उद्धवगीता
श्रीराधाकृष्णाभ्यां नमः ।
श्रीमद्भागवतपुराणम् ।
एकादशः स्कन्धः । उद्धव गीता ।
अथ प्रथमोऽध्यायः ।
श्रीबादरायणिः उवाच ।
कृत्वा दैत्यवधं कृष्णः सरमः यदुभिः वृतः ।
भुवः अवतारवत् भारं जविष्ठन् जनयन् कलिम् ॥ १॥
ये कोपिताः सुबहु पाण्डुसुताः सपत्नैः
दुर्द्यूतहेलनकचग्रहण आदिभिः तान् ।
कृत्वा निमित्तम् इतर इतरतः समेतान्
हत्वा नृपान् निरहरत् क्षितिभारम् ईशः ॥ २॥
भूभारराजपृतना यदुभिः निरस्य
गुप्तैः स्वबाहुभिः अचिन्तयत् अप्रमेयः ।
मन्ये अवनेः ननु गतः अपि अगतं हि भारम्
यत् यादवं कुलम् अहो हि अविषह्यम् आस्ते ॥ ३॥
न एव अन्यतः परिभवः अस्य भवेत् कथञ्चित्
मत् संश्रयस्य विभव उन्नहन् अस्य नित्यम् ।
अन्तःकलिम् यदुकुलस्य विध्हाय वेणुः
तम्बस्य वह्निम् इव शान्तिम् उपैमि धाम ॥ ४॥
एवं व्यवसितः राजन् सत्यसङ्कल्पः ईश्वरः ।
शापव्याजेन विप्राणां सञ्जह्वे स्वकुलं विभुः ॥ ५॥
स्वमूर्त्या लोकलावण्यनिर्मुक्त्या लोचनं नृणाम् ।
गीर्भिः ताः स्मरतां चित्तं पदैः तान् ईक्षतां क्रिया ॥ ६॥
आच्छिद्य कीर्तिं सुश्लोकां वितत्य हि अञ्जसा नु कौ ।
तमः अनया तरिष्यन्ति इति अगात् स्वं पदम् ईश्वरः ॥ ७॥
राजा उवाच ।
ब्रह्मण्यानां वदान्यानां नित्यं वृद्धौपसेविनाम् ।
विप्रशापः कथम् अभूत् वृष्णीनां कृष्णचेतसाम् ॥ ८॥
यत् निमित्तः सः वै शापः यादृशः द्विजसत्तम ।
कथम् एकात्मनां भेदः एतत् सर्वं वदस्व मे ॥ ९॥
श्रीशुकः उवाच ।
बिभ्रत् वपुः सकलसुन्दरसंनिवेशम्
कर्माचरन् भुवि सुमङ्गलम् आप्तकामः ।
आस्थाय धाम रममाणः उदारकीर्तिः
संहर्तुम् ऐच्छत कुलं स्थितकृत्यशेषः ॥ १०॥
कर्माणि पुण्यनिवहानि सुमङ्गलानि
गायत् जगत् कलिमलापहराणि कृत्वा ।
काल आत्मना निवसता यदुदेवगेहे
पिण्डारकं समगमन् मुनयः निसृष्टाः ॥ ११॥
विश्वामित्रः असितः कण्वः दुर्वासाः भृगुः अङ्गिराः ।
कश्यपः वामदेवः अत्रिः वसिष्ठः नारद आदयः ॥ १२॥
क्रीडन्तः तान् उपव्रज्य कुमाराः यदुनन्दनाः ।
उपसङ्गृह्य पप्रच्छुः अविनीता विनीतवत् ॥ १३॥
ते वेषयित्वा स्त्रीवेषैः साम्बं जाम्बवतीसुतम् ।
एषा पृच्छति वः विप्राः अन्तर्वत् न्यसित ईक्षणा ॥ १४॥
प्रष्टुं विलज्जति साक्षात् प्रब्रूत अमोघदर्शनाः ।
प्रसोष्यन्ति पुत्रकामा किंस्वित् सञ्जनयिष्यति ॥ १५॥
एवं प्रलब्ध्वा मुनयः तान् ऊचुः कुपिता नृप ।
जनयिष्यति वः मन्दाः मुसलं कुलनाशनम् ॥ १६॥
तत् शृत्वा ते अतिसन्त्रस्ताः विमुच्य सहसोदरम् ।
साम्बस्य ददृशुः तस्मिन् मुसलं खलु अयस्मयम् ॥ १७॥
किं कृतं मन्दभाग्यैः किं वदिष्यन्ति नः जनाः ।
इति विह्वलिताः गेहान् आदाय मुसलं ययुः ॥ १८॥
तत् च उपनीय सदसि परिम्लानमुखश्रियः ।
राज्ञः आवेदयान् चक्रुः सर्वयादवसंनिधौ ॥ १९॥
श्रुत्वा अमोघं विप्रशापं दृष्ट्वा च मुसलं नृप ।
विस्मिताः भयसन्त्रस्ताः बभूवुः द्वारकौकसः ॥ २०॥
तत् चूर्णयित्वा मुसलं यदुराजः सः आहुकः ।
समुद्रसलिले प्रास्यत् लोहं च अस्य अवशेषितम् ॥ २१॥
कश्चित् मत्स्यः अग्रसीत् लोहं चूर्णानि तरलैः ततः ।
उह्यमानानि वेलायां लग्नानि आसन् किल ऐरिकाः ॥ २२॥
मत्स्यः गृहीतः मत्स्यघ्नैः जालेन अन्यैः सह अर्णवे ।
तस्य उदरगतं लोहं सः शल्ये लुब्धकः अकरोत् ॥ २३॥
भगवान् ज्ञातसर्वार्थः ईश्वरः अपि तदन्यथा ।
कर्तुं न ऐच्छत् विप्रशापं कालरूपी अन्वमोदत ॥ २४॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे विप्रशापो नाम प्रथमोऽध्यायः ॥ १॥
अथ द्वितीयोऽध्यायः ।
श्रीशुकः उवाच ।
गोविन्दभुजगुप्तायां द्वारवत्यां कुरूद्वह ।
अवात्सीत् नारदः अभीक्ष्णं कृष्णौपासनलालसः ॥ १॥
को नु राजन् इन्द्रियवान् मुकुन्दचरणाम्बुजम् ।
न भजेत् सर्वतः मृत्युः उपास्यम् अमरौत्तमैः ॥ २॥
तम् एकदा देवर्षिं वसुदेवः गृह आगतम् ।
अर्चितं सुखम् आसीनम् अभिवाद्य इदम् अब्रवीत् ॥ ३॥
वसुदेवः उवाच ।
भगवन् भवतः यात्रा स्वस्तये सर्वदेहिनाम् ।
कृपणानां यथा पित्रोः उत्तमश्लोकवर्त्मनाम् ॥ ४॥
भूतानां देवचरितं दुःखाय च सुखाय च ।
सुखाय एव हि साधूनां त्वादृशाम् अच्युत आत्मनाम् ॥ ५॥
भजन्ति ये यथा देवान् देवाः अपि तथा एव तान् ।
छाया इव कर्मसचिवाः साधवः दीनवत्सलाः ॥ ६॥
ब्रह्मन् तथा अपि पृच्छामः धर्मान् भागवतान् तव ।
यान् श्रुत्वा श्रद्धया मर्त्यः मुच्यते सर्वतः भयात् ॥ ७॥
अहं किल पुरा अनन्तं प्रजार्थः भुवि मुक्तिदम् ।
अपूजयं न मोक्षाय मोहितः देवमायया ॥ ८॥
यया विचित्रव्यसनात् भवद्भिः विश्वतः भयात् ।
मुच्येम हि अञ्जसा एव अद्धा तथा नः शाधि सुव्रत ॥ ९॥
श्रीशुकः उवाच ।
राजन् एवं कृतप्रश्नः वसुदेवेन धीमता ।
प्रीतः तम् आह देवर्षिः हरेः संस्मारितः गुणैः ॥ १०॥
नारदः उवाच ।
सम्यक् एतत् व्यवसितं भवता सात्वतर्षभ ।
यत् पृच्छसे भागवतान् धर्मान् त्वं विश्वभावनान् ॥
११॥
श्रुतः अनुपठितः ध्यातः आदृतः वा अनुमोदितः ।
सद्यः पुनाति सद्धर्मः देवविश्वद्रुहः अपि ॥ १२॥
त्वया परमकल्याणः पुण्यश्रवणकीर्तनः ।
स्मारितः भगवान् अद्य देवः नारायणः मम ॥ १३॥
अत्र अपि उदाहरन्ति इमम् इतिहासं पुरातनम् ।
आर्षभाणां च संवादं विदेहस्य महात्मनः ॥ १४॥
प्रियव्रतः नाम सुतः मनोः स्वायम्भुवस्य यः ।
तस्य अग्नीध्रः ततः नाभिः ऋषभः तत् सुतः स्मृतः ॥ १५॥
तम् आहुः वासुदेवांशं मोक्षधर्मविवक्षया ।
अवतीर्णं सुतशतं तस्य आसीत् वेदपारगम् ॥ १६॥
तेषां वै भरतः ज्येष्ठः नारायणपरायणः ।
विख्यातं वर्षम् एतत् यत् नाम्ना भारतम् अद्भुतम् ॥ १७॥
सः भुक्तभोगां त्यक्त्वा इमां निर्गतः तपसा हरिम् ।
उपासीनः तत् पदवीं लेभे वै जन्मभिः त्रिभिः ॥ १८॥
तेषां नव नवद्वीपपतयः अस्य समन्ततः ।
कर्मतन्त्रप्रणेतारः एकाशीतिः द्विजातयः ॥ १९॥
नव अभवन् महाभागाः मुनयः हि अर्थशंसिनः ।
श्रमणाः वातः अशनाः आत्मविद्याविशारदाः ॥ २०॥
कविः हरिः अन्तरिक्षः प्रबुद्धः पिप्पलायनः ।
आविर्होत्रः अथ द्रुमिलः चमसः करभाजनः ॥ २१॥
एते वै भगवद्रूपं विश्वं सदसद् आत्मकम् ।
आत्मनः अव्यतिरेकेण पश्यन्तः व्यचरत् महीम् ॥ २२॥
अव्याहत इष्टगतयाः सुरसिद्धसिद्धसाध्य
गन्धर्वयक्षनरकिन्नरनागलोकान् ।
मुक्ताः चरन्ति मुनिचारणभूतनाथ
विद्याधरद्विजगवां भुवनानि कामम् ॥ २३॥
तः एकदा निमेः सत्रम् उपजग्मुः यत् ऋच्छया ।
वितायमानम् ऋषिभिः अजनाभे महात्मनः ॥ २४॥
तान् दृष्ट्वा सूर्यसङ्काशान् महाभगवतान् नृपः ।
यजमानः अग्नयः विप्राः सर्वः एव उपतस्थिरे ॥ २५॥
विदेहः तान् अभिप्रेत्य नारायणपरायणान् ।
प्रीतः सम्पूजयान् चक्रे आसनस्थान् यथा अर्हतः ॥ २६॥
तान् रोचमानान् स्वरुचा ब्रह्मपुत्रौपमान् नव ।
पप्रच्छ परमप्रीतः प्रश्रय अवनतः नृपः ॥ २७॥
विदेहः उवाच ।
मन्ये भगवतः साक्षात् पार्षदान् वः मधुद्विषः ।
विष्णोः भूतानि लोकानां पावनाय चरन्ति हि ॥ २८॥
दुर्लभः मानुषः देहः देहिनां क्षणभङ्गुरः ।
तत्र अपि दुर्लभं मन्ये वैकुण्ठप्रियदर्शनम् ॥ २९॥
अतः आत्यन्तिकं कहेमं पृच्छामः भवतः अनघाः ।
संसारे अस्मिन् क्षणार्धः अपि सत्सङ्गः शेवधिः नृणाम् ॥
३०॥
धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम् ।
यैः प्रसन्नः प्रपन्नाय दास्यति आत्मानम् अपि अजः ॥ ३१॥
श्रीनारदः उवाच ।
एवं ते निमिना पृष्टा वसुदेव महत्तमाः ।
प्रतिपूज्य अब्रुवन् प्रीत्या ससदसि ऋत्विजं नृपम् ॥ ३२॥
कविः उवाच ।
मन्ये अकुतश्चित् भयम् अच्युतस्य
पादाम्बुजौपासनम् अत्र नित्यम् ।
उद्विग्नबुद्धेः असत् आत्मभावात्
विश्वात्मना यत्र निवर्तते भीः ॥ ३३॥
ये वै भगवता प्रोक्ताः उपायाः हि आत्मलब्धये ।
अञ्जः पुंसाम् अविदुषां विद्धि भागवतान् हि तान् ॥ ३४॥
यान् आस्थाय नरः राजन् न प्रमाद्येत कर्हिचित् ।
धावन् निमील्य वा नेत्रे न स्खलेन पतेत् इह ॥ ३५॥
कायेन वाचा मनसा इन्द्रियैः वा
बुद्ध्या आत्मना वा अनुसृतस्वभावात् ।
करोति यत् यत् सकलं परस्मै
नारायणाय इति समर्पयेत् तत् ॥ ३६॥
भयं द्वितीयाभिनिवेशतः स्यात्
ईशात् अपेतस्य विपर्ययः अस्मृतिः ।
तत् मायया अतः बुधः आभजेत् तं
भक्त्या एक ईशं गुरुदेवतात्मा ॥ ३७।
अविद्यमानः अपि अवभाति हि द्वयोः
ध्यातुः धिया स्वप्नमनोरथौ यथा ।
तत् कर्मसङ्कल्पविकल्पकं मनः
बुधः निरुन्ध्यात् अभयं ततः स्यात् ॥ ३८॥
श्रुण्वन् सुभद्राणि रथाङ्गपाणेः
जन्मानि कर्माणि च यानि लोके ।
गीतानि नामानि तत् अर्थकानि
गायन् विलज्जः विचरेत् असङ्गः ॥ ३९॥
एवं व्रतः स्वप्रियनामकीर्त्या
जातानुरागः द्रुतचित्तः उच्चैः ।
हसति अथः रोदिति रौति गायति
उन्मादवत् नृत्यति लोकबाह्यः ॥ ४०॥
खं वायुम् अग्निं सलिलं महीं च
ज्योतींषि सत्त्वानि दिशः द्रुमादीन् ।
सरित् समुद्रान् च हरेः शरीरं
यत्किञ्च भूतं प्रणमेत् अनन्यः ॥ ४१॥
भक्तिः परेश अनुभवः विरक्तिः
अन्यत्र एष त्रिकः एककालः ।
प्रपद्यमानस्य यथा अश्नतः स्युः
तुष्टिः पुष्टिः क्षुत् अपायः अनुघासम् ॥ ४२॥
इति अच्युत अङ्घ्रिं भजतः अनुवृत्त्या
भक्तिः विरक्तिः भगवत् प्रबोधः ।
भवन्ति वै भागवतस्य राजन्
ततः परां शान्तिम् उपैति साक्षात् ॥ ४३॥
राजा उवाच ।
अथ भागवतं ब्रूत यत् धर्मः यादृशः नृणाम् ।
यथा चरति यत् ब्रूते यैः लिङ्गैः भगवत् प्रियः ॥ ४४॥
हरिः उवाच ।
सर्वभूतेषु यः पश्येत् भगवत् भाव आत्मनः ।
भूतानि भागवति आत्मनि एष भागवतौत्तमः ॥ ४५॥
ईश्वरे तत् अधीनेषु बालिशेषु द्विषत्सु च ।
प्रेममैत्रीकृपाउपेक्षा यः करोति स मध्यमः ॥ ४६॥
अर्चायाम् एव हरये पूजां यः श्रद्धया ईहते ।
न तत् भक्तेषु च अन्येषु सः भक्तः प्राकृतः स्मृतः ॥
४७॥
गृहीत्वा अपि इन्द्रियैः अर्थान्यः न द्वेष्टि न हृष्यति ।
विष्णोः मायाम् इदं पश्यन् सः वै भागवत उत्तमः ॥ ४८॥
देहैन्द्रियप्राणमनःधियां यः
जन्मापिअयक्षुत् भयतर्षकृच्छ्रैः ।
संसारधर्मैः अविमुह्यमानः
स्मृत्या हरेः भागवतप्रधानः ॥ ४९॥
न कामकर्मबीजानां यस्य चेतसि सम्भवः ।
वासुदेवएकनिलयः सः वै भागवत उत्तमः ॥ ५०॥
न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः ।
सज्जते अस्मिन् अहम्भावः देहे वै सः हरेः प्रियः ॥ ५१॥
न यस्य स्वः परः इति वित्तेषु आत्मनि वा भिदा ।
सर्वभूतसमः शान्तः सः वौ भागवत उत्तमः ॥ ५२॥
त्रिभुवनविभवहेतवे अपि अकुण्ठस्मृतिः
अजितात्मसुरादिभिः विमृग्यात् ।
न चलति भगवत् पद अरविन्दात्
लवनिमिष अर्धम् अपि यः सः वैष्णव अग्र्यः ॥ ५३॥
भगवतः उरुविक्रम अङ्घ्रिशाखा
नखमणिचन्द्रिकया निरस्ततापे ।
हृदि कथम् उपसीदतां पुनः सः
प्रभवति चन्द्रः इव उदिते अर्कतापः ॥ ५४॥
विसृजति हृदयं न यस्य साक्षात्
हरिः अवश अभिहितः अपि अघौघनाशः ।
प्रणयः अशनया धृत अङ्घ्रिपद्मः
सः भवति भागवतप्रधानः उक्तः ॥ ५५॥
इति श्रीमत् भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कन्धे निमिजायन्तसंवादे द्वितीयः
अध्यायः ॥ २॥
अथ तृतीयोऽध्यायः ।
परस्य विष्णोः ईशस्य मायिनाम अपि मोहिनीम् ।
मायां वेदितुम् इच्छामः भगवन्तः ब्रुवन्तु नः ॥ १॥
न अनुतृप्ये जुषन् युष्मत् वचः हरिकथा अमृतम् ।
संसारतापनिःतप्तः मर्त्यः तत् ताप भेषजम् ॥ २॥
अन्तरिक्षः उवाच ।
एभिः भूतानि भूतात्मा महाभूतैः महाभुज ।
ससर्जोत् च अवचानि आद्यः स्वमात्रप्रसिद्धये ॥ ३॥
एवं सृष्टानि भूतानि प्रविष्टः पञ्चधातुभिः ।
एकधा दशधा आत्मानं विभजन् जुषते गुणान् ॥ ४॥
गुणैः गुणान् सः भुञ्जानः आत्मप्रद्योदितैः प्रभुः ।
मन्यमानः इदं सृष्टम् आत्मानम् इह सज्जते ॥ ५॥
कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत् ।
तत् तत् कर्मफलं गृह्णन् भ्रमति इह सुखैतरम् ॥ ६॥
इत्थं कर्मगतीः गच्छन् बह्वभद्रवहाः पुमान् ।
आभूतसम्प्लवात् सर्गप्रलयौ अश्नुते अवशः ॥ ७॥
धातु उपप्लवः आसन्ने व्यक्तं द्रव्यगुणात्मकम् ।
अनादिनिधनः कालः हि अव्यक्ताय अपकर्षति ॥ ८॥
शतवर्षाः हि अनावृष्टिः भविष्यति उल्बणा भुवि ।
तत् काल उपचित उष्ण अर्कः लोकान् त्रीन् प्रतपिष्यति ॥ ९॥
पातालतलम् आरभ्य सङ्कर्षणमुख अनलः ।
दहन् ऊर्ध्वशिखः विष्वक् वर्धते वायुना ईरितः ॥ १०॥
सांवर्तकः मेघगणः वर्षति स्म शतं समाः ।
धाराभिः हस्तिहस्ताभिः लीयते सलिले विराट् ॥ ११॥
ततः विराजम् उत्सृज्य वैराजः पुरुषः नृप ।
अव्यक्तं विशते सूक्ष्मं निरिन्धनः इव अनलः ॥ १२॥
वायुना हृतगन्धा भूः सलिलत्वाय कल्पते ।
सलिलं तत् धृतरसं ज्योतिष्ट्वाय उपकल्पते ॥ १३॥
हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते ।
हृतस्पर्शः अवकाशेन वायुः नभसि लीयते ।
कालात्मना हृतगुणं नवः आत्मनि लीयते ॥ १४॥
इन्द्रियाणि मनः बुद्धिः सह वैकारिकैः नृप ।
प्रविशन्ति हि अहङ्कारं स्वगुणैः अहम् आत्मनि ॥ १५॥
एषा माया भगवतः सर्गस्थिति अन्तकारिणी ।
त्रिवर्णा वर्णिता अस्माभिः किं भूयः श्रोतुम् इच्छसि ॥ १६॥
राजा उवाच ।
यथा एताम् ऐश्वरीं मायां दुस्तराम् अकृतात्मभिः ।
तरन्ति अञ्जः स्थूलधियः महर्षः इदम् उच्यताम् ॥ १७॥
प्रबुद्धः उवाच ।
कर्माणि आरभमाणानां दुःखहत्यै सुखाय च ।
पश्येत् पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ १८॥
नित्यार्तिदेन वित्तेन दुर्लभेन आत्ममृत्युना ।
गृह अपत्याप्तपशुभिः का प्रीतिः साधितैः चलैः ॥
१९॥
एवं लोकं परं विद्यात् नश्वरं कर्मनिर्मितम् ।
सतुल्य अतिशय ध्वंसं यथा मण्डलवर्तिनाम् ॥ २०॥
तस्मात् गुरुं प्रपद्येत जिज्ञासुः श्रेयः उत्तमम् ।
शाब्दे परे च निष्णातं ब्रह्मणि उपशमाश्रयम् ॥ २१॥
तत्र भागवतान् धर्मान् शिक्षेत् गुरुआत्मदैवतः ।
अमायया अनुवृत्या यैः तुष्येत् आत्मा आत्मदः हरिः ॥ २२॥
सर्वतः मनसः असङ्गम् आदौ सङ्गं च साधुषु ।
दयां मैत्रीं प्रश्रयं च भूतेषु अद्धा यथा उचितम् ॥ २३॥
शौचं तपः तितिक्षां च मौनं स्वाध्यायम् आर्जवम् ।
ब्रह्मचर्यं अहिंसां च समत्वं द्वन्द्वसञ्ज्ञयोः ॥ २४॥
सर्वत्र आत्मेश्वर अन्वीक्षां कैवल्यम् अनिकेतताम् ।
विविक्तचीरवसनं सन्तोषं येन केनचित् ॥ २५॥
श्रद्धां भागवते शास्त्रे अनिन्दाम् अन्यत्र च अपि हि ।
मनोवाक् कर्मदण्डं च सत्यं शमदमौ अपि ॥ २६॥
श्रवणं कीर्तनं ध्यानं हरेः अद्भुतकर्मणः ।
जन्मकर्मगुणानां च तदर्थे अखिलचेष्टितम् ॥ २७॥
इष्टं दत्तं तपः जप्तं वृत्तं यत् च आत्मनः प्रियम् ।
दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम् ॥ २८॥
एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् ।
परिचर्यां च उभयत्र महत्सु नृषु साधुषु ॥ २९॥
परस्पर अनुकथनं पावनं भगवत् यशः ।
मिथः रतिः मिथः तुष्टिः निवृत्तिः मिथः आत्मनः ॥ ३०॥
स्मरन्तः स्मारयन्तः च मिथः अघौघहरं हरिम् ।
भक्त्या सञ्जातया भक्त्या बिभ्रति उत्पुलकां तनुम् ॥ ३१॥
क्वचित् रुदन्ति अच्युतचिन्तया क्वचित्
हसन्ति नन्दन्ति वदन्ति अलौकिकाः ।
नृत्यन्ति गायन्ति अनुशीलयन्ति
अजं भवन्ति तूष्णीं परम् एत्य निर्वृताः ॥ ३२॥
इति भागवतान् धर्मान् शिक्षन् भक्त्या तदुत्थया ।
नारायणपरः मायम् अञ्जः तरति दुस्तराम् ॥ ३३॥
राजा उवाच ।
नारायण अभिधानस्य ब्रह्मणः परमात्मनः ।
निष्ठाम् अर्हथ नः वक्तुं यूयं हि ब्रह्मवित्तमाः ॥ ३४॥
पिप्पलायनः उवाच ।
स्थिति उद्भवप्रलयहेतुः अहेतुः अस्य
यत् स्वप्नजागरसुषुप्तिषु सत् बहिः च ।
देह इन्द्रियासुहृदयानि चरन्ति येन
सञ्जीवितानि तत् अवेहि परं नरेन्द्र ॥ ३५॥
न एतत् मनः विशति वागुत चक्षुः आत्मा
प्राणेन्द्रियाणि च यथा अनलम् अर्चिषः स्वाः ।
शब्दः अपि बोधकनिषेधतया आत्ममूलम्
अर्थ उक्तम् आह यदृते न निषेधसिद्धिः ॥ ३६॥
सत्वम् रजः तमः इति त्रिवृदेकम् आदौ
सूत्रं महान् अहम् इति प्रवदन्ति जीवम् ।
ज्ञानक्रिया अर्थफलरूपतयोः उशक्ति
ब्रह्म एव भाति सत् असत् च तयोः परं यत् ॥ ३७॥
न आत्मा जजान न मरिष्यति न एधते असौ
न क्षीयते सवनवित् व्यभिचारिणां हि ।
सर्वत्र शस्वदनपायि उपलब्धिमात्रं
प्राणः यथा इन्द्रियवलेन विकल्पितं सत् ॥ ३८॥
अण्डेषु पेशिषु तरुषु अविनिश्चितेषु
प्राणः हि जीवम् उपधावति तत्र तत्र ।
सन्ने यत् इन्द्रियगणे अहमि च प्रसुप्ते
कूटस्थः आशयमृते तत् अनुस्मृतिः नः ॥ ३९॥
यः हि अब्ज नाभ चरण एषणयोः उभक्त्या
चेतोमलानि विधमेत् गुणकर्मजानि ।
तस्मिन् विशुद्धः उपलभ्यतः आत्मतत्त्वम्
साक्षात् यथा अमलदृशः सवितृप्रकाशः ॥ ४०॥
कर्मयोगं वदत नः पुरुषः येन संस्कृतः ।
विधूय इह आशु कर्माणि नैष्कर्म्यं विन्दते परम् ॥ ४१॥
एवं प्रश्नम् ऋषिन् पूर्वम् अपृच्छं पितुः अन्तिके ।
न अब्रुवन् ब्रह्मणः पुत्राः तत्र कारणम् उच्यताम् ॥ ४२॥
आविर्होत्रः उवाच ।
कर्म अकर्मविकर्म इति वेदवादः न लौकिकः ।
वेदस्य च ईश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः ॥ ४३॥
परोक्षवादः वेदः अयं बालानाम् अनुशासनम् ।
कर्ममोक्षाय कर्माणि विधत्ते हि अगदं यथा ॥ ४४॥
न आचरेत् यः तु वेद उक्तं स्वयम् अज्ञः अजितेन्द्रियः ।
विकर्मणा हि अधर्मेण मृत्योः मृत्युम् उपैति सः ॥ ४५॥
वेद उक्तम् एव कुर्वाणः निःसङ्गः अर्पितम् ईश्वरे ।
नैष्कर्म्यां लभते सिद्धिं रोचनार्था फलश्रुतिः ॥ ४६॥
यः आशु हृदयग्रन्थिं निर्जिहीषुः परात्मनः ।
विधिना उपचरेत् देवं तन्त्र उक्तेन च केशवम् ॥ ४७॥
लब्ध अनुग्रहः आचार्यात् तेन सन्दर्शितागमः ।
महापुरुषम् अभ्यर्चेत् मूर्त्या अभिमतया आत्मनः ॥ ४८॥
शुचिः संमुखम् आसीनः प्राणसंयमनादिभिः ।
पिण्डं विशोध्य संन्यासकृतरक्षः अर्चयेत् हरिम् ॥ ४९॥
अर्चादौ हृदये च अपि यथालब्ध उपचारकैः ।
द्रव्यक्षितिआत्मलिङ्गानि निष्पाद्य प्रोक्ष्य च आसनम् ॥ ५०॥
पाद्यादीन् उपकल्प्या अथ संनिधाप्य समाहितः ।
हृत् आदिभिः कृतन्यासः मूलमन्त्रेण च अर्चयेत् ॥ ५१॥
साङ्गोपाङ्गां सपार्षदां तां तां मूर्तिं स्वमन्त्रतः ।
पाद्य अर्घ्याचमनीयाद्यैः स्नानवासःविभूषणैः ॥ ५२॥
गन्धमाल्याक्षतस्रग्भिः धूपदीपहारकैः ।
साङ्गं सम्पूज्य विधिवत् स्तवैः स्तुत्वा नमेत् हरिम् ॥ ५३॥
आत्मां तन्मयं ध्यायन् मूर्तिं सम्पूजयेत् हरेः ।
शेषाम् आधाय शिरसि स्वधाम्नि उद्वास्य सत्कृतम् ॥ ५४॥
एवम् अग्नि अर्कतोयादौ अतिथौ हृदये च यः ।
यजति ईश्वरम् आत्मानम् अचिरात् मुच्यते हि सः ॥ ५५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे निमिजायन्तसंवादे
मायाकर्मब्रह्मनिरूपणं तृतीयोऽध्यायः ॥ ३॥
अथ चतुर्थोऽध्यायः ।
राजा उवाच ।
यानि यानि इह कर्माणि यैः यैः स्वच्छन्दजन्मभिः ।
चक्रे करोति कर्ता वा हरिः तानि ब्रुवन्तु नः ॥ १॥
द्रुमिलः उवाच ।
यः वा अनन्तस्य गुणान् अनन्तान्
अनुक्रमिष्यन् सः तु बालबुद्धिः ।
रजांसि भूमेः गणयेत् कथञ्चित्
कालेन न एव अखिलशक्तिधाम्नः ॥ २॥
भूतैः यदा पञ्चभिः आत्मसृष्टैः
पुरं विराजं विरचय्य तस्मिन् ।
स्वांशेन विष्टः पुरुषाभिधान
मवाप नारायणः आदिदेवः ॥ ३॥
यत् कायः एषः भुवनत्रयसंनिवेशः
यस्य इन्द्रियैः तनुभृताम् उभयैन्द्रियाणि ।
ज्ञानं स्वतः श्वसनतः बलम् ओजः ईहा
सत्त्वादिभिः स्थितिलयौद्भवः आदिकर्ता ॥ ४॥
आदौ अभूत् शतधृती रजस अस्य सर्गे
विष्णु स्थितौ क्रतुपतिः द्विजधर्मसेतुः ।
रुद्रः अपि अयाय तमसा पुरुषः सः आद्यः
इति उद्भवस्थितिलयाः सततं प्रजासु ॥ ५॥
धर्मस्य दक्षदुहितर्यजनिष्टः मूर्त्या
नारायणः नरः ऋषिप्रवरः प्रशान्तः ।
नैष्कर्म्यलक्षणम् उवाच चचार कर्म
यः अद्य अपि च आस्त ऋषिवर्यनिषेविताङ्घ्रिः ॥ ६॥
इन्द्रः विशङ्क्य मम धाम जिघृक्षति इति
कामं न्ययुङ्क्त सगणं सः बदरिउपाख्यम् ।
गत्वा अप्सरोगणवसन्तसुमन्दवातैः
स्त्रीप्रेक्षण इषुभिः अविध्यतत् महिज्ञः ॥ ७॥
विज्ञाय शक्रकृतम् अक्रमम् आदिदेवः
प्राह प्रहस्य गतविस्मयः एजमानान् ।
मा भैष्ट भो मदन मारुत देववध्वः
गृह्णीत नः बलिम् अशून्यम् इमं कुरुध्वम् ॥ ८॥
इत्थं ब्रुवति अभयदे नरदेव देवाः
सव्रीडनम्रशिरसः सघृणम् तम् ऊचुः ।
न एतत् विभो त्वयि परे अविकृते विचित्रम्
स्वारामधीः अनिकरानतपादपद्मे ॥ ९॥
त्वां सेवतां सुरकृता बहवः अन्तरायाः
स्वौको विलङ्घ्य परमं व्रजतां पदं ते ।
न अन्यस्य बर्हिषि बलीन् ददतः स्वभागान्
धत्ते पदं त्वम् अविता यदि विघ्नमूर्ध्नि ॥ १०॥
क्षुत् तृट्त्रिकालगुणमारुतजैव्ह्यशैश्न्यान्
अस्मान् अपारजलधीन् अतितीर्य केचित् ।
क्रोधस्य यान्ति विफलस्य वश पदे गोः
मज्जन्ति दुश्चरतपः च वृथा उत्सृजन्ति ॥ ११॥
इति प्रगृणतां तेषां स्त्रियः अति अद्भुतदर्शनाः ।
दर्शयामास शुश्रूषां स्वर्चिताः कुर्वतीः विभुः ॥ १२॥
ते देव अनुचराः दृष्ट्वा स्त्रियः श्रीः इव रूपिणीः ।
गन्धेन मुमुहुः तासां रूप औदार्यहतश्रियः ॥ १३॥
तान् आह देवदेव ईशः प्रणतान् प्रहसन् इव ।
आसाम् एकतमां वृङ्ग्ध्वं सवर्णां स्वर्गभूषणाम् ॥
१४॥
ओम् इति आदेशम् आदाय नत्वा तं सुरवन्दिनः ।
उर्वशीम् अप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः ॥ १५॥
इन्द्राय आनम्य सदसि श्रुण्वतां त्रिदिवौकसाम् ।
ऊचुः नारायणबलं शक्रः तत्र आस विस्मितः ॥ १६॥
हंसस्वरूपी अवददत् अच्युतः आत्मयोगम्
दत्तः कुमार ऋषभः भगवान् पिता नः ।
विष्णुः शिवाय जगतां कलया अवतीर्णः
तेन आहृताः मधुभिदा श्रुतयः हयास्ये ॥ १७॥
गुप्तः अपि अये मनुः इला ओषधयः च मात्स्ये
क्रौडे हतः दितिजः उद्धरता अम्भसः क्ष्माम् ।
कौर्मे धृतः अद्रिः अमृत उन्मथने स्वपृष्ठे
ग्राहात् प्रपन्नमिभराजम् अमुञ्चत् आर्तम् ॥ १८॥
संस्तुन्वतः अब्धिपतितान् श्रमणान् ऋषीं च
शक्रं च वृत्रवधतः तमसि प्रविष्टम् ।
देवस्त्रियः असुरगृहे पिहिताः अनाथाः
जघ्ने असुरेन्द्रम् अभयाय सतां नृसिंहे ॥ १९॥
देव असुरे युधि च दैत्यपतीन् सुरार्थे
हत्वा अन्तरेषु भुवनानि अदधात् कलाभिः ।
भूत्वा अथ वामनः इमाम् अहरत् बलेः क्ष्माम्
याञ्चाच्छलेन समदात् अदितेः सुतेभ्यः ॥ २०॥
निःक्षत्रियाम् अकृत गां च त्रिःसप्तकृत्वः
रामः तु हैहयकुल अपि अयभार्गव अग्निः ।
सः अब्धिं बबन्ध दशवक्त्रम् अहन् सलङ्कम्
सीतापतिः जयति लोकम् अलघ्नकीर्तिः ॥ २१॥
भूमेः भर अवतरणाय यदुषि अजन्मा जातः
करिष्यति सुरैः अपि दुष्कराणि ।
वादैः विमोहयति यज्ञकृतः अतदर्हान्
शूद्रां कलौ क्षितिभुजः न्यहनिष्यदन्ते ॥ २२॥
एवंविधानि कर्माणि जन्मानि च जगत् पतेः ।
भूरीणि भूरियशसः वर्णितानि महाभुज ॥ २३॥
इति श्रीमद्भगवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे निमिजायन्तसंवादे
चतुर्थोऽध्यायः ॥ ४॥
अथ पञ्चमोऽध्यायः ।
राजा उवाच ।
भगवन्तं हरिं प्रायः न भजन्ति आत्मवित्तमाः ।
तेषाम् अशान्तकामानां का निष्ठा अविजितात्मनाम् ॥ १॥
चमसः उवाच ।
मुखबाहूरूपादेभ्यः पुरुषस्य आश्रमैः सह ।
चत्वारः जज्ञिरे वर्णाः गुणैः विप्रादयः पृथक् ॥ २॥
यः एषां पुरुषं साक्षात् आत्मप्रभवम् ईश्वरम् ।
न भजन्ति अवजानन्ति स्थानात् भ्रष्टाः पतन्ति अधः ॥ ३॥
दूरे हरिकथाः केचित् दूरे च अच्युतकीर्र्तनाः ।
स्त्रियः शूद्रादयः च एव ते अनुकम्प्या भवादृशाम् ॥ ४॥
विप्रः राजन्यवैश्यौ च हरेः प्राप्ताः पदान्तिकम् ।
श्रौतेन जन्मना अथ अपि मुह्यन्ति आम्नायवादिनः ॥ ५॥
कर्मणि अकोविदाः स्तब्धाः मूर्खाः पण्डितमानिनः ।
वदन्ति चाटुकात् मूढाः यया माध्व्या गिर उत्सुकाः ॥ ६॥
रजसा घोरसङ्कल्पाः कामुकाः अहिमन्यवः ।
दाम्भिकाः मानिनः पापाः विहसन्ति अच्युतप्रियान् ॥ ७॥
वदन्ति ते अन्योन्यम् उपासितस्त्रियः
गृहेषु मैथुन्यसुखेषु च आशिषः ।
यजन्ति असृष्टान् अविधान् अदक्षिणम्
वृत्त्यै परं घ्नन्ति पशून् अतद्विदः ॥ ८॥
श्रिया विभूत्या अभिजनेन विद्यया
त्यागेन रूपेण बलेन कर्मणा
सतः अवमन्यन्ति हरिप्रियान् खलाः ॥ ९॥
सर्वेषु शश्वत् तनुभृत् स्ववस्थितम्
यथा स्वम् आत्मानम् अभीष्टम् ईश्वरम् ।
वेदोपगीतं च न श्रुण्वते अबुधाः
मनोरथानां प्रवदन्ति वार्तया ॥ १०॥
लोके व्यवाय आमिषम् अद्यसेवा
नित्याः तु जन्तोः न हि तत्र चोदना ।
व्यवस्थितिः तेषु विवाहयज्ञ
सुराग्रहैः आसु निवृत्तिः इष्टा ॥ ११॥
धनं च धर्मएकफलं यतः वै
ज्ञानं सविज्ञानम् अनुप्रशान्ति ।
गृहेषु युञ्जन्ति कलेवरस्य
मृत्युं न पश्यन्ति दुरन्तवीर्यम् ॥ १२॥
यत् घ्राणभक्षः विहितः सुरायाः
तथा पशोः आलभनं न हिंसा ।
एवं व्यवायः प्रजया न रत्या
इअमं विशुद्धं न विदुः स्वधर्मम् ॥ १३॥
ये तु अनेवंविदः असन्तः स्तब्धाः सत् अभिमानिनः ।
पशून् द्रुह्यन्ति विस्रब्धाः प्रेत्य खादन्ति ते च तान् ॥ १४॥
द्विषन्तः परकायेषु स्वात्मानं हरिम् ईश्वरम् ।
मृतके सानुबन्धे अस्मिन् बद्धस्नेहाः पतन्ति अधः ॥ १५॥
ये कैवल्यम् असम्प्राप्ताः ये च अतीताः च मूढताम् ।
त्रैवर्गिकाः हि अक्षणिकाः आत्मानं घातयन्ति ते ॥ १६॥
एतः आत्महनः अशान्ताः अज्ञाने ज्ञानमानिनः ।
सीदन्ति अकृतकृत्याः वै कालध्वस्तमनोरथाः ॥ १७॥
हित्वा आत्याय असरचिताः गृह अपत्यसुहृत् श्रियः ।
तमः विशन्ति अनिच्छन्तः वासुदेवपराङ्मुखाः ॥ १८॥
राजा उवाच ।
कस्मिन् काले सः भगवान् किं वर्णः कीदृशः नृभिः ।
नाम्ना वा केन विधिना पूज्यते तत् इह उच्यताम् ॥ १९॥
करभाजनः उवाच ।
कृतं त्रेता द्वापरं च कलिः इत्येषु केशवः ।
नानावर्ण अभिधाकारः नाना एव विधिना इज्यते ॥ २०॥
कृते शुक्लः चतुर्बाहुः जटिलः वल्कलाम्बरः ।
कृष्णाजिनौपवीताक्षान् बिभ्रत् दण्डकमण्डलून् ॥ २१॥
मनुष्याः तु तदा शान्ताः निर्वैराः सुहृदः समाः ।
यजन्ति तपसा देवं शमेन च दमेन च ॥ २२॥
हंसः सुपर्णः वैकुण्ठः धर्मः योगेश्वरः अमलः ।
ईश्वरः पुरुषः अव्यक्तः परमात्मा इति गीयते ॥ २३॥
त्रेतायां रक्तवर्णः असौ चतुर्बाहुः त्रिमेखलः ।
हिरण्यकेशः त्रयी आत्मा स्रुक्स्रुवादि उपलक्षणः ॥ २४॥
तं तदा मनुजा देवं सर्वदेवमयं हरिम् ।
यजन्ति विद्यया त्रय्या धर्मिष्ठाः ब्रह्मवादिनः ॥ २५॥
विष्णुः यज्ञः पृष्णिगर्भः सर्वदेवः उरुक्रमः ।
वृषाकपिः जयन्तः च उरुगाय इति ईर्यते ॥ २६॥
द्वापरे भगवान् श्यामः पीतवासा निजायुधः ।
श्रीवत्सादिभिः अङ्कैः च लक्षणैः उपलक्षितः ॥ २७॥
तं तदा पुरुषं मर्त्या महाराजौपलक्षणम् ।
यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवः नृप ॥ २८॥
नमः ते वासुदेवाय नमः सङ्कर्षणाय च ।
प्रद्युम्नाय अनिरुद्धाय तुभ्यं भगवते नमः ॥ २९॥
नारायणाय ऋषये पुरुषाय महात्मने ।
विश्वेश्वराय विश्वाय सर्वभूतात्मने नमः ॥ ३०॥
इति द्वापरः उर्वीश स्तुवन्ति जगदीश्वरम् ।
नानातन्त्रविधानेन कलौ अपि यथा श्रुणु ॥ ३१॥
कृष्णवर्णं त्विषाकृष्णं साङ्गौपाङ्गास्त्र
पार्षदम् ।
यज्ञैः सङ्कीर्तनप्रायैः यजन्ति हि सुमेधसः ॥ ३२॥
ध्येयं सदा परिभवघ्नम् अभीष्टदोहम्
तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् ।
भृत्यार्तिहन् प्रणतपाल भवाब्धिपोतम्
वन्दे महापुरुष ते चरणारविन्दम् ॥ ३३॥
त्यक्त्वा सुदुस्त्यजसुरैप्सितराज्यलक्ष्मीम्
धर्मिष्ठः आर्यवचसा यत् अगात् अरण्यम् ।
मायामृगं दयितया इप्सितम् अन्वधावत्
वन्दे महापुरुष ते चरणारविन्दम् ॥ ३४॥
एवं युगानुरूपाभ्यां भगवान् युगवर्तिभिः ।
मनुजैः इज्यते राजन् श्रेयसाम् ईश्वरः हरिः ॥ ३५॥
कलिं सभाजयन्ति आर्या गुणज्ञाः सारभागिनः ।
यत्र सङ्कीर्तनेन एव सर्वः स्वार्थः अभिलभ्यते ॥ ३६॥
न हि अतः परमः लाभः देहिनां भ्राम्यताम् इह ।
यतः विन्देत परमां शान्तिं नश्यति संसृतिः ॥ ३७॥
कृतादिषु प्रजा राजन् कलौ इच्छन्ति सम्भवम् ।
कलौ खलु भविष्यन्ति नारायणपरायणाः ॥ ३८॥
क्वचित् क्वचित् महाराज द्रविडेषु च भूरिशः ।
ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी ॥ ३९॥
कावेरी च महापुण्या प्रतीची च महानदी ।
ये पिबन्ति जलं तासां मनुजा मनुजेश्वर ।
प्रायः भक्ताः भगवति वासुदेवः अमल आशयाः ॥ ४०॥
देवर्षिभूताप्तनृणा पितॄणां
न किङ्करः न अयं ऋणी च राजन् ।
सर्वात्मना यः शरणं शरण्यम्
गतः मुकुन्दं परिहृत्य कर्तुम् ॥ ४१॥
स्वपादमूलं भजतः प्रियस्य
त्यक्तान्यभावस्य हरिः परेशः ।
विकर्म यत् च उत्पतितं कथञ्चित्
धुनोति सर्वं हृदि संनिविष्टः ॥ ४२॥
नारदः उवाच ।
धर्मान् भागवतान् इत्थं श्रुत्वा अथ मिथिलेश्वरः ।
जायन्त इयान् मुनीन् प्रीतः सोपाध्यायः हि अपूजयत् ॥ ४३॥
ततः अन्तः दधिरे सिद्धाः सर्वलोकस्य पश्यतः ।
राजा धर्मान् उपातिष्ठन् अवाप परमां गतिम् ॥ ४४॥
त्वम् अपि एतान् महाभाग धर्मान् भागवतान् श्रुतान् ।
आस्थितः श्रद्धया युक्तः निःसङ्गः यास्यसे परम् ॥ ४५॥
युवयोः खलु दम्पत्योः यशसा पूरितं जगत् ।
पुत्रताम् अगमत् यत् वां भगवान् ईश्वरः हरिः ॥ ४६॥
दर्शनालिङ्गनालापैः शयनासनभोजनैः ।
आत्मा वां पावितः कृष्णे पुत्रस्नेह प्रकुर्वतोः ॥ ४७॥
वैरेण यं नृपतयः शिशुपालपौण्ड्र
शाल्वादयः गतिविलासविलोकनादयैः ।
ध्यायन्तः आकृतधियः शयनासनादौ
तत् साम्यम् आपुः अनुरक्तधियां पुनः किम् ॥ ४८॥
मा अपत्यबुद्धिम् अकृथाः कृष्णे सर्वात्मनईश्वरे ।
मायामनुष्यभावेन गूढ ऐश्वर्ये परे अव्यये ॥ ४९॥
भूभारराजन्यहन्तवे गुप्तये सताम् ।
अवतीर्णस्य निर्वृत्यै यशः लोके वितन्यते ॥ ५०॥
श्रीशुकः उवाच ।
एतत् श्रुत्वा महाभागः वसुदेवः अतिविस्मितः ।
देवकी च महाभागाः जहतुः मोहम् आत्मनः ॥ ५१॥
इतिहासम् इमं पुण्यं धारयेत् यः समाहितः ।
सः विधूय इह शमलं ब्रह्मभूयाय कल्पते ॥ ५२॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे वसुदेवनारदसंवादे
पञ्चमोऽध्यायः ॥ ५॥
अथ षष्ठोऽध्यायः ।
श्रीशुकः उवाच ।
अथ ब्रह्मा आत्मजैः देवैः प्रजेशैः आवृतः अभ्यगात् ।
भवः च भूतभव्यईशः ययौ भूतगणैः वृतः ॥ १॥
इन्द्रः मरुद्भिः भगवान् आदित्याः वसवः अश्विनौ ।
ऋभवः अङ्गिरसः रुद्राः विश्वे साध्याः च देवताः ॥ २॥
गन्धर्वाप्सरसः नागाः सिद्धचारणगुह्यकाः ।
ऋषयः पितरः च एव सविद्याधरकिन्नराः ॥ ३॥
द्वारकाम् उपसञ्जग्मुः सर्वे कृष्णादिदृक्षवः ।
वपुषा येन भगवान् नरलोकमनोरमः ।
यशः वितेने लोकेषु सर्वलोकमलापहम् ॥ ४॥
तस्यां विभ्राजमानायां समृद्धायां महर्धिभिः ।
व्यचक्षत अवितृप्ताक्षाः कृष्णम् अद्भुतदर्शनम् ॥
५॥
स्वर्गौद्यानौअपगैः माल्यैः छादयन्तः यदु उत्तमम् ।
गीर्भिः चित्रपदार्थाभिः तुष्टुवुः जगत् ईश्वरम् ॥ ६॥
देवाः ऊचुः ।
नताः स्म ते नाथ पदारविन्दं
बुद्धीन्द्रियप्राणमनोवचोभिः ।
यत् चिन्त्यते अन्तर्हृदि भावयुक्तैः
मुमुक्षुभिः कर्ममय ऊरुपाशात् ॥ ७॥
त्वं मायया त्रिगुणया आत्मनि दुर्विभाव्यं
व्यक्तं सृजसि अवसि लुम्पसि तत् गुणस्थः ।
न एतैः भवान् अजित कर्मभिः अज्यते वै
यत् स्वे सुखे अव्यवहिते अभिरतः अनवद्यः ॥ ८॥
शुद्धिः नृणां न तु तथा ईड्य दुराशयानां
विद्याश्रुताध्ययनदानतपक्रियाभिः ।
सत्त्वात्मनाम् ऋषभ ते यशसि प्रवृद्ध
सत् श्रद्धया श्रवणसम्भृतया यथा स्यात् ॥ ९॥
स्यात् नः तव अङ्घ्रिः अशुभाशयधूमकेतुः
क्षेमाय यः मुनिभिः आर्द्रहृदौह्यमानः ।
यः सात्वतैः समविभूतयः आत्मवद्भिः
व्यूहे अर्चितः सवनशः स्वः अतिक्रमाय ॥ १०॥
यः चिन्त्यते प्रयतपाणिभिः अध्वराग्नौ
त्रय्या निरुक्तविधिना ईश हविः गृहीत्वा ।
अध्यात्मयोगः उत योगिभिः आत्ममायां
जिज्ञासुभिः परमभागवतैः परीष्टः ॥ ११॥
पर्युष्टया तव विभो वनमालया इयं
संस्पर्धिनी भगवती प्रतिपत्निवत् श्रीः ।
यः सुप्रणीतम् अमुयार्हणम् आदत् अन्नः
भूयात् सदा अङ्घ्रिः अशुभाशयधूमकेतुः ॥ १२॥
केतुः त्रिविक्रमयुतः त्रिपत् पताकः
यः ते भयाभयकरः असुरदेवचम्वोः ।
स्वर्गाय साधुषु खलु एषु इतराय भूमन्
पादः पुनातु भगवन् भजताम् अधं नः ॥ १३॥
नस्योतगावः इव यस्य वशे भवन्ति
ब्रह्मादयः अनुभृतः मिथुरर्द्यमानाः ।
कालस्य ते प्रकृतिपूरुषयओः परस्य
शं नः तनोतु चरणः पुरुषोत्तमस्य ॥ १४॥
अस्य असि हेतुः उदयस्थितिसंयमानां
अव्यक्तजीवमहताम् अपि कालम् आहुः ।
सः अयं त्रिणाभिः अखिल अपचये प्रवृत्तः
कालः गभीररयः उत्तमपूरुषः त्वम् ॥ १५॥
त्वत्तः पुमान् समधिगम्य यया स्ववीर्य
धत्ते महान्तम् इव गर्भम् अमोघवीर्यः ।
सः अयं तया अनुगतः आत्मनः आण्डकोशं
हैमं ससर्ज बहिः आवरणैः उपेतम् ॥ १६॥
तत्तस्थुषः च जगतः च भवान् अधीशः
यत् मायया उत्थगुणविक्रियया उपनीतान् ।
अर्थान् जुषन् अपि हृषीकपते न लिप्तः
ये अन्ये स्वतः परिहृतात् अपि बिभ्यति स्म ॥ १७॥
स्माया अवलोकलवदर्शितभावहारि
भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः ।
पत्न्यः तु षोडशसहस्रम् अनङ्गबाणैः
यस्य इन्द्रियं विमथितुं करणैः विभ्व्यः ॥ १८॥
विभ्व्यः तव अमृतकथा उदवहाः त्रिलोक्याः
पादौ अनेजसरितः शमलानि हन्तुम् ।
आनुश्रवं श्रुतिभिः अङ्घ्रिजम् अङ्गसङ्गैः
तीर्थद्वयं शुचिषदस्तः उपस्पृशन्ति ॥ १९॥
बादरायणिः उवाच ।
इति अभिष्टूय विबुधैः सेशः शतधृतिः हरिम् ।
अभ्यभाषत गोविन्दं प्रणम्य अम्बरम् आश्रितः ॥ २०॥
ब्रह्म उवाच ।
भूमेः भार अवताराय पुरा विज्ञापितः प्रभो ।
त्वम् अस्माभिः अशेषात्मन् तत् तथा एव उपपादितम् ॥ २१॥
धर्मः च स्थापितः सत्सु सत्यसन्धेषु वै त्वया ।
कीर्तिः च दिक्षु विक्षिप्ता सर्वलोकमलापहा ॥ २२॥
अवतीर्य यदोः वंशे बिभ्रत् रूपम् अनुत्तमम् ।
कर्माणि उद्दामवृत्तानि हिताय जगतः अकृथाः ॥ २३॥
यानि ते चरितानि ईश मनुष्याः साधवः कलौ ।
शृण्वन्तः कीर्तयन्तः च तरिष्यन्ति अञ्जसा तमः ॥ २४॥
यदुवंशे अवतीर्णस्य भवतः पुरुषोत्तम ।
शरत् शतं व्यतीयाय पञ्चविंश अधिकं प्रभोः ॥ २५॥
न अधुना ते अखिल आधार देवकार्य अवशेषितम् ।
कुलं च विप्रशापेन नष्टप्रायम् अभूत् इदम् ॥ २६॥
ततः स्वधाम परमं विशस्व यदि मन्यसे ।
सलोकान् लोकपालान् नः पाहि वैकुण्ठकिङ्करान् ॥ २७॥
श्री भगवान् उवाच ।
अवधारितम् एतत् मे यदात्थ विबुधेश्वर ।
कृतं वः कार्यम् अखिलं भूमेः भारः अवतारितः ॥ २८॥
तत् इदं यादवकुलं वीर्यशौर्यश्रियोद्धतम् ।
लोकं जिघृक्षत् रुद्धं मे वेलया इव महार्णवः ॥ २९॥
यदि असंहृत्य दृप्तानां यदुनां विपुलं कुलम् ।
गन्तास्मि अनेन लोकः अयम् उद्वेलेन विनङ्क्ष्यति ॥ ३०॥
इदानीं नाशः आरब्धः कुलस्य द्विजशापतः ।
यास्यामि भवनं ब्रह्मन् न एतत् अन्ते तव आनघ ॥ ३१॥
श्री शुकः उवाच ।
इति उक्तः लोकनाथेन स्वयम्भूः प्रणिपत्य तम् ।
सह देवगणैः देवः स्वधाम समपद्यत ॥ ३२॥
अथ तस्यां महोत्पातान् द्वारवत्यां समुत्थितान् ।
विलोक्य भगवान् आह यदुवृद्धान् समागतान् ॥ ३३॥
श्री भगवान् उवाच ।
एते वै सुमहोत्पाताः व्युत्तिष्ठन्ति इह सर्वतः ।
शापः च नः कुलस्य आसीत् ब्राह्मणेभ्यः दुरत्ययः ॥ ३४॥
न वस्तव्यम् इह अस्माभिः जिजीविषुभिः आर्यकाः ।
प्रभासं सुमहत् पुण्यं यास्यामः अद्य एव मा चिरम् ॥ ३५॥
यत्र स्नात्वा दक्षशापात् गृहीतः यक्ष्मणौडुराट् ।
विमुक्तः किल्बिषात् सद्यः भेजे भूयः कलोदयम् ॥ ३६॥
वयं च तस्मिन् आप्लुत्य तर्पयित्वा पितॄन्सुरान् ।
भोजयित्वा उशिजः विप्रान् नानागुणवता अन्धसा ॥ ३७॥
तेषु दानानि पात्रेषु श्रद्धया उप्त्वा महान्ति वै ।
वृजिनानि तरिष्यामः दानैः नौभिः इव अर्णवम् ॥ ३८॥
श्री शुकः उवाच ।
एवं भगवता आदिष्टाः यादवाः कुलनन्दन ।
गन्तुं कृतधियः तीर्थं स्यन्दनान् समयूयुजन् ॥ ३९॥
तत् निरीक्ष्य उद्धवः राजन् श्रुत्वा भगवता उदितम् ।
दृष्ट्वा अरिष्टानि घोराणि नित्यं कृष्णम् अनुव्रतः ॥ ४०॥
विविक्तः उपसङ्गम्य जगताम् ईश्वरेश्वरम् ।
प्रणम्य शिरसा पादौ प्राञ्जलिः तम् अभाषत ॥ ४१॥
उद्धवः उवाच ।
देवदेवेश योगेश पुण्यश्रवणकीर्तन ।
संहृत्य एतत् कुलं नूनं लोकं सन्त्यक्ष्यते भवान् ।
विप्रशापं समर्थः अपि प्रत्यहन् न यदि ईश्वरः ॥ ४२॥
न अहं तव अङ्घ्रिकमलं क्षणार्धम् अपि केशव ।
त्यक्तुं समुत्सहे नाथ स्वधाम नय माम् अपि ॥ ४३॥
तव विक्रीडितं कृष्ण नृणां परममङ्गलम् ।
कर्णपीयूषम् आस्वाद्य त्यजति अन्यस्पृहां जनः ॥ ४४॥
शय्यासनाटनस्थानस्नानक्रीडाशनादिषु ।
कथं त्वां प्रियम् आत्मानं वयं भक्ताः त्यजेमहि ॥ ४५॥
त्वया उपभुक्तस्रक्गन्धवासः अलङ्कारचर्चिताः ।
उच्छिष्टभोजिनः दासाः तव मायां जयेमहि ॥ ४६॥
वाताशनाः यः ऋषयः श्रमणा ऊर्ध्वमन्थिनः ।
ब्रह्माख्यं धाम ते यान्ति शान्ताः संन्यासिनः अमलाः ॥
४७॥
वयं तु इह महायोगिन् भ्रमन्तः कर्मवर्त्मसु ।
त्वत् वार्तया तरिष्यामः तावकैः दुस्तरं तमः ॥ ४८॥
स्मरन्तः कीर्तयन्तः ते कृतानि गदितानि च ।
गतिउत्स्मितईक्षणक्ष्वेलि यत् नृलोकविडम्बनम् ॥ ४९॥
श्री शुकः उवाच ।
एवं विज्ञापितः राजन् भगवान् देवकीसुतः ।
एकान्तिनं प्रियं भृत्यम् उद्धवं समभाषत ॥ ५०॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे देवस्तुत्युद्ध्वविज्ञापनं नाम
षष्ठोऽध्यायः ॥ ६॥
अथ सप्तमोऽध्यायः ।
श्री भगवान् उवाच ।
यत् आत्थ मां महाभाग तत् चिकीर्षितम् एव मे ।
ब्रह्मा भवः लोकपालाः स्वर्वासं मे अभिकाङ्क्षिणः ॥ १॥
मया निष्पादितं हि अत्र देवकार्यम् अशेषतः ।
यदर्थम् अवतीर्णः अहम् अंशेन ब्रह्मणार्थितः ॥ २॥
कुलं वै शापनिर्दग्धं नङ्क्ष्यति अन्योन्यविग्रहात् ।
समुद्रः सप्तमे अह्न्ह्येतां पुरीं च प्लावयिष्यति ॥ ३॥
यः हि एव अयं मया त्यक्तः लोकः अयं नष्टमङ्गलः ।
भविष्यति अचिरात् साधो कलिनाऽपि निराकृतः ॥ ४॥
न वस्तव्यं त्वया एव इह मया त्यक्ते महीतले ।
जनः अधर्मरुचिः भद्रः भविष्यति कलौ युगे ॥ ५॥
त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धुषु ।
मयि आवेश्य मनः सम्यक् समदृक् विचरस्व गाम् ॥ ६॥
यत् इदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः ।
नश्वरं गृह्यमाणं च विद्धि मायामनोमयम् ॥ ७॥
पुंसः अयुक्तस्य नानार्थः भ्रमः सः गुणदोषभाक् ।
कर्माकर्मविकर्म इति गुणदोषधियः भिदा ॥ ८॥
तस्मात् युक्तैन्द्रियग्रामः युक्तचित्तः इदं जगत् ।
आत्मनि ईक्षस्व विततम् आत्मानं मयि अधीश्वरे ॥ ९॥
ज्ञानविज्ञानसंयुक्तः आत्मभूतः शरीरिणाम् ।
आत्मानुभवतुष्टात्मा न अन्तरायैः विहन्यसे ॥ १०॥
दोषबुद्ध्या उभयातीतः निषेधात् न निवर्तते ।
गुणबुद्ध्या च विहितं न करोति यथा अर्भकः ॥ ११॥
सर्वभूतसुहृत् शान्तः ज्ञानविज्ञाननिश्चयः ।
पश्यन् मदात्मकं विश्वं न विपद्येत वै पुनः ॥ १२॥
श्री शुकः उवाच ।
इति आदिष्टः भगवता महाभागवतः नृप ।
उद्धवः प्रणिपत्य आह तत्त्वजिज्ञासुः अच्युतम् ॥ १३॥
उद्धवः उवाच ।
योगेश योगविन्न्यास योगात्म योगसम्भव ।
निःश्रेयसाय मे प्रोक्तः त्यागः संन्यासलक्षणः ॥ १४॥
त्यागः अयं दुष्करः भूमन् कामानां विषयात्मभिः ।
सुतरां त्वयि सर्वात्मन् न अभक्तैः इति मे मतिः ॥ १५॥
सः अहं मम अहम् इति मूढमतिः विगाढः
त्वत् मायया विरचित आत्मनि सानुबन्धे ।
तत् तु अञ्जसा निगदितं भवता यथा अहम्
संसाधयामि भगवन् अनुशाधि भृत्यम् ॥ १६॥
सत्यस्य ते स्वदृशः आत्मनः आत्मनः अन्यम्
वक्तारम् ईश विबुधेषु अपि न अनुचक्षे ।
सर्वे विमोहितधियः तव मायया इमे
ब्रह्मादयः तनुभृतः बहिः अर्थभावः ॥ १७॥
तस्मात् भवन्तम् अनवद्यम् अनन्तपारम्
सर्वज्ञम् ईश्वरम् अकुण्ठविकुण्ठधिष्णि अयम् ।
निर्विण्णधीः अहम् उ ह वृजनाभितप्तः
नारायणं नरसखं शरणं प्रपद्ये ॥ १८॥
श्री भगवान् उवाच ।
प्रायेण मनुजा लोके लोकतत्त्वविचक्षणाः ।
समुद्धरन्ति हि आत्मानम् आत्मना एव अशुभाशयात् ॥ १९॥
आत्मनः गुरुः आत्मा एव पुरुषस्य विशेषतः ।
यत् प्रत्यक्ष अनुमानाभ्यां श्रेयः असौ अनुविन्दते ॥ २०॥
पुरुषत्वे च मां धीराः साङ्ख्ययोगविशारदाः ।
आविस्तरां प्रपश्यन्ति सर्वशक्ति उपबृंहितम् ॥ २१॥
एकद्वित्रिचतुष्पादः बहुपादः तथा अपदः ।
बह्व्यः सन्ति पुरः सृष्टाः तासां मे पौरुषी प्रिया ॥ २२॥
अत्र मां मार्गयन्त्यद्धाः युक्ताः हेतुभिः ईश्वरम् ।
गृह्यमाणैः गुणैः लिङ्गैः अग्राह्यम् अनुमानतः ॥ २३॥
अत्र अपि उदाहरन्ति इमम् इतिहासं पुरातनम् ।
अवधूतस्य संवादं यदोः अमिततेजसः ॥ २४॥
(अथ अवधूतगीतम् ।)
अवधूतं द्विजं कञ्चित् चरन्तम् अकुतोभयम् ।
कविं निरीक्ष्य तरुणं यदुः पप्रच्छ धर्मवित् ॥ २५॥
यदुः उवाच ।
कुतः बुद्धिः इयं ब्रह्मन् अकर्तुः सुविशारदा ।
याम् आसाद्य भवान् लोकं विद्वान् चरति बालवत् ॥ २६॥
प्रायः धर्मार्थकामेषु विवित्सायां च मानवाः ।
हेतुना एव समीहन्ते आयुषः यशसः श्रियः ॥ २७॥
त्वं तु कल्पः कविः दक्षः सुभगः अमृतभाषणः ।
न कर्ता नेहसे किञ्चित् जडौन्मत्तपिशाचवत् ॥ २८॥
जनेषु दह्यमानेषु कामलोभदवाग्निना ।
न तप्यसे अग्निना मुक्तः गङ्गाम्भस्थः इव द्विपः ॥ २९॥
त्वं हि नः पृच्छतां ब्रह्मन् आत्मनि आनन्दकारणम् ।
ब्रूहि स्पर्शविहीनस्य भवतः केवल आत्मनः ॥ ३०॥
श्री भगवान् उवाच ।
यदुना एवं महाभागः ब्रह्मण्येन सुमेधसा ।
पृष्टः सभाजितः प्राह प्रश्रय अवनतं द्विजः ॥ ३१॥
ब्राह्मणः उवाच ।
सन्ति मे गुरवः राजन् बहवः बुद्ध्या उपाश्रिताः ।
यतः बुद्धिम् उपादाय मुक्तः अटामि इह तान् श्रुणु ॥ ३२॥
पृथिवी वायुः आकाशम् आपः अग्निः चन्द्रमा रविः ।
कपोतः अजगरः सिन्धुः पतङ्गः मधुकृद् गजः ॥ ३३॥
मधुहा हरिणः मीनः पिङ्गला कुररः अर्भकः ।
कुमारी शरकृत् सर्पः ऊर्णनाभिः सुपेशकृत् ॥ ३४॥
एते मे गुरवः राजन् चतुर्विंशतिः आश्रिताः ।
शिक्षा वृत्तिभिः एतेषाम् अन्वशिक्षम् इह आत्मनः ॥ ३५॥
यतः यत् अनुशिक्षामि यथा वा नाहुषात्मज ।
तत् तथा पुरुषव्याघ्र निबोध कथयामि ते ॥ ३६॥
भूतैः आक्रमाणः अपि धीरः दैववशानुगैः ।
तत् विद्वान् न चलेत् मार्गात् अन्वशिक्षं क्षितेः व्रतम् ॥ ३७॥
शश्वत् परार्थसर्वेहः परार्थ एकान्तसम्भवः ।
साधुः शिक्षेत भूभृत्तः नगशिष्यः परात्मताम् ॥
३८॥
प्राणवृत्त्या एव सन्तुष्येत् मुनिः न एव इन्द्रियप्रियैः ।
ज्ञानं यथा न नश्येत न अवकीर्येत वाङ्मनः ॥ ३९॥
विषयेषु आविशन् योगी नानाधर्मेषु सर्वतः ।
गुणदोषव्यपेत आत्मा न विषज्जेत वायुवत् ॥ ४०॥
पार्थिवेषु इह देहेषु प्रविष्टः तत् गुणाश्रयः ।
गुणैः न युज्यते योगी गन्धैः वायुः इव आत्मदृक् ॥ ४१॥
अन्तः हितः च स्थिरजङ्गमेषु
ब्रह्म आत्मभावेन समन्वयेन ।
व्याप्त्य अवच्छेदम् असङ्गम् आत्मनः
मुनिः नभः त्वं विततस्य भावयेत् ॥ ४२॥
तेजः अबन्नमयैः भावैः मेघ आद्यैः वायुना ईरितैः ।
न स्पृश्यते नभः तद्वत् कालसृष्टैः गुणैः पुमान् ॥
४३॥
स्वच्छः प्रकृतितः स्निग्धः माधुर्यः तीर्थभूः नृणाम् ।
मुनिः पुनाति अपां मित्रम् ईक्ष उपस्पर्शकीर्तनैः ॥ ४४॥
तेजस्वी तपसा दीप्तः दुर्धर्षौदरभाजनः ।
सर्वभक्षः अपि युक्त आत्मा न आदत्ते मलम् अग्निवत् ॥ ४५॥
क्वचित् शन्नः क्वचित् स्पष्टः उपास्यः श्रेयः इच्छताम् ।
भुङ्क्ते सर्वत्र दातॄणां दहन् प्राक् उत्तर अशुभम् ॥
४६॥
स्वमायया सृष्टम् इदं सत् असत् लक्षणं विभुः ।
प्रविष्टः ईयते तत् तत् स्वरूपः अग्निः इव एधसि ॥ ४७॥
विसर्गाद्याः श्मशानान्ताः भावाः देहस्य न आत्मनः ।
कलानाम् इव चन्द्रस्य कालेन अव्यक्तवर्त्मना ॥ ४८॥
कालेन हि ओघवेगेन भूतानां प्रभव अपि अयौ ।
नित्यौ अपि न दृश्येते आत्मनः अग्नेः यथा अर्चिषाम् ॥ ४९॥
गुणैः गुणान् उपादत्ते यथाकालं विमुञ्चति ।
न तेषु युज्यते योगी गोभिः गाः इव गोपतिः ॥ ५०॥
बुध्यते स्वेन भेदेन व्यक्तिस्थः इव तत् गतः ।
लक्ष्यते स्थूलमतिभिः आत्मा च अवस्थितः अर्कवत् ॥ ५१॥
न अतिस्नेहः प्रसङ्गः वा कर्तव्यः क्व अपि केनचित् ।
कुर्वन् विन्देत सन्तापं कपोतः इव दीनधीः ॥ ५२॥
कपोतः कश्चन अरण्ये कृतनीडः वनस्पतौ ।
कपोत्या भार्यया सार्धम् उवास कतिचित् समाः ॥ ५३॥
कपोतौ स्नेहगुणितहृदयौ गृहधर्मिणौ ।
दृष्टिं दृष्ट्याङ्गम् अङ्गेन बुद्धिं बुद्ध्या बबन्धतुः ॥
५४॥
शय्यासनाटनस्थानवार्ताक्रीडाशनादिकम् ।
मिथुनीभूय विस्रब्धौ चेरतुः वनराजिषु ॥ ५५॥
यं यं वाञ्छति सा राजन् तर्पयन्ति अनुकम्पिता ।
तं तं समनयत् कामं कृच्छ्रेण अपि अजितैन्द्रियः ॥ ५६॥
कपोती प्रथमं गर्भं गृह्णति कालः आगते ।
अण्डानि सुषुवे नीडे स्वपत्युः संनिधौ सती ॥ ५७॥
तेषू काले व्यजायन्त रचितावयवा हरेः ।
शक्तिभिः दुर्विभाव्याभिः कोमलाङ्गतनूरुहाः ॥ ५८॥
प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्रवत्सलौ ।
शृण्वन्तौ कूजितं तासां निर्वृतौ कलभाषितैः ॥ ५९॥
तासां पतत्रैः सुस्पर्शैः कूजितैः मुग्धचेष्टितैः ।
प्रत्युद्गमैः अदीनानां पितरौ मुदम् आपतुः ॥ ६०॥
स्नेहानुबद्धहृदयौ अन्योन्यं विष्णुमायया ।
विमोहितौ दीनधियौ शिशून् पुपुषतुः प्रजाः ॥ ६१॥
एकदा जग्मतुः तासाम् अन्नार्थं तौ कुटुम्बिनौ ।
परितः कानने तस्मिन् अर्थिनौ चेरतुः चिरम् ॥ ६२॥
दृष्ट्वा तान् लुब्धकः कश्चित् यदृच्छ अतः वनेचरः ।
जगृहे जालम् आतत्य चरतः स्वालयान्तिके ॥ ६३॥
कपोतः च कपोती च प्रजापोषे सदा उत्सुकौ ।
गतौ पोषणम् आदाय स्वनीडम् उपजग्मतुः ॥ ६४॥
कपोती स्वात्मजान् वीक्ष्य बालकान् जालसंवृतान् ।
तान् अभ्यधावत् क्रोशन्ती क्रोशतः भृशदुःखिता ॥ ६५॥
सा असकृत् स्नेहगुणिता दीनचित्ता अजमायया ।
स्वयं च अबध्यत शिचा बद्धान् पश्यन्ति अपस्मृतिः ॥ ६६॥
कपोतः च आत्मजान् बद्धान् आत्मनः अपि अधिकान् प्रियान् ।
भार्यां च आत्मसमां दीनः विललाप अतिदुःखितः ॥ ६७॥
अहो मे पश्यत अपायम् अल्पपुण्यस्य दुर्मतेः ।
अतृप्तस्य अकृतार्थस्य गृहः त्रैवर्गिकः हतः ॥ ६८॥
अनुरूपा अनुकूला च यस्य मे पतिदेवता ।
शून्ये गृहे मां सन्त्यज्य पुत्रैः स्वर्याति साधुभिः ॥ ६९॥
सः अहं शून्ये गृहे दीनः मृतदारः मृतप्रजः ।
जिजीविषे किमर्थं वा विधुरः दुःखजीवितः ॥ ७०॥
तान् तथा एव आवृतान् शिग्भिः मृत्युग्रस्तान् विचेष्टतः ।
स्वयं च कृपणः शिक्षु पश्यन् अपि अबुधः अपतत् ॥ ७१॥
तं लब्ध्वा लुब्धकः क्रूरः कपोतं गृहमेधिनम् ।
कपोतकान् कपोतीं च सिद्धार्थः प्रययौ गृहम् ॥ ७२॥
एवं कुटुम्बी अशान्त आत्मा द्वन्द्व आरामः पतत् त्रिवत् ।
पुष्णन् कुटुम्बं कृपणः सानुबन्धः अवसीदति ॥ ७३॥
यः प्राप्य मानुषं लोकं मुक्तिद्वारम् अपावृतम् ।
गृहेषु खगवत् सक्तः तम् आरूढच्युतं विदुः ॥ ७४॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
यद्वधूतेतिहासे सप्तमोऽध्यायः ॥ ७॥
अथास्श्टमोऽध्यायः ।
सुखम् ऐन्द्रियकं राजन् स्वर्गे नरकः एव च ।
देहिनः यत् यथा दुःखं तस्मात् न इच्छेत तत् बुधाः ॥ १॥
ग्रासं सुमृष्टं विरसं महान्तं स्तोकम् एव वा ।
यदृच्छया एव अपतितं ग्रसेत् आजगरः अक्रियः ॥ २॥
शयीत अहानि भूरीणि निराहारः अनुपक्रमः ।
यदि न उपनमेत् ग्रासः महाहिः इव दिष्टभुक् ॥ ३॥
ओजः सहोबलयुतं बिभ्रत् देहम् अकर्मकम् ।
शयानः वीतनिद्रः च नेहेत इन्द्रियवान् अपि ॥ ४॥
मुनिः प्रसन्नगम्भीरः दुर्विगाह्यः दुरत्ययः ।
अनन्तपारः हि अक्षोभ्यः स्तिमित उदः इव अर्णवः ॥ ५॥
समृद्धकामः हीनः वा नारायणपरः मुनिः ।
न उत्सर्पेत न शुष्येत सरिद्भिः इव सागरः ॥ ६॥
दृष्ट्वा स्त्रियं देवमायां तत् भावैः अजितेन्द्रियः ।
प्रलोभितः पतति अन्धे तमसि अग्नौ पतङ्गवत् ॥ ७॥
योषित् हिरण्य आभरण अम्बरादि
द्रव्येषु मायारचितेषु मूढः ।
प्रलोभितात्मा हि उपभोगबुद्ध्या
पतङ्गवत् नश्यति नष्टदृष्टिः ॥ ८॥
स्तोकं स्तोकं ग्रसेत् ग्रासं देहः वर्तेत यावता ।
गृहान् अहिंसत् न आतिष्ठेत् वृत्तिं माधुकरीं मुनिः ॥ ९॥
अणुभ्यः च महद्भ्यः च शास्त्रेभ्यः कुशलः नरः ।
सर्वतः सारम् आदद्यात् पुष्पेभ्यः इव षट्पदः ॥ १०॥
सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम् ।
पाणिपात्र उदरामत्रः मक्षिका इव न सङ्ग्रही ॥ ११॥
सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षुकः ।
मक्षिकाः इव सङ्गृह्णन् सह तेन विनश्यति ॥ १२॥
पद अपि युवतीं भिक्षुः न स्पृशेत् दारवीम् अपि ।
स्पृशन् करीव बध्येत करिण्या अङ्गसङ्गतः ॥ १३॥
न अधिगच्छेत् स्त्रियं प्राज्ञः कर्हिचित् मृत्युम् आत्मनः ।
बल अधिकैः स हन्येत गजैः अन्यैः गजः यथा ॥ १४॥
न देयं न उपभोग्यं च लुब्धैः यत् दुःख सञ्चितम् ।
भुङ्क्ते तत् अपि तत् च अन्यः मधुहेव अर्थवित् मधु ॥ १५॥
सुख दुःख उपार्जितैः वित्तैः आशासानां गृह आशिषः ।
मधुहेव अग्रतः भुङ्क्ते यतिः वै गृहमेधिनाम् ॥ १६॥
ग्राम्यगीतं न श्रुणुयात् यतिः वनचरः क्वचित् ।
शिखेत हरिणात् वद्धात् मृगयोः गीतमोहितात् ॥ १७॥
नृत्यवादित्रगीतानि जुषन् ग्राम्याणि योषिताम् ।
आसां क्रीडनकः वश्यः ऋष्यशृङ्गः मृगीसुतः ॥ १८॥
जिह्वया अतिप्रमाथिन्या जनः रसविमोहितः ।
मृत्युम् ऋच्छति असत् बुद्धिः मीनः तु बडिशैः यथा ॥ १९॥
इन्द्रियाणि जयन्ति आशुः निराहाराः मनीषिणः ।
वर्जयित्वा तु रसनं तत् निरन्नस्य वर्धते ॥ २०॥
तावत् जितेन्द्रियः न स्यात् विजितानि इन्द्रियः पुमान् ।
न जयेत् रसनं यावत् जितं सर्वं जिते रसे ॥ २१॥
पिङ्गला नाम वेश्या आसीत् विदेहनगरे पुरा ।
तस्या मे शिक्षितं किञ्चित् निबोध नृपनन्दन ॥ २२॥
सा स्वैरिण्येकदा कान्तं सङ्केत उपनेष्यती ।
अभूत्काले बहिर्द्वारि बिभ्रती रूपमुत्तमम् ॥ २३॥
मार्ग आगच्छतो वीक्ष्य पुरुषान्पुरुषर्षभ ।
तान् शुल्कदान्वित्तवतः कान्तान्मेनेऽर्थकामुका ॥ २४॥
आगतेष्वपयातेषु सा सङ्केतोपजीवनी ।
अप्यन्यो वित्तवान्कोऽपि मामुपैष्यति भूरिदः ॥ २५॥
एअवं दुराशया ध्वस्तनिद्रा द्वार्यवलम्बती ।
निर्गच्छन्ती प्रविशती निशीथं समपद्यत ॥ २६॥
तस्या वित्ताशया शुष्यद्वक्त्राया दीनचेतसः ।
निर्वेदः परमो जज्ञे चिन्ताहेतुः सुखावहः ॥ २७॥
तस्या निर्विण्णचित्ताया गीतं श्रुणु यथा मम ।
निर्वेद आशापाशानां पुरुषस्य यथा ह्यसिः ॥ २८॥
न हि अङ्गाजातनिर्वेदः देहबन्धं जिहासति ।
यथा विज्ञानरहितः मनुजः ममतां नृप ॥ २९॥
पिङ्गला उवाच ।
अहो मे मोहविततिं पश्यत अविजित आत्मनः ।
या कान्तात् असतः कामं कामये येन बालिशा ॥ ३०॥
सन्तं समीपे रमणं रतिप्रदं
वित्तप्रदं नित्यम् इमं विहाय ।
अकामदं दुःखभय आदि शोक
मोहप्रदं तुच्छम् अहं भजे अज्ञा ॥ ३१॥
अहो मयात्मा परितापितो वृथा
साङ्केत्यवृत्त्याऽतिविगर्ह्यवार्तया ।
स्त्रैणान्नराद्याऽर्थतृषोऽनुशोच्या
त्क्रीतेन वित्तं रतिमात्मनेच्छती ॥ ३२॥
यदस्थिभिर्निर्मितवंशवंश्य
स्थूणं त्वचा रोमनखैः पिनद्धम् ।
क्षरन्नवद्वारमगारमेतद्
विण्मूत्रपूर्णं मदुपैति कान्या ॥ ३३॥
विदेहानां पुरे ह्यस्मिन्नहमेकैव मूढधीः ।
याऽन्यस्मिच्छन्त्यसत्यस्मादात्मदात्काममच्युतात् ॥ ३४॥
सुहृत्प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् ।
तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥ ३५॥
कियत्प्रियं ते व्यभजन्कामा ये कामदा नराः ।
आद्यन्तवन्तो भार्याया देवा वा कालविद्रुताः ॥ ३६॥
नूनं मे भगवान् प्रीतः विष्णुः केन अपि कर्मणा ।
निर्वेदः अयं दुराशाया यत् मे जातः सुखावहः ॥ ३७॥
मैवं स्युर्मन्दभग्यायाः क्लेशा निर्वेदहेतवः ।
येनानुबन्धं निहृत्य पुरुषः शममृच्छति ॥ ३८॥
तेन उपकृतम् आदाय शिरसा ग्राम्यसङ्गताः ।
त्यक्त्वा दुराशाः शरणं व्रजामि तम् अधीश्वरम् ॥ ३९॥
सन्तुष्टा श्रद्दधत्येतद्यथालाभेन जीवती ।
विहराम्यमुनैवाहमात्मना रमणेन वै ॥ ४०॥
संसारकूपे पतितं विषयैर्मुषितेक्षणम् ।
ग्रस्तं कालाहिनाऽऽत्मानं कोऽन्यस्त्रातुमधीश्वरः ॥ ४१॥
आत्मा एव हि आत्मनः गोप्ता निर्विद्येत यदाखिलात् ।
अप्रमत्तः इदं पश्यत् ग्रस्तं कालाहिना जगत् ॥ ४२॥
ब्राह्मण उवाच ।
एअवं व्यवसितमतिर्दुराशां कान्ततर्षजाम् ।
छित्वोपशममास्थाय शय्यामुपविवेश सा ॥ ४३॥
आशा हि परमं दुःखं नैराश्यं परमं सुखम् ।
यथा संछिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ॥ ४४॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे पिङ्गलोपाख्याऽनेष्टमोऽध्यायः ॥ ८॥
अथ नवमोऽध्यायः ।
ब्राह्मणः उवाच ।
परिग्रहः हि दुःखाय यत् यत् प्रियतमं नृणाम् ।
अनन्तं सुखम् आप्नोति तत् विद्वान् यः तु अकिञ्चनः ॥ १॥
सामिषं कुररं जघ्नुः बलिनः ये निरामिषाः ।
तत् आमिषं परित्यज्य सः सुखं समविन्दत ॥ २॥
न मे मानावमानौ स्तः न चिन्ता गेहपुत्रिणाम् ।
आत्मक्रीडः आत्मरतिः विचरामि इह बालवत् ॥ ३॥
द्वौ एव चिन्तया मुक्तौ परम आनन्दः आप्लुतौ ।
यः विमुग्धः जडः बालः यः गुणेभ्यः परं गतः ॥ ४॥
क्वचित् कुमारी तु आत्मानं वृणानान् गृहम् आगतान् ।
स्वयं तान् अर्हयामास क्वापि यातेषु बन्धुषु ॥ ५॥
तेषम् अभ्यवहारार्थं शालीन् रहसि पार्थिव ।
अवघ्नन्त्याः प्रकोष्ठस्थाः चक्रुः शङ्खाः स्वनं महत् ॥
६॥
सा तत् जुगुप्सितं मत्वा महती व्रीडिता ततः ।
बभञ्ज एकैकशः शङ्खान् द्वौ द्वौ पाण्योः अशेषयत् ॥
७॥
उभयोः अपि अभूत् घोषः हि अवघ्नन्त्याः स्म शङ्खयोः ।
तत्र अपि एकं निरभिदत् एकस्मान् न अभवत् ध्वनिः ॥ ८॥
अन्वशिक्षम् इमं तस्याः उपदेशम् अरिन्दम ।
लोकान् अनुचरन् एतान् लोकतत्त्वविवित्सया ॥ ९॥
वासे बहूनां कलहः भवेत् वार्ता द्वयोः अपि ।
एकः एव चरेत् तस्मात् कुमार्याः इव कङ्कणः ॥ १०॥
मनः एकत्र संयुज्यात् जितश्वासः जित आसनः ।
वैराग्याभ्यासयोगेन ध्रियमाणम् अतन्द्रितः ॥ ११॥
यस्मिन् मनः लब्धपदं यत् एतत्
शनैः शनैः मुञ्चति कर्मरेणून् ।
सत्त्वेन वृद्धेन रजः तमः च
विधूय निर्वाणम् उपैति अनिन्धनम् ॥ १२॥
तत् एवम् आत्मनि अवरुद्धचित्तः
न वेद किञ्चित् बहिः अन्तरं वा ।
यथा इषुकारः नृपतिं व्रजन्तम्
इषौ गतात्मा न ददर्श पार्श्वे ॥ १३॥
एकचार्यनिकेतः स्यात् अप्रमत्तः गुहाशयः ।
अलक्ष्यमाणः आचारैः मुनिः एकः अल्पभाषणः ॥ १४॥
गृहारम्भः अतिदुःखाय विफलः च अध्रुवात्मनः ।
सर्पः परकृतं वेश्म प्रविश्य सुखम् एधते ॥ १५॥
एको नारायणो देवः पूर्वसृष्टं स्वमायया ।
संहृत्य कालकलया कल्पान्त इदमीश्वरः ॥ १६॥
एक एवाद्वितीयोऽभूदात्माधारोऽखिलाश्रयः ।
कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु ।
सत्त्वादिष्वादिपुएरुषः प्रधानपुरुषेश्वरः ॥ १७॥
परावराणां परम आस्ते कैवल्यसञ्ज्ञितः ।
केवलानुभवानन्दसन्दोहो निरुपाधिकः ॥ १८॥
केवलात्मानुभावेन स्वमायां त्रिगुणात्मिकाम् ।
संक्षोभयन्सृजत्यादौ तया सूत्रमरिन्दम ॥ १९॥
तामाहुस्त्रिगुणव्यक्तिं सृजन्तीं विश्वतोमुखम् ।
यस्मिन्प्रोतमिदं विश्वं येन संसरते पुमान् ॥ २०॥
यथा ऊर्णनाभिः हृदयात् ऊर्णां सन्तत्य वक्त्रतः ।
तया विहृत्य भूयस्तां ग्रसति एवं महेश्वरः ॥ २१॥
यत्र यत्र मनः देही धारयेत् सकलं धिया ।
स्नेहात् द्वेषात् भयात् वा अपि याति तत् तत् सरूपताम् ॥ २२॥
कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः ।
याति तत् स्सत्मतां राजन् पूर्वरूपम् असन्त्यजन् ॥ २३॥
एवं गुरुभ्यः एतेभ्यः एष मे शिक्षिता मतिः ।
स्वात्मा उपशिक्षितां बुद्धिं श्रुणु मे वदतः प्रभो ॥ २४॥
देहः गुरुः मम विरक्तिविवेकहेतुः
बिभ्रत् स्म सत्त्वनिधनं सतत अर्त्युत् अर्कम् ।
तत्त्वानि अनेन विमृशामि यथा तथा अपि
पारक्यम् इति अवसितः विचरामि असङ्गः ॥ २५॥
जायात्मजार्थपशुभृत्यगृहाप्तवर्गान्
पुष्णाति यत् प्रियचिकीर्षया वितन्वन् ॥
स्वान्ते सकृच्छ्रम् अवरुद्धधनः सः देहः
सृष्ट्वा अस्य बीजम् अवसीदति वृक्षधर्मा ॥ २६॥
जिह्वा एकतः अमुम् अवकर्षति कर्हि तर्षा
शिश्नः अन्यतः त्वक् उदरं श्रवणं कुतश्चित् ।
ग्राणः अन्यतः चपलदृक् क्व च कर्मशक्तिः
बह्व्यः सपत्न्यः इव गेहपतिं लुनन्ति ॥ २७॥
सृष्ट्वा पुराणि विविधानि अजया आत्मशक्त्या
वृक्षान् सरीसृपपशून्खगदंशमत्स्यान् ।
तैः तैः अतुष्टहृदयः पुरुषं विधाय
ब्रह्मावलोकधिषणं मुदमाप देवः ॥ २८॥
लब्ध्वा सुदुर्लभम् इदं बहुसम्भवान्ते
मानुष्यमर्थदमनित्यमपीह धीरः ।
तूर्णं यतेत न पतेत् अनुमृत्युः यावत्
निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥ २९॥
एवं सञ्जातवैराग्यः विज्ञानलोक आत्मनि ।
विचरामि महीम् एतां मुक्तसङ्गः अनहङ्कृतिः ॥ ३०॥
न हि एकस्मात् गुरोः ज्ञानं सुस्थिरं स्यात् सुपुष्कलम् ।
ब्रह्म एतत् अद्वितीयं वै गीयते बहुधा ऋषिभिः ॥ ३१॥
श्रीभगवानुवाच ।
इत्युक्त्वा स यदुं विप्रस्तमामन्त्रय गभीरधीः ।
वन्दितो।आभ्यर्थितो राज्ञा ययौ प्रीतो यथागतम् ॥ ३२॥
अवधूतवचः श्रुत्वा पूर्वेषां नः स पूर्वजः ।
सर्वसङ्गविनिर्मुक्तः समचित्तो बभूव ह ॥ ३३॥
(इति अवधूतगीतम् ।)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
नवमोऽध्यायः ॥ ९॥
अथ दशमोऽध्यायः ।
श्रीभगवान् उवाच ।
मया उदितेषु अवहितः स्वधर्मेषु मदाश्रयः ।
वर्णाश्रमकुल आचारम् अकामात्मा समाचरेत् ॥ १॥
अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम् ।
गुणेषु तत्त्वध्यानेन सर्वारम्भविपर्ययम् ॥ २॥
सुप्तस्य विषयालोकः ध्यायतः वा मनोरथः ।
नानामकत्वात् विफलः तथा भेदात्मदीः गुणैः ॥ ३॥
निवृत्तं कर्म सेवेत प्रवृत्तं मत्परः त्यजेत् ।
जिज्ञासायां सम्प्रवृत्तः न अद्रियेत् कर्म चोदनाम् ॥ ४॥
यमानभीक्ष्णं सेवेत नियमान् मत्परः क्वचित् ।
मदभिज्ञं गुर्ं शान्तम् उपासीत मदात्मकम् ॥ ५॥
अमान्यमत्सरः दक्षः निर्ममः दृढसौहृदः ।
असत्वरः अर्थजिज्ञासुः अनसूयौः अमोघवाक् ॥ ६॥
जायापत्यगृहक्षेत्रस्वजनद्रविण आदिषु ।
उदासीनः समं पश्यन् सर्वेषु अर्थम् इव आत्मनः ॥ ७॥
विलक्षणः स्थूलसूक्ष्मात् देहात् आत्मेक्षिता स्वदृक् ।
यथाग्निः दारुणः दाह्यात् दाहकः अन्यः प्रकाशकः ॥ ८॥
निरोध उत्पत्ति अणु बृहन् नानात्वं तत्कृतान् गुणान् ।
अन्तः प्रविष्टः आधत्तः एवं देहगुणान् परः ॥ ९॥
यः असौ गुणैः विरचितः देहः अयं पुरुषस्य हि ।
संसारः तत् निबन्धः अयं पुंसः विद्यात् छिदात्मनः ॥ १०॥
तस्मात् जिज्ञासया आत्मानम् आत्मस्थं परम् ।
सङ्गम्य निरसेत् एतत् वस्तुबुद्धिं यथाक्रमम् ॥ ११॥
आचार्यः अरणिः आद्यः स्यात् अन्तेवासि उत्तर अरणिः ।
तत् सन्धानं प्रवचनं विद्या सन्धिः सुखावहः ॥ १२॥
वैशारदी सा अतिविशुद्धबुद्धिः
धुनोति मायां गुणसम्प्रसूताम् ।
गुणान् च सन्दह्य यत् आत्मम् एतत्
स्वयं च शाम्यति असमिद् यथा अग्निः ॥ १३॥
अथ एषां कर्मकर्तॄणां भोक्तॄणां सुखदुःखयोः ।
नानात्वम् अथ नित्यत्वं लोककालागम आत्मनाम् ॥ १४॥
मन्यसे सर्वभावानां संस्था हि औत्पत्तिकी यथा ।
तत् तत् आकृतिभेदेन जायते भिद्यते च धीः ॥ १५॥
एवम् अपि अङ्ग सर्वेषां देहिनां देहयोगतः ।
काल अवयवतः सन्ति भावा जन्मादयोः असकृत् ॥ १६॥
अत्र अपि कर्मणां कर्तुः अस्वातन्त्र्यं च लक्ष्यते ।
भोक्तुः च दुःखसुखयोः कः अन्वर्थः विवशं भजेत् ॥ १७॥
न देहिनां सुखं किञ्चित् विद्यते विदुषाम् अपि ।
तथा च दुःखं मूढानां वृथा अहङ्करणं परम् ॥ १८॥
यदि प्राप्तिं विघातं च जानन्ति सुखदुःखयोः ।
ते अपि अद्धा न विदुः योगं मृत्युः न प्रभवेत् यथा ॥ १९॥
कः अन्वर्थः सुखयति एनं कामः वा मृत्युः अन्तिके ।
आघातं नीयमानस्य वध्यसि एव न तुष्टिदः ॥ २०॥
श्रुतं च दृष्टवत् दुष्टं स्पर्धा असूया अत्ययव्ययैः ।
बहु अन्तराय कामत्वात् कृषिवत् च अपि निष्फलम् ॥ २१॥
अन्तरायैः अविहतः यदि धर्मः स्वनुष्ठितः ।
तेनापि निर्जितं स्थानं यथा गच्छति तत् श्रुणु ॥ २२॥
इष्त्वा इह देवताः यज्ञैः स्वर्लोकं याति याज्ञिकः ।
भुञ्जीत देववत् तत्र भोगान् दिव्यान् निज अर्जितान् ॥ २३॥
स्वपुण्य उपचिते शुभ्रे विमानः उपगीयते ।
गन्धर्वैः विहरन्मध्ये देवीनां हृद्यवेषधृक् ॥ २४॥
स्त्रीभिः कामगयानेन किङ्किणीजालमालिना ।
क्रीडन् न वेद आत्मपातं सुराक्रीडेषु निर्वृतः ॥ २५॥
तावत् प्रमोदते स्वर्गे यावत् पुण्यं समाप्यते ।
क्षीणपुण्यः पतति अर्वाक् अनिच्छन् कालचालितः ॥ २६॥
यदि अधर्मरतः सङ्गात् असतां वा अजितेन्द्रियः ।
कामात्मा कृपणः लुब्धः स्त्रैणः भूतविहिंसकः ॥ २७॥
पशून् अविधिना आलभ्य प्रेतभूतगणान् यजन् ।
नरकान् अवशः जन्तुः गत्वा याति उल्बणं तमः ॥ २८॥
कर्माणि दुःख उदर्काणि कुर्वन् देहेन तैः पुनः ।
देहम् आभजते तत्र किं सुखं मर्त्यधर्मिणः ॥ २९॥
लोकानां लोक पालानां मद्भयं कल्पजीविनाम् ।
ब्रह्मणः अपि भयं मत्तः द्विपराधपर आयुषः ॥ ३०॥
गुणाः सृजन्ति कर्माणि गुणः अनुसृजते गुणान् ।
जीवः तु गुणसंयुक्तः भुङ्क्ते कर्मफलानि असौ ॥ ३१॥
यावत् स्यात् गुणवैषम्यं तावत् नानात्वम् आत्मनः ।
नानात्वम् आत्मनः यावत् पारतन्त्र्यं तदा एव हि ॥ ३२॥
यावत् अस्य अस्वतन्त्रत्वं तावत् ईश्वरतः भयम् ।
यः एतत् समुपासीरन् ते मुह्यन्ति शुचार्पिताः ॥ ३३॥
कालः आत्मा आगमः लोकः स्वभावः धर्मः एव च ।
इति मां बहुधा प्राहुः गुणव्यतिकरे सति ॥ ३४॥
उद्धवः उवाच ।
गुणेषु वर्तमानः अपि देहजेषु अनपावृताः ।
गुणैः न बध्यते देही बध्यते वा कथं विभो ॥ ३५॥
कथं वर्तेत विहरेत् कैः वा ज्ञायेत लक्षणैः ।
किं भुञ्जीत उत विसृजेत् शयीत आसीत याति वा ॥ ३६॥
एतत् अच्युत मे ब्रूहि प्रश्नं प्रश्नविदां वर ।
नित्यमुक्तः नित्यबद्धः एकः एव इति मे भ्रमः ॥ ३७॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
दशमोऽध्यायः ॥ १०॥
अथ एकादशोऽध्यायः ।
श्रीभगवान् उवाच ।
बद्धः मुक्तः इति व्याख्या गुणतः मे न वस्तुतः ।
गुणस्य मायामूलत्वात् न मे मोक्षः न बन्धनम् ॥ १॥
शोकमोहौ सुखं दुःखं देहापत्तिः च मायया ।
स्वप्नः यथा आत्मनः ख्यातिः संसृतिः न तु वास्तवी ॥ २॥
विद्या अविद्ये मम तनू विद्धि उद्धव शरीरिणाम् ।
मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते ॥ ३॥
एकस्य एव मम अंशस्य जीवस्य एव महामते ।
बन्धः अस्य अविद्यया अनादिः विद्यया च तथा इतरः ॥ ४॥
अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते ।
विरुद्धधर्मिणोः तात स्थितयोः एकधर्मिणि ॥ ५॥
सुपर्णौ एतौ सदृशौ सखायौ
यदृच्छया एतौ कृतनीडौ च वृक्षे ।
एकः तयोः खादति पिप्पलान्नम्
अन्यः निरन्नः अपि बलेन भूयान् ॥ ६॥
आत्मानम् अन्यं च सः वेद विद्वान्
अपिप्पलादः न तु पिप्पलादः ।
यः अविद्यया युक् स तु नित्यबद्धः
विद्यामयः यः स तु नित्यमुक्तः ॥ ७॥
देहस्थः अपि न देहस्थः विद्वान् स्वप्नात् यथा उत्थितः ।
अदेहस्थः अपि देहस्थः कुमतिः स्वप्नदृक् यथा ॥ ८॥
इन्द्रियैः इन्द्रियार्थेषु गुणैः अपि गुणेषु च ।
गृह्यमाणेषु अहङ्कुर्यात् न विद्वान् यः तु अविक्रियः ॥ ९॥
दैवाधीने शरीरे अस्मिन् गुणभाव्येन कर्मणा ।
वर्तमानः अबुधः तत्र कर्ता अस्मि इति निबध्यते ॥ १०॥
एवं विरक्तः शयनः आसनाटनमज्जने ।
दर्शनस्पर्शनघ्राणभोजनश्रवणादिषु ॥ ११॥
न तथा बध्यते विद्वान् तत्र तत्र आदयन् गुणान् ।
प्रकृतिस्थः अपि असंसक्तः यथा खं सविता अनिलः ॥ १२॥
वैशारद्येक्षया असङ्गशितया छिन्नसंशयः ।
प्रतिबुद्धः इव स्वप्नात् नानात्वात् विनिवर्तते ॥ १३॥
यस्य स्युः वीतसङ्कल्पाः प्राणेन्द्रियमनोधियाम् ।
वृत्तयः सः विनिर्मुक्तः देहस्थः अपि हि तत् गुणैः ॥ १४॥
यस्य आत्मा हिंस्यते हिंस्र्यैः येन किञ्चित् यदृच्छया ।
अर्च्यते वा क्वचित् तत्र न व्यतिक्रियते बुधः ॥ १५॥
न स्तुवीत न निन्देत कुर्वतः साधु असाधु वा ।
वदतः गुणदोषाभ्यां वर्जितः समदृक् मुनिः ॥ १६॥
न कुर्यात् न वदेत् किञ्चित् न ध्यायेत् साधु असाधु वा ।
आत्मारामः अनया वृत्त्या विचरेत् जडवत् मुनिः ॥ १७॥
शब्दब्रह्मणि निष्णातः न निष्णायात् परे यदि ।
श्रमः तस्य श्रमफलः हि अधेनुम् इव रक्षतः ॥ १८॥
गां दुग्धदोहाम् असतीं च भार्याम्
देहं पराधीनम् असत्प्रजां च ।
वित्तं तु अतीर्थीकृतम् अङ्ग वाचम्
हीनां मया रक्षति दुःखदुःखी ॥ १९॥
यस्यां न मे पावनम् अङ्ग कर्म
स्थितिउद्भवप्राण निरोधनम् अस्य ।
लीलावतारईप्सितजन्म वा स्यात्
बन्ध्यां गिरं तां बिभृयात् न धीरः ॥ २०॥
एवं जिज्ञासया अपोह्य नानात्वभ्रमम् आत्मनि ।
उपारमेत विरजं मनः मयि अर्प्य सर्वगे ॥ २१॥
यदि अनीशः धारयितुं मनः ब्रह्मणि निश्चलम् ।
मयि सर्वाणि कर्माणि निरपेक्षः समाचर ॥ २२॥
श्रद्धालुः मे कथाः शृण्वन् सुभद्रा लोकपावनीः ।
गायन् अनुस्मरन् कर्म जन्म च अभिनयन् मुहुः ॥ २३॥
मदर्थे धर्मकामार्थान् आचरन् मदपाश्रयः ।
लभते निश्चलां भक्तिं मयि उद्धव सनातने ॥ २४॥
सत्सङ्गलब्धया भक्त्या मयि मां सः उपासिता ।
सः वै मे दर्शितं सद्भिः अञ्जसा विन्दते पदम् ॥ २५॥
उद्धव उवाच ।
साधुः तव उत्तमश्लोक मतः कीदृग्विधः प्रभो ।
भक्तिः त्वयि उपयुज्येत कीदृशी सद्भिः आदृता ॥ २६॥
एतत् मे पुरुषाध्यक्ष लोकाध्यक्ष जगत् प्रभो ।
प्रणताय अनुरक्ताय प्रपन्नाय च कथ्यताम् ॥ २७॥
त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः ।
अवतीर्णः असि भगवन् स्वेच्छाउपात्तपृथक् वपुः ॥ २८॥
श्रीभगवान् उवाच ।
कृपालुः अकृतद्रोहः तितिक्षुः सर्वदेहिनाम् ।
सत्यसारः अनवद्यात्मा समः सर्वोपकारकः ॥ २९॥
कामैः अहतधीः दान्तः मृदुः शुचिः अकिञ्चनः ।
अनीहः मितभुक् शान्तः स्थिरः मत् शरणः मुनिः ॥ ३०॥
अप्रमत्तः गभीरात्मा धृतिमाञ्जितषड्गुणः ।
अमानी मानदः कल्पः मैत्रः कारुणिकः कविः ॥ ३१॥
आज्ञाय एवं गुणान् दोषान्मयादिष्टान् अपि स्वकान् ।
धर्मान् सन्त्यज्य यः सर्वान् मां भजेत सः सत्तमः ॥ ३२॥
ज्ञात्वा अज्ञात्वा अथ ये वै मां यावान् यः च अस्मि
यादृशः ।
भजन्ति अनन्यभावेन ते मे भक्ततमाः मताः ॥ ३३॥
मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चनम् ।
परिचर्या स्तुतिः प्रह्वगुणकर्म अनुकीर्तनम् ॥ ३४॥
मत्कथाश्रवणे श्रद्धा मत् अनुध्यानम् उद्धव ।
सर्वलाभ उपहरणं दास्येन आत्मनिवेदनम् ॥ ३५॥
मज्जन्मकर्मकथनं मम पर्वानुमोदनम् ।
गीतताण्डववादित्रगोष्ठीभिः मद्गृह उत्सवः ॥ ३६॥
यात्रा बलिविधानं च सर्ववार्षिकपर्वसु ।
वैदिकी तान्त्रिकी दीक्षा मदीयव्रतधारणम् ॥ ३७॥
मम अर्चास्थापने श्रद्धा स्वतः संहत्य च उद्यमः ।
उद्यान उपवनाक्रीडपुरमन्दिरकर्मणि ॥ ३८॥
संमार्जन उपलेपाभ्यां सेकमण्डलवर्तनैः ।
गृहशुश्रूषणं मह्यं दासवद्यदमायया ॥ ३९॥
अमानित्वम् अदम्भित्वं कृतस्य अपरिकीर्तनम् ।
अपि दीपावलोकं मे न उपयुञ्ज्यात् निवेदितम् ॥ ४०॥
यत् यत् इष्टतमं लोके यत् च अतिप्रियम् आत्मनः ।
तत् तत् निवेदयेत् मह्यं तत् आनन्त्याय कल्पते ॥ ४१॥
सूर्यः अग्निः ब्राह्मणः गावः वैष्णवः खं मरुत् जलम् ।
भूः आत्मा सर्वभूतानि भद्र पूजापदानि मे ॥ ४२॥
सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् ।
आतिथ्येन तु विप्राग्र्यः गोष्वङ्ग यवसादिना ॥ ४३॥
वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया ।
वायौ मुख्यधिया तोये द्रव्यैः तोयपुरस्कृतैः ॥ ४४॥
स्थण्डिले मन्त्रहृदयैः भोगैः आत्मानम् आत्मनि ।
क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम् ॥ ४५॥
धिष्ण्येषु एषु इति मद्रूपं शङ्खचक्रगदाम्बुजैः ।
युक्तं चतुर्भुजं शान्तं ध्यायन् अर्चेत् समाहितः ॥ ४६॥
इष्टापूर्तेन माम् एवं यः यजेत समाहितः ।
लभते मयि सद्भक्तिं मत्स्मृतिः साधुसेवया ॥ ४७॥
प्रायेण भक्तियोगेन सत्सङ्गेन विना उद्धव ।
न उपायः विद्यते सध्र्यङ् प्रायणं हि सताम् अहम् ॥ ४८॥
अथ एतत् परमं गुह्यं श्रुण्वतः यदुनन्दन ।
सुगोप्यम् अपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखा ॥ ४९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
एकादशपूजाविधानयोगो नाम एकादशोऽध्यायः ॥ ११॥
अथ द्वादशोऽध्यायः ।
श्रीभगवान् उवाच ।
न रोधयति मां योगः न स्साङ्ख्यं धर्मः एव च ।
न स्वाध्यायः तपः त्यागः न इष्टापूर्तं न दक्षिणा ॥ १॥
व्रतानि यज्ञः छन्दांसि तीर्थानि नियमाः यमाः ।
यथा अवरुन्धे सत्सङ्गः सर्वसङ्ग अपहः हि माम् ॥ २॥
सत्सङ्गेन हि दैतेया यातुधानः मृगाः खगाः ।
गन्धर्व अप्सरसः नागाः सिद्धाः चारणगुह्यकाः ॥ ३॥
विद्याधराः मनुष्येषु वैश्याः शूद्राः स्त्रियः अन्त्यजाः ।
रजः तमः प्रकृतयः तस्मिन् तस्मिन् युगे अनघ ॥ ४॥
बहवः मत्पदं प्राप्ताः त्वाष्ट्रकायाधवादयः ।
वृषपर्वा बलिः वाणः मयः च अथ विभीषणः ॥ ५॥
सुग्रीवः हनुमान् ऋक्षः गजः गृध्रः वणिक्पथः ।
व्याधः कुब्जा व्रजे गोप्यः यज्ञपत्न्यः तथा अपरे ॥ ६॥
ते न अधितश्रुतिगणाः न उपासितमहत्तमाः ।
अव्रतातप्ततपसः मत्सङ्गात् माम् उपागताः ॥ ७॥
केवलेन हि भावेन गोप्यः गावः नगाः मृगाः ।
ये अन्ये मूढधियः नागाः सिद्धाः माम् ईयुः अञ्जसा ॥ ८॥
यं न योगेन साङ्ख्येन दानव्रततपः अध्वरैः ।
व्याख्याः स्वाध्यायसंन्यासैः प्राप्नुयात् यत्नवान् अपि ॥ ९॥
रामेण सार्धं मथुरां प्रणीते
श्वाफल्किना मयि अनुरक्तचित्ताः ।
विगाढभावेन न मे वियोग
तीव्राधयः अन्यं ददृशुः सुखाय ॥ १०॥
ताः ताः क्षपाः प्रेष्ठतमेन नीताः
मया एव वृन्दावनगोचरेण ।
क्षणार्धवत् ताः पुनरङ्ग तासां
हीना माया कल्पसमा बभूवुः ॥ ११॥
ताः न अविदन् मयि अनुषङ्गबद्ध
धियः स्वमात्मानम् अदः तथा इदम् ।
यथा समाधौ मुनयः अब्धितोये
नद्यः प्रविष्टाः इव नामरूपे ॥ १२॥
मत्कामा रमणं जारम् अस्वरूपविदः अबलाः ।
ब्रह्म मां परमं प्रापुः सङ्गात् शतसहस्रशः ॥ १३॥
तस्मात् त्वम् उद्धव उत्सृज्य चोदनां प्रतिचोदनाम् ।
प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतम् एव च ॥ १४॥
माम् एकम् एव शरणम् आत्मानं सर्वदेहिनाम् ।
याहि सर्वात्मभावेन मया स्याः हि अकुतोभयः ॥ १५॥
उद्धवः उवाच ।
संशयः श्रुण्वतः वाचं तव योगेश्वर ईश्वर ।
न निवर्ततः आत्मस्थः येन भ्राम्यति मे मनः ॥ १६॥
श्रीभगवान् उवाच ।
सः एष जीवः विवरप्रसूतिः
प्राणेन घोषेण गुहां प्रविष्टः ।
मनोमयं सूक्ष्मम् उपेत्य रूपं
मात्रा स्वरः वर्णः इति स्थविष्ठः ॥ १७॥
यथा अनलः खे अनिलबन्धुः ऊष्मा
बलेन दारुण्यधिमथ्यमानः ।
अणुः प्रजातः हविषा समिध्यते
तथा एव मे व्यक्तिः इयं हि वाणी ॥ १८॥
एवं गदिः कर्मगतिः विसर्गः
घ्राणः रसः दृक् स्पर्शः श्रुतिः च ।
सङ्कल्पविज्ञानम् अथ अभिमानः
सूत्रं रजः सत्त्वतमोविकारः ॥ १९॥
अयं हि जीवः त्रिवृत् अब्जयोनिः
अव्यक्तः एकः वयसा सः आद्यः ।
विश्लिष्टशक्तिः बहुधा एव भाति
बीजानि योनिं प्रतिपद्य यद्वत् ॥ २०॥
यस्मिन् इदं प्रोतम् अशेषम् ओतं
पटः यथा तन्तुवितानसंस्थः ।
यः एष संसारतरुः पुराणः
कर्मात्मकः पुष्पफले प्रसूते ॥ २१॥
द्वे अस्य बीजे शतमूलः त्रिनालः
पञ्चस्कन्धः पञ्चरसप्रसूतिः ।
दश एकशाखः द्विसुपर्णनीडः
त्रिवल्कलः द्विफलः अर्कं प्रविष्टः ॥ २२॥
अदन्ति च एकं फलम् अस्य गृध्रा
ग्रामेचराः एकम् अरण्यवासाः ।
हंसाः यः एकं बहुरूपम् इज्यैः
मायामयं वेद सः वेद वेदम् ॥ २३॥
एवं गुरु उपासनया एकभक्त्या
विद्याकुठारेण शितेन धीरः ।
विवृश्च्य जीवाशयम् अप्रमत्तः
सम्पद्य च आत्मानम् अथ त्यज अस्त्रम् ॥ २४॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
द्वादशोऽध्यायः ॥ १२॥
अथ त्रयोदशोऽध्यायः ।
श्रीभगवान् उवाच ।
सत्त्वं रजः तमः इति गुणाः बुद्धेः न च आत्मनः ।
सत्त्वेन अन्यतमौ हन्यात् सत्त्वं सत्त्वेन च एव हि ॥ १॥
सत्त्वात् धर्मः भवेत् वृद्धात् पुंसः मद्भक्तिलक्षणः ।
सात्विक उपासया सत्त्वं ततः धर्मः प्रवर्तते ॥ २॥
धर्मः रजः तमः हन्यात् सत्त्ववृद्धिः अनुत्तमः ।
आशु नश्यति तत् मूलः हि अधर्मः उभये हते ॥ ३॥
आगमः अपः प्रजा देशः कालः कर्म च जन्म च ।
ध्यानं मन्त्रः अथ संस्कारः दश एते गुणहेतवः ॥ ४॥
तत् तत् सात्विकम् एव एषां यत् यत् वृद्धाः प्रचक्षते ।
निन्दन्ति तामसं तत् तत् राजसं तत् उपेक्षितम् ॥ ५॥
सात्त्विकानि एव सेवेत पुमान् सत्त्वविवृद्धये ।
ततः धर्मः ततः ज्ञानं यावत् स्मृतिः अपोहनम् ॥ ६॥
वेणुसङ्घर्षजः वह्निः दग्ध्वा शाम्यति तत् वनम् ।
एवं गुणव्यत्ययजः देहः शाम्यति तत् क्रियः ॥ ७॥
उद्धवः उवाच ।
विदन्ति मर्त्याः प्रायेण विषयान् पदम् आपदाम् ।
तथा अपि भुञ्जते कृष्ण तत् कथं श्व खर अजावत् ॥ ८॥
श्रीभगवान् उवाच ।
अहम् इति अन्यथाबुद्धिः प्रमत्तस्य यथा हृदि ।
उत्सर्पति रजः घोरं ततः वैकारिकं मनः ॥ ९॥
रजोयुक्तस्य मनसः सङ्कल्पः सविकल्पकः ।
ततः कामः गुणध्यानात् दुःसहः स्यात् हि दुर्मतेः ॥ १०॥
करोति कामवशगः कर्माणि अविजितेन्द्रियः ।
दुःखोदर्काणि सम्पश्यन् रजोवेगविमोहितः ॥ ११।
रजः तमोभ्यां यत् अपि विद्वान् विक्षिप्तधीः पुनः ।
अतन्द्रितः मनः युञ्जन् दोषदृष्टिः न सज्जते ॥ १२॥
अप्रमत्तः अनुयुञ्जीतः मनः मयि अर्पयन् शनैः ।
अनिर्विण्णः यथाकालं जितश्वासः जितासनः ॥ १३॥
एतावान् योगः आदिष्टः मत् शिष्यैः सनक आदिभिः ।
सर्वतः मनः आकृष्य मय्यद्धा आवेश्यते यथा ॥ १४॥
उद्धवः उवाच ।
यदा त्वं सनक आदिभ्यः येन रूपेण केशव ।
योगम् आदिष्टवान् एतत् रूपम् इच्छामि वेदितुम् ॥ १५॥
श्रीभगवान् उवाच ।
पुत्राः हिरण्यगर्भस्य मानसाः सनक आदयः ।
पप्रच्छुः पितरं सूक्ष्मां योगस्य ऐकान्तिकीं गतिम् ॥
१६॥
सनक आदयः ऊचुः ।
गुणेषु आविशते चेतः गुणाः चेतसि च प्रभो ।
कथम् अन्योन्यसन्त्यागः मुमुक्षोः अतितितीर्षोः ॥ १७॥
श्रीभगवान् उवाच ।
एवं पृष्टः महादेवः स्वयम्भूः भूतभावनः ।
ध्यायमानः प्रश्नबीजं न अभ्यपद्यत कर्मधीः ॥ १८॥
सः माम् अचिन्तयत् देवः प्रश्नपारतितीर्षया ।
तस्य अहं हंसरूपेण सकाशम् अगमं तदा ॥ १९॥
दृष्ट्वा माम् त उपव्रज्य कृत्वा पाद अभिवन्दनम् ।
ब्रह्माणम् अग्रतः कृत्वा पप्रच्छुः कः भवान् इति ॥ २०॥
इति अहं मुनिभिः पृष्टः तत्त्वजिज्ञासुभिः तदा ।
यत् अवोचम् अहं तेभ्यः तत् उद्धव निबोध मे ॥ २१॥
वस्तुनः यदि अनानात्वम् आत्मनः प्रश्नः ईदृशः ।
कथं घटेत वः विप्राः वक्तुः वा मे कः आश्रयः ॥ २२॥
पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः ।
कः भवान् इति वः प्रश्नः वाचारम्भः हि अनर्थकः ॥ २३॥
मनसा वचसा दृष्ट्या गृह्यते अन्यैः अपि इन्द्रियैः ।
अहम् एव न मत्तः अन्यत् इति बुध्यध्वम् अञ्जसा ॥ २४॥
गुणेषु आविशते चेतः गुणाः चेतसि च प्रजाः ।
जीवस्य देहः उभयं गुणाः चेतः मत् आत्मनः ॥ २५॥
गुणेषु च आविशत् चित्तम् अभीक्ष्णं गुणसेवया ।
गुणाः च चित्तप्रभवाः मत् रूपः उभयं त्यजेत् ॥ २६॥
जाग्रत् स्वप्नः सुषुप्तं च गुणतः बुद्धिवृत्तयः ।
तासां विलक्षणः जीवः साक्षित्वेन विनिश्चितः ॥ २७॥
यः हि संसृतिबन्धः अयम् आत्मनः गुणवृत्तिदः ।
मयि तुर्ये स्थितः जह्यात् त्यागः तत् गुणचेतसाम् ॥ २८॥
अहङ्कारकृतं बन्धम् आत्मनः अर्थविपर्ययम् ।
विद्वान् निर्विद्य संसारचिन्तां तुर्ये स्थितः त्यजेत् ॥ २९॥
यावत् नानार्थधीः पुंसः न निवर्तेत युक्तिभिः ।
जागर्ति अपि स्वपन् अज्ञः स्वप्ने जागरणं यथा ॥ ३०॥
असत्त्वात् आत्मनः अन्येषां भावानां तत् कृता भिदा ।
गतयः हेतवः च अस्य मृषा स्वप्नदृशः यथा ॥ ३१॥
यो जागरे बहिः अनुक्षणधर्मिणः अर्थान्
भुङ्क्ते समस्तकरणैः हृदि तत् सदृक्षान् ।
स्वप्ने सुषुप्तः उपसंहरते सः एकः
स्मृति अन्वयात् त्रिगुणवृत्तिदृक् इन्द्रिय ईशः ॥ ३२॥
एवं विमृश्य गुणतः मनसः त्र्यवस्था
मत् मायया मयि कृता इति निश्चितार्थाः ।
संछिद्य हार्दम् अनुमानस्त् उक्तितीक्ष्ण
ज्ञानासिना भजतः मा अखिलसंशयाधिम् ॥ ३३॥
ईक्षेत विभ्रमम् इदं मनसः विलासम्
दृष्टं विनष्टम् अतिलोलम् अलातचक्रम् ।
विज्ञानम् एकम् उरुधा इव विभाति माया
स्वप्नः त्रिधा गुणविसर्गकृतः विकल्पः ॥ ३४॥
दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततृष्णः
तूष्णीं भवेत् निजसुख अनुभवः निरीहः ।
सन्दृश्यते क्व च यदि इदम् अवस्तुबुद्ध्या
त्यक्तं भ्रमाय न भवेत् स्मृतिः आनिपातात् ॥ ३५॥
देहं च नश्वरम् अवस्थितम् उत्थितं वा
सिद्धः न पश्यति यतः अध्यगमत्स्वरूपम् ।
दैवात् अपेतम् उत दैवशात् उपेतम्
वासः यथा परिकृतं मदिरामदान्धः ॥ ३६॥
देहः अपि दैववशगः खलु कर्म यावत्
स्वारम्भकं प्रतिसमीक्षतः एव सासुः ।
तं अप्रपञ्चम् अधिरूढसमाधियोगः
स्वाप्नं पुनः न भजते प्रतिबुद्धवस्तुः ॥ ३७॥
मया एतत् उक्तं वः विप्राः गुह्यं यत् साङ्ख्ययोगयोः ।
जानीतम् आगतं यज्ञं युष्मत् धर्मविवक्षया ॥ ३८॥
अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः ।
परायणं द्विजश्रेष्ठाः श्रियः कीर्तेः दमस्य च ॥ ३९॥
मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् ।
सुहृदं प्रियम् आत्मानं साम्य असङ्ग आदयः गुणाः ॥ ४०॥
इति मे छिन्नसन्देहाः मुनयः सनक आदयः ।
सभाजयित्वा परया भक्त्या अगृणत संस्तवैः ॥ ४१॥
तैः अहं पूजितः सम्यक् संस्तुतः परम ऋषिभिः ।
प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः ॥ ४२॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
हंसगीतानिरूपणं नाम त्रयोदशोऽध्यायः ॥ १३॥
अथ चतुर्दशोऽध्यायः ।
उद्धवः उवाच ।
वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः ।
तेषां विकल्पप्राधान्यम् उत अहो एकमुख्यता ॥ १॥
भवत् उदाहृतः स्वामिन् भक्तियोगः अनपेक्षितः ।
निरस्य सर्वतः सङ्गं येन त्वयि आविशेत् मनः ॥ २॥
श्रीभगवान् उवाच ।
कालेन नष्टा प्रलये वाणीयं वेदसञ्ज्ञिता ।
मया आदौ ब्रह्मणे प्रोक्ता धर्मः यस्यां मदात्मकः ॥ ३॥
तेन प्रोक्ता च पुत्राय मनवे पूर्वजाय सा ।
ततः भृगु आदयः अगृह्णन् सप्तब्रह्ममहर्षयः ॥ ४॥
तेभ्यः पितृभ्यः तत् पुत्राः देवदानवगुह्यकाः ।
मनुष्याः सिद्धगन्धर्वाः सविद्याधरचारणाः ॥ ५॥
किन्देवाः किन्नराः नागाः रक्षः किम्पुरुष आदयः ।
बह्व्यः तेषां प्रकृतयः रजःसत्त्वतमोभुवः ॥ ६॥
याभिः भूतानि भिद्यन्ते भूतानां मतयः तथा ।
यथाप्रकृति सर्वेषां चित्राः वाचः स्रवन्ति हि ॥ ७॥
एवं प्रकृतिवैचित्र्यात् भिद्यन्ते मतयः नृणाम् ।
पारम्पर्येण केषाञ्चित् पाखण्डमतयः अपरे ॥ ८॥
मन्मायामोहितधियः पुरुषाः पुरुषर्षभ ।
श्रेयः वदन्ति अनेकान्तं यथाकर्म यथारुचि ॥ ९॥
धर्मम् एके यशः च अन्ये कामं सत्यं दमं शमम् ।
अन्ये वदन्ति स्वार्थं वा ऐश्वर्यं त्यागभोजनम् ।
केचित् यज्ञतपोदानं व्रतानि नियम अन्यमान् ॥ १०॥
आदि अन्तवन्तः एव एषां लोकाः कर्मविनिर्मिताः ।
दुःख उदर्काः तमोनिष्ठाः क्षुद्र आनन्दाः शुच अर्पिताः ॥
११॥
मयि अर्पित मनः सभ्य निरपेक्षस्य सर्वतः ।
मया आत्मना सुखं यत् तत् कुतः स्यात् विषय आत्मनाम् ॥
१२॥
अकिञ्चनस्य दान्तस्य शान्तस्य समचेतसः ।
मया सन्तुष्टमनसः सर्वाः सुखमयाः दिशः ॥ १३॥
न पारमेष्ठ्यं न महेन्द्रधिष्ण्यम्
न सार्वभौमं न रसाधिपत्यम् ।
न योगसिद्धीः अपुनर्भवं वा
मयि अर्पित आत्मा इच्छति मत् विना अन्यत् ॥ १४॥
न तथा मे प्रियतमः आत्मयोनिः न शङ्करः ।
न च सङ्कर्षणः न श्रीः न एव आत्मा च यथा भवान् ॥ १५॥
निरपेक्षं मुनिं शातं निर्वैरं समदर्शनम् ।
अनुव्रजामि अहं नित्यं पूयेयेति अङ्घ्रिरेणुभिः ॥ १६॥
निष्किञ्चना मयि अनुरक्तचेतसः
शान्ताः महान्तः अखिलजीववत्सलाः ।
कामैः अनालब्धधियः जुषन्ति यत्
तत् नैरपेक्ष्यं न विदुः सुखं मम ॥ १७॥
बाध्यमानः अपि मद्भक्तः विषयैः अजितेन्द्रियः ।
प्रायः प्रगल्भया भक्त्या विषयैः न अभिभूयते ॥ १८॥
यथा अग्निः सुसमृद्ध अर्चिः करोति एधांसि भस्मसात् ।
तथा मद्विषया भक्तिः उद्धव एनांसि कृत्स्नशः ॥ १९॥
न साधयति मां योगः न साङ्ख्यं धर्मः उद्धव ।
न स्वाध्यायः तपः त्यागः यथा भक्तिः मम ऊर्जिता ॥ २०॥
भक्त्या अहम् एकया ग्राह्यः श्रद्धया आत्मा प्रियः सताम् ।
भक्तिः पुनाति मन्निष्ठा श्वपाकान् अपि संभवात् ॥ २१॥
धर्मः सत्यदया उपेतः विद्या वा तपसान्विता ।
मद्भ्क्त्यापेतम् आत्मानं न सम्यक् प्रपुनाति हि ॥ २२॥
कथं विना रोमहर्षं द्रवता चेतसा विना ।
विनानन्द अश्रुकलया शुध्येत् भक्त्या विनाशयः ॥ २३॥
वाक् गद्गदा द्रवते यस्य चित्तम्
रुदति अभीक्ष्णं हसति क्वचित् च ।
विलज्जः उद्गायति नृत्यते च
मद्भक्तियुक्तः भुवनं पुनाति ॥ २४॥
यथा अग्निना हेम मलं जहाति
ध्मातं पुनः स्वं भजते च रूपम् ।
आत्मा च कर्मानुशयं विधूय
मद्भक्तियोगेन भजति अथः माम् ॥ २५॥
यथा यथा आत्मा परिमृज्यते असौ
मत्पुण्यगाथाश्रवण अभिधानैः ।
तथा तथा पश्यति वस्तु सूक्ष्मम्
चक्षुः यथा एव अञ्जनसम्प्रयुक्तम् ॥ २६॥
विषयान् ध्यायतः चित्तं विषयेषु विषज्जते ।
माम् अनुस्मरतः चित्तं मयि एव प्रविलीयते ॥ २७॥
तस्मात् असत् अभिध्यानं यथा स्वप्नमनोरथम् ।
हित्वा मयि समाधत्स्व मनः मद्भावभावितम् ॥ २८॥
स्त्रीणां स्त्रीसङ्गिनां सङ्गं त्यक्त्वा दूरतः आत्मवान् ।
क्षेमे विविक्तः आसीनः चिन्तयेत् माम् अतन्द्रितः ॥ २९॥
न तथा अस्य भवेत् क्लेशः बन्धः च अन्यप्रसङ्गतः ।
योषित् सङ्गात् यथा पुंसः यथा तत् सङ्गिसङ्गतः ॥ ३०॥
उद्धवः उवाच ।
यथा त्वाम् अरविन्दाक्ष यादृशं वा यदात्मकम् ।
ध्यायेत् मुमुक्षुः एतत् मे ध्यानं मे वक्तुम् अर्हसि ॥ ३१॥
श्रीभगवान् उवाच ।
समः आसनः आसीनः समकायः यथासुखम् ।
हस्तौ उत्सङ्गः आधाय स्वनासाग्रकृत ईक्षणः ॥ ३२॥
प्राणस्य शोधयेत् मार्गं पूरकुम्भकरेचकैः ।
विपर्ययेण अपि शनैः अभ्यसेत् निर्जितेन्द्रियः ॥ ३३॥
हृदि अविच्छिन्नम् ओङ्कारं घण्टानादं बिसोर्णवत् ।
प्राणेन उदीर्य तत्र अथ पुनः संवेशयेत् स्वरम् ॥ ३४॥
एवं प्रणवसंयुक्तं प्राणम् एव समभ्यसेत् ।
दशकृत्वः त्रिषवणं मासात् अर्वाक् जित अनिलः ॥ ३५॥
हृत्पुण्डरीकम् अन्तस्थम् ऊर्ध्वनालम् अधोमुखम् ।
ध्यात्वा ऊर्ध्वमुखम् उन्निद्रम् अष्टपत्रं सकर्णिकम् ॥ ३६॥
कर्णिकायां न्यसेत् सूर्यसोमाग्नीन् उत्तरोत्तरम् ।
वह्निमध्ये स्मरेत् रूपं मम एतत् ध्यानमङ्गलम् ॥ ३७॥
समं प्रशान्तं सुमुखं दीर्घचारुचतुर्भुजम् ।
सुचारुसुन्दरग्रीवं सुकपोलं शुचिस्मितम् ॥ ३८॥
समान कर्ण विन्यस्त स्फुरन् मकर कुण्डलम् ।
हेम अम्बरं घनश्यामं श्रीवत्स श्रीनिकेतनम् ॥ ३९॥
शङ्ख चक्र गदा पद्म वनमाला विभूषितम् ।
नूपुरैः विलसत् पादं कौस्तुभ प्रभया युतम् ॥ ४०॥
द्युमत् किरीट कटक कटिसूत्र अङ्गद अयुतम् ।
सर्वाङ्ग सुन्दरं हृद्यं प्रसाद सुमुख ईक्षणम् ॥ ४१॥
सुकुमारम् अभिध्यायेत् सर्वाङ्गेषु मनः दधत् ।
इन्द्रियाणि इन्द्रियेभ्यः मनसा आकृष्य तत् मनः ।
बुद्ध्या सारथिना धीरः प्रणयेत् मयि सर्वतः ॥ ४२॥
तत् सर्व व्यापकं चित्तम् आकृष्य एकत्र धारयेत् ।
न अन्यानि चिन्तयेत् भूयः सुस्मितं भावयेत् मुखम् ॥ ४३॥
तत्र लब्धपदं चित्तम् आकृष्य व्योम्नि धारयेत् ।
तत् च त्यक्त्वा मदारोहः न किञ्चित् अपि चिन्तयेत् ॥ ४४॥
एवं समाहितमतिः माम् एव आत्मानम् आत्मनि ।
विचष्टे मयि सर्वात्मत् ज्योतिः ज्योतिषि संयुतम् ॥ ४५॥
ध्यानेन इत्थं सुतीव्रेण युञ्जतः योगिनः मनः ।
संयास्यति आशु निर्वाणं द्रव्य ज्ञान क्रिया भ्रमः ॥ ४६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
भक्तिरहस्यावधारणयोगो नाम चतुर्दशोऽध्यायः ॥ १४॥
अथ पञ्चदशोऽध्यायः ।
श्रीभगवान् उवाच ।
जितेन्द्रियस्य युक्तस्य जितश्वासस्य योगिनः
मयि धारयतः चेतः उपतिष्ठन्ति सिद्धयः ॥ १॥
उद्धवः उवाच ।
कया धारणया कास्वित् कथंस्वित् सिद्धिः अच्युत ।
कति वा सिद्धयः ब्रूहि योगिनां सिद्धिदः भवान् ॥ २॥
श्रीभगवान् उवाच ।
सिद्धयः अष्टादश प्रोक्ता धारणायोगपारगैः ।
तासाम् अष्टौ मत् प्रधानाः दशः एव गुणहेतवः ॥ ३॥
अणिमा महिमा मूर्तेः लघिमा प्राप्तिः इन्द्रियैः ।
प्राकाम्यं श्रुतदृष्टेषु शक्तिप्रेरणम् ईशिता ॥ ४॥
गुणेषु असङ्गः वशिता यत् कामः तत् अवस्यति ।
एताः मे सिद्धयः सौम्य अष्टौ उत्पत्तिकाः मताः ॥ ५॥
अनूर्मिमत्त्वं देहे अस्मिन् दूरश्रवणदर्शनम् ।
मनोजवः कामरूपं परकायप्रवेशनम् ॥ ६॥
स्वच्छन्दमृत्युः देवानां सहक्रीडानुदर्शनम् ।
यथासङ्कल्पसंसिद्धिः आज्ञाप्रतिहता गतिः ॥ ७॥
त्रिकालज्ञत्वम् अद्वन्द्वं परचित्तादि अभिज्ञता ।
अग्नि अर्क अम्बु विष आदीनां प्रतिष्टम्भः अपराजयः ॥ ८॥
एताः च उद्देशतः प्रोक्ता योगधारणसिद्धयः ।
यया धारणया या स्यात् यथा वा स्यात् निबोध मे ॥ ९॥
भूतसूक्ष्म आत्मनि मयि तन्मात्रं धारयेत् मनः ।
अणिमानम् अवाप्नोति तन्मात्र उपासकः मम ॥ १०॥
महति आत्मन् मयि परे यथासंस्थं मनः दधत् ।
महिमानम् अवाप्नोति भूतानां च पृथक् पृथक् ॥ ११॥
परमाणुमये चित्तं भूतानां मयि रञ्जयन् ।
कालसूक्ष्मात्मतां योगी लघिमानम् अवाप्नुयात् ॥ १२॥
धारयन् मयि अहंतत्त्वे मनः वैकारिके अखिलम् ।
सर्वेन्द्रियाणाम् आत्मत्वं प्राप्तिं प्राप्नोति मन्मनाः ॥ १३॥
महति आत्मनि यः सूत्रे धारयेत् मयि मानसम् ।
प्राकाम्यं पारमेष्ठ्यं मे विन्दते अव्यक्तजन्मनः ॥ १४॥
विष्णौ त्र्यधि ईश्वरे चित्तं धारयेत् कालविग्रहे ।
सः ईशित्वम् अवाप्नोति क्षेत्रक्षेत्रज्ञचोदनाम् ॥ १५॥
नारायणे तुरीयाख्ये भगवत् शब्दशब्दिते ।
मनः मयि आदधत् योगी मत् धर्माः वहिताम् इयात् ॥ १६॥
निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः ।
परमानन्दम् आप्नोति यत्र कामः अवसीयते ॥ १७॥
श्वेतदीपपतौ चित्तं शुद्धे धर्ममये मयि ।
धारयन् श्वेततां याति षडूर्मिरहितः नरः ॥ १८॥
मयि आकाश आत्मनि प्राणे मनसा घोषम् उद्वहन् ।
तत्र उपलब्धा भूतानां हंसः वाचः श्रुणोति असौ ॥ १९॥
चक्षुः त्वष्टरि संयोज्य त्वष्टारम् अपि चक्षुषि ।
मां तत्र मनसा ध्यायन् विश्वं पश्यति सूक्ष्मदृक् ॥ २०॥
मनः मयि सुसंयोज्य देहं तदनु वायुना ।
मद्धारण अनुभावेन तत्र आत्मा यत्र वै मनः ॥ २१॥
यदा मनः उपादाय यत् यत् रूपं बुभूषति ।
तत् तत् भवेत् मनोरूपं मद्योगबलम् आश्रयः ॥ २२॥
परकायं विशन् सिद्धः आत्मानं तत्र भावयेत् ।
पिण्डं हित्वा विशेत् प्राणः वायुभूतः षडङ्घ्रिवत् ॥ २३॥
पार्ष्ण्या आपीड्य गुदं प्राणं हृत् उरः कण्ठ मूर्धसु ।
आरोप्य ब्रह्मरन्ध्रेण ब्रह्म नीत्वा उत्सृजेत् तनुम् ॥ २४॥
विहरिष्यन् सुराक्रीडे मत्स्थं सत्त्वं विभावयेत् ।
विमानेन उपतिष्ठन्ति सत्त्ववृत्तीः सुरस्त्रियः ॥ २५॥
यथा सङ्कल्पयेत् बुद्ध्या यदा वा मत्परः पुमान् ।
मयि सत्ये मनः युञ्जन् तथा तत् समुपाश्नुते ॥ २६॥
यः वै मद्भावम् आपन्नः ईशितुः वशितुः पुमान् ।
कुतश्चित् न विहन्येत तस्य च आज्ञा यथा मम ॥ २७॥
मद्भक्त्या शुद्धसत्त्वस्य योगिनः धारणाविदः ।
तस्य त्रैकालिकी बुद्धिः जन्म मृत्यु उपबृंहिता ॥ २८॥
अग्नि आदिभिः न हन्येत मुनेः योगम् अयं वपुः ।
मद्योगश्रान्तचित्तस्य यादसाम् उदकं यथा ॥ २९॥
मद्विभूतिः अभिध्यायन् श्रीवत्स अस्त्रबिभूषिताः ।
ध्वजातपत्रव्यजनैः सः भवेत् अपराजितः ॥ ३०॥
उपासकस्य माम् एवं योगधारणया मुनेः ।
सिद्धयः पूर्वकथिताः उपतिष्ठन्ति अशेषतः ॥ ३१॥
जितेन्द्रियस्य दान्तस्य जितश्वास आत्मनः मुनेः ।
मद्धारणां धारयतः का सा सिद्धिः सुदुर्लभा ॥ ३२॥
अन्तरायान् वदन्ति एताः युञ्जतः योगम् उत्तमम् ।
मया सम्पद्यमानस्य कालक्षेपणहेतवः ॥ ३३॥
जन्म ओषधि तपो मन्त्रैः यावतीः इह सिद्धयः ।
योगेन आप्नोति ताः सर्वाः न अन्यैः योगगतिं व्रजेत् ॥ ३४॥
सर्वासाम् अपि सिद्धीनां हेतुः पतिः अहं प्रभुः ।
अहं योगस्य साङ्ख्यस्य धर्मस्य ब्रह्मवादिनाम् ॥ ३५॥
अहम् आत्मा अन्तरः बाह्यः अनावृतः सर्वदेहिनाम् ।
यथा भूतानि भूतेषु बहिः अन्तः स्वयं तथा ॥ ३६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
सिद्धनिरूपणयोगो नाम पञ्चदशोऽध्यायः ॥ १५॥
अथ षोडशोऽध्यायः ।
उद्धवः उवाच ।
त्वं ब्रह्म परमं साक्षात् अनादि अनन्तम् अपावृतम् ।
सर्वेषाम् अपि भावानां त्राणस्थिति अप्यय उद्भवः ॥ १॥
उच्चावचेषु भूतेषु दुर्ज्ञेयम् अकृत आत्मभिः ।
उपासते त्वां भगवन् याथातथ्येन ब्राह्मणाः ॥ २॥
येषु येषु च भावेषु भक्त्या त्वां परमर्षयः ।
उपासीनाः प्रपद्यन्ते संसिद्धिं तत् वदस्व मे ॥ ३॥
गूढः चरसि भूतात्मा भूतानां भूतभावन ।
न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते ॥ ४॥
याः काः च भूमौ दिवि वै रसायाम्
विभूतयः दिक्षु महाविभूते ।
ताः मह्यम् आख्याहि अनुभाविताः ते
नमामि ते तीर्थ पद अङ्घ्रिपद्मम् ॥ ५॥
श्रीभगवान् उवाच ।
एवम् एतत् अहं पृष्टः प्रश्नं प्रश्नविदां वर ।
युयुत्सुना विनशने सपत्नैः अर्जुनेन वै ॥ ६॥
ज्ञात्वा ज्ञातिवधं गर्ह्यम् अधर्मं राज्यहेतुकम् ।
ततः निवृत्तः हन्ता अहं हतः अयम् इति लौकिकः ॥ ७॥
सः तदा पुरुषव्याघ्रः युक्त्या मे प्रतिबोधितः ।
अभ्यभाषत माम् एवं यथा त्वं रणमूर्धनि ॥ ८॥
अहम् आत्मा उद्धव आमीषां भूतानां सुहृत् ईश्वरः ।
अहं सर्वाणि भूतानि तेषां स्थिति उद्भव अप्ययः ॥ ९॥
अहं गतिः गतिमतां कालः कलयताम् अहम् ।
गुणानां च अपि अहं साम्यं गुणिन्या उत्पत्तिकः गुणः ॥ १०॥
गुणिनाम् अपि अहं सूत्रं महतां च महान् अहम् ।
सूक्ष्माणाम् अपि अहं जीवः दुर्जयानाम् अहं मनः ॥ ११॥
हिरण्यगर्भः वेदानां मन्त्राणां प्रणवः त्रिवृत् ।
अक्षराणाम् अकारः अस्मि पदानि छन्दसाम् अहम् ॥ १२॥
इन्द्रः अहं सर्वदेवानां वसूनामस्मि हव्यवाट् ।
आदित्यानाम् अहं विष्णू रुद्राणां नीललोहितः ॥ १३॥
ब्रह्मर्षीणां भृगुः अहं राजर्षीणाम् अहं मनुः ।
देवर्षिणां नारदः अहं हविर्धानि अस्मि धेनुषु ॥ १४॥
सिद्धेश्वराणां कपिलः सुपर्णः अहं पतत्रिणाम् ।
प्रजापतीनां दक्षः अहं पितॄणाम् अहम् अर्यमा ॥ १५॥
मां विद्धि उद्धव दैत्यानां प्रह्लादम् असुरेश्वरम् ।
सोमं नक्षत्र ओषधीनां धनेशं यक्षरक्षसाम् ॥ १६॥
ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम् ।
तपतां द्युमतां सूर्यं मनुष्याणां च भूपतिम् ॥ १७॥
उच्चैःश्रवाः तुरङ्गाणां धातूनाम् अस्मि काञ्चनम् ।
यमः संयमतां च अहं सर्पाणाम् अस्मि वासुकिः ॥ १८॥
नागेन्द्राणां अनन्तः अहं मृगेन्द्रः शृङ्गिदंष्ट्रिणाम् ।
आश्रमाणाम् अहं तुर्यः वर्णानां प्रथमः अनघ ॥ १९॥
तीर्थानां स्रोतसां गङ्गा समुद्रः सरसाम् अहम् ।
आयुधानां धनुः अहं त्रिपुरघ्नः धनुष्मताम् ॥ २०॥
धिष्ण्यानाम् अस्मि अहं मेरुः गहनानां हिमालयः ।
वनस्पतीनाम् अश्वत्थः ओषधीनाम् अहं यवः ॥ २१॥
पुरोधसां वसिष्ठः अहं ब्रह्मिष्ठानां बृहस्पतिः ।
स्कन्दः अहं सर्वसेनान्याम् अग्रण्यां भगवान् अजः ॥ २२॥
यज्ञानां ब्रह्मयज्ञः अहं व्रतानाम् अविहिंसनम् ।
वायु अग्नि अर्क अम्बु वाक् आत्मा शुचीनाम् अपि अहं शुचिः ॥ २३॥
योगानाम् आत्मसंरोधः मन्त्रः अस्मि विजिगीषताम् ।
आन्वीक्षिकी कौशलानां विकल्पः ख्यातिवादिनाम् ॥ २४॥
स्त्रीणां तु शतरूपा अहं पुंसां स्वायंभुवः मनुः ।
नारायणः मुनीनां च कुमारः ब्रह्मचारिणाम् ॥ २५॥
धर्माणाम् अस्मि संन्यासः क्षेमाणाम् अबहिः मतिः ।
गुह्यानां सूनृतं मौनं मिथुनानाम् अजः तु अहम् ॥ २६॥
संवत्सरः अस्मि अनिमिषाम् ऋतूनां मधुमाधवौ ।
मासानां मार्गशीर्षः अहं नक्षत्राणां तथा अभिजित् ॥ २७॥
अहं युगानां च कृतं धीराणां देवलः असितः ।
द्वैपायनः अस्मि व्यासानां कवीनां काव्यः आत्मवान् ॥ २८॥
वासुदेवः भगवतां त्वं भागवतेषु अहम् ।
किम्पुरुषाणां हनुमान् विद्याघ्राणां सुदर्शनः ॥ २९॥
रत्नानां पद्मरागः अस्मि पद्मकोशः सुपेशसाम् ।
कुशः अस्मि दर्भजातीनां गव्यम् आज्यं हविष्षु अहम् ॥
३०॥
व्यवसायिनाम् अहं लक्ष्मीः कितवानां छलग्रहः ।
तितिक्षा अस्मि तितिक्षणां सत्त्वं सत्त्ववताम् अहम् ॥ ३१॥
ओजः सहोबलवतां कर्म अहं विद्धि सात्त्वताम् ।
सात्त्वतां नवमूर्तीनाम् आदिमूर्तिः अहं परा ॥ ३२॥
विश्वावसुः पूर्वचित्तिः गन्धर्व अप्सरसाम् अहम् ।
भूधराणाम् अहं स्थैर्यं गन्धमात्रम् अहं भुवः ॥ ३३॥
अपां रसः च परमः तेजिष्ठानां विभावसुः ।
प्रभा सूर्य इन्दु ताराणां शब्दः अहं नभसः परः ॥ ३४॥
ब्रह्मण्यानां बलिः अहं विराणाम् अहम् अर्जुनः ।
भूतानां स्थितिः उत्पत्तिः अहं वै प्रतिसङ्क्रमः ॥ ३५॥
गति उक्ति उत्सर्ग उपादानम् आनन्द स्पर्श लक्षणम् ।
आस्वाद श्रुति अवघ्राणम् अहं सर्वेन्द्रिय इन्द्रियम् ॥ ३६॥
पृथिवी वायुः आकाशः आपः ज्योतिः अहं महान् ।
विकारः पुरुषः अव्यक्तं रजः सत्त्वं तमः परम् ।
अहम् एतत् प्रसङ्ख्यानं ज्ञानं सत्त्वविनिश्चयः ॥ ३७॥
मया ईश्वरेण जीवेन गुणेन गुणिना विना ।
सर्वात्मना अपि सर्वेण न भावः विद्यते क्वचित् ॥ ३८॥
सङ्ख्यानं परमाणूनां कालेन क्रियते मया ।
न तथा मे विभूतीनां सृजतः अण्डानि कोटिशः ॥ ३९॥
तेजः श्रीः कीर्तिः ऐश्वर्यं ह्रीः त्यागः सौभगं भगः ।
वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मे अंशकः ॥ ४०॥
एताः ते कीर्तिताः सर्वाः संक्षेपेण विभूतयः ।
मनोविकाराः एव एते यथा वाचा अभिधीयते ॥ ४१॥
वाचं यच्छ मनः यच्छ प्राणानि यच्छ इन्द्रियाणि च ।
आत्मानम् आत्मना यच्छ न भूयः कल्पसे अध्वने ॥ ४२॥
यः वै वाक् मनसि सम्यक् असंयच्छन् धिया यतिः ।
तस्य व्रतं तपः दानं स्रवत्यामघटाम्बुवत् ॥ ४३॥
तस्मात् मनः वचः प्राणान् नियच्छेत् मत् परायणः ।
मत् भक्ति युक्तया बुद्ध्या ततः परिसमाप्यते ॥ ४४॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
विभूतियोगो नाम षोडशोऽध्यायः ॥ १६॥
अथ सप्तदशोऽध्यायः ।
उद्धवः उवाच ।
यः त्वया अभितः पूर्वं धर्मः त्वत् भक्तिलक्षणः ।
वर्णाश्रम आचारवतां सर्वेषां द्विपदाम् अपि ॥ १॥
यथा अनुष्ठीयमानेन त्वयि भक्तिः नृणां भवेत् ।
स्वधर्मेण अरविन्दाक्ष तत् समाख्यातुम् अर्हसि ॥ २॥
पुरा किल महाबाहो धर्मं परमकं प्रभो ।
यत् तेन हंसरूपेण ब्रह्मणे अभ्यात्थ माधव ॥ ३॥
सः इदानीं सुमहता कालेन अमित्रकर्शन ।
न प्रायः भविता मर्त्यलोके प्राक् अनुशासितः ॥ ४॥
वक्ता कर्ता अविता न अन्यः धर्मस्य अच्युत ते भुवि ।
सभायाम् अपि वैरिञ्च्यां यत्र मूर्तिधराः कलाः ॥ ५॥
कर्त्रा अवित्रा प्रवक्त्रा च भवता मधुसूदन ।
त्यक्ते महीतले देव विनष्टं कः प्रवक्ष्यति ॥ ६॥
तत्त्वं नः सर्वधर्मज्ञ धर्मः त्वत् भक्तिलक्षणः ।
यथा यस्य विधीयेत तथा वर्णय मे प्रभो ॥ ७॥
श्रीशुकः उवाच ।
इत्थं स्वभृत्यमुख्येन पृष्टः सः भगवान् हरिः ।
प्रीतः क्षेमाय मर्त्यानां धर्मान् आह सनातनान् ॥ ८॥
श्रीभगवान् उवाच ।
धर्म्यः एष तव प्रश्नः नैःश्रेयसकरः नृणाम् ।
वर्णाश्रम आचारवतां तम् उद्धव निबोध मे ॥ ९॥
आदौ कृतयुगे वर्णः नृणां हंसः इति स्मृतः ।
कृतकृत्याः प्रजाः जात्याः तस्मात् कृतयुगं विदुः ॥ १०॥
वेदः प्रणवः एव अग्रे धर्मः अहं वृषरूपधृक् ।
उपासते तपोनिष्ठां हंसं मां मुक्तकिल्बिषाः ॥ ११॥
त्रेतामुखे महाभाग प्राणात् मे हृदयात् त्रयी ।
विद्या प्रादुः अभूत् तस्याः अहम् आसं त्रिवृन्मखः ॥ १२॥
विप्र क्षत्रिय विट् शूद्राः मुख बाहु उरु पादजाः ।
वैराजात् पुरुषात् जाताः यः आत्माचारलक्षणाः ॥ १३॥
गृहाश्रमः जघनतः ब्रह्मचर्यं हृदः मम ।
वक्षःस्थानात् वने वासः न्यासः शीर्षणि संस्थितः ॥ १४॥
वर्णानाम् आश्रमाणां च जन्मभूमि अनुसारिणीः ।
आसन् प्रकृतयः नॄणां नीचैः नीच उत्तम उत्तमाः ॥ १५॥
शमः दमः तपः शौचं सन्तोषः क्षान्तिः आर्जवम् ।
मद्भक्तिः च दया सत्यं ब्रह्मप्रकृतयः तु इमाः ॥ १६॥
तेजः बलं धृतिः शौर्यं तितिक्षा औदार्यम् उद्यमः ।
स्थैर्यं ब्रह्मणि अत ऐश्वर्यं क्षत्रप्रकृतयः तु इमाः ॥
१७॥
आस्तिक्यं दाननिष्ठा च अदम्भः ब्रह्मसेवनम् ।
अतुष्टिः अर्थ उपचयैः वैश्यप्रकृतयः तु इमाः ॥ १८॥
शुश्रूषणं द्विजगवां देवानां च अपि अमायया ।
तत्र लब्धेन सन्तोषः शूद्रप्रकृतयः तु इमाः ॥ १९॥
अशौचम् अनृतं स्तेयं नास्तिक्यं शुष्कविग्रहः ।
कामः क्रोधः च तर्षः च स्वभावः अन्तेवसायिनाम् ॥ २०॥
अहिंसा सत्यम् अस्तेयम् अकामक्रोधलोभता ।
भूतप्रियहितेहा च धर्मः अयं सार्ववर्णिकः ॥ २१॥
द्वितीयं प्राप्य अनुपूर्व्यात् जन्म उपनयनं द्विजः ।
वसन् गुरुकुले दान्तः ब्रह्म अधीयीत च आहुतः ॥ २२॥
मेखला अजिन दण्ड अक्ष ब्रह्मसूत्र कमण्डलून् ।
जटिलः अधौतदद्वासः अरक्तपीठः कुशान् दधत् ॥ २३॥
स्नान भोजन होमेषु जप उच्चारे च वाग्यतः ।
न च्छिन्द्यात् नख रोमाणि कक्ष उपस्थगतानि अपि ॥ २४॥
रेतः न अवरिकेत् जातु ब्रह्मव्रतधरः स्वयम् ।
अवकीर्णे अवगाह्य अप्सु यतासुः त्रिपदीं जपेत् ॥ २५॥
अग्नि अर्क आचार्य गो विप्र गुरु वृद्ध सुरान् शुचिः ।
समाहितः उपासीत सन्ध्ये च यतवाक् जपन् ॥ २६॥
आचार्यं मां विजानीयात् न अवमन्येत कर्हिचित् ।
न मर्त्यबुद्धि आसूयेत सर्वदेवमयः गुरुः ॥ २७॥
सायं प्रातः उपानीय भैक्ष्यं तस्मै निवेदयेत् ।
यत् च अन्यत् अपि अनुज्ञातम् उपयुञ्जीत संयतः ॥ २८॥
शुश्रूषमाणः आचार्यं सदा उपासीत नीचवत् ।
यान शय्या आसन स्थानैः न अतिदूरे कृताञ्जलिः ॥ २९॥
एवंवृत्तः गुरुकुले वसेत् भोगविवर्जितः ।
विद्या समाप्यते यावत् बिभ्रत् व्रतम् अखण्डितम् ॥ ३०॥
यदि असौ छन्दसां लोकम् आरोक्ष्यन् ब्रह्मविष्टपम् ।
गुरवे विन्यसेत् देहं स्वाध्यायार्थं वृहत् व्रतः ॥ ३१॥
अग्नौ गुरौ आत्मनि च सर्वभूतेषु मां परम् ।
अपृथक् धीः उपासीत ब्रह्मवर्चस्वी अकल्मषः ॥ ३२॥
स्त्रीणां निरीक्षण स्पर्श संलाप क्ष्वेलन आदिकम् ।
प्राणिनः मिथुनीभूतान् अगृहस्थः अग्रतः त्यजेत् ॥ ३३॥
शौचम् आचमनं स्नानं सन्ध्या उपासनम् आर्जवम् ।
तीर्थसेवा जपः अस्पृश्य अभक्ष्य असंभाष्य वर्जनम् ॥
३४॥
सर्व आश्रम प्रयुक्तः अयं नियमः कुलनन्दन।
मद्भावः सर्बभूतेषु मनोवाक्काय संयमः ॥ ३५॥
एवं बृहत् व्रतधरः ब्राह्मणः अग्निः इव ज्वलन् ।
मद्भक्तः तीव्रतपसा दग्धकर्म आशयः अमलः ॥ ३६॥
अथ अनन्तरम् आवेक्ष्यन् यथा जिज्ञासित आगमः ।
गुरवे दक्षिणां दत्त्वा स्नायत् गुरु अनुमोदितः ॥ ३७॥
गृहं वनं वा उपविशेत् प्रव्रजेत् वा द्विज उत्तमः ।
आश्रमात् आश्रमं गच्छेत् न अन्यथा मत्परः चरेत् ॥ ३८॥
गृहार्थी सदृशीं भार्याम् उद्वहेत् अजुगुप्सिताम् ।
यवीयसीं तु वयसा यां सवर्णाम् अनुक्रमात् ॥ ३९॥
इज्य अध्ययन दानानि सर्वेषां च द्विजन्मनाम् ।
प्रतिग्रहः अध्यापनं च ब्राह्मणस्य एव याजनम् ॥ ४०॥
प्रतिग्रहं मन्यमानः तपः तेजोयशोनुदम् ।
अन्याभ्याम् एव जीवेत शिलैः वा दोषदृक् तयोः ॥ ४१॥
ब्राह्मणस्य हि देहः अयं क्षुद्रकामाय न इष्यते ।
कृच्छ्राय तपसे च इह प्रेत्य अनन्तसुखाय च ॥ ४२॥
शिलोञ्छवृत्त्या परितुष्टचित्तः
धर्मं महान्तं विरजं जुषाणः ।
मयि अर्पितात्मा गृहः एव तिष्ठन्
न अतिप्रसक्तः समुपैति शान्तिम् ॥ ४३॥
समुद्धरन्ति ये विप्रं सीदन्तं मत्परायणम् ।
तान् उद्धरिष्ये न चिरात् आपद्भ्यः नौः इव अर्णवात् ॥ ४४॥
सर्वाः समुद्धरेत् राजा पिता इव व्यसनात् प्रजाः ।
आत्मानम् आत्मना धीरः यथा गजपतिः गजान् ॥ ४५॥
एवंविधः नरपतिः विमानेन अर्कवचसा ।
विधूय इह अशुभं कृत्स्नम् इन्द्रेण सह मोदते ॥ ४६॥
सीदन् विप्रः वणिक् वृत्त्या पण्यैः एव आपदं तरेत् ।
खड्गेन वा आपदाक्रान्तः न श्ववृत्त्या कथञ्चन ॥ ४७॥
वैश्यवृत्त्या तु राजन् यः जीवेत् मृगयया आपदि ।
चरेत् वा विप्ररूपेण न श्ववृत्त्या कथञ्चन ॥ ४८॥
शूद्रवृत्तिं भजेत् वैश्यः शूद्रः कारुकटप्रियाम् ।
कृच्छ्रात् मुक्तः न गर्ह्येण वृत्तिं लिप्सेत कर्मणा ॥ ४९॥
वेद अध्याय स्वधा स्वाहा बलि अन्न आद्यैः यथा उदयम् ।
देवर्षि पितृभूतानि मद्रूपाणि अन्वहं यजेत् ॥ ५०॥
यदृच्छया उपपन्नेन शुक्लेन उपार्जितेन वा ।
धनेन अपीडयन् भृत्यान् न्यायेन एव आहरेत् क्रतून् ॥ ५१॥
कुटुंबेषु न सज्जेत न प्रमाद्येत् कुटुंबि अपि ।
विपश्चित् नश्वरं पश्येत् अदृष्टम् अपि दृष्टवत् ॥ ५२॥
पुत्र दारा आप्त बन्धूनां सङ्गमः पान्थसङ्गमः ।
अनुदेहं वियन्ति एते स्वप्नः निद्रानुगः यथा ॥ ५३॥
इत्थं परिमृशन् मुक्तः गृहेषु अतिथिवत् वसन् ।
न गृहैः अनुबध्येत निर्ममः निरहङ्कृतः ॥ ५४॥
कर्मभिः गृहम् एधीयैः इष्ट्वा माम् एव भक्तिमान् ।
तिष्ठेत् वनं वा उपविशेत् प्रजावान् वा परिव्रजेत् ॥ ५५॥
यः तु आसक्तम् अतिः गेहे पुत्र वित्तैषण आतुरः ।
स्त्रैणः कृपणधीः मूढः मम अहम् इति बध्यते ॥ ५६॥
अहो मे पितरौ वृद्धौ भार्या बालात्मजा आत्मजाः ।
अनाथाः माम् ऋते दीनाः कथं जीवन्ति दुःखिताः ॥ ५७॥
एवं गृह आशय आक्षिप्त हृदयः मूढधीः अयम् ।
अतृप्तः तान् अनुध्यायन् मृतः अन्धं विशते तमः ॥ ५८॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
ब्रह्मचर्यगृहस्थकर्मधर्मनिरूपणे सप्तदशोऽध्यायः ॥
१७॥
अथ अष्टादशोऽध्यायः ।
श्रीभगवान् उवाच ।
वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सह एव वा ।
वनः एव वसेत् शान्तः तृतीयं भागम् आयुषः ॥ १॥
कन्दमूलफलैः वन्यैः मेध्यैः वृत्तिं प्रकल्पयेत् ।
वसीत वल्कलं वासः तृणपर्ण अजिनानि च ॥ २॥
केशरोमनखश्मश्रुमलानि बिभृयात् अतः ।
न धावेत् अप्सु मज्जेत त्रिकालं स्थण्डिलेशयः ॥ ३॥
ग्रीष्मे तप्येत पञ्चाग्नीन् वर्षास्वासारषाड् जले ।
आकण्ठमग्नः शिशिरः एवंवृत्तः तपश्चरेत् ॥ ४॥
अग्निपक्वं समश्नीयात् कालपक्वम् अथ अपि वा ।
उलूखल अश्मकुट्टः वा दन्त उलूखलः एव वा ॥ ५॥
स्वयं सञ्चिनुयात् सर्वम् आत्मनः वृत्तिकारणम् ।
देशकालबल अभिज्ञः न आददीत अन्यदा आहृतम् ॥ ६॥
वन्यैः चरुपुरोडाशैः निर्वपेत् कालचोदितान् ।
न तु श्रौतेन पशुना मां यजेत वनाश्रमी ॥ ७॥
अग्निहोत्रं च दर्शः च पूर्णमासः च पूर्ववत् ।
चातुर्मास्यानि च मुनेः आम्नातानि च नैगमैः ॥ ८॥
एवं चीर्णेन तपसा मुनिः धमनिसन्ततः ।
मां तपोमयम् आराध्य ऋषिलोकात् उपैति माम् ॥ ९॥
यः तु एतत् कृच्छ्रतः चीर्णं तपः निःश्रेयसं महत् ।
कामाय अल्पीयसे युञ्ज्यात् वालिशः कः अपरः ततः ॥ १०॥
यदा असौ नियमे अकल्पः जरया जातवेपथुः ।
आत्मनि अग्नीन् समारोप्य मच्चित्तः अग्निं समाविशेत् ॥ ११॥
यदा कर्मविपाकेषु लोकेषु निरय आत्मसु ।
विरागः जायते सम्यक् न्यस्त अग्निः प्रव्रजेत् ततः ॥ १२॥
इष्ट्वा यथा उपदेशं मां दत्त्वा सर्वस्वम् ऋत्विजे ।
अग्नीन् स्वप्राणः आवेश्य निरपेक्षः परिव्रजेत् ॥ १३॥
विप्रस्य वै संन्यसतः देवाः दारादिरूपिणः ।
विघ्नान् कुर्वन्ति अयं हि अस्मान् आक्रम्य समियात् परम् ॥ १४॥
बिभृयात् चेत् मुनिः वासः कौपीन आच्छादनं परम् ।
त्यक्तं न दण्डपात्राभ्याम् अन्यत् किञ्चित् अनापदि ॥ १५॥
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं पिबेत् जलम् ।
सत्यपूतां वदेत् वाचं मनःपूतं समाचरेत् ॥ १६॥
मौन अनीहा अनिल आयामाः दण्डाः वाक् देह चेतसाम् ।
नहि एते यस्य सन्ति अङ्गः वेणुभिः न भवेत् यतिः ॥ १७॥
भिक्षां चतुषु वर्णेषु विगर्ह्यान् वर्जयन् चरेत् ।
सप्तागारान् असंक्लृप्तान् तुष्येत् लब्धेन तावता ॥ १८॥
बहिः जलाशयं गत्वा तत्र उपस्पृश्य वाग्यतः ।
विभज्य पावितं शेषं भुञ्जीत अशेषम् आहृतम् ॥ १९॥
एकः चरेत् महीम् एतां निःसङ्गः संयतेन्द्रियः ।
आत्मक्रीडः आत्मरतः आत्मवान् समदर्शनः ॥ २०॥
विविक्तक्षेमशरणः मद्भावविमलाशयः ।
आत्मानं चिन्तयेत् एकम् अभेदेन मया मुनिः ॥ २१॥
अन्वीक्षेत आत्मनः बन्धं मोक्षं च ज्ञाननिष्ठया ।
बन्धः इन्द्रियविक्षेपः मोक्षः एषां च संयमः ॥ २२॥
तस्मात् नियम्य षड्वर्गं मद्भावेन चरेत् मुनिः ।
विरक्तः क्षुल्लकामेभ्यः लब्ध्वा आत्मनि सुखं महत् ॥ २३॥
पुरग्रामव्रजान् सार्थान् भिक्षार्थं प्रविशन् चरेत् ।
पुण्यदेशसरित् शैलवन आश्रमवतीं महीम् ॥ २४॥
वानप्रस्थ आश्रम पदेषु अभीक्ष्णं भैक्ष्यम् आचरेत् ।
संसिध्यत्याश्वसंमोहः शुद्धसत्त्वः शिलान्धसा ॥ २५॥
न एतत् वस्तुतया पश्येत् दृश्यमानं विनश्यति ।
असक्तचित्तः विरमेत् इह अमुत्र चिकीर्षितात् ॥ २६॥
यत् एतत् आत्मनि जगत् मनोवाक्प्राणसंहतम् ।
सर्वं माया इति तर्केण स्वस्थः त्यक्त्वा न तत् स्मरेत् ॥ २७॥
ज्ञाननिष्ठः विरक्तः वा मद्भक्तः वा अनपेक्षकः ।
सलिङ्गान् आश्रमां त्यक्त्वा चरेत् अविधिगोचरः ॥ २८॥
बुधः बालकवत् क्रीडेत् कुशलः जडवत् चरेत् ।
वदेत् उन्मत्तवत् विद्वान् गोचर्यां नैगमः चरेत् ॥ २९॥
वेदवादरतः न स्यात् न पाखण्डी न हैतुकः ।
शुष्कवादविवादे न कञ्चित् पक्षं समाश्रयेत् ॥ ३०॥
न उद्विजेत जनात् धीरः जनं च उद्वेजयेत् न तु ।
अतिवादान् तितिक्षेत न अवमन्येत कञ्चन ।
देहम् उद्दिश्य पशुवत् वैरं कुर्यात् न केनचित् ॥ ३१॥
एकः एव परः हि आत्मा भूतेषु आत्मनि अवस्थितः ।
यथा इन्दुः उदपात्रेषु भूतानि एकात्मकानि च ॥ ३२॥
अलब्ध्वा न विषीदेत काले काले अशनं क्वचित् ।
लब्ध्वा न हृष्येत् धृतिम् आनुभयं दैवतन्त्रितम् ॥ ३३॥
आहारार्थं समीहेत युक्तं तत् प्राणधारणम् ।
तत्त्वं विमृश्यते तेन तत् विज्ञाय विमुच्यते ॥ ३४॥
यत् ऋच्छया उपपन्नात् अन्नम् अद्यात् श्रेष्ठम् उत अपरम् ।
तथा वासः तथा शय्यां प्राप्तं प्राप्तं भजेत् मुनिः ॥ ३५॥
शौचम् आचमनं स्नानं न तु चोदनया चरेत् ।
अन्यान् च नियमान् ज्ञानी यथा अहं लीलया ईश्वरः ॥ ३६॥
नहि तस्य विकल्पाख्या या च मद्वीक्षया हता ।
आदेहान्तात् क्वचित् ख्यातिः ततः सम्पद्यते मया ॥ ३७॥
दुःख उदर्केषु कामेषु जातनिर्वेदः आत्मवान् ।
अजिज्ञासित मद्धर्मः गुरुं मुनिम् उपाव्रजेत् ॥ ३८॥
तावत् परिचरेत् भक्तः श्रद्धावान् अनसूयकः ।
यावत् ब्रह्म विजानीयात् माम् एव गुरुम् आदृतः ॥ ३९॥
यः तु असंयत षड्वर्गः प्रचण्ड इन्द्रिय सारथिः ।
ज्ञान वैराग्य रहितः त्रिदण्डम् उपजीवति ॥ ४०॥
सुरान् आत्मानम् आत्मस्थं निह्नुते मां च धर्महा ।
अविपक्व कषायः अस्मात् उष्मात् च विहीयते ॥ ४१॥
भिक्षोः धर्मः शमः अहिंसा तपः ईक्षा वनौकसः ।
गृहिणः भूतरक्ष इज्याः द्विजस्य आचार्यसेवनम् ॥ ४२॥
ब्रह्मचर्यं तपः शौचं सन्तोषः भूतसौहृदम् ।
गृहस्थस्य अपि ऋतौ गन्तुः सर्वेषां मदुपासनम् ॥ ४३॥
इति मां यः स्वधर्मेण भजन् नित्यम् अनन्यभाक् ।
सर्वभूतेषु मद्भावः मद्भक्तिं विन्दते अचिरात् ॥ ४४॥
भक्त्या उद्धव अनपायिन्या सर्वलोकमहेश्वरम् ।
सर्व उत्पत्ति अपि अयं ब्रह्म कारणं मा उपयाति सः ॥ ४५॥
इति स्वधर्म निर्णिक्त सत्त्वः निर्ज्ञात् मद्गतिः ।
ज्ञान विज्ञान सम्पन्नः न चिरात् समुपैति माम् ॥ ४६॥
वर्णाश्रमवतां धर्मः एषः आचारलक्षणः ।
सः एव मद्भक्तियुतः निःश्रेयसकरः परः ॥ ४७॥
एतत् ते अभिहितं साधो भवान् पृच्छति यत् च माम् ।
यथा स्वधर्मसंयुक्तः भक्तः मां समियात् परम् ॥ ४८॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
वानप्रस्थसंन्यासधर्मनिरूपणं नामाष्टादशोऽध्यायः ॥ १८॥
अथ एकोनविंशः अध्यायः ।
श्रीभगवान् उवाच ।
यः विद्याश्रुतसम्पन्नः आत्मवान् न अनुमानिकः ।
मायामात्रम् इदं ज्ञात्वा ज्ञानं च मयि संन्यसेत् ॥ १॥
ज्ञानिनः तु अहम् एव इष्टः स्वार्थः हेतुः च संमतः ।
स्वर्गः च एव अपवर्गः च न अन्यः अर्थः मदृते प्रियः ॥ २॥
ज्ञानविज्ञानसंसिद्धाः पदं श्रेष्ठं विदुः मम ।
ज्ञानी प्रियतमः अतः मे ज्ञानेन असौ बिभर्ति माम् ॥ ३॥
तपः तीर्थं जपः दानं पवित्राणि इतराणि च ।
न अलं कुर्वन्ति तां सिद्धिं या ज्ञानकलया कृता ॥ ४॥
तस्मात् ज्ञानेन सहितं ज्ञात्वा स्वात्मानम् उद्धव ।
ज्ञानविज्ञानसम्पन्नः भज मां भक्तिभावतः ॥ ५॥
ज्ञानविज्ञानयज्ञेन माम् इष्ट्वा आत्मानम् आत्मनि ।
सर्वयज्ञपतिं मां वै संसिद्धिं मुनयः अगमन्॥ ६॥
त्वयि उद्धव आश्रयति यः त्रिविधः विकारः
मायान्तरा आपतति न आदि अपवर्गयोः यत् ।
जन्मादयः अस्य यत् अमी तव तस्य किं स्युः
आदि अन्तयोः यत् असतः अस्ति तत् एव मध्ये ॥ ७॥
उद्धवः उवाच ।
ज्ञानं विशुद्धं विपुलं यथा एतत्
वैराग्यविज्ञानयुतं पुराणम् ।
आख्याहि विश्वेश्वर विश्वमूर्ते
त्वत् भक्तियोगं च महत् विमृग्यम् ॥ ८॥
तापत्रयेण अभिहतस्य घोरे
सन्तप्यमानस्य भवाध्वनीश ।
पश्यामि न अन्यत् शरणं तवाङ्घ्रि
द्वन्द्व आतपत्रात् अमृत अभिवर्षात् ॥ ९॥
दष्टं जनं सम्पतितं बिले अस्मिन्
कालाहिना क्षुद्रसुखोः उतर्षम् ।
समुद्धर एनं कृपया अपवर्ग्यैः
वचोभिः आसिञ्च महानुभाव ॥ १०॥
श्रीभगवान् उवाच ।
इत्थम् एतत् पुरा राजा भीष्मं धर्मभृतां वरम् ।
अजातशत्रुः पप्रच्छ सर्वेषां नः अनुश्रुण्वताम् ॥ ११॥
निवृत्ते भारते युद्धे सुहृत् निधनविह्वलः ।
श्रुत्वा धर्मान् बहून् पश्चात् मोक्षधर्मान् अपृच्छत ॥
१२॥
तान् अहं ते अभिधास्यामि देवव्रतमुखात् श्रुतान् ।
ज्ञानवैराग्यविज्ञानश्रद्धाभक्ति उपबृंहितान् ॥ १३॥
नव एकादश पञ्च त्रीन् भावान् भूतेषु येन वै ।
ईक्षेत अथ एकम् अपि एषु तत् ज्ञानं मम निश्चितम् ॥ १४॥
एतत् एव हि विज्ञानं न तथा एकेन येन यत् ।
स्थिति उत्पत्ति अपि अयान् पश्येत् भावानां त्रिगुण आत्मनाम् ॥
१५॥
आदौ अन्ते च मध्ये च सृज्यात् सृज्यं यत् अन्वियात् ।
पुनः तत् प्रतिसङ्क्रामे यत् शिष्येत तत् एव सत् ॥ १६॥
श्रुतिः प्रत्यक्षम् ऐतिह्यम् अनुमानं चतुष्टयम् ।
प्रमाणेषु अनवस्थानात् विकल्पात् सः विरज्यते ॥ १७॥
कर्मणां परिणामित्वात् आविरिञ्चात् अमङ्गलम् ।
विपश्चित् नश्वरं पश्येत् अदृष्टम् अपि दृष्टवत् ॥ १८॥
भक्तियोगः पुरा एव उक्तः प्रीयमाणाय ते अनघ ।
पुनः च कथयिष्यामि मद्भक्तेः कारणं परम् ॥ १९॥
श्रद्धा अमृतकथायां मे शश्वत् मत् अनुकीर्तनम् ।
परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥ २०॥
आदरः परिचर्यायां सर्वाङ्गैः अभिवन्दनम् ।
मद्भक्तपूजाभ्यधिका सर्वभूतेषु मन्मतिः ॥ २१॥
मदर्थेषु अङ्गचेष्टा च वचसा मद्गुणेरणम् ।
मय्यर्पणं च मनसः सर्वकामविवर्जनम् ॥ २२॥
मदर्थे अर्थ परित्यागः भोगस्य च सुखस्य च ।
इष्टं दत्तं हुतं जप्तं मदर्थं यत् व्रतं तपः ॥ २३॥
एवं धर्मैः मनुष्याणाम् उद्धव आत्मनिवेदिनाम् ।
मयि सञ्जायते भक्तिः कः अन्यः अर्थः अस्य अवशिष्यते ॥ २४॥
यदा आत्मनि अर्पितं चित्तं शान्तं सत्त्व उपबृंहितम् ।
धर्मं ज्ञानं सवैराग्यम् ऐश्वर्यं च अभिपद्यते ॥ २५॥
यत् अर्पितं तत् विकल्पे इन्द्रियैः परिधावति ।
रजस्वलं च आसन् निष्ठं चित्तं विद्धि विपर्ययम् ॥ २६॥
धर्मः मद्भक्तिकृत् प्रोक्तः ज्ञानं च एकात्म्यदर्शनम् ।
गुणेषु असङ्गः वैराग्यम् ऐश्वर्यं च अणिम् आदयः ॥ २७॥
उद्धवः उवाच ।
यमः कतिविधः प्रोक्तः नियमः वा अरिकर्शन ।
कः शमः कः दमः कृष्ण का तितिक्षा धृतिः प्रभो ॥ २८॥
किं दानं किं तपः शौर्यं किं सत्यम् ऋतम् उच्यते ।
कः त्यागः किं धनं चेष्टं कः यज्ञः का च दक्षिणा ॥
२९॥
पुंसः किंस्वित् बलं श्रीमन् भगः लाभः च केशव ।
का विद्या ह्रीः परा का श्रीः किं सुखं दुःखम् एव च ॥
३०॥
कः पण्डितः कः च मूर्खः कः पन्थाः उत्पथः च कः ।
कः स्वर्गः नरकः कः स्वित् कः बन्धुः उत किं गृहम् ॥ ३१॥
कः आढ्यः कः दरिद्रः वा कृपणः कः ईश्वरः ।
एतान् प्रश्नान् मम ब्रूहि विपरीतान् च सत्पते ॥ ३२॥
श्रीभगवान् उवाच ।
अहिंसा सत्यम् अस्तेयम् असङ्गः ह्रीः असञ्चयः ।
आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमा अभयम् ॥
३३।
शौचं जपः तपः होमः श्रद्धा आतिथ्यं मत् अर्चनम् ।
तीर्थाटनं परार्थेहा तुष्टिः आचार्यसेवनम् ॥ ३४॥
एते यमाः सनियमाः उभयोः द्वादश स्मृताः ।
पुंसाम् उपासिताः तात यथाकामं दुहन्ति हि ॥ ३५॥
शमः मत् निष्ठता बुद्धेः दमः इन्द्रियसंयमः ।
तितिक्षा दुःखसंमर्षः जिह्वा उपस्थजयः धृतिः ॥ ३६॥
दण्डन्यासः परं दानं कामत्यागः तपः स्मृतम् ।
स्वभावविजयः शौर्यं सत्यं च समदर्शनम् ॥ ३७॥
ऋतं च सूनृता वाणी कविभिः परिकीर्तिता ।
कर्मस्वसङ्गमः शौचं त्यागः संन्यासः उच्यते ॥ ३८॥
धर्मः इष्टं धनं नॄणां यज्ञः अहं भगवत्तमः ।
दक्षिणा ज्ञानसन्देशः प्राणायामः परं बलम् ॥ ३९॥
भगः मे ऐश्वरः भावः लाभः मद्भक्तिः उत्तमः ।
विद्या आत्मनि भिद अबाधः जुगुप्सा ह्रीः अकर्मसु ॥ ४०॥
श्रीः गुणाः नैरपेक्ष्य आद्याः सुखं दुःखसुख अत्ययः ।
दुःखं कामसुख अपेक्षा पण्डितः बन्धमोक्षवित् ॥ ४१॥
मूर्खः देह आदि अहं बुद्धिः पन्थाः मत् निगमः स्मृतः ।
उत्पथः चित्तविक्षेपः स्वर्गः सत्त्वगुण उअदयः ॥ ४२॥
नरकः तमः उन्नहः बन्धुः गुरुः अहं सखे ।
गृहं शरीरं मानुष्यं गुणाढ्यः हि आढ्यः उच्यते ॥ ४३॥
दरिद्रः यः तु असन्तुष्टः कृपणः यः अजितेन्द्रियः ।
गुणेषु असक्तधीः ईशः गुणसङ्गः विपर्ययः ॥ ४४॥
एतः उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः ।
किं वर्णितेन बहुना लक्षणं गुणदोषयोः ।
गुणदोष दृशिः दोषः गुणः तु उभयवर्जितः ॥ ४५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुधवसंवादे
एकोनविंशोऽध्यायः ॥ १९॥
अथ विंशः अध्यायः ।
उद्धवः उवाच ।
विधिः च प्रतिषेधः च निगमः हि ईश्वरस्य ते ।
अवेक्षते अरविन्दाक्ष गुणं दोषं च कर्मणाम् ॥ १॥
वर्णाश्रम विकल्पं च प्रतिलोम अनुलोमजम् ।
द्रव्य देश वयः कालान् स्वर्गं नरकम् एव च ॥ २॥
गुण दोष भिदा दृष्टिम् अन्तरेण वचः तव ।
निःश्रेयसं कथं नॄणां निषेध विधि लक्षणम् ॥ ३॥
पितृदेवमनुष्याणां वेदः चक्षुः तव ईश्वर ।
श्रेयः तु अनुपलब्धे अर्थे साध्यसाधनयोः अपि ॥ ४॥
गुणदोषभिदादृष्टिः निगमात् ते न हि स्वतः ।
निगमेन अपवादः च भिदायाः इति हि भ्रमः ॥ ५॥
श्रीभगवान् उवाच ।
योगाः त्रयः मया प्रोक्ता नॄणां श्रेयोविधित्सया ।
ज्ञानं कर्म च भक्तिः च न उपायः अन्यः अस्ति कुत्रचित् ॥
६॥
निर्विण्णानां ज्ञानयोगः न्यासिनाम् इह कर्मसु ।
तेषु अनिर्विण्णचित्तानां कर्मयोगः ति कामिनाम् ॥ ७॥
यदृच्छया मत् कथा आदौ जातश्रद्धः तु यः पुमान् ।
न निर्विण्णः न अतिसक्तः भक्तियोगः अस्य सिद्धिदः ॥ ८॥
तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।
मत् कथाश्रवण आदौ वा श्रद्धा यावत् न जायते ॥ ९॥
स्वधर्मस्थः यजन्यज्ञैः अनाशीः कामः उद्धव ।
न याति स्वर्गनरकौ यदि अन्यत्र समाचरेत् ॥ १०॥
अस्मिन् लोके वर्तमानः स्वधर्मस्थः अनघः शुचिः ।
ज्ञानं विशुद्धम् आप्नोति मद्भक्तिं वा यदृच्छया ॥ ११॥
स्वर्गिणः अपि एतम् इच्छन्ति लोकं निरयिणः तथा ।
साधकं ज्ञानभक्तिभ्याम् उभयं तत् असाधकम् ॥ १२॥
न नरः स्वर्गतिं काङ्क्षेत् नारकीं वा विचक्षणः ।
न इमं लोकं च काङ्क्षेत देह आवेशात् प्रमाद्यति ॥ १३॥
एतत् विद्वान् पुरा मृत्योः अभवाय घटेत सः ।
अप्रमत्तः इदं ज्ञात्वा मर्त्यम् अपि अर्थसिद्धिदम् ॥ १४॥
छिद्यमानं यमैः एतैः कृतनीडं वनस्पतिम् ।
खगः स्वकेतम् उत्सृज्य क्षेमं याति हि अलम्पटः ॥ १५॥
अहोरात्रैः छिद्यमानं बुद्ध्वायुः भयवेपथुः ।
मुक्तसङ्गः परं बुद्ध्वा निरीह उपशाम्यति ॥ १६॥
नृदेहम् आद्यं सुलभं सुदुर्लभम्
प्लवं सुकल्पं गुरुकर्णधारम् ।
मया अनुकूलेन नभस्वतेरितम्
पुमान् भवाब्धिं न तरेत् सः आत्महा ॥ १७॥
यदा आरम्भेषु निर्विण्णः विरक्तः संयतेन्द्रियः ।
अभ्यासेन आत्मनः योगी धारयेत् अचलं मनः ॥ १८॥
धार्यमाणं मनः यः हि भ्राम्यदाशु अनवस्थितम् ।
अतन्द्रितः अनुरोधेन मार्गेण आत्मवशं नयेत् ॥ १९॥
मनोगतिं न विसृजेत् जितप्राणः जितेन्द्रियः ।
सत्त्वसम्पन्नया बुद्ध्या मनः आत्मवशं नयेत् ॥ २०॥
एषः वै परमः योगः मनसः सङ्ग्रहः स्मृतः ।
हृदयज्ञत्वम् अन्विच्छन् दम्यस्य एव अर्वतः मुहुः ॥ २१॥
साङ्ख्येन सर्वभावानां प्रतिलोम अनुलोमतः ।
भव अपि अयौ अनुध्ययेत् मनः यावत् प्रसीदति ॥ २२॥
निर्विण्णस्य विरक्तस्य पुरुषस्य उक्तवेदिनः ।
मनः त्यजति दौरात्म्यं चिन्तितस्य अनुचिन्तया ॥ २३॥
यम आदिभिः योगपथैः आन्वीक्षिक्या च विद्यया ।
मम अर्चोपासनाभिः वा न अन्यैः योग्यं स्मरेत् मनः ॥ २४॥
यदि कुर्यात् प्रमादेन योगी कर्म विगर्हितम् ।
योगेन एव दहेत् अंहः न अन्यत् तत्र कदाचन ॥ २५॥
स्वे स्वे अधिकारे या निष्ठा सः गुणः परिकीर्तितः ।
कर्मणां जाति अशुद्धानाम् अनेन नियमः कृतः ।
गुणदोषविधानेन सङ्गानां त्याजनेच्छया ॥ २६॥
जातश्रद्दः मत्कथासु निर्विण्णः सर्वकर्मसु ।
वेद दुःखात्मकान् कामान् परित्यागे अपि अनीश्वरः ॥ २७॥
ततः भजेत मां प्रीतः श्रद्धालुः दृढनिश्चयः ।
जुषमाणः च तान् कामान् दुःख उदर्कान् च गर्हयन् ॥ २८॥
प्रोक्तेन भक्तियोगेन भजतः मा असकृत् मुनेः ।
कामाः हृदय्याः नश्यन्ति सर्वे मयि हृदि स्थिते ॥ २९॥
भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते च अस्य कर्माणि मयि दृष्टे अखिल आत्मनि ॥ ३०॥
तस्मात् मद्भक्तियुक्तस्य योगिनः वै मत् आत्मनः ।
न ज्ञानं न च वैराग्यं प्रायः श्रेयः भवेत् इह ॥ ३१॥
यत् कर्मभिः यत् तपसा ज्ञानवैराग्यतः च यत् ।
योगेन दानधर्मेण श्रेयोभिः इतरैः अपि ॥ ३२॥
सर्वं मद्भक्तियोगेन मद्भक्तः लभते अञ्जसा ।
स्वर्ग अपवर्गं मत् धाम कथञ्चित् यदि वाञ्छति ॥ ३३॥
न किञ्चित् साधवः धीराः भक्ताः हि एकान्तिनः मम ।
वाञ्छति अपि मया दत्तं कैवल्यम् अपुनर्भवम् ॥ ३४॥
नैरपेक्ष्यं परं प्राहुः निःश्रेयसम् अनल्पकम् ।
तस्मात् निराशिषः भक्तिः निरपेक्षस्य मे भवेत् ॥ ३५॥
न मयि एकान्तभक्तानां गुणदोष उद्भवाः गुणाः ।
साधूनां समचित्तानां बुद्धेः परम् उपेयुषाम् ॥ ३६॥
एवम् एतत् मया आदिष्टान् अनुतिष्ठन्ति मे पथः ।
क्षेमं विन्दन्ति मत् स्थानं यत् ब्रह्म परमं विदुः ॥ ३७॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
वेदत्रयीविभागयोगो नाम विंशोऽध्यायः ॥ २०॥
अथ एकविंशः अध्यायः ।
श्रीभगवान् उवाच ।
यः एतान् मत्पथः हित्वा भक्तिज्ञानक्रियात्मकान् ।
क्षुद्रान् कामान् चलैः प्राणैः जुषन्तः संसरन्ति ते ॥ १॥
स्वे स्वे अधिकारे या निष्ठा सः गुणः परिकीर्तितः ।
विपर्ययः तु दोषः स्यात् उभयोः एषः निश्चयः ॥ २॥
शुद्धि अशुद्धी विधीयेते समानेषु अपि वस्तुषु ।
द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभ अशुभौ ॥ ३॥
धर्मार्थं व्यवहारार्थं यात्रार्थम् इति च अनघ ।
दर्शितः अयं मया आचारः धर्मम् उद्वहतां धुरम् ॥ ४॥
भूमि अम्बु अग्नि अनिल आकाशाः भूतानां पञ्च धातवः ।
आब्रह्म स्थावर आदीनां शरीराः आत्मसंयुताः ॥ ५॥
वेदेन नामरूपाणि विषमाणि समेषु अपि ।
धातुषु उद्धव कल्प्यन्तः एतेषां स्वार्थसिद्धये ॥ ६॥
देश काल आदि भावानां वस्तूनां मम सत्तम ।
गुणदोषौ विधीयेते नियमार्थं हि कर्मणाम् ॥ ७॥
अकृष्णसारः देशानाम् अब्रह्मण्यः अशुचिः भवेत् ।
कृष्णसारः अपि असौवीर कीकट असंस्कृतेरिणम् ॥ ८॥
कर्मण्यः गुणवान् कालः द्रव्यतः स्वतः एव वा ।
यतः निवर्तते कर्म सः दोषः अकर्मकः स्मृतः ॥ ९॥
द्रव्यस्य शुद्धि अशुद्धी च द्रव्येण वचनेन च ।
संस्कारेण अथ कालेन महत्त्व अल्पतया अथवा ॥ १०॥
शक्त्या अशक्त्या अथवा बुद्ध्या समृद्ध्या च यत् आत्मने ।
अघं कुर्वन्ति हि यथा देश अवस्था अनुसारतः ॥ ११॥
धान्य दारु अस्थि तन्तूनां रस तैजस चर्मणाम् ।
काल वायु अग्नि मृत्तोयैः पार्थिवानां युत अयुतैः ॥ १२॥
अमेध्यलिप्तं यत् येन गन्धं लेपं व्यपोहति ।
भजते प्रकृतिं तस्य तत् शौचं तावत् इष्यते ॥ १३॥
स्नान दान तपः अवस्था वीर्य संस्कार कर्मभिः ।
मत् स्मृत्या च आत्मनः शौचं शुद्धः कर्म आचरेत् द्विजः ॥ १४॥
मन्त्रस्य च परिज्ञानं कर्मशुद्धिः मदर्पणम् ।
धर्मः सम्पद्यते षड्भिः अधर्मः तु विपर्ययः ॥ १५॥
क्वचित् गुणः अपि दोषः स्यात् दोषः अपि विधिना गुणः ।
गुणदोषार्थनियमः तत् भिदाम् एव बाधते ॥ १६॥
समानकर्म आचरणं पतितानां न पातकम् ।
औत्पत्तिकः गुणः सङ्गः न शयानः पतति अधः ॥ १७॥
यतः यतः निवर्तेत विमुच्येत ततः ततः ।
एषः धर्मः नॄणां क्षेमः शोकमोहभय अपहः ॥ १८॥
विषयेषु गुणाध्यासात् पुंसः सङ्गः ततः भवेत् ।
सङ्गात् तत्र भवेत् कामः कामात् एव कलिः नॄणाम् ॥ १९॥
कलेः दुर्विषहः क्रोधः तमः तम् अनुवर्तते ।
तमसा ग्रस्यते पुंसः चेतना व्यापिनी द्रुतम् ॥ २०॥
तया विरहितः साधो जन्तुः शून्याय कल्पते ।
ततः अस्य स्वार्थविभ्रंशः मूर्च्छितस्य मृतस्य च ॥ २१॥
विषयाभिनिवेशेन न आत्मानं वेद न अपरम् ।
वृक्षजीविकया जीवन् व्यर्थं भस्त्र इव यः श्वसन् ॥ २२॥
फलश्रुतिः इयं नॄणां न श्रेयः रोचनं परम् ।
श्रेयोविवक्षया प्रोक्तं यथा भैषज्यरोचनम् ॥ २३॥
उत्पत्ति एव हि कामेषु प्राणेषु स्वजनेषु च ।
आसक्तमनसः मर्त्या आत्मनः अनर्थहेतुषु ॥ २४॥
न तान् अविदुषः स्वार्थं भ्राम्यतः वृजिनाध्वनि ।
कथं युञ्ज्यात् पुनः तेषु तान् तमः विशतः बुधः ॥ २५॥
एवं व्यवसितं केचित् अविज्ञाय कुबुद्धयः ।
फलश्रुतिं कुसुमितां न वेदज्ञाः वदन्ति हि ॥ २६॥
कामिनः कृपणाः लुब्धाः पुष्पेषु फलबुद्धयः ।
अग्निमुग्धा धुमतान्ताः स्वं लोकं न विन्दन्ति ते ॥ २७॥
न ते माम् अङ्गः जानन्ति हृदिस्थं यः इदं यतः ।
उक्थशस्त्राः हि असुतृपः यथा नीहारचक्षुषः ॥ २८॥
ते मे मतम् अविज्ञाय परोक्षं विषयात्मकाः ।
हिंसायां यदि रागः स्यात् यज्ञः एव न चोदना ॥ २९॥
हिंसाविहाराः हि अलब्धैः पशुभिः स्वसुखएच्छया ।
यजन्ते देवताः यज्ञैः पितृभूतपतीन् खलाः ॥ ३०॥
स्वप्न् उपमम् अमुं लोकम् असन्तं श्रवणप्रियम् ।
आशिषः हृदि सङ्कल्प्य त्यजन्ति अर्थान् यथा वणिक् ॥ ३१॥
रजःसत्त्वतमोनिष्ठाः रजःसत्त्वतमोजुषः ।
उपासतः इन्द्रमुख्यान् देवादीन् न तथा एव माम् ॥ ३२॥
इष्ट्वा इह देवताः यज्ञैः गत्वा रंस्यामहे दिवि ।
तस्य अन्तः इह भूयास्मः महाशाला महाकुलाः ॥ ३३॥
एवं पुष्पितया वाचा व्याक्षिप्तमनसां नॄणाम् ।
मानिनान् च अतिस्तब्धानां मद्वार्ता अपि न रोचते ॥ ३४॥
वेदाः ब्रह्मात्मविषयाः त्रिकाण्डविषयाः इमे ।
परोक्षवादाः ऋषयः परोक्षं मम च प्रियम् ॥ ३५॥
शब्दब्रह्म सुदुर्बोधं प्राण इन्द्रिय मनोमयम् ।
अनन्तपारं गम्भीरं दुर्विगाह्यं समुद्रवत् ॥ ३६॥
मया उपबृंहितं भूम्ना ब्रह्मणा अनन्तशक्तिना ।
भूतेषु घोषरूपेण बिसेषु ऊर्ण इव लक्ष्यते ॥ ३७॥
यथा ऊर्णनाभिः हृदयात् ऊर्णाम् उद्वमते मुखात् ।
आकाशात् घोषवान् प्राणः मनसा स्पर्शरूपिणा ॥ ३८॥
छन्दोमयः अमृतमयः सहस्रपदवीं प्रभुः ।
ओङ्कारात् व्यञ्जित स्पर्श स्वर उष्म अन्तस्थ भूषिताम् ॥
३९॥
विचित्रभाषाविततां छन्दोभिः चतुर उत्तरैः ।
अनन्तपारां बृहतीं सृजति आक्षिपते स्वयम् ॥ ४०॥
गायत्री उष्णिक् अनुष्टुप् च बृहती पङ्क्तिः एव च ।
त्रिष्टुप् जगती अतिच्छन्दः हि अत्यष्टि अतिजगत् विराट् ॥ ४१॥
किं विधत्ते किम् आचष्टे किम् अनूद्य विकल्पयेत् ।
इति अस्याः हृदयं लोके न अन्यः मत् वेद कश्चन ॥ ४२॥
मां विधत्ते अभिधत्ते मां विकल्प्य अपोह्यते तु अहम् ।
एतावान् सर्ववेदार्थः शब्दः आस्थाय मां भिदाम् ।
मायामात्रम् अनूद्य अन्ते प्रतिषिध्य प्रसीदति ॥ ४३॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवद्द्धवसंवादे
वेदत्रयविभागनिरूपणं नाम एकविंशोऽध्यायः ॥ २१॥
अथ द्वाविंशः अध्यायः ।
उद्धवः उवाच ।
कति तत्त्वानि विश्वेश सङ्ख्यातानि ऋषिभिः प्रभो ।
नव एकादश पञ्च त्रीणि आत्थ त्वम् इह शुश्रुम ॥ १॥
केचित् षड्विंशतिं प्राहुः अपरे पञ्चविंशतिम् ।
सप्त एके नव षट् केचित् चत्वारि एकादश अपरे ।
केचित् सप्तदश प्राहुः षोडश एके त्रयोदश ॥ २॥
एतावत् त्वम् हि सङ्ख्यानाम् ऋषयः यत् विवक्षया ।
गायन्ति पृथक् आयुष्मन् इदं नः वक्तुम् अर्हसि ॥ ३॥
श्रीभगवान् उवाच ।
युक्तं च सन्ति सर्वत्र भाषन्ते ब्राह्मणाः यथा ।
मायां मदीयाम् उद्गृह्य वदतां किं नु दुर्घटम् ॥ ४॥
न एतत् एवं यथा आत्थ त्वं यत् अहं वच्मि तत् तथा ।
एवं विवदतां हेतुं शक्तयः मे दुरत्ययाः ॥ ५॥
यासां व्यतिकरात् आसीत् विकल्पः वदतां पदम् ।
प्राप्ते शमदमे अपि एति वादस्तमनु शाम्यति ॥ ६॥
परस्परान् अनुप्रवेशात् तत्त्वानां पुरुषर्षभ ।
पौर्व अपर्य प्रसङ्ख्यानं यथा वक्तुः विवक्षितम् ॥ ७॥
एकस्मिन् अपि दृश्यन्ते प्रविष्टानि इतराणि च ।
पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वशः ॥ ८॥
पौर्व अपर्यम् अतः अमीषां प्रसङ्ख्यानम् अभीप्सताम् ।
यथा विविक्तं यत् वक्त्रं गृह्णीमः युक्तिसंभवात् ॥ ९॥
अनादि अविद्यायुक्तस्य पुरुषस्य आत्मवेदनम् ।
स्वतः न संभवात् अन्यः तत्त्वज्ञः ज्ञानदः भवेत् ॥ १०॥
पुरुष ईश्वरयोः अत्र न वैलक्षण्यम् अणु अपि ।
तत् अन्यकल्पनापार्था ज्ञानं च प्रकृतेः गुणः ॥ ११॥
प्रकृतिः गुणसाम्यं वै प्रकृतेः न आत्मनः गुणाः ।
सत्त्वं रजः तमः इति स्थिति उत्पत्ति अन्तहेतवः ॥ १२॥
सत्त्वं ज्ञानं रजः कर्म तमः अज्ञानम् इह उच्यते ।
गुणव्यतिकरः कालः स्वभावः सूत्रम् एव च ॥ १३॥
पुरुषः प्रकृतिः व्यक्तम् अहङ्कारः नभः अनिलः ।
ज्योतिः आपः क्षितिः इति तत्त्वानि उक्तानि मे नव ॥ १४॥
श्रोत्रं त्वक् दर्शनं घ्राणः जिह्वा इति ज्ञानशक्तयः ।
वाक् पाणि उपस्थ पायु अङ्घ्रिः कर्माण्यङ्ग उभयं मनः ॥ १५॥
शब्दः स्पर्शः रसः गन्धः रूपं च इति अर्थजातयः ।
गति उक्ति उत्सर्ग शिल्पानि कर्म आयतन सिद्धयः ॥ १६॥
सर्ग आदौ प्रकृतिः हि अस्य कार्य कारण रूपिणी ।
सत्त्व आदिभिः गुणैः धत्ते पुरुषः अव्यक्तः ईक्षते ॥ १७॥
व्यक्त आदयः विकुर्वाणाः धातवः पुरुष ईक्षया ।
लब्धवीर्याः सृजन्ति अण्डं संहताः प्रकृतेः बलात् ॥ १८॥
सप्त एव धातवः इति तत्र अर्थाः पञ्च खादयः ।
ज्ञानम् आत्मा उभय आधारः ततः देह इन्द्रिय आसवः ॥ १९॥
षड् इति अत्र अपि भूतानि पञ्च षष्ठः परः पुमान् ।
तैः युक्तः आत्मसंभूतैः सृष्ट्वा इदं समुपाविशत् ॥ २०॥
चत्वारि एव इति तत्र अपि तेजः आपः अन्नम् आत्मनः ।
जातानि तैः इदं जातं जन्म अवयविनः खलु ॥ २१॥
सङ्ख्याने सप्तदशके भूतमात्र इन्द्रियाणि च ।
पञ्चपञ्च एक मनसा आत्मा सप्तदशः स्मृतः ॥ २२॥
तद्वत् षोडशसङ्ख्याने आत्मा एव मनः उच्यते ।
भूतेन्द्रियाणि पञ्च एव मनः आत्मा त्रयोदशः ॥ २३॥
एकादशत्वः आत्मा असौ महाभूतेन्द्रियाणि च ।
अष्टौ प्रकृतयः च एव पुरुषः च नव इति अथ ॥ २४॥
इति नाना प्रसङ्ख्यानं तत्त्वानाम् ऋषिभिः कृतम् ।
सर्वं न्याय्यं युक्तिमत्वात् विदुषां किम् अशोभनम् ॥ २५॥
उद्धवः उवाच ।
प्रकृतिः पुरुषः च उभौ यदि अपि आत्मविलक्षणौ ।
अन्योन्य अपाश्रयात् कृष्ण दृश्यते न भिदा तयोः ।
प्रकृतौ लक्ष्यते हि आत्मा प्रकृतिः च तथा आत्मनि ॥ २६॥
एवं मे पुण्डरीकाक्ष महान्तं संशयं हृदि ।
छेत्तुम् अर्हसि सर्वज्ञ वचोभिः नयनैपुणैः ॥ २७॥
त्वत्तः ज्ञानं हि जीवानां प्रमोषः ते अत्र शक्तितः ।
त्वम् एव हि आत्म मायाया गतिं वेत्थ न च अपरः ॥ २८॥
श्रीभगवान् उवाच ।
प्रकृतिः पुरुषः च इति विकल्पः पुरुषर्षभ ।
एषः वैकारिकः सर्गः गुणव्यतिकरात्मकः ॥ २९॥
मम अङ्ग माया गुणमयी अनेकधा
विकल्पबुद्धीः च गुणैः विधत्ते ।
वैकारिकः त्रिविधः अध्यात्मम् एकम्
अथ अधिदैवम् अधिभूतम् अन्यत् ॥ ३०॥
दृक् रूपम् आर्कं वपुः अत्र रन्ध्रे
परस्परं सिध्यति यः स्वतः खे ।
आत्मा यत् एषम् अपरः यः आद्यः
स्वया अनुभूत्य अखिलसिद्धसिद्धिः ।
एवं त्वक् आदि श्रवणादि चक्षुः
जिह्व आदि नास आदि च चित्तयुक्तम् ॥ ३१॥
यः असौ गुणक्षोभकृतौ विकारः
प्रधानमूलात् महतः प्रसूतः ।
अहं त्रिवृत् मोहविकल्पहेतुः
वैकारिकः तामसः ऐन्द्रियः च ॥ ३२॥
आत्मापरिज्ञानमयः विवादः
हि अस्ति इति न अस्ति इति भिदार्थनिष्ठः ।
व्यर्थः अपि न एव उपरमेत पुंसां
मत्तः परावृत्तधियां स्वलोकात् ॥ ३३॥
उद्धवः उवाच ।
त्वत्तः परावृत्तधियः स्वकृतैः कर्मभिः प्रभो ।
उच्च अवचान् यथा देहान् गृह्णन्ति विसृजन्ति च ॥ ३४॥
तत् मम आख्याहि गोविन्द दुर्विभाव्यम् अनात्मभिः ।
न हि एतत् प्रायशः लोके विद्वांसः सन्ति वञ्चिताः ॥ ३५॥
श्रीभगवान् उवाच ।
मनः कर्ममयं नृणाम् इन्द्रियैः पञ्चभिः युतम् ।
लोकात् लोकं प्रयाति अन्यः आत्मा तत् अनुवर्तते ॥ ३६॥
ध्यायन् मनः अनुविषयान् दृष्टान् वा अनुश्रुतान् अथ ।
उद्यत् सीदत् कर्मतन्त्रं स्मृतिः तत् अनुशाम्यति ॥ ३७॥
विषय अभिनिवेशेन न आत्मानं यत् स्मरेत् पुनः ।
जन्तोः वै कस्यचित् हेतोः मृत्युः अत्यन्तविस्मृतिः ॥ ३८॥
जन्म तु आत्मतया पुंसः सर्वभावेन भूरिद ।
विषय स्वीकृतिं प्राहुः यथा स्वप्नमनोरथः ॥ ३९॥
स्वप्नं मनोरथं च इत्थं प्राक्तनं न स्मरति असौ ।
तत्र पूर्वम् इव आत्मानम् अपूर्वं च अनुपश्यति ॥ ४०॥
इन्द्रिय आयन सृष्ट्या इदं त्रैविध्यं भाति वस्तुनि ।
बहिः अन्तः भिदाहेतुः जनः असत् जनकृत् यथा ॥ ४१॥
नित्यदा हि अङ्गः भूतानि भवन्ति न भवन्ति च ।
कालेन अल्क्ष्यवेगेन सूक्ष्मत्वात् तत् न दृश्यते ॥ ४२॥
यथा अर्चिषां स्रोतसां च फलानां वा वनस्पतेः ।
तथा एव सर्वभूतानां वयः अवस्था आदयः कृताः ॥ ४३॥
सः अयं दीपः अर्चिषां यद्वत् स्रोतसां तत् इदं जलम् ।
सः अयं पुमान् इति नृणां मृषाः गीः धीः मृषा
आयुषाम् ॥ ४४॥
मा स्वस्य कर्मबीजेन जायते सः अपि अयं पुमान् ।
म्रियते वामरः भ्रान्त्या यथा अग्निः दारु संयुतः ॥ ४५॥
निषेकगर्भजन्मानि बाल्यकौमारयौवनम् ।
वयोमध्यं जरा मृत्युः इति अवस्थाः तनोः नव ॥ ४६॥
एताः मनोरथमयीः हि अन्यस्य उच्चावचाः तनूः ।
गुणसङ्गात् उपादत्ते क्वचित् कश्चित् जहाति च ॥ ४७॥
आत्मनः पितृपुत्राभ्याम् अनुमेयौ भवाप्ययौ ।
न भवाप्ययवस्तूनाम् अभिज्ञः द्वयलक्षणः ॥ ४८॥
तरोः बीजविपाकाभ्यां यः विद्वात् जन्मसंयमौ ।
तरोः विलक्षणः द्रष्टा एवं द्रष्टा तनोः पृथक् ॥ ४९॥
प्रकृतेः एवम् आत्मानम् अविविच्य अबुधः पुमान् ।
तत्त्वेन स्पर्शसंमूढः संसारं प्रतिपद्यते ॥ ५०॥
सत्त्वसङ्गात् ऋषीन् देवान् रजसा असुरमानुषान् ।
तमसा भूततिर्यक्त्वं भ्रामितः याति कर्मभिः ॥ ५१॥
नृत्यतः गायतः पश्यन् यथा एव अनुकरोति तान् ।
एवं बुद्धिगुणान् पश्यन् अनीहः अपि अनुकार्यते ॥ ५२॥
यथा अम्भसा प्रचलता तरवः अपि चलाः इव ।
चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमति इव भूः ॥ ५३॥
यथा मनोरथधियः विषयानुभवः मृषा ।
स्वप्नदृष्टाः च दाशार्ह तथा संसारः आत्मनः ॥ ५४॥
अर्थे हि अविद्यमाने अपि संसृतिः न निवर्तते ।
ध्यायतः विषयान् अस्य स्वप्ने अनर्थ आगमः यथा ॥ ५५॥
तस्मात् उद्धव मा भुङ्क्ष्व विषयान् असत् इन्द्रियैः ।
आत्मा अग्रहणनिर्भातं पश्य वैकल्पिकं भ्रमम् ॥ ५६॥
क्षिप्तः अवमानितः असद्भिः प्रलब्धः असूयितः अथवा ।
ताडितः संनिबद्धः वा वृत्त्या वा परिहापितः ॥ ५७॥
निष्ठितः मूत्रितः बहुधा एवं प्रकम्पितः ।
श्रेयस्कामः कृच्छ्रगतः आत्मना आत्मानम् उद्धरेत् ॥ ५८॥
उद्धवः उवाच ।
यथा एवम् अनुबुद्ध्येयं वद नः वदतां वर ।
सुदुःसहम् इमं मन्यः आत्मनि असत् अतिक्रमम् ॥ ५९॥
विदुषम् अपि विश्वात्मन् प्रकृतिः हि बलीयसी ।
ऋते त्वत् धर्मनिरतान् शान्ताः ते चरणालयान् ॥ ६०॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
द्वाविंशोऽध्यायः ॥ २२॥
अथ त्रयोविंशः अध्यायः ।
बादरायणिः उवाच ।
सः एवम् आशंसितः उद्धवेन
भागवतमुख्येन दाशार्हमुख्यः ।
सभाजयन् बृत्यवचः मुकुन्दः
तम् आबभाषे श्रवणीयवीर्यः ॥ १॥
श्रीभगवान् उवाच ।
बर्हस्पत्य सः वै न अत्र साधुः वै दुर्जन् ईरितैः ।
दुरुक्तैः भिन्नम् आत्मानं यः समाधातुम् ईश्वरः ॥ २॥
न तथा तप्यते विद्धः पुमान् बाणैः सुमर्मगैः ।
यथा तुदन्ति मर्मस्थाः हि असतां परुषेषवः ॥ ३॥
कथयन्ति महत्पुण्यम् इतिहासम् इह उद्धव ।
तम् अहं वर्णयिष्यामि निबोध सुसमाहितः ॥ ४॥
केनचित् भिक्षुणा गीतं परिभूतेन दुर्जनैः ।
स्मरताः धृतियुक्तेन विपाकं निजकर्मणाम् ॥ ५॥
अवनिषु द्विजः कश्चित् आसीत् आढ्यतमः श्रिया ।
वार्तावृत्तिः कदर्यः तु कामी लुब्धः अतिकोपनः ॥ ६॥
ज्ञातयः अतिथयः तस्य वाङ्मात्रेण अपि न अर्चिताः ।
शून्य अवसथः आत्मा अपि काले कामैः अनर्चितः ॥ ७॥
दुःशीलस्य कदर्यस्य द्रुह्यन्ते पुत्रबान्धवाः ।
दारा दुहितरः भृत्याः विषण्णाः न आचरन् प्रियम् ॥ ८॥
तस्य एवं यक्षवित्तस्य च्युतस्य उभयलोकतः ।
धर्मकामविहीनस्य चुक्रुधुः पञ्चभागिनः ॥ ९॥
तत् अवध्यान विस्रस्त पुण्य स्कन्धस्य भूरिद ।
अर्थः अपि अगच्छन् निधनं बहु आयास परिश्रमः ॥ १०॥
ज्ञातयः जगृहुः किञ्चित् किञ्चित् अस्यवः उद्धव ।
दैवतः कालतः किञ्चित् ब्रह्मबन्धोः नृपार्थिवात् ॥ ११॥
सः एवं द्रविणे नष्टे धर्मकामविवर्जितः ।
उपेक्षितः च स्वजनैः चिन्ताम् आप दुरत्ययाम् ॥ १२॥
तस्य एवं ध्यायतः दीर्घं नष्टरायः तपस्विनः ।
खिद्यतः बाष्पकण्ठस्य निर्वेदः सुमहान् अभूत् ॥ १३॥
सः च आह इदम् अहो कष्टं वृथा आत्मा मे अनुतापितः ।
न धर्माय न कामाय यस्य अर्थ आयासः ईदृशः ॥ १४॥
प्रायेण अर्थाः कदर्याणां न सुखाय कदाचन ।
इह च आत्मोपतापाय मृतस्य नरकाय च ॥ १५॥
यशः यशस्विनां शुद्धं श्लाघ्याः ये गुणिनां गुणाः ।
लोभः स्वल्पः अपि तान् हन्ति श्वित्रः रूपम् इव इप्सितम् ॥ १६॥
अर्थस्य साधने सिद्धः उत्कर्षे रक्षणे व्यये ।
नाश उपभोगः आयासः त्रासः चिन्ता भ्रमः नृणाम् ॥ १७॥
स्तेयं हिंसा अनृतं दम्भः कामः क्रोधः स्मयः मदः ।
भेदः वैरम् अविश्वासः संस्पर्धा व्यसनानि च ॥ १८॥
एते पञ्चदशान् अर्थाः हि अर्थमूलाः मताः नृणाम् ।
तस्मात् अनर्थम् अर्थाख्यं श्रेयः अर्थी दूरतः त्यजेत् ॥ १९॥
भिद्यन्ते भ्रातरः दाराः पितरः सुहृदः तथा ।
एकास्निग्धाः काकिणिना सद्यः सर्वे अरयः कृताः ॥ २०॥
अर्थेन अल्पीयसा हि एते संरब्धा दीप्तम् अन्यवः ।
त्यजन्ति आशु स्पृधः घ्नन्ति सहसा उत्सृज्य सौहृदम् ॥
२१॥
लब्ध्वा जन्म अमरप्रार्थ्यं मानुष्यं तत् द्विज अग्र्यताम् ।
तत् अनादृत्य ये स्वार्थं घ्नन्ति यान्ति अशुभां गतिम् ॥
२२॥
स्वर्ग अपवर्गयोः द्वारं प्राप्य लोकम् इमं पुमान् ।
द्रविणे कः अनूषज्जेत मर्त्यः अनर्थस्य धामनि ॥ २३॥
देवर्षि पितृ भूतानि ज्ञातीन् बन्धून् च भागिनः ।
असंविभज्य च आत्मानं यक्षवित्तः पतति अधः ॥ २४॥
व्यर्थया अर्थेहया वित्तं प्रमत्तस्य वयः बलम् ।
कुशलाः येन सिध्यन्ति जरठः किं नु साधये ॥ २५॥
कस्मात् सङ्क्लिश्यते विद्वान् व्यर्थया अर्थेहया असकृत् ।
कस्यचित् मायया नूनं लोकः अयं सुविमोहितः ॥ २६॥
किं धनैः धनदैः वा किं कामैः वा कामदैः उत ।
मृत्युना ग्रस्यमानस्य कर्मभिः वा उत जन्मदैः ॥ २७॥
नूनं मे भगवान् तुष्टः सर्वदेवमयः हरिः ।
येन नीतः दशाम् एतां निर्वेदः च आत्मनः प्लवः ॥ २८॥
सः अहं कलौ अशेषेण शोषयिह्ह्ये अङ्गम् आत्मनः ।
अप्रमत्तः अखिलस्वार्थे यदि स्यात् सिद्धः आत्मनि ॥ २९॥
तत्र माम् अनुमोदेरन् देवाः त्रिभुवनेश्वराः ।
मुहूर्तेन ब्रह्मलोकं खट्वाङ्गः समसाधयत् ॥ ३०॥
श्रीभगवान् उवाच ।
इति अभिप्रेत्य मनसा हि आवन्त्यः द्विजसत्तमः ।
उन्मुच्य हृदयग्रन्थीन् शान्तः भिक्षुः अभूत् मुनिः ॥ ३१॥
सः चचार महीम् एतां संयत आत्मेन्द्रिय अनिलः ।
भिक्षार्थं नगर ग्रामान् असङ्गः अलक्षितः अविशत् ॥ ३२॥
तं वै प्रवयसं भिक्षुम् अवधूतम् असज्जनाः ।
दृष्ट्वा पर्यभवन् भद्रः बह्वीभिः परिभूतिभिः ॥ ३३॥
केचित् त्रिवेणुं जगृहुः एके पात्रं कमण्डलुम् ।
पीठं च एके अक्षसूत्रं च कन्थां चीराणि केचन ॥ ३४॥
प्रदाय च पुनः तानि दर्शितानि आददुः मुनेः ।
अन्नं च भैक्ष्यसम्पन्नं भुञ्जानस्य सरित् तटे ॥ ३५॥
मूत्रयन्ति च पापिष्ठाः ष्ठीवन्ति अस्य च मूर्धनि ।
यतवाचं वाचयन्ति ताडयन्ति न वक्ति चेत् ॥ ३६॥
तर्जयन्ति अपरे वाग्भिः स्तेनः अयम् इति वादिनः ।
बध्नन्ति रज्ज्वा तं केचित् बध्यतां बध्यताम् इति ॥ ३७॥
क्षिपन्ति एके अवजानन्तः एषः धर्मध्वजः शठः ।
क्षीणवित्तः इमां वृत्तिम् अग्रहीत् स्वजन उज्झितः ॥ ३८॥
अहो एषः महासारः धृतिमान् गिरिः आडिव ।
मौनेन साधयति अर्थं बकवत् दृढनिश्चयः ॥ ३९॥
इति एके विहसन्ति एनम् एके दुर्वातयन्ति च ।
तं बबन्धुः निरुरुधुः यथा क्रीडनकं द्विजम् ॥ ४०॥
एवं सः भौतिकं दुःखं दैविकं दैहिकं च यत् ।
भोक्तव्यम् आत्मनः दिष्टं प्राप्तं प्राप्तम् अबुध्यत ॥ ४१॥
परिभूतः इमां गाथाम् अगायत नराधमैः ।
पातयद्भिः स्वधर्मस्थः धृतिम् आस्थाय सात्विकीम् ॥ ४२॥
द्विजः उवाच ।
न अयं जनः मे सुखदुःखहेतुः
न देवतात्मा ग्रहकर्मकालाः ।
मनः परं कारणम् आमनन्ति
संसारचक्रं परिवर्तयेत् यत् ॥ ४३॥
मनः गुणान् वै सृजते बलीयः
ततः च कर्माणि विलक्षणानि ।
शुक्लानि कृष्णानि अथ लोहितानि
तेभ्यः सवर्णाः सृतयः भवन्ति ॥ ४४॥
अनीहः आत्मा मनसा समीहता
हिरण्मयः मत्सखः उद्विचष्टे ।
मनः स्वलिङ्गं परिगृह्य कामान्
जुषन् निबद्धः गुणसङ्गतः असौ ॥ ४५॥
दानं स्वधर्मः नियमः यमः च
श्रुतं च कर्माणि च सद्व्रतानि ।
सर्वे मनोनिग्रहलक्षणान्ताः
परः हि योगः मनसः समाधि ॥ ४६॥
समाहितं यस्य मनः प्रशान्तम्
दानादिभिः किं वद तस्य कृत्यम् ।
असंयतं यस्य मनः विनश्यत्
दानादिभिः चेत् अपरं किमेभिः ॥ ४७॥
मनोवशे अन्ये हि अभवन् स्म देवाः
मनः च न अन्यस्य वशं समेति ।
भीष्मः हि देवः सहसः सहीयान्
युञ्ज्यात् वशे तं सः हि देवदेवः ॥ ४८॥
तं दुर्जयं शत्रुम् असह्यवेगं
मरुन्तुदं तत् न विजित्य केचित् ।
कुर्वन्ति असत् विग्रहम् अत्र मर्त्यैः
मित्राणि उदासीन रिपून् विमूढाः ॥ ४९॥
देहं मनोमात्रम् इमं गृहीत्वा
मम अहम् इति अन्ध धियः मनुष्याः ।
एषः अहम् अन्यः अयम् इति भ्रमेण
दुरन्तपारे तमसि भ्रमन्ति ॥ ५०॥
जनः तु हेतुः सुखदुःखयोः चेत्
किम् आत्मनः च अत्र ह भौमयोः तत् ।
जिह्वां क्वचित् सन्दशति स्वदद्भिः
तत् वेदनायां कतमाय कुप्येत् ॥ ५१॥
दुःखस्य हेतुः यदि देवताः तु
किम् आत्मनः तत्र विकारयोः तत् ।
यत् अङ्गम् अङ्गेन निहन्यते क्वचित्
क्रुध्येत कस्मै पुरुषः स्वदेहे ॥ ५२॥
आत्मा यदि स्यात् सुखदुःखहेतुः
किम् अन्यतः तत्र निजस्वभावः ।
न हि आत्मनः अन्यत् यदि तत् मृषा स्यात्
क्रुध्येत कस्मात् न सुखं न दुःखम् ॥ ५३॥
ग्रहाः निमित्तं सुखदुःखयोः चेत्
किम् आत्मनः अजस्य जनस्य ते वै ।
ग्रहैः ग्रहस्य एव वदन्ति पीडाम्
क्रुध्येत कस्मै पुरुषः ततः अन्यः ॥ ५४॥
कर्माः तु हेतुः सुखदुःखयोः चेत्
किम् आत्मनः तत् हि जडाजडत्वे ।
देहः तु अचित्पुरुषः अयं सुपर्णः
क्रुध्येत कस्मै न हि कर्ममूलम् ॥ ५५॥
कालः तु हेतुः सुखदुःखयोः चेत्
किम् आत्मनः तत्र तत् आत्मकः असौ ।
न अग्नेः हि तापः न हिमस्य तत् स्यात्
क्रुध्येत कस्मै न परस्य द्वन्द्वम् ॥ ५६॥
न केनचित् क्व अपि कथञ्चन अस्य
द्वन्द्व उपरागः परतः परस्य ।
यथाहमः संसृतिरूपिणः स्यात्
एवं प्रबुद्धः न बिभेति भूतैः ॥ ५७॥
एतां सः आस्थाय परात्मनिष्ठाम्
अध्यासितां पूर्वतमैः महर्षिभिः ।
अहं तरिष्यामि दुरन्तपारम्
तमः मुकुन्द अङ्घ्रिनिषेवया एव ॥ ५८॥
श्रीभगवान् उवाच ।
निर्विद्य नष्टद्रविणः गतक्लमः
प्रव्रज्य गां पर्यटमानः इत्थम् ।
निराकृतः असद्भिः अपि स्वधर्मात्
अकम्पितः अमुं मुनिः आह गाथाम् ॥ ५९॥
सुखदुःखप्रदः न अन्यः पुरुषस्य आत्मविभ्रमः ।
मित्र उदासीनरिपवः संसारः तमसः कृतः ॥ ६०॥
तस्मात् सर्वात्मना तात निगृहाण मनो धिया ।
मयि आवेशितया युक्तः एतावान् योगसङ्ग्रहः ॥ ६१॥
यः एतां भिक्षुणा गीतां ब्रह्मनिष्ठां समाहितः ।
धारयन् श्रावयन् श्रुण्वन् द्वन्द्वैः न एव अभिभूयते ॥ ६२॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
बिक्षुगीतनिरूपणं नाम त्रयोविंशोऽध्यायः ॥ २३॥
अथ चतुर्विंशोऽध्याः ।
श्रीभगवान् उवाच ।
अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वैः विनिश्चितम् ।
यत् विज्ञाय पुमान् सद्यः जह्यात् वैकल्पिकं भ्रमम् ॥ १॥
आसीत् ज्ञानम् अथः हि अर्थः एकम् एव अविकल्पितम् ।
यदा विवेकनिपुणाः आदौ कृतयुगे अयुगे ॥ २॥
तत् मायाफलरूपेण केवलं निर्विकल्पितम् ।
वाङ्मनः अगोचरं सत्यं द्विधा समभवत् बृहत् ॥ ३॥
तयोः एकतरः हि अर्थः प्रकृतिः सोभयात्मिका ।
ज्ञानं तु अन्यतरः भावः पुरुषः सः अभिधीयते ॥ ४॥
तमः रजः सत्त्वम् इति प्रकृतेः अभवन् गुणाः ।
मया प्रक्षोभ्यमाणायाः पुरुष अनुमतेन च ॥ ५॥
तेभ्यः समभवत् सूत्रं महान् सूत्रेण संयुतः ।
ततः विकुर्वतः जातः यः अहङ्कारः विमोहनः ॥ ६॥
वैकारिकः तैजसः च तामसः च इति अहं त्रिवृत् ।
तन्मात्र इन्द्रिय मनसां कारणं चित् अचित् मयः ॥ ७॥
अर्थः तन्मात्रिकात् जज्ञे तामसात् इन्द्रियाणि च ।
तैजसात् देवताः आसन् एकादश च वैकृतात् ॥ ८॥
मया सञ्चोदिताः भावाः सर्वे संहति अकारिणः ।
अण्डम् उत्पादयामासुः मम आयतनम् उत्तमम् ॥ ९॥
तस्मिन् अहं समभवम् अण्डे सलिलसंस्थितौ ।
मम नाभ्याम् अभूत् पद्मं विश्वाख्यं तत्र च आत्मभूः ॥
१०॥
सः असृजत् तपसा युक्तः रजसा मत् अनुग्रहात् ।
लोकान् सपालान् विश्वात्मा भूः भुवः स्वः इति त्रिधा ॥ ११॥
देवानाम् ओकः आसीत् स्वः भूतानां च भुवः पदम् ।
मर्त्य आदीनां च भूः लोकः सिद्धानां त्रितयात् परम् ॥
१२॥
अधः असुराणां नागानां भूमेः ओकः असृजत् प्रभुः ।
त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुण आत्मनाम् ॥ १३॥
योगस्य तपसः च एव न्यासस्य गतयः अमलाः ।
महः जनः तपः सत्यं भक्तियोगस्य मद्गतिः ॥ १४॥
मया कालात्मना धात्रा कर्मयुक्तम् इदं जगत् ।
गुणप्रवाहः एतस्मिन् उन्मज्जति निमज्जति ॥ १५॥
अणुः बृहत् कृशः स्थूलः यः यः भावः प्रसिध्यति ।
सर्वः अपि उभयसंयुक्तः प्रकृत्या पुरुषेण च ॥ १६॥
यः तु यस्य आदिः अन्तः च सः वै मध्यं च तस्य सन् ।
विकारः व्यवहारार्थः यथा तैजस पार्थिवाः ॥ १७॥
यत् उपादाय पूर्वः तु भावः विकुरुते अपरम् ।
आदिः अन्तः यदा यस्य तत् सत्यम् अभिधीयते ॥ १८॥
प्रकृतिः हि अस्य उपादानम् आधारः पुरुषः परः ।
सतः अभिव्यञ्जकः कालः ब्रह्म तत् त्रितयं तु अहम् ॥ १९॥
सर्गः प्रवर्तते तावत् पौर्व अपर्येण नित्यशः ।
महान् गुणविसर्ग अर्थः स्थिति अन्तः यावत् ईक्षणम् ॥ २०॥
विराट् मया आसाद्यमानः लोककल्पविकल्पकः ।
पञ्चत्वाय विशेषाय कल्पते भुवनैः सह ॥ २१॥
अन्ने प्रलीयते मर्त्यम् अन्नं धानासु लीयते ।
धानाः भूमौ प्रलीयन्ते भूमिः गन्धे प्रलीयते ॥ २२॥
अप्सु प्रलीयन्ते गन्धः आपः च स्वगुणे रसे ।
लीयते ज्योतिषि रसः ज्योती रूपे प्रलीयते ॥ २३॥
रूपं वायौ सः च स्पर्शे लीयते सः अपि च अम्बरे ।
अम्बरं शब्दतन्मात्रः इन्द्रियाणि स्वयोनिषु ॥ २४॥
योनिः वैकारिके सौम्य लीयते मनसि ईश्वरे ।
शब्दः भूतादिम् अपि एति भूतादिः महति प्रभुः ॥ २५॥
सः लीयते महान् स्वेषु गुणेषु गुणवत्तमः ।
ते अव्यक्ते सम्प्रलीयन्ते तत्कले लीयते अव्यये ॥ २६॥
कालः मायामये जीवे जीवः आत्मनि मयि अजे ।
आत्मा केवलः आत्मस्थः विकल्प अपाय लक्षणः ॥ २७॥
एवम् अन्वीक्षमाणस्य कथं वैकल्पिकः भ्रमः ।
मनसः हृदि तिष्ठेत व्योम्नि इव अर्क उदये तमः ॥ २८॥
एषः साङ्ख्यविधिः प्रोक्तः संशयग्रन्थिभेदनः ।
प्रतिलोम अनुलोमाभ्यां परावरदृशा मया ॥ २९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
प्रकृतिपुरुषसाङ्ख्ययोगो नाम चतुर्विंशोऽध्यायः ॥ २४॥
अथ पञ्चविंशोऽध्यायः ।
श्रीभगवानुवाच ।
गुणानाम् असमिश्राणां पुमान्येन यथा भवेत् ।
तन्मे पुरुषवर्य इअदम् उपधारय शंसतः ॥ १॥
समः दमः तितिक्षा ईक्षा तपः सत्यं दया स्मृतिः ।
तुष्टिः त्यागः अस्पृहा श्रद्धा ह्रीः दया आदिः स्वनिर्वृतिः ॥ २॥
कामः ईहा मदः तृष्णा स्तम्भः आशीः भिदा सुखम् ।
मद उत्साहः यशः प्रीतिः हास्यं वीर्यं बल उद्यमः ॥ ३॥
क्रोधः लोभः अनृतं हिंसा याञ्चा दम्भः क्लमः कलिः ।
शोकमोहौ विषादार्ती निद्रा आशा भीः अनुद्यमः ॥ ४॥
सत्त्वस्य रजसः च एताः तमसः च अनुमूर्वशः ।
वृत्तयः वर्णितप्रायाः संनिपातम् अथः श्रुणु ॥ ५॥
संनिपातः तु अहम् इति मम इति उद्धव या मतिः ।
व्यवहारः संनिपातः मनोमात्र इन्द्रियासुभिः ॥ ६॥
धर्मे च अर्थे च कामे च यदा असौ परिनिष्ठितः ।
गुणानां संनिकर्षः अयं श्रद्धाः अतिधनावहः ॥ ७॥
प्रवृत्तिलक्षणे निष्ठा पुमान् यः हि गृहाश्रमे ।
स्वधर्मे च अनुतिष्ठेत गुणानां समितिः हि सा ॥ ८॥
पुरुषं सत्त्वसंयुक्तम् अनुमीयात् शम आदिभिः ।
कामादिभी रजोयुक्तं क्रोधाद्यैः तमसा युतम् ॥ ९॥
यदा भजति मां भक्त्या निरपेक्षः स्वकर्मभिः ।
तं सत्त्वप्रकृतिं विद्यात् पुरुषं स्त्रियम् एव वा ॥ १०॥
यदा आशिषः आशास्य मां भजेत स्वकर्मभिः ।
तं रजःप्रकृतिं विद्यात् हिंसाम् आशास्य तामसम् ॥ ११॥
सत्त्वं रजः तमः इति गुणाः जीवस्य न एव मे ।
चित्तजा यैः तु भूतानां सज्जमानः निबध्यते ॥ १२॥
यदेतरौ जयेत् सत्त्वं भास्वरं विशदं शिवम् ।
तदा सुखेन युज्येत धर्मज्ञान आदिभिः पुमान् ॥ १३॥
यदा जयेत् तमः सत्त्वं रजः सङ्गं भिदा चलम् ।
तदा दुःखेन युज्येत कर्मणा यशसा श्रिया ॥ १४॥
यदा जयेत् रजः सत्त्वं तमः मूढः लयं जडम् ।
युज्येत शोकमोहाभ्यां निद्रया हिंसया आशया ॥ १५॥
यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृतिः ।
देहे अभयं मनोसङ्गं तत् सत्त्वं विद्धि मत्पदम् ॥ १६॥
विकुर्वन् क्रियया च अधीर निर्वृतिः च चेतसाम् ।
गात्रास्वास्थ्यं मनः भ्रान्तं रजः एतैः निशामय ॥ १७॥
सीदत् चित्तं विलीयेत चेतसः ग्रहणे अक्षमम् ।
मनः नष्टं तमः ग्लानिः तमः तत् उपधारय ॥ १८॥
एधमाने गुणे सत्त्वे देवानां बलम् एधते ।
असुराणां च रजसि तमसि उद्धव रक्षसाम् ॥ १९॥
सत्त्वात् जगरणं विद्यात् रजसा स्वप्नम् आदिशेत् ।
प्रस्वापं तमसा जन्तोः तुरीयं त्रिषु सन्ततम् ॥ २०॥
उपर्युपरि गच्छन्ति सत्त्वेन आब्रह्मणः जनाः ।
तमसा अधः अधः आमुख्यात् रजसा अन्तरचारिणः ॥ २१॥
सत्त्वे प्रलीनाः स्वः यान्ति नरलोकं रजोलयाः ।
तमोलयाः तु निरयं यान्ति माम् एव निर्गुणाः ॥ २२॥
मदर्पणं निष्फलं वा सात्विकं निजकर्म तत् ।
राजसं फलसङ्कल्पं हिंसाप्रायादि तामसम् ॥ २३॥
कैवल्यं सात्विकं ज्ञानं रजः वैकल्पिकं च यत् ।
प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥ २४॥
वनं तु सात्विकः वासः ग्रामः राजसः उच्यते ।
तामसं द्यूतसदनं मन्निकेतनं तु निर्गुणम् ॥ २५॥
सात्विकः कारकः असङ्गी रागान्धः राजसः स्मृतः ।
तामसः स्मृतिविभ्रष्टः निर्गुणः मदपाश्रयः ॥ २६॥
सात्त्विकी आध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी ।
तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥ २७॥
पथ्यं पूतम् अनायः तम् आहार्यं सात्त्विकं स्मृतम् ।
राजसं च इन्द्रियप्रेष्ठं तामसं च आर्तिद अशुचि ॥ २८॥
सात्त्विकं सुखम् आत्मोत्थं विषयोत्थं तु राजसम् ।
तामसं मोहदैनोत्थं निर्गुणं मदपाश्रयम् ॥ २९॥
द्रव्यं देशः फलं कालः ज्ञानं कर्म च कारकाः ।
श्रद्धा अवस्था आकृतिः निष्ठा त्रैगुण्यः सर्वः एव हि ॥
३०॥
सर्वे गुणमयाः भावाः पुरुष अव्यक्त धिष्ठिताः ॥ ३१॥
एताः संसृतयः पुंसः गुणकर्मनिबन्धनाः ।
येन इमे निर्जिताः सौम्य गुणाः जीवेन चित्तजाः ।
भक्तियोगेन मन्निष्ठः मद्भावाय प्रपद्यते ॥ ३२॥
तस्मात् अहम् इमं लब्ध्वा ज्ञानविज्ञानसंभवम् ।
गुणसङ्गं विनिर्धूय मां भजन्तु विचक्षणाः ॥ ३३॥
निःसङ्गः मां भजेत् विद्वान् अप्रमत्तः जितेन्द्रियः ।
रजः तमः च अभिजयेत् सत्त्वसंसेवया मुनिः ॥ ३४॥
सत्त्वं च अभिजयेत् युक्तः नैरपेक्ष्येण शान्तधीः ।
सम्पद्यते गुणैः मुक्तः जीवः जीवं विहाय माम् ॥ ३५॥
जीवः जीवविनिर्मुक्तः गुणैः च आशयसंभवैः ।
मया एव ब्रह्मणा पूर्णः न बहिः न अन्तरः चरेत् ॥ ३६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
गुणनिर्गुणनिरूपणं नाम पञ्चविंशोऽध्यायः ॥ २५॥
अथ षड्विंशोऽध्यायः ।
श्रीभगवान् उवाच ।
मत् लक्षणम् इमं कायं लब्ध्वा मद्धर्मः आस्थितः ।
आनन्दं परमात्मानम् आत्मस्थं समुपैति माम् ॥ १॥
गुणमय्याः जीवयोन्याः विमुक्तः ज्ञाननिष्ठया ।
गुणेषु मायामात्रेषु दृश्यमानेषु अवस्तुतः ।
वर्तमानः अपि न पुमान् युज्यते अवस्तुभिः गुणैः ॥ २॥
सङ्गं न कुर्यात् असतां शिश्न उदर तृपां क्वचित् ।
तस्य अनुगतः तमसि अन्धे पतति अन्ध अनुगान्धवत् ॥ ३॥
ऐलः सम्राट् इमां गाथाम् अगायत बृहच्छ्रवाः ।
उर्वशी विरहात् मुह्यन् निर्विण्णः शोकसंयमे ॥ ४॥
त्यक्त्वा आत्मानं व्रजन्तीं तां नग्नः उन्मत्तवत् नृपः ।
विलपन् अन्वगात् जाये घोरे तिष्ठ इति विक्लवः ॥ ५॥
कामान् अतृप्तः अनुजुषन् क्षुल्लकान् वर्षयामिनीः ।
न वेद यान्तीः न अयान्तीः उर्वशी आकृष्टचेअतनः ॥ ६॥
ऐलः उवाच ।
अहो मे मोहविस्तारः कामकष्मलचेतसः ।
देव्याः गृहीतकण्ठस्य न आयुःखण्डाः इमे स्मृताः ॥ ७॥
न अहं वेद अभिनिर्मुक्तः सूर्यः वा अभ्युदितः अमुया ।
मुषितः वर्षपूगानां बत अहानि गतानि उत ॥ ८॥
अहो मे आत्मसंमोहः येन आत्मा योषितां कृतः ।
क्रीडामृगः चक्रवर्ती नरदेवशिखामणिः ॥ ९॥
सपरिच्छदम् आत्मानं हित्वा तृणम् इव ईश्वरम् ।
यान्तीं स्त्रियं च अन्वगमं नग्नः उन्मत्तवत् रुदन् ॥ १०॥
कुतः तस्य अनुभावः स्यात् तेजः ईशत्वम् एव वा ।
यः अन्वगच्छं स्त्रियं यान्तीं खरवत् पादताडितः ॥ ११॥
किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा ।
किं विविक्तेन मौनेन स्त्रीभिः यस्य मनः हृतम् ॥ १२॥
स्वार्थस्य अकोविदं धिङ् मां मूर्खं पण्डित मानिनम् ।
यः अहम् ईश्वरतां प्राप्य स्त्रीभिः गो खरवत् जितः ॥ १३॥
सेवतः वर्षपूगात् मे उर्वश्यः अधरासवम् ।
न तृप्यति आत्मभूः कामः वह्निः आहुतिभिः यथा ॥ १४॥
पुंश्चल्या अपहृतं चित्तं कोन्वन्यः मोचितुं प्रभुः ।
आत्मारामेश्वरम् ऋते भगवन्तम् अधोक्षजम् ॥ १५॥
बोधितस्य अपि देव्या मे सूक्तवाक्येन दुर्मतेः ।
मनोगतः महामोहः न अपयाति अजितात्मनः ॥ १६॥
किम् एतया नः अपकृतं रज्ज्वा वा सर्पचेतसः ।
रज्जुस्वरूप अविदुषः यः अहं यत् अजितेन्द्रियः ॥ १७॥
क्व अयं मलोमसः कायः दौर्गन्धि आदि आत्मकः अशुचिः ।
क्व गुणाः सौमनस्य आद्याः हि अध्यासः अविद्यया कृतः ॥ १८॥
पित्रोः किं स्वं नु भार्यायाः स्वामिनः अग्नेः श्वगृध्रयोः ।
किम् आत्मनः किं सुहृदाम् इति यः न अवसीयते ॥ १९॥
तस्मिन् कलेवरे अमेध्ये तुच्छनिष्ठे विषज्जते ।
अहो सुभद्रं सुनसं सुस्मितं च मुखं स्त्रियः ॥ २०॥
त्वङ् मांस रुधिर स्नायु मेदो मज्जा अस्थि संहतौ ।
विण्मूत्रपूये रमतां कृमीणां कियत् अन्तरम् ॥ २१॥
अथ अपि न उपसज्जेत स्त्रीषु स्त्रैणेषु च अर्थवित् ।
विषय इन्द्रिय संयोगात् मनः क्षुभ्यति न अन्यथा ॥ २२॥
अदृष्टात् अश्रुतात् भावात् न भावः उपजायते ।
असम्प्रयुञ्जतः प्राणान् शाम्यति स्तिमितं मनः ॥ २३॥
तस्मात् सङ्गः न कर्तव्यः स्त्रीषु स्त्रैणेषु च इन्द्रियैः ।
विदुषां च अपि अविश्रब्धः षड्वर्गः किमु मादृशाम् ॥
२४॥
श्रीभगवान् उवाच ।
एवं प्रगायन् नृपदेवदेवः
सः उर्वशीलोकम् अथः विहाय ।
आत्मानम् आत्मनि अवगम्य मां वै
उपारमत् ज्ञानविधूतमोहः ॥ २५॥
ततः दुःसङ्गम् उत्सृज्य सत्सु सज्जेत बुद्धिमान् ।
सन्तः एतस्य छिन्दन्ति मनोव्यासङ्गमुक्तिभिः ॥ २६॥
सन्तः अनपेक्षाः मच्चित्ताः प्रशान्ताः समदर्शिनः ।
निर्ममाः निरहङ्काराः निर्द्वन्द्वाः निष्परिग्रहाः ॥ २७॥
तेषु नित्यं महाभागः महाभागेषु मत्कथाः ।
संभवन्ति हिता नॄणां जुषतां प्रपुनन्ति अघम् ॥ २८॥
ताः ये श्रुण्वन्ति गायन्ति हि अनुमोदन्ति च अदृताः ।
मत्पराः श्रद्दधानाः च भक्तिं विन्दन्ति ते मयि ॥ २९॥
भक्तिं लब्धवतः साधोः किम् अन्यत् अवशिष्यते ।
मयि अनन्तगुणे ब्रह्मणि आनन्द अनुभव आत्मनि ॥ ३०॥
यथा उपश्रयमाणस्य भगवन्तं विभावसुम् ।
शीतं भयं तमः अपि एति साधून् संसेवतः तथा ॥ ३१॥
निमज्ज्य उन्मज्ज्यतां घोरे भवाब्धौ परम अयनम् ।
सन्तः ब्रह्मविदः शान्ताः नौः दृढ इव अप्सु मज्जताम् ॥ ३२॥
अन्नं हि प्राणिनां प्राणः आर्तानां शरणं तु अहम् ।
धर्मः वित्तं नृणां प्रेत्य सन्तः अर्वाक् बिभ्यतः अरणम् ॥
३३॥
सन्तः दिशन्ति चक्षूंषि बहिः अर्कः समुत्थितः ।
देवताः बान्धवाः सन्तः सन्तः आत्मा अहम् एव च ॥ ३४॥
वैतसेनः ततः अपि एवम् उर्वश्या लोकनिःस्पृहः ।
मुक्तसङ्गः महीम् एताम् आत्मारामः चचार ह ॥ ३५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
ऐलगीतं नाम षड्विंशोऽध्यायः ॥ २६॥
अथ सप्तविंशोऽध्यायः ।
उद्धवः उवाच ।
क्रियायोगं समाचक्ष्व भवत् आराधनं प्रभो ।
यस्मात् त्वां ये यथा अर्चन्ति सात्वताः सात्वतर्षभ ॥ १॥
एतत् वदन्ति मुनयः मुहुः निःश्रेयसं नृणाम् ।
नारदः भगवान् व्यासः आचार्यः अङ्गिरसः सुतः ॥ २॥
निःसृतं ते मुखाम्भोजाद्यत् आह भगवान् अजः ।
पुत्रेभ्यः भृगुमुख्येभ्यः देव्यै च भगवान् भवः ॥ ३॥
एतत् वै सर्ववर्णानाम् आश्रमाणां च संमतम् ।
श्रेयसाम् उत्तमं मन्ये स्त्रीशूद्राणां च मानद ॥ ४॥
एतत् कमलपत्राक्ष कर्मबन्धविमोचनम् ।
भक्ताय च अनुरक्ताय ब्रूहि विश्वेश्वर ईश्वर ॥ ५॥
श्रीभगवान् उवाच ।
नहि अन्तः अनन्तपारस्य कर्मकाण्डस्य च उद्धव ।
संक्षिप्तं वर्णयिष्यामि यथावत् अनुपूर्वशः ॥ ६॥
वैदिकः तान्त्रिकः मिश्रः इति मे त्रिविधः मखः ।
त्रयाणाम् ईप्सितेन एव विधिना मां समर्चयेत् ॥ ७॥
यदा स्वनिगमेन उक्तं द्विजत्वं प्राप्य पूरुषः ।
यथा यजेत मां भक्त्या श्रद्धया तत् निबोध मे ॥ ८॥
अर्चायां स्थण्डिले अग्नौ वा सूर्ये वा अप्सु हृदि द्विजः ।
द्रव्येण भक्तियुक्तः अर्चेत् स्वगुरुं माम् अमायया ॥ ९॥
पूर्वं स्नानं प्रकुर्वीत धौतदन्तः अङ्गशुद्धये ।
उभयैः अपि च स्नानं मन्त्रैः मृद्ग्रहणादिना ॥ १०॥
सन्ध्या उपास्ति आदि कर्माणि वेदेन अचोदितानि मे ।
पूजां तैः कल्पयेत् सम्यक् सङ्कल्पः कर्मपावनीम् ॥ ११॥
शैली दारुमयी लौही लेप्या लेख्या च सैकती ।
मनोमयी मणिमयी प्रतिमा अष्टविधा स्मृता ॥ १२॥
चल अचल इति द्विविधा प्रतिष्ठा जीवमन्दिरम् ।
उद्वास आवाहने न स्तः स्थिरायाम् उद्धव अर्चने ॥ १३॥
अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेत् द्वयम् ।
स्नपनं तु अविलेप्यायाम् अन्यत्र परिमार्जनम् ॥ १४॥
द्रव्यैः प्रसिद्ध्यैः मत् यागः प्रतिमादिषु अमायिनः ।
भक्तस्य च यथालब्धैः हृदि भावेन च एव हि ॥ १५॥
स्नान अलङ्करणं प्रेष्ठम् अर्चायाम् एव तु उद्धव ।
स्थण्डिले तत्त्वविन्यासः वह्नौ आज्यप्लुतं हविः ॥ १६॥
सूर्ये च अभ्यर्हणं प्रेष्ठं सलिले सलिल आदिभिः ।
श्रद्धया उपाहृतं प्रेष्ठं भक्तेन मम वारि अपि ॥ १७॥
भूर्यपि अभक्त उपहृतं न मे तोषाय कल्पते ।
गन्धः धूपः सुमनसः दीपः अन्न आद्य च किं पुनः ॥ १८॥
शुचिः संभृतसंभारः प्राक् दर्भैः कल्पित आसनः ।
आसीनः प्राक् उदक् वा अर्चेत् अर्चायाम् अथ संमुखः ॥ १९॥
कृतन्यासः कृतन्यासां मदर्चां पाणिना मृजेत् ।
कलशं प्रोक्षणीयं च यथावत् उपसाधयेत् ॥ २०॥
तत् अद्भिः देवयजनं द्रव्याणि आत्मानम् एव च ।
प्रोक्ष्य पात्राणि त्रीणि अद्भिः तैः तैः द्रव्यैः च साधयेत् ॥ २१॥
पाद्य अर्घ आचमनीयार्थं त्रीणि पात्राणि दैशिकः ।
हृदा शीर्ष्णा अथ शिखया गायत्र्या च अभिमन्त्रयेत् ॥
२२॥
पिण्डे वायु अग्नि संशुद्धे हृत्पद्मस्थां परां मम ।
अण्वीं जीवकलां ध्यायेत् नाद अन्ते सिद्धभाविताम् ॥ २३॥
तया आत्मभूतया पिण्डे व्याप्ते सम्पूज्य तन्मयः ।
आवाह्य अर्च आदिषु स्थाप्य न्यस्त अङ्गं मां प्रपूजयेत् ॥
२४॥
पाद्य उपस्पर्श अर्हण आदीन् उपचारान् प्रकल्पयेत् ।
धर्मादिभिः च नवभिः कल्पयित्वा आसनं मम ॥ २५॥
पद्मम् अष्टदलं तत्र कर्णिकाकेसर उज्ज्वलम् ।
उभाभ्यां वेदतन्त्राभ्यां मह्यं तु उभयसिद्धये ॥ २६॥
सुदर्शनं पाञ्चजन्यं गदासीषुधनुः हलान् ।
मुसलं कौस्तुभं मालां श्रीवत्सं च अनुपूजयेत् ॥ २७॥
नन्दं सुनन्दं गरुडं प्रचण्डं चण्डम् एव च ।
महाबलं बलं च एव कुमुदं कुमुदेक्षणम् ॥ २८॥
दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून् सुरान् ।
स्वे स्वे स्थाने तु अभिमुखान् पूजयेत् प्रोक्षण आदिभिः ॥ २९॥
चन्दन उशीर कर्पूर कुङ्कुम अगरु वासितैः ।
सलिलैः स्नापयेत् मन्त्रैः नित्यदा विभवे सति ॥ ३०॥
स्वर्णघर्म अनुवाकेन महापुरुषविद्यया ।
पौरुषेण अपि सूक्तेन सामभीः राजनादिभिः ॥ ३१॥
वस्त्र उपवीत आभरण पत्र स्रक् गन्ध लेपनैः ।
अलङ्कुर्वीत सप्रेम मद्भक्तः मां यथा उचितम् ॥ ३२॥
पाद्यम् आचमनीयं च गन्धं सुमनसः अक्षतान् ।
धूप दीप उपहार्याणि दद्यात् मे श्रद्धया अर्चकः ॥ ३३॥
गुडपायससर्पींषि शष्कुलि आपूप मोदकान् ।
संयाव दधि सूपां च नैवेद्यं सति कल्पयेत् ॥ ३४॥
अभ्यङ्ग उन्मर्दन आदर्श दन्तधौ अभिषेचनम् ।
अन्नद्य गीत नृत्यादि पर्वणि स्युः उतान्वहम् ॥ ३५॥
विधिना विहिते कुण्डे मेखलागर्तवेदिभिः ।
अग्निम् आधाय परितः समूहेत् पाणिना उदितम् ॥ ३६॥
परिस्तीर्य अथ पर्युक्षेत् अन्वाधाय यथाविधि ।
प्रोक्षण्या आसाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम् ॥ ३७॥
तप्तजाम्बूनदप्रख्यं शङ्खचक्रगदाम्बुजैः ।
लसत् चतुर्भुजं शान्तं पद्मकिञ्जल्कवाससम् ॥ ३८॥
स्फुरत् किरीट कटक कटिसूत्रवर अङ्गदम् ।
श्रीवत्सवक्षसं भ्राजत् कौस्तुभं वनमालिनम् ॥ ३९॥
ध्यायन् अभ्यर्च्य दारूणि हविषा अभिघृतानि च ।
प्रास्य आज्यभागौ आघारौ दत्त्वा च आज्यप्लुतं हविः ॥ ४०॥
जुहुयात् मूलमन्त्रेण षोडशर्च अवदानतः ।
धर्मादिभ्यः यथान्यायं मन्त्रैः स्विष्टिकृतं बुधः ॥ ४१॥
अभ्यर्च्य अथ नमस्कृत्य पार्षदेभ्यः बलिं हरेत् ।
मूलमन्त्रं जपेत् ब्रह्म स्मरन् नारायण आत्मकम् ॥ ४२॥
दत्त्वा आचमनम् उच्छेषं विष्वक्सेनाय कल्पयेत् ।
मुखवासं सुरभिमत् ताम्बूलाद्यम् अथ अर्हयेत् ॥ ४२॥
उपगायन् गृणन् नृत्यन् कर्माणि अभिनयन् मम ।
मत्कथाः श्रावयन् श्रुण्वन् मुहूर्तं क्षणिकः भवेत् ॥ ४४।
स्तवैः उच्चावचैः स्तोत्रैः पौराणैः प्रकृतैः अपि ।
स्तुत्वा प्रसीद भगवन् इति वन्देत दण्डवत् ॥ ४५॥
शिरः मत् पादयोः कृत्वा बाहुभ्यां च परस्परम् ।
प्रपन्नं पाहि माम् ईश भीतं मृत्युग्रह अर्णवात् ॥ ४६॥
इति शेषां मया दत्तां शिरसि आधाय सादरम् ।
उद्वासयेत् चेत् उद्वास्यं ज्योतिः ज्योतिषि तत् पुनः ॥ ४७॥
अर्चादिषु यदा यत्र श्रद्धा मां तत्र च अर्चयेत् ।
सर्वभूतेषु आत्मनि च सर्व आत्मा अहम् अवस्थितः ॥ ४८॥
एवं क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः ।
अर्चन् उभयतः सिद्धिं मत्तः विन्दति अभीप्सिताम् ॥ ४९॥
मदर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेत् दृढम् ।
पुष्प उद्यानानि रम्याणि पूजा यात्रा उत्सव आश्रितान् ॥ ५०॥
पूजादीनां प्रवाहार्थं महापर्वसु अथ अन्वहम् ।
क्षेत्रापणपुरग्रामान् दत्त्वा मत् सार्ष्टिताम् इयात् ॥ ५१॥
प्रतिष्ठया सार्वभौमंसद्मना भुवनत्रयम् ।
पूजादिना ब्रह्मलोकं त्रिभिः मत् साम्यताम् इयात् ॥ ५२॥
माम् एव नैरपेक्ष्येण भक्तियोगेन विन्दति ।
भक्तियोगं सः लभते एवं यः पूजयेत माम् ॥ ५३॥
यः स्वदत्तां परैः दत्तं हरेत सुरविप्रयोः ।
वृत्तिं सः जायते विड्भुक् वर्षाणाम् अयुतायुतम् ॥ ५४॥
कर्तुः च सारथेः हेतोः अनुमोदितुः एव च ।
कर्मणां भागिनः प्रेत्य भूयः भूयसि तत्फलम् ॥ ५५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे श्रीकृष्णोद्धवसंवादे
सप्तविंशोऽध्यायः ॥ २७॥
अथ अष्टविंशः अध्यायः ।
श्रीभगवान् उवाच ।
परस्वभावकर्माणि न प्रशंसेत् न गर्हयेत् ।
विश्वम् एकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ १॥
परस्वभावकर्माणि यः प्रशंसति निन्दति ।
सः आशु भ्रश्यते स्वार्थात् असत्य अभिनिवेशतः ॥ २॥
तैजसे निद्रया आपन्ने पिण्डस्थः नष्टचेतनः ।
मायां प्राप्नोति मृत्युं वा तद्वत् नानार्थदृक् पुमान् ॥ ३॥
किं भद्रं किम् अभद्रं वा द्वैतस्य अवस्तुनः कियत् ।
वाचा उदितं तत् अनृतं मनसा ध्यातम् एव च ॥ ४॥
छायाप्रत्याह्वयाभासा हि असन्तः अपि अर्थकारिणः ।
एवं देहादयः भावाः यच्छन्ति आमृत्युतः भयम् ॥ ५॥
आत्मा एव तत् इदं विश्वं सृज्यते सृजति प्रभुः ।
त्रायते त्राति विश्वात्मा ह्रियते हरति ईश्वरः ॥ ६॥
तस्मात् नहि आत्मनः अन्यस्मात् अन्यः भावः निरूपितः ।
निरूपितेयं त्रिविधा निर्मूला भातिः आत्मनि ।
इदं गुणमयं विद्धि त्रिविधं मायया कृतम् ॥ ७॥
एतत् विद्वान् मदुदितं ज्ञानविज्ञाननैपुणम् ।
न निन्दति न च स्तौति लोके चरति सूर्यवत् ॥ ८॥
प्रत्यक्षेण अनुमानेन निगमेन आत्मसंविदा ।
आदि अन्तवत् असत् ज्ञात्वा निःसङ्गः विचरेत् इह ॥ ९॥
उद्धवः उवाच ।
न एव आत्मनः न देहस्य संसृतिः द्रष्टृदृश्ययोः ।
अनात्मस्वदृशोः ईश कस्य स्यात् उपलभ्यते ॥ १०॥
आत्मा अव्ययः अगुणः शुद्धः स्वयञ्ज्योतिः अनावृतः ।
अग्निवत् दारुवत् देहः कस्य इह संसृतिः ॥ ११॥
श्रीभगवान् उवाच ।
यावत् देह इन्द्रिय प्राणैः आत्मनः संनिकर्षणम् ।
संसारः फलवान् तावत् अपार्थः अपि अविवेकिनः ॥ १२॥
अर्थे हि अविद्यमाने अपि संसृतिः न निवर्तते ।
ध्यायतः विषयान् अस्य स्वप्ने अनर्थ आगमः यथा ॥ १३॥
यथा हि अप्रतिबुद्धस्य प्रस्वापः बहु अनर्थभृत् ।
सः एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ १४॥
शोक हर्ष भय क्रोध लोभ मोह स्पृहादयः ।
अहङ्कारस्य दृश्यन्ते जन्म मृत्युः च न आत्मनः ॥ १५॥
देह इन्द्रिय प्राण मनः अभिमानः
जीवः अन्तरात्मा गुणकर्म मूर्तिः ।
सूत्रं महान् इति उरुधा इव गीतः
संसारः आधावति कालतन्त्रः ॥ १६॥
अमूलम् एतत् बहुरूप रूपितं
मनोवचःप्राणशरीरकर्म ।
ज्ञानासिना उपासनया शितेन
छित्त्वा मुनिः गां विचरति अतृष्णः ॥ १७॥
ज्ञानं विवेकः निगमः तपः च
प्रत्यक्षम् ऐतिह्यम् अथ अनुमानम् ।
आदि अन्तयोः अस्य यत् एव केवलम्
कालः च हेतुः च तत् एव मध्ये ॥ १८॥
यथा हिरण्यं स्वकृतं पुरस्तात्
पश्चात् च सर्वस्य हिरण्मयस्य ।
तत् एव मध्ये व्यवहार्यमाणम्
नानापदेशैः अहम् अस्य तद्वत् ॥ १९॥
विज्ञानम् एतत् त्रियवस्तम् अङ्ग
गुणत्रयं कारण कार्य कर्तृ ।
समन्वयेन व्यतिरेकतः च
येन एव तुर्येण तत् एव सत्यम् ॥ २०॥
न यत् पुरस्तात् उत यत् न पश्चात्
मध्ये च तत् न व्यपदेशमात्रम् ।
भूतं प्रसिद्धं च परेण यद्यत्
तत् एव तत् स्यात् इति मे मनीषा ॥ २१॥
अविद्यमानः अपि अवभासते यः
वैकारिकः राजससर्गः एषः ।
ब्रह्म स्वयञ्ज्योतिः अतः विभाति
ब्रह्म इन्द्रिय अर्थ आत्म विकार चित्रम् ॥ २२॥
एवं स्फुटं ब्रह्मविवेकहेतुभिः
परापवादेन विशारदेन ।
छित्त्वा आत्मसन्देहम् उपारमेत
स्वानन्दतुष्टः अखिल कामुकेभ्यः ॥ २३॥
न आत्मा वपुः पार्थिवम् इन्द्रियाणि
देवाः हि असुः वायुजलं हुताशः ।
मनः अन्नमात्रं धिषणा च सत्त्वम्
अहंकृतिः खं क्षितिः अर्थसाम्यम् ॥ २४॥
समाहितैः कः करणैः गुणात्मभिः
गुणः भवेत् मत्सुविविक्तधाम्नः ।
विक्षिप्यमाणैः उत किं न दूषणम्
घनैः उपेतैः विगतैः रवेः किम् ॥ २५॥
यथा नभः वायु अनल अम्बु भू गुणैः
गतागतैः वर्तुगुणैः न सज्जते ।
तथा अक्षरं सत्त्व रजः तमः मलैः
अहंमतेः संसृतिहेतुभिः परम् ॥ २६॥
तथापि सङ्गः परिवर्जनीयः
गुणेषु मायारचितेषु तावत् ।
मद्भक्तियोगेन दृढेन यावत्
रजः निरस्येत मनःकषायः ॥ २७॥
यथा आमयः असाधु चिकित्सितः नृणाम्
पुनः पुनः सन्तुदति प्ररोहन् ।
एवं मनः अपक्व कषय कर्म
कुयोगिनं विध्यति सर्वसङ्गम् ॥ २८॥
कुयोगिनः ये विहित अन्तरायैः
मनुष्यभूतैः त्रिदश उपसृष्टैः ।
ते प्राक्तन अभ्यासबलेन भूयः
युञ्जन्ति योगं न तु कर्मतन्त्रम् ॥ २९॥
करोति कर्म क्रियते च जन्तुः
केनापि असौ चोदितः आनिपातात् ।
न तत्र विद्वान्प्रकृतौ स्थितः अपि
निवृत्त तृष्णः स्वसुख अनुभूत्या ॥ ३०॥
तिष्ठन्तम् आसीनम् उत व्रजन्तम्
शयानम् उक्षन्तम् अदन्तम् अन्नम् ।
स्वभावम् अन्यत् किम् अपि इहमानम्
आत्मानम् आत्मस्थमतिः न वेद ॥ ३१॥
यदि स्म पश्यति असत् इन्द्रिय अथ
नाना अनुमानेन विरुद्धम् अन्यत् ।
न मन्यते वस्तुतया मनीषी
स्वाप्नं यथा उत्थाय तिरोदधानम् ॥ ३२॥
पूर्वं गृहीतं गुणकर्मचित्रम्
अज्ञानम् आत्मनि अविविक्तम् अङ्ग ।
निवर्तते तत् पुनः ईक्षया एव
न गृह्यते न अपि विसृज्य आत्मा ॥ ३३॥
यथा हि भानोः उदयः नृचक्षुषाम्
तमः निहन्यात् न तु सद्विधत्ते ।
एवं समीक्षा निपुणा सती मे
हन्यात् तमिस्रं पुरुषस्य बुद्धेः ॥ ३४॥
एषः स्वयञ्ज्योतिः अजः अप्रमेयः
महानुभूतिः सकलानुभूतिः ।
एकः अद्वितीयः वचसां विरामे
येन ईशिता वाक् असवः चरन्ति ॥ ३५॥
एतावान् आत्मसंमोहः यत् विकल्पः तु केवले ।
आत्मन् नृते स्वमात्मानम् अवलम्बः न यस्य हि ॥ ३६॥
यत् नाम आकृतिभिः ग्राह्यं पञ्चवर्णम् अबाधितम् ।
व्यर्थेन अपि अर्थवादः अयं द्वयं पण्डितमानिनाम् ॥ ३७॥
योगिनः अपक्वयोगस्य युञ्जतः कायः उत्थितैः ।
उपसर्गैः विहन्येत तत्र अयं विहितः विधिः ॥ ३८॥
योगधारणया कांश्चित् आसनैः धारण अन्वितैः ।
तपोमन्त्रौषधैः कांश्चित् उपसर्गान् विनिर्दहेत् ॥ ३९॥
कांश्चित् मम अनुध्यानेन नामसङ्कीर्तन आदिभिः ।
योगेश्वर अनुवृत्त्या वा हन्यात् अशुभदान् शनैः ॥ ४०॥
केचित् देहम् इमं धीराः सुकल्पं वयसि स्थिरम् ।
विधाय विविध उपायैः अथ युञ्जन्ति सिद्धये ॥ ४१॥
न हि तत् कुशलात् दृत्यं तत् आयासः हि अपार्थकः ।
अन्तवत्त्वात् शरीरस्य फलस्य इव वनस्पतेः ॥ ४२॥
योगं निषेवतः नित्यं कायः चेत् कल्पताम् इयात् ।
तत् श्रद्दध्यात् न मतिमान् योगम् उत्सृज्य मत्परः ॥ ४३॥
योगचर्याम् इमां योगी विचरन् मत् व्यपाश्रयः ।
न अन्तरायैः विहन्येत निःस्पृहः स्वसुखानुभूः ॥ ४४॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
परमार्थनिर्णयो नाम अष्टाविंशोऽध्यायः ॥ २८॥
अथ एकोनत्रिंशः अध्यायः ।
सुदुस्तराम् इमां मन्ये योगचर्याम् अनात्मनः ।
यथा अञ्जसा पुमान् सिह्येत् तत् मे ब्रूहि अञ्जसा अच्युत ॥ १॥
प्रायशः पुण्डरीकाक्ष युञ्जन्तः योगिनः मनः ।
विषीदन्ति असमाधानात् मनोनिग्रहकर्शिताः ॥ २॥
अथ अतः आनन्ददुघं पदाम्बुजम्
हंसाः श्रयेरन् अरविन्दलोचन ।
सुखं नु विश्वेश्वर योगकर्मभिः
त्वत् मायया अमी विहताः न मानिनः ॥ ३॥
किं चित्रम् अच्युत तव एतत् अशेषबन्धः
दासेषु अनन्यशरणेषु यत् आत्म सात्त्वम् ।
यः अरोचयत्सह मृगैः स्वयम् ईश्वराणाम्
श्रीमत् किरीट तट पीडित पाद पीठः ॥ ४॥
तं त्वा अखिल आत्मदयित ईश्वरम् आश्रितानाम्
सर्व अर्थदं स्वकृतवित् विसृजेत कः नु ।
कः वा भजेत् किम् अपि विस्मृतये अनु भूत्यै
किं वा भवेत् न तव पादरजोजुषां नः ॥ ५॥
न एव उपयन्ति अपचितिं कवयः तव ईश
ब्रह्मायुषा अपि कृतम् ऋधमुदः स्मरन्तः ।
यः अन्तर्बहिः तनुभृताम् अशुभं विधुन्वन्
आचार्यचैत्यवपुषा स्वगतं व्यनक्ति ॥ ६॥
श्रीशुकः उवाच ।
इति उद्धवेन अति अनुरक्त चेतसा
पृष्टः जगत्क्रीडनकः स्वशक्तिभिः ।
गृहीत मूर्तित्रयः ईश्वर ईश्वरः
जगाद सप्रेम मनोहरस्मितः ॥ ७॥
श्रीभगवान् उवाच ।
हन्त ते कथयिष्यामि मम धर्मान् सुमङ्गलाम् ।
यान् श्रद्धया आचरन् मर्त्यः मृत्युं जयति दुर्जयम् ॥ ८॥
कुर्यात् सर्वाणि कर्माणि मदर्थं शनकैः स्मरन् ।
मयि अर्पित मनः चित्तः मत् धर्म आत्ममनोरतिः ॥ ९॥
देशान् पुण्यान् आश्रयेत मद्भक्तैः साधुभिः श्रितान् ।
देव आसुर मनुष्येषु मद्भक्त आचरितानि च ॥ १०॥
पृथक् सत्रेण वा मह्यं पर्वयात्रा महोत्सवान् ।
कारयेत् गीतनृत्य आद्यैः महाराज विभूतिभिः ॥ ११॥
माम् एव सर्वभूतेषु बहिः अन्तः अपावृतम् ।
ईक्षेत आत्मनि च आत्मानं यथा खम् अमल आशयः ॥ १२॥
इति सर्वाणि भूतानि मद्भावेन महाद्युते ।
सभाजयन् मन्यमानः ज्ञानं केवलम् आश्रितः ॥ १३॥
ब्राह्मणे पुल्कसे स्तेने ब्रह्मण्ये अर्के स्फुलिङ्गके ।
अक्रूरे क्रूरके च एव समदृक् पण्डितः मतः ॥ १४॥
नरेषु अभीक्ष्णं मद्भावं पुंसः भावयतः अचिरात् ।
स्पर्धा असूया तिरस्काराः साहङ्काराः वियन्ति हि ॥ १५॥
विसृज्य स्मयमानान् स्वान् दृशं व्रीडां च दैहिकीम् ।
प्रणमेत् दण्डवत् भूमौ आश्व चाण्डाल गो खरम् ॥ १६॥
यावत् सर्वेषु भूतेषु मद्भावः न उपजायते ।
तावत् एवम् उपासीत वाङ् मन काय वृत्तिभिः ॥ १७॥
सर्वं ब्रह्मात्मकं तस्य विद्यया आत्म मनीषया ।
परिपश्यन् उपरमेत् सर्वतः मुक्त संशयः ॥ १८॥
अयं हि सर्वकल्पानां सध्रीचीनः मतः मम ।
मद्भावः सर्वभूतेषु मनोवाक्कायवृत्तिभिः ॥ १९॥
न हि अङ्ग उपक्रमे ध्वंसः मद्धर्मस्य उद्धव अणु अपि ।
मया व्यवसितः सम्यक् निर्गुणत्वात् अनाशिषः ॥ २०॥
यः यः मयि परे धर्मः कल्प्यते निष्फलाय चेत् ।
तत् आयासः निरर्थः स्यात् भयादेः इव सत्त्म ॥ २१॥
एषा बुद्धिमतां बुद्धिः मनीषा च मनीषिणाम् ।
यत् सत्यम् अनृतेन इह मर्त्येन आप्नोति मा अमृतम् ॥ २२॥
एष ते अभिहितः कृत्स्नः ब्रह्मवादस्य सङ्ग्रहः ।
समासव्यासविधिना देवानाम् अपि दुर्गमः ॥ २३॥
अभीक्ष्णशः ते गदितं ज्ञानं विस्पष्टयुक्तिमत् ।
एतत् विज्ञाय मुच्येत पुरुषः नष्टसंशयः ॥ २४॥
सुविविक्तं तव प्रश्नं मया एतत् अपि धारयेत् ।
सनातनं ब्रह्मगुह्यं परं ब्रह्म अधिगच्छति ॥ २५॥
यः एतत् मम भक्तेषु सम्प्रदद्यात् सुपुष्कलम् ।
तस्य अहं ब्रह्मदायस्य ददामि आत्मानम् आत्मना ॥ २६॥
यः एतत् समधीयीत पवित्रं परमं शुचि ।
सः पूयेत अहः अहः मां ज्ञानदीपेन दर्शयन् ॥ २७॥
यः एतत् श्रद्धया नित्यम् अव्यग्रः श्रुणुयात् नरः ।
मयि भक्तिं परां कुर्वन् कर्मभिः न सः बध्यते ॥ २८॥
अपि उद्धव त्वया ब्रह्म सखे समवधारितम् ।
अपि ते विगतः मोहः शोकः च असौ मनोभवः ॥ २९॥
न एतत् त्वया दाम्भिकाय नास्तिकाय शठाय च ।
अशुश्रूषोः अभक्ताय दुर्विनीताय दीयताम् ॥ ३०॥
एतैः दोषैः विहीनाय ब्रह्मण्याय प्रियाय च ।
साधवे शुचये ब्रूयात् भक्तिः स्यात् शूद्र योषिताम् ॥ ३१॥
न एतत् विज्ञाय जिज्ञासोः ज्ञातव्यम् अवशिष्यते ।
पीत्वा पीयूषम् अमृतं पातव्यं न अवशिष्यते ॥ ३२॥
ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे ।
यावान् अर्थः नृणां तात तावान् ते अहं चतुर्विधः ॥ ३३॥
मर्त्यः यदा त्यक्त समस्तकर्मा
निवेदितात्मा विचिकीर्षितः मे ।
तदा अमृतत्वं प्रतिपद्यमानः
मया आत्मभूयाय च कल्पते वै ॥ ३४॥
श्रीशुकः उवाच ।
सः एवम् आदर्शित योगमार्गः
तदा उत्तम श्लोकवचः निशम्य ।
बद्ध अञ्जलिः प्रीति उपरुद्ध कण्ठः
न किञ्चित् ऊचेः अश्रु परिप्लुत अक्षः ॥ ३५॥
विष्टभ्य चित्तं प्रणय अवघूर्णम्
धैर्येण राजन् बहु मन्यमानः ।
कृताञ्जलिः प्राह यदुप्रवीरम्
शीर्ष्णा स्पृशन् तत् चरण अरविन्दम् ॥ ३६॥
उद्धवः उवाच ।
विद्रावितः मोह महा अन्धकारः
यः आश्रितः मे तव सन्निधानात् ।
विभावसोः किं नु समीपगस्य
शीतं तमः भीः प्रभवन्ति अज अद्य ॥ ३७॥
प्रत्यर्पितः मे भवता अनुकम्पिना
भृत्याय विज्ञानमयः प्रदीपः ।
हित्वा कृतज्ञः तव पादमूलम्
कः अन्यत् समीयात् शरणं त्वदीयम् ॥ ३८॥
वृक्णः च मे सुदृढः स्नेहपाशः
दाशार्ह वृष्णि अन्धक सात्वतेषु ।
प्रसारितः सृष्टिविवृद्धये त्वया
स्वमायया हि आत्म सुबोध हेतिना ॥ ३९॥
नमः अस्तु ते महायोगिन् प्रपन्नम् अनुशाधि माम् ।
यथा त्वत् चरण अम्भोजे रतिः स्यात् अनपायिनी ॥ ४०॥
श्रीभगवान् उवाच ।
गच्छ उद्धव मया आदिष्टः बदरि आख्यं मम आश्रमम् ।
तत्र मत् पाद तीर्थोदे स्नान उपस्पर्शनैः शुचिः ॥ ४१॥
ईक्षया अलकनन्दाया विधूत अशेष कल्मषः ।
वसानः वल्कलानि अङ्ग वन्यभुक् सुख निःस्पृहः ॥ ४२॥
तितिक्षौः द्वन्द्वमात्राणां सुशीलः संयतेन्द्रियः ।
शान्तः समाहितधिया ज्ञानविज्ञानसंयुतः ॥ ४३॥
मत्तः अनुशिक्षितं यत् ते विविक्तमनुभावयन् ।
मयि आवेशित वाक् चित्तः मद्धर्म निरतः भव ।
अतिव्रज्य गतीः तिस्रः माम् एष्यसि ततः परम् ॥ ४४॥
श्रीशुकः उवाच ।
सः एवम् उक्तः हरिमेधसा उद्धवः
प्रदक्षिणं तं परिसृत्य पादयोः ।
शिरः निधाय अश्रुकलाभिः आर्द्रधीः
न्यषिञ्चत् अद्वन्द्वपरः अपि उपक्रमे ॥ ४५॥
सुदुस्त्यज स्नेह वियोग कातरः
न शक्नुवन् तं परिहातुम् आतुरः ।
कृच्छ्रं ययौ मूर्धनि भर्तृपादुके
बिभ्रन् नमस्कृत्य ययौ पुनः पुनः ॥ ४६॥
ततः तम् अन्तर्हृदि संनिवेश्य
गतः महाभागवतः विशालाम् ।
यथा उपदिष्टां जगत् एकबन्धुना
ततः समास्थाय हरेः अगात् गतिम् ॥ ४७॥
यः एअतत् आनन्द समुद्र संभृतम्
ज्ञानामृतं भागवताय भाषितम् ।
कृष्णेण योगेश्वर सेविताङ्घ्रिणा
सच्छ्रद्धया आसेव्य जगत् विमुच्यते ॥ ४८॥
भवभय अपहन्तुं ज्ञानविज्ञानसारम्
निगमकृत् उपजहे भृङ्गवत् वेदसारम् ।
अमृतम् उदधितः च अपाययत् भृत्यवर्गान्
पुरुषम् ऋषभम् आद्यं कृष्णसञ्ज्ञं नतः अस्मि ॥ ४९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे
परमार्थप्राप्तिसुगमोपायकथनोद्धवबदरिकाश्रमप्रवेशो
नाम एकोनत्रिंशोऽध्यायः ॥ २९॥
अथ त्रिंशः अध्यायः ।
राजा उवाच ।
ततः महाभागवते उद्धवे निर्गते वनम् ।
द्वारवत्यां किम् अकरोत् भगवान् भूतभावनः ॥ १॥
ब्रह्मशाप उपसंसृष्टे स्वकुले यादवर्षभः ।
प्रेयसीं सर्वनेत्राणां तनुं सः कथम् अत्यजत् ॥ २॥
प्रत्याक्रष्टुं नयनम् अबला यत्र लग्नं न शेकुः
कर्णाविष्टं न सरति ततः यत् सताम् आत्मलग्नम् ।
यत् श्रीः वाचां जनयति रतिं किं नु मानं कवीनाम्
दृष्ट्वा जिष्णोः युधि रथगतं यत् च तत् साम्यम्
ईयुः ॥ ३॥
ऋषिः उवाच ।
दिवि भुवि अन्तरिक्षे च महोत्पातान् समुत्थितान् ।
दृष्ट्वा आसीनान् सुधर्मायां कृष्णः प्राह यदून् इदम् ॥ ४॥
श्रीभगवान् उवाच ।
एते घोराः महोत्पाताः द्वार्वत्यां यमकेतवः ।
मुहूर्तम् अपि न स्थेयम् अत्र नः यदुपुङ्गवाः ॥ ५॥
स्त्रियः बालाः च वृद्धाः च शङ्खोद्धारं व्रजन्त्वितः ।
वयं प्रभासं यास्यामः यत्र प्रत्यक् सरस्वती ॥ ६॥
तत्र अभिषिच्य शुचय उपोष्य सुसमाहिताः ।
देवताः पूजयिष्यामः स्नपन आलेपन अर्हणैः ॥ ७॥
ब्राह्मणान् तु महाभागान् कृतस्वस्त्ययना वयम् ।
गो भू हिरण्य वासोभिः गज अश्वरथ वेश्मभिः ॥ ८॥
विधिः एषः हि अरिष्टघ्नः मङ्गल आयनम् उत्तमम् ।
देव द्विज गवां पूजा भूतेषु परमः भवः ॥ ९॥
इति सर्वे समाकर्ण्य यदुवृद्धाः मधुद्विषः ।
तथा इति नौभिः उत्तीर्य प्रभासं प्रययू रथैः ॥ १०॥
तस्मिन् भगवता आदिष्टं यदुदेवेन यादवा ।
चक्रुः परभया भक्त्या सर्वश्रेय उपबृंहितम् ॥ ११॥
ततः तस्मिन् महापानं पपुः मैरेयकं मधु ।
दिष्ट विभ्रंशित धियः यत् द्रवैः भ्रश्यते मतिः ॥ १२॥
महापान अभिमत्तानां वीराणां दृप्तचेतसाम् ।
कृष्णमाया विमूढानां सङ्घर्षः सुमहान् अभूत् ॥ १३॥
युयुधुः क्रोधसंरब्धा वेलायाम् आततायिनः ।
धनुभिः असिभिः मल्लैः गदाभिः ताम् अरर्ष्टिभिः ॥ १४॥
पतत्पताकै रथकुञ्जरादिभिः
खर उष्ट्र गोभिः महिषैः नरैः अपि ।
मिथः समेत्य अश्वतरैः सुदुर्मदा
न्यहन् शरर्दद्भिः इव द्विपा वने ॥ १५॥
प्रद्युम्न साम्बौ युधि रूढमत्सरौ
अक्रूर भोजौ अनिरुद्ध सात्यकी ।
सुभद्र सङ्ग्रामजितौ सुदारुणौ
गदौ सुमित्रा सुरथौ समीयतुः ॥ १६॥
अन्ये च ये वै निशठ उल्मुक आदयः
सहस्रजित् शतजित् भानु मुख्याः ।
अन्योन्यम् आसाद्य मदान्धकारिता
जघ्नुः मुकुन्देन विमोहिता भृशम् ॥ १७॥
दाशार्ह वृष्णि अन्धक भोज सात्वता
मधु अर्बुदा माथुरशूरसेनाः ।
विसर्जनाः कुकुराः कुन्तयः च
मिथः ततः ते अथ विसृज्य सौहृदम् ॥ १८॥
पुत्राः अयुध्यन् पितृभिः भ्रातृभिः च
स्वस्त्रीय दौहित्र पितृव्यमातुलैः ।
मित्राणि मित्रैः सुहृदः सुहृद्भिः
ज्ञातींस्त्वहन् ज्ञातयः एव मूढाः ॥ १९॥
शरेषु क्षीयमाणेषु भज्यमानेषु धन्वसु ।
शस्त्रेषु क्षीयमाणेषु मुष्टिभिः जह्रुः एरकाः ॥ २०॥
ताः वज्रकल्पाः हि अभवन् परिघाः मुष्टिनाः भृताः ।
जघ्नुः द्विषः तैः कृष्णेन वार्यमाणाः तु तं च ते ॥ २१॥
प्रत्यनीकं मन्यमानाः बलभद्रं च मोहिताः ।
हन्तुं कृतधियः राजन् आपन्नाः आततायिनः ॥ २२॥
अथ तौ अपि सङ्क्रुद्धौ उद्यम्य कुरुनन्दन ।
एरका मुष्टि परिघौ जरन्तौ जघ्नतुः युधि ॥ २३॥
ब्रह्मशाप उपसृष्टानां कृष्णमायावृत आत्मनाम् ।
स्पर्धाक्रोधः क्षयं निन्ये वैणवः अग्निः यथा वनम् ॥ २४॥
एवं नष्टेषु सर्वेषु कुलेषु स्वेषु केशवः ।
अवतारितः भुवः भारः इति मेने अवशेषितः ॥ २५॥
रामः समुद्रवेलायां योगम् आस्थाय पौरुषम् ।
तत् त्याज लोकं मानुष्यं संयोज्य आत्मानम् आत्मनि ॥ २६॥
रामनिर्याणम् आलोक्य भगवान् देवकीसुतः ।
निषसाद धरोपस्थे तूष्णीम् आसाद्य पिप्पलम् ॥ २७॥
बिभ्रत् चतुर्भुजं रूपं भ्राजिष्णु प्रभया स्वया ।
दिशः वितिमाराः कुर्वन् विधूमः इव पावकः ॥ २८॥
श्रीवत्साङ्कं घनश्यामं तप्त हाटक वर्चसम् ।
कौशेय अम्बर युग्मेन परिवीतं सुमङ्गलम् ॥ २९॥
सुन्दर स्मित वक्त्र अब्जं नील कुन्तल मण्डितम् ।
पुण्डरीक अभिरामाक्षं स्फुरन् मकर कुण्डलम् ॥ ३०॥
कटिसूत्र ब्रह्मसूत्र किरीट कटक अङ्गदैः ।
हार नूपुर मुद्राभिः कौस्तुभेन विराजितम् ॥ ३१॥
वनमाला परीताङ्गं मूर्तिमद्भिः निज आयुधैः ।
कृत्वा उरौ दक्षिणे पादम् आसीनं पङ्कज अरुणम् ॥ ३२॥
मुसलौ अशेषायः खण्डकृतेषुः लुब्धकः जराः ।
मृगास्य आकारं तत् चरणं विव्याध मृगशङ्कया ॥ ३३॥
चतुर्भुजं तं पुरुषं दृष्ट्वा सः कृत किल्बिषः ।
भीतः पपात शिरसा पादयोः असुरद्विषः ॥ ३४॥
अजानता कृतम् इदं पापेन मधुसूदन ।
क्षन्तुम् अर्हसि पापस्य उत्तमश्लोकः मे अनघ ॥ ३५॥
यस्य अनुस्मरणं नॄणाम् अज्ञान ध्वान्त नाशनम् ।
वदन्ति तस्य ते विष्णो मया असाधु कृतं प्रभो ॥ ३६॥
तत् मा आशु जहि वैकुण्ठ पाप्मानं मृग लुब्धकम् ।
यथा पुनः अहं तु एवं न कुर्यां सत् अतिक्रमम् ॥ ३७॥
यस्य आत्म योग रचितं न विदुः विरिञ्चः
रुद्र आदयः अस्य तनयाः पतयः गिरां ये ।
त्वत् मायया पिहित दृष्टयः एतत् अञ्जः
किं तस्य ते वयम् असत् गतयः गृणीमः ॥ ३८॥
श्रीभगवान् उवाच ।
मा भैः जरे त्वम् उत्तिष्ठ कामः एषः कृतः हि मे ।
याहि त्वं मत् अनुज्ञातः स्वर्गं सुकृतिनां पदम् ॥ ३९॥
इति आदिष्टः भगवता कृष्णेन इच्छा शरीरिणा ।
त्रिः परिक्रम्य तं नत्वा विमानेन दिवं ययौ ॥ ४०॥
दारुकः कृष्णपदवीम् अन्विच्छन् अधिगम्यताम् ।
वायुं तुलसिकामोदम् आघ्राय अभिमुखं ययौ ॥ ४१॥
तं तत्र तिग्मद्युभिः आयुधैः वृतम्
हि अश्वत्थमूले कृतकेतनं पतिम् ।
स्नेहप्लुतात्मा निपपात पादयो
रथात् अवप्लुत्य सबाष्पलोचनः ॥ ४२॥
अपश्यतः त्वत् चरण अम्बुजं प्रभो
दृष्टिः प्रणष्टा तमसि प्रविष्टा ।
दिशः न जाने न लभे च शान्तिम्
यथा निशायम् उडुपे प्रणष्टे ॥ ४३॥
इति ब्रुवते सूते वै रथः गरुडलाञ्छनः ।
खम् उत्पपात राजेन्द्र साश्वध्वजः उदीक्षतः ॥ ४४॥
तम् अन्वगच्छन् दिव्यानि विष्णुप्रहरणानि च ।
तेन अति विस्मित आत्मानं सूतम् आह जनार्दनः ॥ ४५॥
गच्छ द्वारवतीं सूत ज्ञातीनां निधनं मिथः ।
सङ्कर्षणस्य निर्याणं बन्धुभ्यः ब्रूहि मत् दशाम् ॥ ४६॥
द्वारकायां च न स्थेयं भवद्भिः च स्वबन्धुभिः ।
मया त्यक्तां यदुपुरीं समुद्रः प्लावयिष्यति ॥ ४७॥
स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः ।
अर्जुनेन आविताः सर्व इन्द्रप्रस्थं गमिष्यथ ॥ ४८॥
त्वं तु मत् धर्मम् आस्थाय ज्ञाननिष्ठः उपेक्षकः ।
मन्माया रचनाम् एतां विज्ञाय उपशमं व्रज ॥ ४९॥
इति उक्तः तं परिक्रम्य नमस्कृत्य पुनः पुनः ।
तत् पादौ शीर्ष्णि उपाधाय दुर्मनाः प्रययौ पुरीम् ॥ ५०॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे यदुकुलसङ्क्षयो नाम
त्रिंशोऽध्यायः ॥ ३०॥
अथ एकत्रिंशः अध्यायः ।
श्रीशुकः उवाच ।
अथ तत्र आगमत् ब्रह्मा भवान्या च समं भवः ।
महेन्द्रप्रमुखाः देवाः मुनयः सप्रजेश्वराः ॥ १॥
पितरः सिद्धगन्धर्वाः विद्याधर महोरगाः ।
चारणाः यक्षरक्षांसि किंनर अप्सरसः द्विजाः ॥ २॥
द्रष्टुकामाः भगवतः निर्वाणं परम उत्सुकाः ।
गायन्तः च गृणन्तः च शौरेः कर्माणि जन्म च ॥ ३॥
ववर्षुः पुष्पवर्षाणि विमान आवलिभिः नभः ।
कुर्वन्तः सङ्कुलं राजन् भक्त्या परमया युताः ॥ ४॥
भगवान् पितामहं वीक्ष्य विभूतिः आत्मनः विभुः ।
संयोज्य आत्मनि च आत्मानं पद्मनेत्रे न्यमीलयत् ॥ ५॥
लोकाभिरामां स्वतनुं धारणा ध्यान मङ्गलम् ।
योगधारणया आग्नेय्या अदग्ध्वा धाम आविशत् स्वकम् ॥ ६॥
दिवि दुन्दुभयः नेदुः पेतुः सुमनः च खात् ।
सत्यं धर्मः धृतिः भूमेः कीर्तिः श्रीः च अनु तं वयुः ॥ ७॥
देव आदयः ब्रह्ममुख्याः न विशन्तं स्वधामनि ।
अविज्ञातगतिं कृष्णं ददृशुः च अतिविस्मिताः ॥ ८॥
सौदामन्याः यथा आकाशे यान्त्याः हित्वा अभ्रमण्डलम् ।
गतिः न लक्ष्यते मर्त्यैः तथा कृष्णस्य दैवतैः ॥ ९॥
ब्रह्म रुद्र आदयः ते तु दृष्ट्वा योगगतिं हरेः ।
विस्मिताः तां प्रशंसन्तः स्वं स्वं लोकं ययुः तदा ॥ १०॥
राजन् परस्य तनुभृत् जननाप्ययेहा
मायाविडम्बनम् अवेहि यथा नटस्य ।
सृष्ट्वा आत्मना इदम् अनुविश्य विहृत्य च अन्ते
संहृत्य च आत्म महिना उपरतः सः आस्ते ॥ ११॥
मर्त्येन यः गुरुसुतं यमलोकनीतम्
त्वां च आनयत् शरणदः परम अस्त्र दग्धम् ।
जिग्ये अन्तक अन्तकम् अपि ईशम् असौ अवनीशः
किं स्वावने स्वरनयन् मृगयुं सदेहम् ॥ १२॥
तथा अपि अशेशा स्थिति सम्भव अपि
अयेषु अनन्य हेतुः यत् अशेष शक्तिधृक् ।
न इच्छत् प्रणेतुं वपुः अत्र शेषितम्
मर्त्येन किं स्वस्थगतिं प्रदर्शयन् ॥ १३॥
यः एतां प्रातः उत्थाय कृष्णस्य पदवीं पराम् ।
प्रयतः कीर्तयेत् भक्त्या ताम् एव आप्नोति अनुत्तमाम् ॥ १४॥
दारुकः द्वारकाम् एत्य वसुदेव उग्रसेनयोः ।
पतित्वा चरणावस्रैः न्यषिञ्चत् कृष्णविच्युतः ॥ १५॥
कथयामास निधनं वृष्णीनां कृत्स्नशः नृप ।
तत् श्रुत्वा उद्विग्न हृदयाः जनाः शोक विमूर्च्छिताः ॥ १६॥
तत्र स्म त्वरिता जग्मुः कृष्ण विश्लेष विह्वलाः ।
व्यसवाः शेरते यत्र ज्ञातयः घ्नन्तः आननम् ॥ १७॥
देवकी रोहिणी च एव वसुदेवः तथा सुतौ ।
कृष्ण राम अवपश्यन्तः शोक आर्ताः विजहुः स्मृतिम् ॥ १८॥
प्राणान् च विजहुः तत्र भगवत् विरह आतुराः ।
उपगुह्य पतीन् तात चिताम् आरुरुहुः स्त्रियः ॥ १९॥
रामपत्न्यः च तत् देहम् उपगुह्य अग्निम् आविशन् ।
वसुदेवपत्न्यः तत् गात्रं प्रद्युम्न आदीन् हरेः स्नुषाः ।
कृष्णपत्न्यः आविशन् अग्निं रुक्मिणि आद्याः तदात्मिकाः ॥ २०॥
अर्जुनः प्रेयसः सख्युः कृष्णस्य विरह आतुरः ।
आत्मानं सान्त्वयामास कृष्णगीतैः सदुक्तिभिः ॥ २१॥
बन्धूनां नष्टगोत्राणाम् अर्जुनः साम्परायिकम् ।
हतानां कारयामास यथावत् अनुपूर्वशः ॥ २२॥
द्वारकां हरिणा त्यक्ता समुद्रः अप्लावयत् क्षणात् ।
वर्जयित्वा महाराज श्रीमत् भगवत् आलयम् ॥ २३॥
नित्यं संनिहितः तत्र भगवान् मधुसूदनः ।
स्मृत्या अशेषा अशुभहरं सर्व मङ्गलम् अमङ्गलम् ॥ २४॥
स्त्री बाल वृद्धान् आदाय हतशेषान् धनञ्जयः ।
इन्द्रप्रस्थं समावेश्य वज्र तत्र अभ्यषेचयत् ॥ २५॥
श्रुत्वा सुहृत् वधं राजन् अर्जुनात् ते पितामहाः ।
त्वां तु वंशधरं कृत्वा जग्मुः सर्वे महापथम् ॥ २६॥
यः एतत् देवदेवस्य विष्णोः कर्माणि जन्म च ।
कीर्तयेत् श्रद्धया मर्त्यः सर्वपापैः प्रमुच्यते ॥ २७॥
इत्थं हरेः भगवतः रुचिर अवतार
वीर्याणि बालचरितानि च शन्तमानि ।
अन्यत्र च इह च श्रुतानि गृणन् मनुष्यः
भक्तिं परां परमहंसगतौ लभेत ॥ २८॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे मौसलोपाख्यानं नाम
एकत्रिंशोऽध्यायः ॥ ३१॥
॥ इति उद्धवगीता नाम एकादशस्कन्धः समाप्तः ॥
Encoded by Sunder Hattangadi
Portion of adhyAyas 7, 8 and 9 are also known as avadhUtagItam