सिन्धुकृता सूर्यस्तुतिः
नत्वा तत्पादकमलं बद्धाञ्जलिपुटोऽब्रवीत् ।
नमस्ते दीननाथाय नमस्ते सर्वसाक्षिणे ॥ ३५॥
नमस्ते त्रिदशेशाय ब्रह्मविष्णुशिवात्मने ।
नमस्ते विश्ववन्द्याय नमस्ते विश्वहेतवे ॥ ३६॥
नमस्ते वृष्टिबीजाय सस्योत्पादनहेतवे ।
परब्रह्मस्वरूपाय सृष्टिस्थित्यन्तहेतवे ॥ ३७॥
गुणातीताय गुरवे गुणक्षोभविधायिने ।
सर्वज्ञाय ज्ञानदात्रे सर्वस्य पतये नमः ॥ ३८॥
धन्यं मे जन्म देवेश ! वंशो मे जनकोऽपि च ।
जननी च तपश्चापि यज्जातं तव दर्शनम् ॥ ३९॥
वरदश्चेद् दिनेश त्वं देदि मे सर्वतोऽमृतिम् ।
तव प्रसादात् सङ्ग्रामे जयेयं सर्वदेवताः ॥ ४०॥
वर्तमानाद् देवगणान्न मे मृत्युर्भवेदिति ।
एवं तस्य वरान् श्रुत्वा परितुष्टो विभावसुः ।
उवाच निजभक्तं तमनुष्ठानकृशं भृशम् ॥ ४१॥
सूर्य उवाच ।
न भयं विद्यते देवयोनिभ्यो नृभ्य एव च ।
न तिर्यग्भ्यो न नागेभ्यो न दिवा न निशि क्वचित् ॥ ४२॥
नोषःकाले न सन्ध्यायां मम वाक्याद् भविष्यति ।
मरणं ते नृपसुत ! गृहाणामृतभाजनम् ॥ ४३॥
इदं यावत् कण्ठगतं तावन्मृत्युर्न ते भवेत् ।
निष्काशयेदिदं यस्ते तस्मान्मृत्युर्भविष्यति ॥ ४४॥
देवो योऽवतरेत् कोऽपि धुन्वन् केशाग्रतो दिवम् ।
यस्याङ्गुष्ठनखाग्रे स्युर्ब्रह्माण्डानां हि कोटयः ॥ ४५॥
स त्वां हनिष्यति विभुरन्यस्मादभयं तव ।
मद्वरस्य प्रसादेन सर्वं तृणमयं तव ॥ ४६॥
त्रैलोक्यराज्यं ते दत्तं नात्र कार्या विचारणा ।
इति सिन्धुकृता सूर्यस्तुतिः सम्पूर्णा ॥
- ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः ७४ । २.७४ ३५-४६॥
- .. shrIgaNeshapurANaM krIDA (uttara)khaNDaH . adhyAyaH 74 . 2.74 35-46..
Proofread by Preeti Bhandare