शिवप्रोक्तं कालहस्तीश्वरमहिमवर्णनम्

शिवप्रोक्तं कालहस्तीश्वरमहिमवर्णनम्

- शिवपार्तवतीसंवादे - पश्चिमाभिमुखं लिङ्गं कालहस्तीश्वरं मुदा । स्मृत्वापि सर्वपापेभ्यो मुक्तो भवति सर्वथा ॥ ८५॥ पश्चिमाभिमुखं लिङ्गं शेषाकारमनुत्तमम् । बिल्वपत्रैः समभ्यर्च्य प्रयाति मम सन्निधिम् ॥ ८६॥ न दृष्टं येन तल्लिङ्गं तस्य जन्म निरर्थकम् । नार्चितं येन तल्लिङ्गं जीवन्नपि मृतो हि सः ॥ ८७॥ द्रष्टव्योऽतिप्रयत्नेन कालहस्तीश्वरो मुदा । यष्टव्यो बिल्वपत्राद्यैः संसारभयनाशकः ॥ ८८॥ श्रीमद्दक्षिणकैलासे सर्वे ब्रह्मादयः सुराः । तिष्ठन्ति देवदेवेशं मामभ्यर्यान्वहं मुदा ॥ ८९॥ नित्यं श्रीकालहस्तीशं योऽनुसेवितुमिच्छति । स मदीयो गणो ज्ञेयो मम प्रियकरश्च सः ॥ ९०॥ प्राणविश्लेषसमये कालहस्तीश्वरेति माम् । यः स्मरिष्यति भाग्येन तस्मै मोक्षं ददाम्यहम् ॥ ९१॥ यं यं कामयते कामं प्राणविश्लेषणक्षणे । तस्मिन् क्षेत्रवरे देवि तं तं कामं स विन्दति ॥ ९२॥ तन्मोक्षदं कामदं च तत्तु क्षेत्रमनुत्तमम् । अत एव हि तत्क्षेत्रं सेवनीयं प्रयत्नतः ॥ ९३॥ पश्चिमाभिमुखं लिङ्गमिदमत्यन्तदुर्लभम् । एतस्य दर्शनं नैव विना बहुतपस्यया ॥ १२२॥ कालहस्तीश्वरं लिङ्गं पश्चिमाभिमुखं परम् । स्वयं यत्नेन महताभ्यर्चनीयं नरैः सदा ॥ १२३॥ सर्वेषां मुक्तिदानार्थमाविर्भूतोऽत्र शङ्करः । कालहस्तीश्वरं लिङ्गं बिल्वपत्रैर्जलाप्लुतैः ॥ १२४॥ यः पूजयति सद्भक्त्या नं तस्य नरकाद्भयम् । शाङ्करेभ्योऽत्र दुग्धान्नं शर्कराघृतसंयुतम् ॥ १२५॥ देयमत्यन्तयत्नेन शिवप्रीत्यर्थमादरात् । यत्र कुत्रापि यत्नेन भोजितेऽपि शिवार्चके ॥ १२६॥ तत्रापि शङ्करः प्रीतो भवत्येव न संशयः । यद्यत्र शाङ्करो भक्त्या (पू)भोज्यते शङ्करार्चकः ॥ १२७॥ तदात्वत्यन्तसन्तुष्टो भवेत्साम्बः सदाशिवः । अत्राल्पमपि चेज्जप्तं तदानन्त्याय कल्पते ॥ १२८॥ भूरिपुण्यप्रभावेण प्राप्यते क्षेत्रमीदृशम् । अस्माभिरतियत्नेन स्थातव्यमिह शाङ्करैः ॥ १२९॥ ॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं कालहस्तीश्वरमहिमवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १९ । ८५-९३, १२२-१२९॥ - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 19 . 85-93, 122-129 .. Notes: Śiva शिव, having narrated to Pārvatī पार्वती, the story of the past lives of The Elephant (Hasti हस्ति) and The Serpent (Kāla काल), who worshipped Him at the West-facing Śivaliṅgaपश्चिमाभिमुखं शिवलिङ्गम्, describes the merits of remembering, visiting and worshiping at the Kālahastīśvara kṣetra कालहस्तीश्वर क्षेत्र. Encoded and proofread by Ruma Dewan
% Text title            : Shivaproktam Kalahastishvaramahimavarnanam
% File name             : kAlahastIshvaramahimavarNanamshivaproktaM.itx
% itxtitle              : kAlahastIshvaramahimavarNanam shivaproktaM (shivarahasyAntargatam)
% engtitle              : kAlahastIshvaramahimavarNanam shivaproktaM
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 19 | 85-93, 122-129||
% Indexextra            : (Scan)
% Latest update         : April 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org