षट्पञ्चाशद्विनायकवर्णनम्

षट्पञ्चाशद्विनायकवर्णनम्

दूता ऊचुः । कथयामः समासेन विश्वेशावरणे गतान् ॥ ४॥ गणेशान् क्रमशो राजन् ! श‍ृणु सर्वभयापहान् । दुर्गा विनायकोऽथार्कभीमचण्डीविनायकौ ॥ ५॥ देहलीगणपश्चाथ तथोद्दण्डविनायकः । पाशपाणिः सर्वविघ्नहरणोऽथ विनायकः ॥ ६॥ प्रथमावरणे सिद्धसिद्धिरूपो विनायकः । लम्बोदरः कूटदन्तः शालटङ्कविनायकः ॥ ७॥ कूष्माण्डाख्यश्चतुर्थश्च पञ्चमो मुण्डसंज्ञकः । विकटद्विजसंज्ञस्तु राजपुत्रविनायकः ॥ ८॥ प्रणवाख्योऽथापरश्च द्वितीयावरणे स्थिताः । वक्रतुण्ड एकदन्तस्त्रिमुखश्च विनायकः ॥ ९॥ विघ्नराजश्चतुर्थोऽथ वरदश्च विनायकः । पञ्चास्यश्चापरश्चात्र हेरम्बश्च विनायकः ॥ १०॥ मोदकप्रिय इत्येव तृतीयावरणे स्थिताः । विनायकोऽभयप्रदः सिंहतुण्डविनायकः ॥ ११॥ कुणिताक्षश्चापरश्च क्षिप्रप्रसादसंज्ञकः । चिन्तामणिरिति ख्यातो दन्तहस्तविनायकः ॥ १२॥ प्रचण्डश्चाप्यपरश्चोद्दण्डमुण्डविनायकः । चतुर्थावरणे ज्ञेया अष्टावेते विनायकाः ॥ १३॥ स्थूलदन्तो द्वितीयस्तु कलिप्रियविनायकः । चतुर्दन्तो द्वितुण्डश्च ज्येष्ठो गजविनायकः ॥ १४॥ कालाख्यश्च तथा ज्ञेयो नागेशाख्योऽपरोऽपि च । पञ्चमावरणे ज्ञेया अष्टावेते विनायकाः ॥ १५॥ मणिकर्णविनायक आशासृष्टिविनायकौ । यक्षाख्यो गजकर्णाख्यश्चित्रघण्टविनायकः ॥ १६॥ सुमङ्गलश्च मित्राख्य एते षष्ठे विनायकाः । मोदः प्रमोदः सुमुखो दुर्मुखश्च विनायकः ॥ १७॥ गणपाख्योऽथापरश्च तथा ज्ञानविनायकः । सप्तमावरणे ज्ञेयास्तथा द्वारविनायकः ॥ १८॥ अविमुक्तोऽष्टमो यत्र मोक्षदोऽथ विनायकः । अन्यो भगीरथाख्यो हि हरिश्चन्द्रविनायकः ॥ १९॥ कपर्दीति परो ज्ञेयस्तथा बिन्दुविनायकः । एतेषां स्मरणं नित्यं सर्वकामफलप्रदम् ॥ २०॥ प्रातरुत्थाय यश्चैतान् पठते शुद्धमानसः । न तस्य विघ्ना विघ्नं हि कुर्वन्ति सर्वकर्मसु ॥ २१॥ एकैकनाम्ना राजेन्द्र ! दूर्वाभिस्तण्डुलैरपि । तिलैः शमीदलैश्चैतान् पूजयेद् भक्तिमान् नरः ॥ २२॥ असाध्यं साधयेत् कार्यं सर्वत्र विजयी भवेत् । आयुष्यं पुष्टिमारोग्यं प्राप्नुयाद्धनमुत्तमम् ॥ २३॥ इति षट्पञ्चाशद्विनायकवर्णनं सम्पूर्णम् ॥ - ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः १५४ । २.१५४ ४-२४॥ - .. shrIgaNeshapurANaM krIDA (uttara)khaNDaH . adhyAyaH 154 . 2.154 4-24.. Fiftysix Vinayaka-s in seven AvaraNa. Proofread by Preeti Bhandare
% Text title            : Shatpanchashadvinayakavarnanam
% File name             : ShaTpanchAshadvinAyakavarNanam.itx
% itxtitle              : ShaTpanchAshadvinAyakavarNanam (gaNeshapurANAntargatam)
% engtitle              : ShaTpanchAshadvinAyakavarNanam
% Category              : ganesha, gaNeshapurANa
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti Bhandare
% Description/comments  : shrIgaNeshapurANaM krIDA (uttara)khaNDaH | adhyAyaH 154 | 2.154 4-24||
% Indexextra            : (Text)
% Latest update         : April 20, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org