षट्पञ्चाशद्विनायकवर्णनम्
दूता ऊचुः ।
कथयामः समासेन विश्वेशावरणे गतान् ॥ ४॥
गणेशान् क्रमशो राजन् ! शृणु सर्वभयापहान् ।
दुर्गा विनायकोऽथार्कभीमचण्डीविनायकौ ॥ ५॥
देहलीगणपश्चाथ तथोद्दण्डविनायकः ।
पाशपाणिः सर्वविघ्नहरणोऽथ विनायकः ॥ ६॥
प्रथमावरणे सिद्धसिद्धिरूपो विनायकः ।
लम्बोदरः कूटदन्तः शालटङ्कविनायकः ॥ ७॥
कूष्माण्डाख्यश्चतुर्थश्च पञ्चमो मुण्डसंज्ञकः ।
विकटद्विजसंज्ञस्तु राजपुत्रविनायकः ॥ ८॥
प्रणवाख्योऽथापरश्च द्वितीयावरणे स्थिताः ।
वक्रतुण्ड एकदन्तस्त्रिमुखश्च विनायकः ॥ ९॥
विघ्नराजश्चतुर्थोऽथ वरदश्च विनायकः ।
पञ्चास्यश्चापरश्चात्र हेरम्बश्च विनायकः ॥ १०॥
मोदकप्रिय इत्येव तृतीयावरणे स्थिताः ।
विनायकोऽभयप्रदः सिंहतुण्डविनायकः ॥ ११॥
कुणिताक्षश्चापरश्च क्षिप्रप्रसादसंज्ञकः ।
चिन्तामणिरिति ख्यातो दन्तहस्तविनायकः ॥ १२॥
प्रचण्डश्चाप्यपरश्चोद्दण्डमुण्डविनायकः ।
चतुर्थावरणे ज्ञेया अष्टावेते विनायकाः ॥ १३॥
स्थूलदन्तो द्वितीयस्तु कलिप्रियविनायकः ।
चतुर्दन्तो द्वितुण्डश्च ज्येष्ठो गजविनायकः ॥ १४॥
कालाख्यश्च तथा ज्ञेयो नागेशाख्योऽपरोऽपि च ।
पञ्चमावरणे ज्ञेया अष्टावेते विनायकाः ॥ १५॥
मणिकर्णविनायक आशासृष्टिविनायकौ ।
यक्षाख्यो गजकर्णाख्यश्चित्रघण्टविनायकः ॥ १६॥
सुमङ्गलश्च मित्राख्य एते षष्ठे विनायकाः ।
मोदः प्रमोदः सुमुखो दुर्मुखश्च विनायकः ॥ १७॥
गणपाख्योऽथापरश्च तथा ज्ञानविनायकः ।
सप्तमावरणे ज्ञेयास्तथा द्वारविनायकः ॥ १८॥
अविमुक्तोऽष्टमो यत्र मोक्षदोऽथ विनायकः ।
अन्यो भगीरथाख्यो हि हरिश्चन्द्रविनायकः ॥ १९॥
कपर्दीति परो ज्ञेयस्तथा बिन्दुविनायकः ।
एतेषां स्मरणं नित्यं सर्वकामफलप्रदम् ॥ २०॥
प्रातरुत्थाय यश्चैतान् पठते शुद्धमानसः ।
न तस्य विघ्ना विघ्नं हि कुर्वन्ति सर्वकर्मसु ॥ २१॥
एकैकनाम्ना राजेन्द्र ! दूर्वाभिस्तण्डुलैरपि ।
तिलैः शमीदलैश्चैतान् पूजयेद् भक्तिमान् नरः ॥ २२॥
असाध्यं साधयेत् कार्यं सर्वत्र विजयी भवेत् ।
आयुष्यं पुष्टिमारोग्यं प्राप्नुयाद्धनमुत्तमम् ॥ २३॥
इति षट्पञ्चाशद्विनायकवर्णनं सम्पूर्णम् ॥
- ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः १५४ । २.१५४ ४-२४॥
- .. shrIgaNeshapurANaM krIDA (uttara)khaNDaH . adhyAyaH 154 . 2.154 4-24..
Fiftysix Vinayaka-s in seven AvaraNa.
Proofread by Preeti Bhandare