वेदान्तसार
अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् ।
आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥ १॥
अर्थतोऽप्यद्वयानन्दानतीतद्वैतभानतः ।
गुरूनाराध्य वेदान्तसारं वक्ष्ये यथामति ॥ २॥
वेदान्तो नामोपनिषत्प्रमाणं तदुपकारीणि
शारीरकसूत्रादीनि च ॥ ३॥
अस्य वेदान्तप्रकरणत्वात् तदीयैः एव अनुबन्धैः
तद्वत्तासिद्धेः न ते पृथगालोचनीयाः ॥ ४॥
तत्र अनुबन्धो नाम अधिकारिविषयसम्बन्धप्रयोजनानि ॥ ५॥
अधिकारी तु विधिवदधीतवेदवेदाङ्गत्वेनापाततोऽधिगताखिल-
वेदार्थोऽस्मिन् जन्मनि जन्मान्तरे वा काम्यनिषिद्धवर्जनपुरःसरं
नित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेन निर्गतनिखिलकल्मषतया
नितान्तनिर्मलस्वान्तः साधनचतुष्टयसम्पन्नः प्रमाता ॥ ६॥
काम्यानि - स्वर्गादीष्टसाधनानि ज्योतिष्टोमादीनि ॥ ७॥
निषिद्धानि - नरकाद्यनिष्टसाधनानि ब्राह्मणहननादीनि ॥ ८॥
नित्यानि - अकरणे प्रत्यवायसाधनानि सन्ध्यावन्दनादीनि ॥ ९॥
नैमित्तिकानि - पुत्रजन्माद्यनुबन्धीनि जातेष्ट्यादीनि ॥ १०॥
प्रायश्चित्तानि - पापक्षयसाधनानि चान्द्रायणादीनि ॥ ११॥
उपासनानि - सगुणब्रह्मविषयमानसव्यापाररूपाणि
शाण्डिल्यविद्यादीनि ॥ १२॥
एतेषां नित्यादीनां बुद्धिशुद्धिः परं प्रयोजनमुपासनानां
तु चित्तैकाग्र्यं ``तमेतमात्मानं वेदानुवचनेन ब्राह्मणा
विविदिषन्ति यज्ञेन” (बृ उ ४.४.२२] इत्यादि श्रुतेः
``तपसा कल्मषं हन्ति” (मनु १२ - १०४]
इत्यादि स्मृतेश्च ॥ १३॥
नित्यनैमित्तिकयोः उपासनानां त्ववान्तरफलं
पितृलोकसत्यलोकप्राप्तिः
``कर्मणा पितृलोकः विद्यया देवलोकः” (बृ उ १-५-१६]
इत्यादिश्रुतेः ॥ १४॥
साधनानि - नित्यानित्यवस्तुविवेकेहामुत्रार्थफलभोगविराग-
शमादिषट्कसम्पत्तिमुमुक्षुत्वानि ॥ १५॥
नित्यानित्यवस्तुविवेकस्तावद् ब्रह्मैव नित्यं वस्तु
ततोऽन्यदखिलमनित्यमिति विवेचनम् ॥ १६॥
ऐहिकानां स्रक्चन्दनवनितादिविषयभोगानां
कर्मजन्यतयानित्यत्ववदामुष्मिकाणामप्यमृतादि-
विषयभोगानामनित्यतया तेभ्यो नितरां विरतिः -
इहामुत्रार्थफलभोगविरागः ॥ १७॥
शमादयस्तु - शमदमोपरतितितिक्षासमाधानश्रद्धाख्याः ॥ १८॥
शमस्तावत् - श्रवणादिव्यतिरिक्तविषयेभ्यो मनसो निग्रहः ॥ १९॥
दमः - बाह्येन्द्रियाणां तद्व्यतिरिक्तविषयेभ्यो निवर्तनम् ॥ २०॥
निवर्तितानामेतेषां तद्व्यतिरिक्तविषयेभ्य उपरमणमुपरतिरथवा
विहितानां कर्मणां विधिना परित्यागः ॥ २१॥
तितिक्षा - शीतोष्णादिद्वन्द्वसहिष्णुता ॥ २२॥
निगृहीतस्य मनसः श्रवणादौ तदनुगुणविषये च
समाधिः - समाधानम् ॥ २३॥
गुरूपदिष्टवेदान्तवाक्येषु विश्वासः - श्रद्धा ॥ २४॥
मुमुक्षुत्वम् - मोक्षेच्छा ॥ २५॥
एवम्भूतः प्रमाताधिकारी ``शान्तो दान्तः”
(बृ उ ४.४.२३) इत्यादिश्रुतेः । उक्तञ्च -
``प्रशान्तचित्ताय जितेन्द्रियाय च
प्रहीणदोषाय यथोक्तकारिणे ।
गुणान्वितायानुगताय सर्वदा
प्रदेयमेतत् सततं मुमुक्षवे ॥ २६॥”
(उपदेशसाहस्री ३२४.१६.७२)
विषयः - जीवब्रह्मैक्यं शुद्धचैतन्यं प्रमेयं
तत्र एव वेदान्तानां तात्पर्यात् ॥ २७॥
सम्बन्धस्तु - तदैक्यप्रमेयस्य तत्प्रतिपादकोपनिषत्प्रमाणस्य
च बोध्यबोधकभावः ॥ २८॥
प्रयोजनं तु - तदैक्यप्रमेयगताज्ञाननिवृत्तिः
स्वस्वरूपानन्दावाप्तिश्च ``तरति शोकम् आत्मवित्
(छां उ ७.१.३)
इत्यादिश्रुतेः” ब्रह्मविद् ब्रह्मैव भवति ``
(मुण्ड उ ३.२.९)
इत्यादिश्रुतेश्च ॥ २९॥
अयमधिकारी जननमरणादिसंसारानलसन्तप्तो दीप्तशिरा
जलराशिमिवोपहारपाणिः श्रोत्रियं ब्रह्मनिष्ठं गुरुमुपसृत्य
तमनुसरति ``तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः
श्रोत्रियं ब्रह्मनिष्ठम्” (मुण्ड उ १.२.१२)
इत्यादिश्रुतेः ॥ ३०॥
स गुरुः परमकृपयाध्यारोपापवादन्यायेनैनमुपदिशति
``तस्मै स विद्वानुपसन्नया सम्यक्
प्रशान्तचित्ताय शमान्विताय ।
येनाक्षरं पुरुषं वेद सत्यं
प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥”
(मुण्ड उ १.२.१३)
इत्यादिश्रुतेः ॥ ३१॥
२
असर्पभूतायां रज्जौ सर्पारोपवत् वस्तुनि अवस्त्वारोपः - अध्यारोपः ॥ ३२॥
वस्तु - सच्चिदानन्दमद्वयं ब्रह्म अज्ञानादिसकलजडसमूहोऽवस्तु ॥ ३३॥
अज्ञानं तु - सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं ज्ञानविरोधि
भावरूपं यत्किञ्चिदिति वदन्त्यहमज्ञ इत्याद्यनुभवात् ``देवात्मशक्तिं
स्वगुणैर्निगूढाम्” (श्वेत उ १.३) इत्यादिश्रुतेश्च ॥ ३४॥
इदमज्ञानं समष्टिव्यष्ट्यभिप्रायेणैकमनेकमिति च व्यवह्रियते ॥ ३५॥
तथाहि यथा वृक्षाणां समष्ट्यभिप्रायेण वनमित्येकत्वव्यपदेशो
यथा वा जलानां समष्ट्यभिप्रायेण जलाशय इति तथा नानात्वेन
प्रतिभासमानानां जीवगताज्ञानानां समष्ट्यभिप्रायेण तदेकत्वव्यपदेशः
``अजामेकां” (श्वे उ ४.५) इत्यादिश्रुतेः ॥ ३६॥
इयं समष्टिरुत्कृष्टोपाधितया विशुद्धसत्त्वप्रधाना ॥ ३७॥
एतदुपहितं चैतन्यं सर्वज्ञत्वसर्वेश्वरत्वसर्वनियन्तृत्वादिगुणकमव्यक्तमन्तर्यामी
जगत्कारणमीश्वर इति च व्यपदिश्यते सकलाज्ञानावभासकत्वात् ।
``यः सर्वज्ञः सर्ववित्” (मुण्ड उ १.१.९) इति श्रुतेः ॥ ३८॥
ईश्वरस्येयं समष्टिरखिलकारणत्वात्कारणशरीरमानन्दप्रचुरत्वा-
त्कोशवदाच्छादकत्वाच्चानन्दमयकोशः सर्वोपरमत्वा-
त्सुषुप्तिरत एव स्थूलसूक्ष्मप्रपञ्चलयस्थानमिति च उच्यते ॥ ३९॥
यथा वनस्य व्यष्ट्यभिप्रायेण वृक्षा इत्यनेकत्वव्यपदेशो यथा वा जलाशयस्य
व्यष्ट्यभिप्रायेण जलानीति तथाज्ञानस्य व्यष्ट्यभिप्रायेण
तदनेकत्वव्यपदेशः ``इन्द्रो मायाभिः पुरुरूप ईयते” (ऋग्वेद ६.४७.१८)
इत्यादिश्रुतेः ॥ ४०॥
अत्र व्यस्तसमस्तव्यापित्वेन व्यष्टिसमष्टिताव्यपदेशः ॥ ४१॥
इयं व्यष्टिर्निकृष्टोपाधितया मलिनसत्त्वप्रधाना ॥ ४२॥
एतदुपहितं चैतन्यमल्पज्ञत्वानीश्वरत्वादिगुणकं प्राज्ञ
इत्युच्यत एकाज्ञानावभासकत्वात् ॥ ४३॥
अस्य प्राज्ञत्वमस्पष्टोपाधितयानतिप्रकाशकत्वात् ॥ ४४॥
अस्यापीयमहङ्कारादिकारणत्वात्कारणशरीरमानन्द-
प्रचुरत्वात्कोशवदाच्छादकत्वाच्चानन्दमयकोशः
सर्वोपरमत्वात्सुषुप्तिरत एव स्थूलसूक्ष्मशरीरप्रपञ्च-
लयस्थानमिति च उच्यते ॥ ४५॥
तदानीमेतावीश्वरप्राज्ञौ चैतन्यप्रदीप्ताभिरतिसूक्ष्माभि-
रज्ञानवृत्तिभिरानन्दमनुभवतः ``आनन्दभुक् चेतोमुखः
प्राज्ञः” (माण्डू उ ५) इति श्रुतेः सुखमहमवाप्सम्
न किञ्चिदवेदिषमिथ्युत्थितस्यपरामर्शोपपत्तेश्च ॥ ४६॥
अनयोः समष्टिव्यष्ट्योर्वनवृक्षयोरिव जलाशय-जलयोरिव वाभेदः ॥ ४७॥
एतदुपहितयोरीश्वरप्राज्ञयोरपि वनवृक्षावच्छिन्नाकाशयोरिव
जलाशयजलगतप्रतिबिम्बाकाशयोरिव वाभेदः ``एष सर्वेश्वर
(एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि
भूतानाम्)” (माण्डू उ ६) इत्यादि श्रुतेः ॥ ४८॥
वनवृक्षतदवच्छिन्नाकाशयोर्जलाशयजलतद्गतप्रतिबिम्बाकाशयो-
र्वाधारभूतानुपहिताकाशवदनयोरज्ञानतदुपहितचैतन्ययो-
राधारभूतं यदनुपहितं चैतन्यं तत्तुरीयमित्युच्यते
``शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते (स आत्मा स विज्ञेयः)”
(माण्डू उ ७) इत्यादिश्रुतेः ॥ ४९॥
इदमेव तुरीयं शुद्धचैतन्यमज्ञानादितदुपहितचैतन्याभ्यां तप्तायः
पिण्डवदविविक्तं सन्महावाक्यस्य वाच्यं विविक्तं सल्लक्ष्यमिति चोच्यते ॥ ५०॥
अस्याज्ञानस्यावरणविक्षेपनामकमस्ति शक्तिद्वयम् ॥ ५१॥
आवरणशक्तिस्तावदल्पोऽपि मेघोऽनेकयोजनायतमादित्य-
मण्डलमवलोकयितृनयनपथपिधायकतया यथाच्छादयतीव
तथाज्ञानं परिच्छिन्नमप्यात्मानमपरिच्छिन्नमसंसारिण-
मवलोकयितृबुद्धिपिधायकतयाच्छादयतीव तादृशं सामर्थ्यम् ।
तदुक्तं - ``घनच्छन्नदृष्टिर्घनच्छन्नमर्कं यथा
मन्यते निष्प्रभं चातिमूढः । तथा बद्धवद्भाति यो मूढदृष्टेः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥” इति (हस्तामलकम् १०) ॥ ५२॥
अनया आवृतस्यात्मनः कर्तृत्वभोक्तृत्वसुखित्वदुःखित्वादिसंसारसम्भावनापि
भवति यथा स्वाज्ञानेनावृतायां रज्ज्वां सर्पत्वसम्भावना ॥ ५३॥
विक्षेपशक्तिस्तु यथा रज्ज्वज्ञानं स्वावृत रज्जौ स्वशक्त्या
सर्पादिकमुद्भावयत्येवमज्ञानमपि स्वावृतात्मनि
स्वशक्त्याऽऽकाशादिप्रपञ्चमुद्भावयति
तादृशं सामर्थ्यम् । तदुक्तम् - ``विक्षेपशक्तिर्लिङ्गादि ब्रह्माण्डान्तं
जगत् सृजेत्” इति । (वाक्यसुधा १३) ॥ ५४॥
शक्तिद्वयवदज्ञानोपहितं चैतन्यं स्वप्रधानतया निमित्तं
स्वोपाधिप्रधानतयोपादानं च भवति ॥ ५५॥
यथा लूता तन्तुकार्यं प्रति स्वप्रधानतया निमित्तं
स्वशरीरप्रधानतयोपादानञ्च भवति ॥ ५६॥
तमःप्रधानविक्षीपशक्तिमदज्ञानोपहितचैतन्यादाकाश
आकाशाद्वायुर्वायोरग्निरग्नेरापोऽद्भ्यः पृथिवी
चोत्पद्यते ``एतस्मादात्मन आकाशः सम्भूतः”
(तै उ २.१.१) इत्यादिश्रुतेः ॥ ५७॥
तेषु जाड्याधिक्यदर्शनात्तमःप्राधान्यं तत्कारणस्य ।
तदानीं सत्त्वरजस्तमांसि कारणगुणप्रक्रमेण
तेष्वाकाशादिषूत्पद्यन्ते ॥ ५८॥
एतान्येव सूक्ष्मभूतानि तन्मात्राण्यपञ्चीकृतानि चोच्यन्ते ॥ ५९॥
एतेभ्यः सूक्ष्मशरीराणि स्थूलभूतानि चोत्पद्यन्ते ॥ ६०॥
सूक्ष्मशरीराणि सप्तदशावयवानि लिङ्गशरीराणि ॥ ६१॥
अवयवास्तु ज्ञानेन्द्रियपञ्चकं बुद्धिमनसी कर्मेन्द्रियपञ्चकं
वायुपञ्चकं चेति ॥ ६२॥
ज्ञानेन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणाख्यानि ॥ ६३॥
एतान्याकाशादीनां सात्त्विकांशेभ्यो व्यस्तेभ्यः
पृथक् पृथक् क्रमेणोत्पद्यन्ते ॥ ६४॥
बुद्धिर्नाम निश्चयात्मिकान्तःकरणवृत्तिः ॥ ६५॥
मनो नाम सङ्कल्पविकल्पात्मिकान्तःकरणवृत्तिः ॥ ६६॥
अनयोरेव चित्ताहङ्कारयोरन्तर्भावः ॥ ६७॥
अनुसन्धानात्मिकान्तःकरणवृत्तिः चित्तम् ॥ ६८॥
अभिमानात्मिकान्तःकरणवृत्तिः अहङ्कारः ॥ ६९॥
एते पुनराकाशादिगतसात्त्विकांशेभ्यो मिलितेभ्य उत्पद्यन्ते ॥ ७०॥
एतेषां प्रकाशात्मकत्वात्सात्त्विकांशकार्यत्वम् ॥ ७१॥
इयं बुद्धिर्ज्ञानेन्द्रियैः सहिता विज्ञानमयकोशो भवति ॥ ७२॥
अयं कर्तृत्वभोक्तृत्वसुखित्वदुःखित्वाद्यभिमानत्वेनेहलोकपरलोकगामी
व्यवहारिको जीव इत्युच्यते ॥ ७३॥
मनस्तु ज्ञानेन्द्रियैः सहितं सन्मनोमयकोशो भवति ॥ ७४॥
कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थाख्यानि ॥ ७५॥
एतानि पुनराकाशादीनां रजोंशेभ्यो व्यस्तेभ्यः पृथक् पृथक्
क्रमेणोत्पद्यन्ते ॥ ७६॥
वायवः प्राणापानव्यानोदानसमानाः ॥ ७७॥
प्राणो नाम प्राग्गमनवान्नासाग्रस्थानवर्ती ॥ ७८॥
अपानो नामावाग्गमनवान्पाय्वादिस्थानवर्ती ॥ ७९॥
व्यानो नाम विष्वग्गमनवानखिलशरीरवर्ती ॥ ८०॥
उदानो नाम कण्ठस्थानीय ऊर्ध्वगमनवानुत्क्रमणवायुः ॥ ८१॥
समानो नाम शरीरमध्यगताशितपीतान्नादिसमीकरणकरः ॥ ८२॥
समीकरणन्तु परिपाककरणं रसरुधिरशुक्रपुरीषादिकरणमिति यावत् ॥ ८३॥
केचित्तु नागकूर्मकृकलदेवदत्तधनञ्जयाख्याः पञ्चान्ये
वायवः सन्तीति वदन्ति ॥ ८४॥
तत्र नाग उद्गिरणकरः । कूर्म उन्मीलनकरः । कृकलः क्षुत्करः ।
देवदत्तो जृम्भणकरः । धनञ्जयः पोषणकरः ॥ ८५॥
एतेषां प्राणादिष्वन्तर्भावात्प्राणादयः पञ्चैवेति केचित् ॥ ८६॥
एतत्प्राणादिपञ्चकमाकाशादिगतरजोंशेभ्योमिलितेभ्य उत्पद्यते ॥ ८७॥
इदं प्राणादिपञ्चकं कर्मेन्द्रियैः सहितं सत्प्राणमयकोशो भवति ।
अस्य क्रियात्मकत्वेन रजोंशकार्यत्वम् ॥ ८८॥
एतेषु कोशेषु मध्ये विज्ञानमयो ज्ञानशक्तिमान् कर्तृरूपः ।
मनोमय इच्छाशक्तिमान् करणरूपः ।
प्राणमयः क्रियाशक्तिमान् कार्यरूपः ।
योग्यत्वादेवमेतेषां विभाग इति वर्णयन्ति ।
एतत्कोशत्रयं मिलितं सत्सूक्ष्मशरीरमित्युच्यते ॥ ८९॥
अत्राप्यखिलसूक्ष्मशरीरमेकबुद्धिविषयतया वनवज्जलाशयवद्वा
समष्टिरनेकबुद्धिविषयतया वृक्षवज्जलवद्वा व्यष्टिरपि भवति ॥ ९०॥
एतत्समष्ट्युपहितं चैतन्यं सूत्रात्मा हिरण्यगर्भः प्राणश्चेत्युच्यते
सर्वत्रानुस्यूतत्वाज्ज्ञानेच्छाक्रियाशक्तिमदुपहितत्वाच्च ॥ ९१॥
अस्यैषा समष्टिः स्थूलप्रपञ्चापेक्षया सूक्ष्मत्वात्सूक्ष्मशरीरं
विज्ञानमयादिकोशत्रयं जाग्रद्वासनामयत्वात्स्वप्नोऽतएव
स्थूलप्रपञ्चलयस्थानमिति चोच्यते ॥ ९२॥
एतद्व्यष्ट्युपहितं चैतन्यं तैजसो भवति तेजोमयान्तःकरणोपहितत्वात् ॥ ९३॥
अस्यापीयं व्यष्टिः स्थूलशरीरापेक्षया सूक्ष्मत्वादिति हेतोरेव
सूक्ष्मशरीरं विज्ञानमयादिकोशत्रयं जाग्रद्वासनामयत्वात्स्वप्नोऽतएव
स्थूलशरीरलयस्थानमिति चोच्यते ॥ ९४॥
एतौ सूत्रात्मतैजसौ तदानीं मनोवृत्तिभिः सूक्ष्मविषयाननुभवतः
``प्रविविक्तभुक्तैजसः” (माण्डू उ ३) इत्यदिश्रुतेः ॥ ९५॥
अत्रापि समष्टिव्यष्ट्योस्तदुपहितसूत्रात्मतैजसयोर्वनवृक्षवत्तदव-
च्छिन्नाकाशवच्च जलाशयजलवत्तद्गतप्रतिबिम्बाकाशवच्चाभेदः ॥ ९६॥
एवं सूक्ष्मशरीरोत्पत्तिः ॥ ९७॥
स्थूलभूतानि तु पञ्चीकृतानि ॥ ९८॥
पञ्चीकरणं त्वाकाशादिपञ्चस्वेकैकं द्विधा समं विभज्य
तेषु दशसु भागेषु प्राथमिकान्पञ्चभागान्प्रत्येकं
चतुर्धा समं विभज्य तेषां चतुर्णां भागानां
स्वस्वद्वितीयार्धभागपरित्यागेन भागान्तरेषु योजनम् ॥ ९९॥
तदुक्तम् -
``द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः ॥
स्वस्वेतरद्वितीयांशैर्योजनात्पञ्च पञ्चते ॥” इति ॥ ॥ १००॥
अस्याप्रामाण्यं नाशङ्कनीयं त्रिवृत्करणश्रुतेः
पञ्चीकरणस्याप्युपलक्षणत्वात् ॥ १०१॥
पञ्चानां पञ्चात्मकत्वे समानेऽपि तेषु च
``वैशेष्यात्तु तद्वादस्तद्वादः” (ब्र सू २.४.२२)
इति न्यायेनाकाशादिव्यपदेशः सम्भवति ॥ १०२॥
तदानीमाकाशे शब्दोऽभिव्यज्यते वायौ शब्दस्पर्शावग्नौ
शब्दस्पर्शरूपाण्यप्सु शब्दस्पर्शरूपरसाः पृथिव्यां
शब्दस्पर्शरूपरसगन्धाश्च ॥ १०३॥
एतेभ्यः पञ्चीकृतेभ्यो भूतेभ्यो भूर्भुवःस्वर्महर्जनस्तपःसत्य-
मित्येतन्नामकानामुपर्युपरिविद्यमानानामतलवितलसुतलरसातल-
तलातलमहातलपातालनामकानामधोऽधोविद्यमानानां
लोकानां ब्रह्माण्डस्य तदन्तर्गतचतुर्विधस्थूलशरीराणां
तदुचितानामन्नपानादीनां चोत्पत्तिर्भवति ॥ १०४॥
चतुर्विधशरीराणि तु जरायुजाण्डजस्वेदजोद्भिज्जाख्यानि ॥ १०५॥
जरायुजानि जरायुभ्यो जातानि मनुष्यपश्वादीनि ॥ १०६॥
अण्डजान्यण्डेभ्यो जातानि पक्षिपन्नगादीनि ॥ १०७॥
स्वेदजानि स्वेदेभ्यो जातानि यूकमशकादीनि ॥ १०८॥
उद्भिज्जानि भूमिमुद्भिद्य जातानि लतावृक्षादीनि ॥ १०९॥
अत्रापि चतुर्विधसकलस्थूलशरीरमेकानेकबुद्धिविषयतया
वनवज्जलाशयवद्वा समष्टिर्वृक्षवज्जलवद्वा व्यष्टिरपि भवति ॥ ११०॥
एतत्समष्ट्युपहितं चैतन्यं वैश्वानरो विराडित्युच्यते
सर्वनराभिमानित्वाद्विविधं राजमानत्वाच्च ॥ १११॥
अस्यैषा समष्टिः स्थूलशरीरमन्नविकारत्वादन्नमयकोशः
स्थूलभोगायतनत्वाच्च स्थूलशरीरं जाग्रदिति च व्यपदिश्यते ॥ ११२॥
एतद्व्यष्ट्युपहितं चैतन्यं विश्व इत्युच्यते सूक्ष्मशरीराभिमानमपरित्यज्य
स्थूलशरीरादिप्रविष्टत्वात् ॥ ११३॥
अस्याप्येषा व्यष्टिः स्थूलशरीरमन्नविकारत्वादेव
हेतोरन्नमयकोशो जाग्रदिति चोच्यते ॥ ११४॥
तदानीमेतौ विश्ववैश्वानरौ दिग्वातार्कवरुणाश्विभिः
क्रमान्नियन्त्रितेन श्रोत्रादीन्द्रियपञ्चकेन
क्रमाच्छब्दस्पर्शरूपरसगन्धानग्नीन्द्रोपेन्द्रयमप्रजापतिभिः
क्रमान्नियन्त्रितेन वागादीन्द्रियपञ्चकेन
क्रमाद्वचनादानगमनविसर्गानन्दांश्चन्द्रचतुर्मुखशङ्कराच्युतैः
क्रमान्नियन्त्रितेन मनोबुद्ध्यहङ्कारचित्ताख्येनान्तरेन्द्रियचतुष्केण
क्रमात्सङ्कल्पनिश्चयाहङ्कार्यचैत्तांश्च सर्वानेतान्
स्थूलविषयाननुभवतः ``जागरितस्थानो बहिःप्रज्ञः” (माण्डू उ ३)
इत्यादिश्रुतेः ॥ ११५॥
अत्राप्यनयोः स्थूलव्यष्टिसमष्ट्योस्तदुपहितविश्ववैश्वानरयोश्च
वनवृक्षवत्तदवच्छिन्नाकाशवच्च जलाशयजलवत्तद्गतप्रतिबिम्बाकाशवच्च
पूर्ववदभेदः ॥ ११६॥
एवं पञ्चीकृतपञ्चभूतेभ्यः स्थूलप्रपञ्चोत्पत्तिः ॥ ११७॥
एतेषां स्थूलसूक्षमकारणप्रपञ्चानामपि समष्टिरेको
महान्प्रपञ्चो भवति यथावान्तरवनानां समष्टिरेकं महद्वनं भवति
यथा वावान्तरजलाशयानां समष्टिरेको महान् जलाशयः ॥ ११८॥
एतदुपहितं वैश्वानरादीश्वरपर्यन्तं चैतन्यमप्यवान्तरवनावच्छिन्नाकाशवदवान्तर
जलाशयगतप्रतिबिम्बाकाशवच्चैकमेव ॥ ११९॥
आभ्यां महाप्रपञ्चतदुपहितचैतन्याभ्यां तप्तायपिण्डवदविविक्तं
सदनुपहितं चैतन्यं ``सर्वं खल्विदं ब्रह्म” (छान्द उ ३.१४.१)
इति (महा) वाक्यस्य वाच्यं भवति विविक्तं सल्लक्ष्यमपि भवति ॥ १२०॥
एवं वस्तुन्यवस्त्वारोपोऽध्यारोपः सामान्येन प्रदर्शितः ॥ १२१॥
३
इदानीं प्रत्यगात्मनीदमिदमयमयमारोपयतीति विशेषत उच्यते ॥ १२२॥
अतिप्राकृतस्तु ``आत्मा वै जायते पुत्रः” इत्यादिश्रुतेः स्वस्मिन्निव
पुत्रेऽपि प्रेमदर्शनात्पुत्रे पुष्टे नष्टे चाहमेव पुष्टो नष्टश्चेत्याद्यनुभवाच्च
पुत्र आत्मेति वदति ॥ १२३॥
चार्वाकस्तु ``स वा एष पुरुषोऽन्नरसमयः” (तै उ २.१.१) इत्यादिश्रुतेः
प्रदीप्तगृहात्स्वपुत्रं परित्यज्यापि स्वस्य निर्गमदर्शनात्स्थूलोऽहं
कृशोऽहमित्याद्यनुभवाच्च स्थूलशरीरमात्मेति वदति ॥ १२४॥
अपरश्चार्वाकः ``ते ह प्राणाः प्रजापतिं पितरमेत्योचुः” (छा उ ५.१.७)
इत्यादिश्रुतेरिन्द्रियाणामभावे शरीरचलनाभावात्काणोऽहं
बधिरोऽहमित्याद्यनुभवाच्चेन्द्रियाण्यात्मेति वदति ॥ १२५॥
अपरश्चार्वाकः ``अन्योऽन्तर आत्मा प्राणमयः” (तै उ २.२.१)
इत्यादिश्रुतेः प्राणाभाव इन्द्रियादिचलनायोगादहमशनायावानहं
पिपासावानित्यादि अनुभवाच्च प्राण आत्मेति वदति ॥ १२६॥
अन्यस्तु चार्वाकः ``अन्योऽन्तर आत्मा मनोमयः” (तै उ २.३.१)
इत्यादिश्रुतेर्मनसि सुप्ते प्राणादेरभावादहं सङ्कल्पवानहं
विकल्पवानित्याद्यनुभवाच्च मन आत्मेति वदति ॥ १२७॥
बौद्धस्तु ``अन्योऽन्तर आत्मा विज्ञानमयः” (तै उ २.४.१)
इत्यादिश्रुतेः कर्तुरभावे करणस्य शक्त्यभावादहं कर्ताहं भोक्तेत्याद्यनुभवाच्च
बुद्धिरात्मेति वदति ॥ १२८॥
प्राभाकरतार्किकौ तु ``अन्योऽन्तर आत्मानन्दमयः” (तै उ २.५.१)
इत्यादिश्रुतेर्बुद्ध्यादीनामज्ञाने लयदर्शनादहमज्ञोऽहमज्ञानीत्याद्यनुभवाच्चाज्ञानमात्मेति वदतः ॥ १२९॥
भाट्टस्तु ``प्रज्ञानघन एवानन्दमयः” (माण्डू उ ५) इत्यादिश्रुतेः सुषुप्तौ
प्रकाशाप्रकाशसद्भावान्मामहं न जानामीत्याद्यनुभवाच्चाज्ञानोपहितं
चैतन्यमात्मेति वदति ॥ १३०॥
अपरो बौद्धः ``असदेवेदमग्र आसीत्” (छा उ ६.२.१)
इत्यादिश्रुतेः सुषुप्तौ सर्वाभावादहं सुषुप्तौ नासमित्युत्थितस्य
स्वाभावपरामर्शविषयानुभवाच्च शून्यमात्मेति वदति ॥ १३१॥
एतेषां पुत्रादीनामनात्मत्वमुच्यते ॥ १३२॥
एतैरतिप्राकृतादिवादिभिरुक्तेषु श्रुतियुक्त्यनुभवाभासेषु
पूर्वपूर्वोक्तश्रुतियुक्त्यनुभवाभासानामुत्तरोत्ततरश्रुतियुक्त्यनुभवाभासै-
रात्मत्वबाधदर्शनात्पुत्रादीनामनात्मत्वं स्पष्टमेव ॥ १३३॥
किञ्च प्रत्यगस्थूलोऽचक्षुरप्राणोऽमना अकर्ता चैतन्यं चिन्मात्रं
सदित्यादिप्रबलश्रुतिविरोधादस्य पुत्रादिशून्यपर्यन्तस्य जडस्य
चैतन्यभास्यत्वेन घटादिवदनित्यत्वादहं ब्रह्मेति
विद्वदनुभवप्राबल्याच्च तत्तच्छ्रुतियुक्त्यनुभवभासानां
बाधितत्वादपि पुत्रादिशून्यपर्यन्तमखिलमनात्मैव ॥ १३४॥
अतस्तत्तद्भासकं नित्यशुद्धबुद्धमुक्तसत्यस्वभावं
प्रत्यक्चैतन्यमेवात्मवस्त्विति वेदान्तविद्वदनुभवः ॥ १३५॥
एवमध्यारोपः ॥ १३६॥
४
अपवादो नाम रज्जुविवर्तस्य सर्पस्य रज्जुमात्रत्ववद्वस्तुविवर्तस्यावस्तुनोऽज्ञानादेः
प्रपञ्चस्य वस्तुमात्रत्वम् ॥ १३७॥
तदुक्तम् -
``सतत्त्वतोऽन्यथाप्रथा विकार इत्युदीरितः ।
अतत्त्वतोऽन्यथाप्रथा विवर्त इत्युदीरितः ॥” इति ॥ १३८॥
तथाहि एतद्भोगायतनं चतुर्विधसकलस्थूलशरीरजातं
भोग्यरूपान्नपानादिकमेतदायतनभूतभूरादिचतुर्दशभुवनान्येतदायतनभूतं
ब्रह्माण्डं चैतत्सर्वमेतेषां कारणरूपं पञ्चीकृतभूतमात्रं भवति ॥ १३९॥
एतानि शब्दादिविषयसहितानि पञ्चीकृतानि भूतानि सूक्ष्मशरीरजातं
चैतत्सर्वमेतेषां कारणरूपापञ्चीकृतभूतमात्रं भवति ॥ १४०॥
एतानि सत्त्वादिगुणसहितान्यपञ्चीकृतान्युत्पत्ति-
व्युत्क्रमेणैतत्कारणभूताज्ञानोपहितचैतन्यमात्रं भवति ॥ १४१॥
एतदज्ञानमज्ञानोपहितं चैतन्यं चेश्वरादिकमेतदाधार-
भूतानुपहितचैतन्यरूपं तुरीयं ब्रह्ममात्रं भवति ॥ १४२॥
आभ्यामध्यारोपापवादाभ्यां तत्त्वम्पदार्थशोधनमपि
सिद्धं भवति ॥ १४३॥
तथाहि - अज्ञानादिसमष्टिरेतदुपहितं सर्वज्ञत्वादिविशिष्टं
चैतन्यमेतदनुपहितं चैतत्त्रयं तप्तायःपिण्डवदेकत्वेनावभासमानं
तत्पदवाच्यार्थो भवति ॥ १४४॥
एतदुपाध्युपहिताधारभूतमनुपहितं चैतन्यं तत्पदलक्ष्यार्थो भवति ॥ १४५॥
अज्ञानादिव्यष्टिरेतदुपहिताल्पज्ञत्वादिविशिष्टचैतन्यमेत-
दनुपहितं चैतत्त्रयं तप्तायःपिण्डवदेकत्वेनावभासमानं
त्वम्पदवाच्यार्थो भवति ॥ १४६॥
एतदुपाध्युपहिताधारभूतमनुपहितं प्रत्यगानन्दं
तुरीयं चैतन्यं त्वम्पदलक्ष्यार्थो भवति ॥ १४७॥
अथ महावाक्यार्थो वर्ण्यते । इदं तत्त्वमसिवाक्यं
सम्बन्धत्रयेणाखण्डार्थबोधकं भवति ॥ १४८॥
सम्बन्धत्रयं नाम पदयोः सामानाधिकरण्यं
पदार्थयोर्विशेषणविशेष्यभावः प्रत्यगात्म-
लक्षणयोर्लक्ष्यलक्षणभावश्चेति ॥ १४९॥
तदुक्तम् -
``सामानाधिकरण्यं च विशेषणविशेष्यता ।
लक्ष्यलक्षणसम्बन्धः पदार्थप्रत्यगात्मनाम् ॥” इति ॥ १५०॥
सामानाधिकरण्यसम्बन्धस्तावद्यथा सोऽयं देवदत्त इत्यस्मिन्वाक्ये
तत्कालविशिष्टदेवदत्तवाचकसशब्दस्यैतत्कालविशिष्टदेवदत्त-
वाचकायंशब्दस्य चैकस्मिन्पिण्डे तात्पर्यसम्बन्धः । तथा च
तत्त्वमसीति वाक्येऽपि परोक्षत्वादिविशिष्टचैतन्यवाचकतत्पद-
स्यापरोक्षत्वादि विशिष्टचैतन्यवाचकत्वम्पदस्य चैकस्मिंश्चैतन्ये
तात्पर्यसम्बन्धः ॥ १५१॥
विशेषणविशेष्यभावसम्बन्धस्तु यथा तत्रैव वाक्ये
सशब्दार्थतत्कालविशिष्टदेवदत्तस्यायंशब्दार्थैतत्कालविशिष्टदेवदत्तस्य
चान्योन्यभेदव्यावर्तकतया विशेषणविशेष्यभावः । तथात्रापि वाक्ये
तत्पदार्थपरोक्षत्वादिविशिष्टचैतन्यस्य त्वम्पदार्थापरोक्षत्वादिविशिष्टचैतन्यस्य
चान्योन्यभेदव्यावर्तकतया विशेषणविशेष्यभावः ॥ १५२॥
लक्ष्यलक्षणसम्बन्धस्तु यथा तत्रैव सशब्दायंशब्दयोस्तदर्थयोर्वा
विरुद्धतत्कालैतत्कालविशिष्टत्वपरित्यागेनाविरुद्धदेवदत्तेन सह लक्ष्यलक्षणभावः ।
तथात्रापि वाक्ये तत्त्वम्पदयोस्तदर्थयोर्वा विरुद्धपरोक्षत्वापरोक्षत्वादि-
विशिष्टत्वपरित्यागेनाविरुद्धचैतन्येन सह लक्ष्यलक्षणभावः ॥ १५३॥
इयमेव भागलक्षणेत्युच्यते ॥ १५४॥
अस्मिन्वाक्ये नीलमुत्पलमिति वाक्यवद्वाक्यार्थो न सङ्गच्छते ॥ १५५॥
तत्र तु नीलपदार्थनीलगुणस्योत्पलपदार्थोत्पलद्रव्यस्य च
शौक्ल्यपटादिभेदव्यावर्तकतयान्योन्यविशेषणविशेष्य-
रूपसंसर्गस्यान्यतरविशिष्टस्यान्यतरस्य तदैक्यस्य वा
वाक्यार्थत्वाङ्गीकारे प्रमाणान्तरविरोधाभावात्तद्वाक्यार्थः
सङ्गच्छते ॥ १५६॥
अत्र तु तत्पदार्थपरोक्षत्वादिविशिष्टचैतन्यस्य
त्वम्पदार्थापरोक्षत्वादिविशिष्टचैतन्यस्य चान्योन्यभेदव्यावर्तकतया
विशेषणविशेष्यभावसंसर्गस्यान्यतरविशिष्टस्यान्यतरस्य
तदैक्यस्य वा वाक्यार्थत्वाङ्गीकारे प्रत्यक्षादिप्रमाणविरोधाद्वाक्यार्थो
न सङ्गच्छते ॥ १५७॥
तदुक्तम् -
``संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र सम्मतः ।
अखण्डैकरसत्वेन वाक्यार्थो विदुषां मतः ॥” इति (पञ्चदशी ७.७५) ॥ १५८॥
अत्र गङ्गायां घोषः प्रतिवसतीतिवाक्यवज्जहल्लक्षणापि न सङ्गच्छते ॥ १५९॥
तत्र तु गङ्गाघोषयोराधाराधेयभावलक्षणस्य वाक्यार्थस्याशेषतो
विरुद्धत्वाद्वाक्यार्थमशेषतः परित्यज्य तत्सम्बन्धितीरलक्षणाया
युक्तत्वाज्जहल्लक्षणा सङ्गच्छते ॥ १६०॥
अत्र तु परोक्षापरोक्षचैतन्यैकत्वलक्षणस्य
वाक्यार्थस्य भागमात्रे विरोधाद्भागान्तरमपि
परित्यज्यान्यलक्षणाया अयुक्तत्वाज्जहल्लक्षणा
न सङ्गच्छते ॥ १६१॥
न च गङ्गापदं स्वार्थपरित्यागेन तीरपदार्थं
यथा लक्षयति तथा तत्पदं त्वम्पदं वा
स्वार्थपरित्यागेन त्वम्पदार्थं तत्पदार्थं वा
लक्षयत्वतः कुतो जहल्लक्षणा न सङ्गच्छत
इति वाच्यम् ॥ १६२॥
तत्र तीरपदाश्रवणेन तदर्थाप्रतीतौ लक्षणया
तत्प्रतीत्यपेक्षायामपि तत्त्वम्पदयोः श्रूयमाणत्वेन
तदर्थप्रतीतौ लक्षणया पुनरन्यतरपदेनान्यतर-
पदार्थप्रतीत्यपेक्षाभावात् ॥ १६३॥
अत्र शोणो धावतीतिवाक्यवदजहल्लक्षणापि न सम्भवति ॥ १६४॥
तत्र शोणगुणगमनलक्षणस्य वाक्यार्थस्य
विरुद्धत्वात्तदपरित्यागेन तदाश्रयाश्वादिलक्षणया
तद्विरोधपरिहारसम्भवादजहल्लक्षणा सम्भवति ॥ १६५॥
अत्र तु परोक्षत्वापरोक्षत्वादिविशिष्टचैतन्यैकत्वस्य
वाक्यार्थस्य विरुद्धत्वात्तदपरित्यागेन तत्सम्बन्धिनो यस्य
कस्यचिदर्थस्य लक्षितत्वेऽपि तद्विरोधपरिहारासम्भवा-
दजहल्लक्षणा न सम्भवत्येव ॥ १६६॥
न च तत्पदं त्वम्पदं वा स्वार्थविरुद्धांशपरित्यागेनां-
शान्तरसहितं त्वम्पदार्थं तत्पदार्थं वा लक्षयत्वतः
कथं प्रकारान्तरेण भागलक्षणाङ्गीकरणमिति वाच्यम् ॥ १६७॥
एकेन पदेन स्वार्थांशपदार्थान्तरोभयलक्षणाया
असम्भवात्पदान्तरेण तदर्थप्रतीतौ लक्षणया
पुनस्तत्प्रतीत्यपेक्षाभावाच्च ॥ १६८॥
तस्माद्यथा सोऽयं देवदत्त इति वाक्यं तदर्थो वा
तत्कालैतत्कालविशिष्टदेवदत्तलक्षणस्य वाक्यार्थस्यांशे
विरोधाद्विरुद्धतत्कालैतत्कालविशिष्टांशं परित्यज्याविरुद्धं
देवदत्तांशमात्रं लक्षयति तथा तत्त्वमसीतिवाक्यं तदर्थो वा
परोक्षत्वापरोक्षत्वादिविशिष्टचैतन्यैकत्वलक्षणस्य
वाक्यार्थस्यांशे विरोधाद्विरुद्धपरोक्षत्वापरोक्षत्वविशिष्टांशं
परित्यज्याविरुद्धमखण्डचैतन्यमात्रं लक्षयतीति ॥ १६९॥
अथाधुनाहं ब्रह्मास्मि (बृ उ १.४.१०)
इत्यनुभववाक्यार्थो वर्ण्यते ॥ १७०॥
एवमाचार्येणाध्यारोपापवादपुरःसरं तत्त्वम्पदार्थौ
शोधयित्वा वाक्येनाखण्डार्थेऽवबोधितेऽधिकारिणोऽहं
नित्यशुद्धबुद्धमुक्तसत्यस्वभावपरमानन्दानन्ताद्वयं
ब्रह्मास्मीत्यखण्डाकाराकारिता चित्तवृत्तिरुदेति ॥ १७१॥
सा तु चित्प्रतिबिम्बसहिता सती प्रत्यगभिन्नमज्ञातं परम्ब्रह्म
विषयीकृत्य तद्गताज्ञानमेव बाधते तदा पटकारणतन्तुदाहे
पटदाहवदखिलकारणेऽज्ञाने बाधिते सति तत्कार्यस्याखिलस्य
बाधितत्वात्तदन्तर्भूताखण्डाकाराकारिता चित्तवृत्तिरपि बाधिता भवति ॥ १७२॥
तत्र प्रतिबिम्बितं चैतन्यमपि यथा दीपप्रभादित्यप्रभावभासनासमर्था
सती तयाभिभूता भवति तथा स्वयम्प्रकाशमानप्रत्यगभिन्नपरब्रह्मावभासनानर्हतया
तेनाभिभूतं सत् स्वोपाधिभूताखण्डवृत्तेर्बाधितत्वाद्दर्पणाभावे
मुखप्रतिबिम्बस्य मुखमात्रत्ववत्प्रत्यगभिन्नपरब्रह्ममात्रं भवति ॥ १७३॥
एवं च सति ``मनसैवानुद्रष्टव्यम्” (बृ उ ४.४.१९)
``यन्मनसा न मनुते”
(के उ १.५) इत्यनयोः श्रुत्योरविरोधो वृत्तिव्याप्यत्वाङ्गीकारेण
फलव्याप्यत्वप्रतिषेधप्रतिपादनात् ॥ १७४॥
तदुक्तम् -
``फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निवारितम् ।
ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता ॥” इति (पञ्चदशी ६.९०) ॥ १७५॥
``स्वयम्प्रकाशमानत्वान्नाभास उपयुज्यते ।” इति च (पञ्चदशी ६.९२) ॥ १७६॥
जडपदार्थाकाराकारितचित्तवृत्तेर्विशेषोऽस्ति ॥ १७७॥
तथाहि । अयं घट इति घटाकाराकारितचित्तवृत्तिरज्ञातं घटं
विषयीकृत्य तद्गताज्ञाननिरसनपुरःसरं स्वगतचिदाभासेन
जडं घटमपि भासयति ॥ १७८॥
तदुक्तं -
``बुद्धितत्स्थचिदाभासौ द्वावपि व्याप्नुतो घटम् ।
तत्राज्ञानं धिया नश्येदाभासेन घटः स्फुरेत् ॥” इति । (पञ्चदशी ७.९१) ॥ १७९॥
यथा दीपप्रभामण्डलमन्दकारगतं घटपटादिकं विषयीकृत्य
तद्गतान्धकारनिरसनपुरःसरं स्वप्रभया तदपि भासयतीति ॥ १८०॥
५
एवं भूतस्वस्वरूपचैतन्यसाक्षात्कारपर्यन्तं श्रवणमनन-
निदिध्यासनसमाध्यनुष्ठानस्यापेक्षितत्वात्तेऽपि प्रदर्श्यन्ते ॥ १८१॥
श्रवणं नाम षड्विधलिङ्गैरशेषवेदान्तानामद्वितीयवस्तुनि
तात्पर्यावधारणम् ॥ १८२॥
लिङ्गानि तूपक्रमोपसंहाराभ्यासापूर्वताफलार्थवादोपपत्त्याख्यानि ॥ १८३॥
तदुक्तम् -
``उपक्रमोपसंहारावभ्यासोऽपूर्वताफलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥” ॥ १८४॥
प्रकरणप्रतिपाद्यस्यार्थस्य तदाद्यन्तयोरुपपादनमुपक्रमोपसंहारौ ।
यथा छान्दोग्ये षष्ठाध्याये प्रकरणप्रतिपाद्यस्याद्वितीयवस्तुन
``एकमेवाद्वितीयम्” (६.२.१) इत्यादौ ``ऐतदात्म्यमिदं सर्वम्” (६.८.७)
इत्यन्ते च प्रतिपादनम् ॥ १८५॥
प्रकरणप्रतिपाद्यस्य वस्तुनस्तन्मध्ये पौनःपुन्येन
प्रतिपादनमभ्यासः । यथा तत्रैवाद्वितीयवस्तुनि मध्ये
तत्त्वमसीति नवकृत्वः प्रतिपादनम् ॥ १८६॥
प्रकरणप्रतिपाद्यस्याद्वितीयवस्तुनः प्रमाणान्तरा-
विषयीकरणमपूर्वता । यथा तत्रैवाद्वितीयवस्तुनो
मानान्तराविषयीकरणम् ॥ १८७॥
फलं तु प्रकरणप्रतिपाद्यस्यात्मज्ञानस्य तदनुष्ठानस्य
वा तत्र तत्र श्रूयमाणं प्रयोजनम् । यथा तत्र ``आचार्यवान्पुरुषो
वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येथ सम्पत्स्ये” (६.१४.२)
इत्यद्वितीयवस्तुज्ञानस्य तत्प्राप्तिः प्रयोजनं श्रूयते ॥ १८८॥
प्रकरणप्रतिपाद्यस्य तत्र तत्र प्रशंसनमर्थवादः ।
यथा तत्रैव ``उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं
मतमविज्ञातं विज्ञातम्” (६.१.३) इत्यद्वितीयवस्तुप्रशंसनम् ॥ १८९॥
प्रकरणप्रतिपाद्यार्थसाधने तत्र तत्र श्रुयमाणा युक्तिरुपपत्तिः । यथा
तत्र ``यथा सौम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं
स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्” (६.१.४)
इत्यादावद्वितीयवस्तुसाधने विकारस्य वाचारम्भणमात्रत्वे युक्तिः श्रूयते ॥ १९०॥
मननं तु श्रुतस्याद्वितीयवस्तुनो वेदान्तानुगुणयुक्तिभिरनवरतमनुचिन्तनम् ॥ १९१॥
विजातीयदेहादिप्रत्ययरहिताद्वितीयवस्तुसजातीयप्रत्ययप्रवाहो निदिध्यासनम् ॥ १९२॥
समाधिर्द्विविधः सविकल्पको निर्विकल्पश्चेति ॥ १९३॥
तत्र सविकल्पको नाम ज्ञातृज्ञानादिविकल्पलयानपेक्षयाद्वितीयवस्तुनि
तदाकाराकारितायाश्चित्तवृत्तेरवस्थानम् ॥ १९४॥
तदा मृण्मयगजादिभानेऽपि मृद्भानवद्द्वैतभानेऽप्यद्वैतं वस्तु भासते ॥ १९५॥
तदुक्तम् -
``दृशिस्वरूपं गगनोपमं परम्
सकृद्विभातं त्वजमेकमक्षरम् ।
अलेपकं सर्वगतं यदद्वयम्
तदेव चाहं सततं विमुक्तमोम् ॥” इति
(उपदेशसाहस्री ७३.१०.१) ॥ १९६॥
निर्विकल्पकस्तु ज्ञातृज्ञानादिविकल्पलयापेक्षयाद्वितीयवस्तुनि
तदाकाराकारितायाश्चित्तवृत्तेरतितरामेकीभावेनावस्थानम् ॥ १९७॥
तदा तु जलाकाराकारितलवणानवभासेन जलमात्रावभासवदद्वितीय-
वस्त्वाकाराकारितचित्तवृत्त्यनवभासेनाद्वितीयवस्तुमात्रमवभासते ॥ १९८॥
ततश्चास्य सुषुप्तेश्चाभेदशङ्का न भवति । उभयत्र वृत्त्यभाने
समानेऽपि तत्सद्भावासद्भावमात्रेणानयोर्भेदोपपत्तेः ॥ १९९॥
अस्याङ्गानि यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयः ॥ २००॥
तत्र ``अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः” ॥ २०१॥
``शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः” ॥२०२॥
करचरणादिसंस्थानविशेषलक्षणानि पद्मस्वस्तिकादीन्यासनानि ॥ २०३॥
रेचकपूरककुम्भकलक्षणाः प्राणनिग्रहोपायाः प्राणायामाः ॥ २०४॥
इन्द्रियाणां स्वस्वविषयेभ्यः प्रत्याहरणं प्रत्याहारः ॥ २०५॥
अद्वितीयवस्तुन्यन्तरिन्द्रियधारणं धारणा ॥ २०६.।
तत्राद्वितीयवस्तुनि विच्छिद्य विच्छिद्यान्तरिन्द्रियवृत्तिप्रवाहो ध्यानम् ॥ २०७॥
समाधिस्तूक्तः सविकल्पक एव ॥ २०८॥
एवमस्याङ्गिनो निर्विकल्पकस्य लयविक्षेपकषायरसास्वादलक्षणाश्चत्वारो
विघ्नाः सम्भवन्ति ॥ २०९॥
लयस्तावदखण्डवस्तनवलम्बनेन चित्तवृत्तेर्निद्रा ॥ २१०॥
अखण्डवस्त्वनवलम्बनेन चित्तवृत्तेरन्यावलम्बनं विक्षेपः ॥ २११॥
लयविक्षेपाभावेऽपि चित्तवृत्तेर्रागादिवासनया
स्तब्धीभावादखण्डवस्त्वनवलम्बनं कषायः ॥ २१२॥
अखण्डवस्त्वनवलम्बनेनापि चित्तवृत्तेः सविकल्पकानन्दास्वादनं
रसास्वादः । समाध्यारम्भसमये सविकल्पकानन्दास्वादनं वा ॥ २१३॥
अनेन विघ्नचतुष्टयेन विरहितं चित्तं निर्वातदीपवदचलं
सदखण्डचैतन्यमात्रमवतिष्ठते यदा तदा निर्विकल्पकः
समाधिरित्युच्यते ॥ २१४॥
यदुक्तम् -
``लये सम्बोधयेच्चितं विक्षिप्तं शमयेत्पुनः ।
सकषायं विजानीयात्समप्राप्तं न चालयेत् ॥
नास्वादयेद्रसं तत्र निःसङ्गः प्रज्ञया भवेत्” इति च
(गौडपादकारिका ३.४४-४५)
``यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता” इति च
(गीता ६ - १९) ॥ २१५॥
६
अथ जीवन्मुक्तलक्षणमुच्यते ॥ २१६॥
जीवन्मुक्तो नाम स्वस्वरूपाखण्डब्रह्मज्ञानेन
तदज्ञानबाधनद्वारा स्वस्वरूपाखण्डब्रह्मणि
साक्षात्कृतेऽज्ञानतत्कार्यसञ्चितकर्मसंशयविपर्ययादीनामपि
बाधितत्वादखिलबन्धरहितो ब्रह्मनिष्ठः ॥ २१७॥
``भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥”
इत्यादिश्रुतेः (मुण्ड उ २.२.८) ॥ २१८॥
अयं तु व्युत्थानसमये मांसशोणितमूत्रपुरीषादिभाजनेन
शरीरेणान्ध्यमान्द्यापटुत्वादिभाजनेनेन्द्रियग्रामेणाशना-
पिपासाशोकमोहादिभाजनेनान्तःकरणेन च पूर्वपूर्ववासनया
क्रियमाणानि कर्माणि भुज्यमानानि ज्ञानाविरुद्धारब्धफलानि
च पश्यन्नपि बाधितत्वात्परमार्थतो न पश्यते । यथेन्द्रजालमिति
ज्ञानवांस्तदिन्द्रजालं पश्यन्नपि परमार्थमिदमिति न पश्यति ॥ २१९॥
``सचक्षुरचक्षुरिव सकर्णोऽकर्ण इव” इत्यादिश्रुतेः ॥ २२०॥
उक्तञ्च -
``सुषुप्तवज्जाग्रति यो न पश्यति
द्वयं च पश्यन्नपि चाद्वयत्वतः ॥
तथा च कुर्वन्नपि निष्क्रियश्च यः
स आत्मविन्नान्य इतीह निश्चयः ॥” इति (उपदेशसाहस्री ५) ॥ २२१॥
अथ ज्ञानात्पूर्वं विद्यमानानामेवाहारविहारादीनामनुवृत्तिव-
च्छुभवासनानामेवानुवृत्तिर्भवति शुभाशुभयोरौदासीन्यं वा ॥ २२२॥
तदुक्तम् । -
``बुद्धाद्वैतसतत्त्वस्य यथेष्टाचराणं यदि ।
शुनां तत्त्वदृशाञ्चैव को भेदोऽशुचिभक्षणे ॥ इति (नैष्कर्म्यसिद्धिः ४.६२)
``ब्रह्मवित्तं तथा मुक्त्वा स आत्मज्ञो न चेतरः ॥)” इति च (उपदेशसाहस्री ११५) ॥ २२३॥
तदानीममानित्वादीनि ज्ञानसाधनान्यद्वेष्ट्टत्वादयः सद्गुणाश्चालङ्कारवदनुवर्तन्ते ॥ २२४॥
तदुक्तम् -
``उत्पन्नात्मावबोधस्य ह्यद्वेष्ट्टत्वादयो गुणाः ।
अयत्नतो भवन्त्यस्य न तु साधनरूपिणः ॥” इति (नैष्कर्म्यसिद्धिः ४.६९) ॥ २२५॥
किं बहुनायं देहयात्रामात्रार्थमिच्छानिच्छा-
परेच्छाप्रापितानि सुखदुःखलक्षणान्यारब्ध-
फलान्यनुभवन्नन्तःकरणाभासादीनामवभासकः
संस्तदवसाने प्रत्यगानन्दपरब्रह्मणि प्राणे लीने
सत्यज्ञानतत्कार्यसंस्काराणामपि विनाशात्परमकैवल्य-
मानन्दैकरसमखिलभेदप्रतिभासरहितमखण्डब्रह्मावतिष्ठते ॥ २२६॥
``न तस्य प्राणा उत्क्रामन्ति” (बृ उ ४.४.६)
``अत्रैव समवनीयन्ते” (बृ उ ३.२.११)
``विमुक्तश्च विमुच्यते” (कठ उ ५.१) इत्यादिश्रुतेः ॥ २२७॥
इति सदानन्द योगीन्द्र विरचितो वेदान्तसारनाम ग्रन्थः समाप्तः ।
Encoded and proofread by Sunder Hattangadi
Proofread by Pranipata Chaitanya