यः शिवं पूजयेद्भक्तया स मोक्षमधिगच्छति । भूतिरुद्राक्षपूताङ्गैः शिवैकपरदैवतैः ॥ १४१॥ पूजितः श्रीमहादेवस्तेभ्यो मोक्षं प्रयच्छति । भुक्तिमुक्तिप्रदं मत्वा शिवं शैवाः समाहिताः ॥ १४२॥ पूजयन्त्यतियत्नेन नित्यमव्यभिचारतः । न जानीमः शितादन्यं न जानीम इतीश्वरम् ॥ १४३॥ पूजयन्त्यन्वहं भक्तया संसारच्छेदकारणम् । संसारतरुमूलानि महेशार्चनवह्निना ॥ १४४॥ सद्यो भवन्ति दग्धानि निःशेषं प्रबलान्यपि । प्ररूढमूलसम्बद्ध महासंसारपादपम् ॥ १४५॥ शैवाः पदनखाग्रेण छित्वा यान्ति परं शिवम् । अतः शिवपरो भूत्वा भस्मरुद्राक्षभूषितः ॥ १४६॥ पूजयस्व महादेवं पूजयस्वोत्तमं शिवम् । इदं सिद्धिप्रदं क्षेत्रं सिद्धिलिङ्गमिदं मुने ॥ १४७॥ अत्र संसारशान्त्यर्थं पूजयस्व महेश्वरम् । शिवाराधनवृष्ट्यैव चित्तगह्वरदाहकः ॥ १४८॥ शान्तो भवत्युज्ज्वलोऽपि संसारवनपावकः । पुरा संसारशान्त्यर्थं बहवोऽत्र मुनीश्वराः ॥ १४९॥ महेशाराधनं कृत्वा मुक्ताः संसारबन्धनात् । विना शिवार्चनं कण्व संसारो न विनश्यति ॥ १५०॥ अतः संसारशान्त्यर्थं कुरुष्व शिवपूजनम् । १५१.१। ॥ इति शिवरहस्यान्तर्गते कण्वप्रति कश्यपप्रोक्तं शिवार्चनोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १३ । १०९-१५१।१॥ - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 13 . 109-151.1 .. Notes: Upon being queried by Ṛṣi Kaṇva ऋषि कण्व about who is to be worshipped and meditated upon, in order to find relief from the fiery heat of this saṁsāra संसार; Ṛṣi Kaśyapa ऋषि कश्यप delivers the Upadeśa उपदेश that Worship of Śiva शिव is the only means to be liberated from the bondage of saṁsāra संसार. He indicates about worshipping the Siddhiliṅga सिद्धिलिङ्ग Encoded and proofread by Ruma Dewan
% Text title            : Kanvaprati Kashyapaproktam Shivarchanopadesham
% File name             : shivArchanopadeshamkashyapa.itx
% itxtitle              : shivArchanopadesham kashyapaproktaM (shivarahasyAntargatam)
% engtitle              : shivArchanopadesham kashyapaproktaM
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 13 | 109-151.1||
% Indexextra            : (Scan)
% Latest update         : April 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org