तन्त्रवटधानिका अथवा तन्त्रधानिका
॥ प्रथमं आह्निकम् ॥
प्रणम्य गुरुमीशानं सतन्त्रवटधानिका । (सत्तन्त्रवटधानिका)
सूक्ष्माभिनवगुप्तेन स्वशक्त्युद्दीप्तयेकृता ॥ १॥ (मयाभिनवगुप्तेन)
अज्ञानं बन्धने हेतुर्बन्धनं हि पुनर्भवः ।
पुनर्भवश्च देहादौ वेद्ये स्वात्मत्वनिश्चयात् ॥ २॥
अहं सुकृतकारीति स्वर्गदौ भोक्तृता मम ।
इत्यादिदेहतादात्म्यात् स्वर्गावीच्यादिषूद्भवः ॥ ३॥
अतोऽनात्मनि देहादौ गलिते स्वात्मनिश्चये ।
घटादिवदनात्मेति देहादि स्थितमप्युमम् ॥ ४॥
पश्यतः पूर्वसंस्कारक्षयाद्देहे क्षयं गते ।
अन्योचितस्वसंस्काराभावाद्देहः कथं भवेत् ॥ ५॥
देहाभावेऽपि वै तस्य प्राणधीशुन्यगोचरे ।
आत्मसंस्कारसद्भावे भवेत्तद्रूपता परम् ॥ ६॥
प्राणदावपि तु ध्वस्ते स्वात्मभावे परिस्फुटम् ।
सर्वावच्छेदहीनं तदात्मतत्त्वं प्रकाशते ॥ ७॥
अनवच्छिन्नरुपत्वादसंवेद्यं तदुच्यते ।
अवच्छेदाज्जडं वेद्यमन्याधीनप्रकाशकम् ॥ ८॥
स्वप्रकाशैकरूपत्वाद् भावात्मत्वेन भासनात् ।
तथात्वेऽपि स्वतन्त्रत्वाच्छक्तिमान् स शिवः स्मृतः ॥ ९॥
सर्वात्मभूतः सर्वाध्वसमुत्तीर्णः स्वतन्त्रकः ।
स्वशक्त्या भासितानन्तविश्वः स परमेश्वरः ॥ १०॥
स एष सत्यतो मुक्तः सर्वाच्छेदवर्जनात् ।
अन्ये न तत्त्वतो मक्ता अवच्छेदांशसम्भवात् ॥ ११॥
अतो यावत्र सर्वस्मिन् वेद्ये वेद्यतया गतिः ।
तावद्वेद्यांश एकस्मिन् भवेत्स्वात्मत्वनिश्चयः ॥ १२॥
यदा तु धरणीतत्त्वाच्छिवान्तं ततत्वपञ्जरम् ।
अवच्छिन्नं भवेद्वद्यमनन्योन्यात्मकं स्फुरत् ॥ १३॥
यदा तावति संवेद्यजाते वेदकमस्य यत् । (तदा)
यतस्त दवच्छेदहीनं भाति परं शिवम् ॥ १४॥ (यतस्तै)
तत्प्रकाशं प्रमातृत्वात्रेतरन्मेयभावतः ।
मेयत्वमस्यावच्छेदात्स ह्यवच्छेदके सति ॥ १५॥
तदेवं च धरातत्त्वाच्छिवान्तं मातृ नेतरत् ।
अमातृभावादेवान्यदप्रकाशात्मकं स्थितम् ॥ १६॥
अप्रकाशं च नास्त्येव सत्ता प्राकाश्यमेव टि ।
ततश्चायं प्रकाशत्वात् स्वयं सत्तास्य नोचिता ॥ १७॥
पराधीनैव सत्तास्य पराधीनप्रकाशनः ।
परिच्छेदप्रकाशस्तत् सोऽपि तत्तुल्य एव यत् ॥ १८॥
अतः प्रकाशाधीना चेत्सत्तास्मिन् सार्वकालिकी ।
नूनं प्रकाश एवास्ति योऽवच्छेदविवर्जितः ॥ १९॥
तत्र प्रकाशे भान्त्येते स्वावच्छेदनियन्त्रिताः ।
भावाः प्रकाशस्वातन्त्रयाद् विचित्राकार बृंहिताः ॥ २०॥
यथा च तेऽवभासन्ते तथा तदुचिताः पुनः ।
तेषां प्रकाशका भान्ति सुरान्तास्तिर्यगादयः ॥ २१॥
प्रकाशकत्वाच्चैतेषां शिवात्मत्वेऽपि सुस्फुटे ।
वेद्याश्चान्योन्यतश्चायमवच्छेदोऽस्ति यत्नतः ॥ २२॥
अप्रकाशत्वमप्यस्ति तत्प्रकाशप्रकाश्यताम् ।
गतास्ते पशवो भान्ति शिवस्यैव स्वशक्तितः ॥ २३॥
अवच्छेदांश एतेषां स्वप्रकाशश्च यः स्फुटः ।
स विचित्रस्वभावत्वाद्देहप्राणादितां गतः ॥ २४॥
देहादेरपि वैचित्र्याद्देवतिर्यङ्मनुष्यता ।
वैचित्र्यान्तरतोऽत्रापि चैत्रमैत्रादिरूपता ॥ २५॥
यथा च पशवो भान्ति तथा केचन तां निजाम् ।
अप्रकाशदशां घ्नन्ति देहप्राणतदात्मताम् ॥ २६॥
ते प्रबुद्धाश्च पतयो जीवन्मुक्ता महर्षयः । (पशवो)
तेषां तत्तारतम्येन गुरुशिष्यादिता स्थिता ॥ २७॥
तदेवं भेदभोक्तृत्वं सृष्टिः, तस्थिरता स्थितिः ।
अंशेन न्यक्क्रिया तस्य संहारोऽनुग्रहः पुनः ॥ २८॥
अप्रकाशदशाध्वंसस्तदुपायैकलग्नता ।
हृदयान्निन्दनं तस्य तत्सेवा तत्तिरोहितिः ॥ २९॥
एवंविधं पञ्चकृत्यं भासयन् परमेश्वरः ।
यदाभाति तदेवास्य चित्त्वमैश्वर्यमुच्यते ॥ ३०॥
तथाविधप्रकाशांशध्वंसः कस्याप्युपायतः ।
विनैव कस्यचिच्चित्रेरुपायैः संस्क्रियादिभिः ॥ ३१॥
तदेवं वेद्यरूपत्वाद् बोद्धृत्वं बन्धमुक्तता ।
इयतः सकलस्यात्मा प्रकाशोऽभ्यधिकस्ततः ॥ ३२॥
सर्वातिरिक्तः सर्वात्मा स्वतन्त्रः सर्वशक्तिकः ।
सर्वपूर्णोऽनवच्छिन्रप्रकाशो भैरवः पुनः ॥ ३३॥
यद्रूपत्वं परा मुक्तेः पुनरावृत्तिवर्जिता ।
अन्यास्तु धीप्राणशून्यधियो जन्मक्षयोचिताः ॥ ३४॥
शून्यं धीः प्राण इत्येतत् सृज्यते क्षीयतेऽपि च ।
स्थैर्यमस्य परं देहापेक्षया न तु तत्त्वतः ॥ ३५॥
अतः षट्त्रिंशदन्तःस्थे तत्त्वे स्वात्मत्वनिश्चयात् ।
वेद्यांशे मुक्तिरस्य स्यादावृत्तिः सोर्ध्वतः परम् ॥ ३६॥
यदा समस्तवेद्यांशसमुत्तीर्ण परं महः ।
भाति मुक्तस्तदेवासौ भैरवः परमः स्मृतः ॥ ३७॥
इति श्रीमदभिनवगुप्ताचार्य विशेषविरचितायां
तन्त्रवटधानिकायां प्रथमाह्निकम् ॥ १॥
॥ द्वितीयमाह्निकम् ॥
उपायैर्न शिवो भाति भान्ति ते तत्प्रसादतः ।
स एवाहं स्वप्रकाशो भासे विश्वस्वरूपकः ॥ १॥
इत्याकर्ण्य गुरोर्वाक्यं सकृत्केचन निश्चिताः ।
विना भूयोऽनुसन्धानं भान्ति संविन्मया स्थिताः ॥ २॥
यथादशर्शे घटादीनां स्थितिर्मिश्रेतरात्मिका ।
चिदात्मनि तथामीषां भावानां चित्ररूपिणी ॥ ३॥
आदशर्स्तु जडत्वान्न स्वतन्त्रो भासते यथा ।
अहम्प्रकाशरूपत्वात्स्वतन्त्रो भासते तथा ॥ ४॥
इत्येवं गुरुतः श्रुत्वा वाक्यं तद्भावनाक्रमात् ।
भूयोभूयोऽनुसन्धानात् कोऽपि याति तदात्मताम् ॥ ५॥
नाहं देहात्मको नाहं कर्माधीनो न मे मलः ।
नात्येन प्रेरितोऽस्मीति किं त्वेतद्विपरीतकम् ॥ ६॥
इत्थं विकल्पं संस्कृत्य स्पष्टविद्यात्मतां नयन् ।
कश्चिद्याति समावेशं धन्यः श्रीगुरुवाक्यतः ॥ ७॥
स्वप्रकाशं ममस्तात्मतत्वं मात्रादिकं त्रयम् ।
अन्तःकृत्य स्थितं ध्यायेद्धदयानन्दधामनि ॥ ८॥
तद्द्वादशमहाशक्तिरश्मिचक्रेश्वरं विभुम् ।
व्योमभिर्निःसरद्वाह्ये ध्यायेत् सृष्टिं स्थितो दधत् ॥ ९॥
पश्चाद्ग्रस्तसबाह्यान्तर्भावमज्ञानमात्मनि ।
विश्राम्येत्पुनरप्येव ध्यानाभ्यासात् प्रथात्मनः ॥ १०॥
प्राणो बोधमयः पूर्वं तत उल्लसति स्फटम् ।
मेयं पूरयते तेन स क्रमैक्यं प्रपद्यते ॥ ११॥
तदेव सञ्जिहीर्षेत संहृत्यापूर्णतां नयेत् ।
एतावदनुसन्धत्ते सप्त विश्रान्तयस्त्विमाः ॥ १२॥
उन्मिषत्तोन्मिषितता सङ्घजैरेकविंशतिः । (उन्मिषत्तोन्मिमिषता)
आनन्दः उद्भवः कम्पो निद्रा घूर्णिश्च पञ्चमी ॥ १३॥
तत्रोत्तरात्तरावेशभेदात् पञ्चोत्तरं च यत् ।
तत्रापि त्रितयं मुख्यं सृष्टिसंहारबीजकम् ॥ १४॥
योगिनीहृदयानन्दव्योमभसम्प्रदायतः ।
अव्यक्तेतरयुग्मात्मलिङ्गतादात्म्ययोगतः ॥ १५॥
श्रीमदाचार्यचक्रस्थो मन्त्रवीर्यं तदुत्तमम् ।
अष्टोत्तरशताविष्टं मन्त्राः प्राणपथे यतः ॥ १६॥
एवं धीप्राणसङ्घट्टद्वारेणान्तः समाविशन् ।
शाम्भवीं परमां धारामाणवेन प्रपद्यते ॥ १७॥
तदेवं त्रिविधं प्राप्य गुरोरावेशमुत्तमम् ।
गुरुमभ्यचयेद्धीमान् देहसर्वस्वदानतः ॥ १८॥
नैनं प्रकोपयेन्नास्य वाक्यं किचन्ङ् लङ्घयेत ।
अविचारितमस्याज्ञां कुर्याज्ज्ञानं स्थिरं तथा ॥ १९॥
इति श्रीमदभिनवगुप्ताचार्याविशेषविरचितायां
तन्त्रवटधानिकायां द्वितीयमाह्निकम् ॥ २॥
॥ तृतीयमाह्निकः ॥
एवमाभ्यन्तरी सत्ता शिवतादात्म्यदायिनी ।
यथा भवेत्तथा प्रोक्तं बाह्येदानीं निगद्यते ॥ १॥
बाह्यो भेदो द्विधा दष्टः क्रियातो रूपतस्तथा ।
एकस्मिन्नपि कालात्मा तत्राद्यो देशतः परम् ॥ २॥
क्रियास्वात्मपरिस्पन्दस्ततः प्राणोऽथ तत्कृतम् ।
कालवैचित्रयमित्येवं संवित्स्पन्दाधिकं नहि ॥ ३॥
यथा संविद् घटात्मासौ चिदात्मेति तरङ्गिता ।
शक्तिस्तथा विचित्रोऽयं सृष्टिसंहारविभ्रमः ॥ ४॥
स्वप्नसङ्कल्पमायांशक्रियावैचित्र्यचित्रितः ।
विचित्रः काल एकोऽयं संसारस्पन्द इदृशः ॥ ५॥
प्राकृतं पार्थिवं वैश्वं शाक्तं चाण्डचतुष्टयम् ।
विचित्रदेशभुवनतत्त्वात्मकमिदं स्फुरत् ॥ ६॥
ममैवान्तरतः सर्वदेशकालात्मिकां भिदाम् ।
अन्तःकृत्याहमेवैक इति ज्ञानाद्विमुक्तता ॥ ७॥
यावद्विचित्रं बाह्यं हि तन्न षट्त्रिंशतः परम् ।
मानसं वेत्ति विश्रान्त्या विना संविन्मयं यतः ॥ ८॥
कठिनं द्रवमत्युष्णं स्पर्शं च सावकाशतः ।
पञ्च भूतानि चित्राणि तन्मात्राणि तु तद्गुणाः ॥ ९॥
गन्धो रसो रूपमथ स्पर्शः शब्दो विशेषकः ।
एतेषां ग्राहकं चाक्षं पञ्चधा ज्ञानशक्तिजम् ॥ १०॥
क्रियाशक्त्युथमन्यच्च तत्कर्मेन्द्रियपञ्चकम् ।
सङ्कल्पनिश्चयौ मानस्तदन्तःकरणत्रयम् ॥ ११॥
इयतो वेद्यजातस्य यदभिन्नं वपुः पुरा ।
तत्प्रधानमियद्वेद्यं जडं तद्वेदकः पुमान् ॥ १२॥
सोऽप्रकाशप्रकाशात्मा षट्कञ्चुकपरिष्कृतः ।
किञ्चित्करोति जानाति तच्चेदं शक्तिमानिह ॥ १३॥
यतोऽस्मि सोऽधुनैवेते कला विद्या सरक्तयः ।
कालश्च सर्वतत्त्वानां पूर्णभूमिर्निशा स्पृहा ॥ १४॥
अप्रकाशांशगलने प्रकाशस्य स्फुटा स्थितिः ।
प्रकाशदर्पणे भावदर्शनं तदभेदतः ॥ १५॥
भावानां भासनं शुद्धः प्रकाश इति पञ्चधा ।
विद्यातत्त्वादाशिवान्तं तदभिन्नः परः शिवः ॥ १६॥
उपदेश्यतया सोऽपि स्यादवच्छेदभागतः ।
अष्टात्रिंशं परं धाम यत्रेदं विश्वकं स्फुरत् ॥ १७॥
प्रत्येकमपि भावस्य यो भेदो ज्ञातृभेदतः ।
यथा घटं वेद्मि तथा मया ज्ञातं शिवेन वा ॥ १८॥
इत्येवं स्वात्मनः सर्वमन्तः पश्यन् स्वसंविदा ।
गलिताशेषभेदांशो भैरवीभावमश्रुन्ते ॥ १९॥
इयद्यदुक्तं तत्कोऽपि स्वयमेवावबुद्धयते ।
कश्चिद् गुरूपदेशेन शास्त्राद्वाथ द्वयात् त्रयात् ॥ २०॥
गुरोस्त्वभ्यस्तविज्ञानो दीक्षया स विमुच्यते ।
दीक्षा च सामयी नाम मन्त्रतादात्म्यदायिनी ॥ २१॥
चर्याक्रमेण देहान्ते सम्यक्समयपालनात् ।
सा च सर्वाध्वंसपूर्णमान्त्रसंविदभेदिता ॥ २२॥
गुरुणानुग्रहधिया शिष्ये यदवलोकनम् ।
पौत्रिकी सा पुनश्चर्यामात्रेण प्रायणे यया ॥ २३॥
परं शिवत्वमभ्येति विनापि ज्ञानयोगतः ।
सा च क्रमात्क्रमं शिष्यचितेः शिवनियोजनम् ॥ २४॥
अतिक्रम्य तु षट्त्रिंशदन्तमध्वानमादरात् ।
सा स्वस्थे प्राप्तमृत्यौ वा मृते दूरस्थ एव वा ॥ २५॥
गुर्वन्तेवासितद्वन्धुमुखोत्थाच्छक्तिपाततः ।
स्थावरेष्वथ दीक्षा हि पशुष्वापि निरूपिता ॥ २६॥
ते तु न ज्ञानहीनत्वात्साधका गुरवोऽपि वा ।
समस्तज्ञानसम्भारपूर्णस्वात्मविकासतः ॥ २७॥
वाञ्छन् साधकतां नेयो निष्कामस्तु गुरूत्तमः ।
सर्वसम्पूर्णकृत्यस्य स्वात्मार्थेऽनभिलाषिणः ॥ २८॥
परिशेष्यात्परार्थेव ह्यनपाया क्रियेशवत् ।
नित्यं नैमित्तिकं चैव गुरुः समयिपुत्रके ॥ २९॥
द्वयेऽप्युपदिशेदाद्यः स्वयं नित्यमुपाचरेत् ।
नैमित्तिकं गुरुः कुर्यात्तच्च पर्वदिनार्चनम् ॥ ३०॥
यत्र सिद्धाश्चं खेचर्यः सकेतं चक्रिरे पुरा ।
पवित्रकविधिश्चान्यो यः समग्रं प्रपूरयेत् ॥ ३१॥
नैमित्तिकं मुख्यकल्पं सर्वथा समुपाचरेत् ।
शक्तितद्वदभेदेन स्वानन्दात्मकवस्तुनि ॥ ३२॥
तद्रसासारधातूत्था क्रिया मुख्यो विधिस्त्वयम् ।
मासि मास्यथ वषं वा जन्ममध्येऽथ वा पुनः ॥ ३३॥
मुख्येन विधिना वृत्तिस्तहिं चर्या न पूरिता ।
अपूर्णचर्यायोगेन चर्यापायैकमुक्तिकः ॥ ३४॥
मुक्तो विघ्नं व्रजेत्तस्मात्सर्वथा पूरयद्विधिम् ।
कश्चिदीशेच्छया सम्यगनाश्वस्तोऽपि चेतसा ॥ ३५॥
निन्दन्नेव भजश्वर्यां स तिरोहित उच्यते ।
निन्द्यमाने महामन्त्रविद्याचर्यादिकोपजम् ॥ ३६॥
पाप्मैषां पातयेद् घोरे यातनाधाम्नि सर्वथा ।
कस्यापि तु तिरोभूतवृत्तेरपि पुनर्निजम् ॥ ३७॥
हृदयं सम्यगाश्वासादविघ्नं शिवतां व्रजेत् ।
एवं धीप्राणसम्बधादान्तराद् बाह्यतोऽपि च ॥ ३८॥
चर्चया यः समावेशः स इहाणव उच्यते ।
तस्मिन् रूढः समभ्येति शाक्तमस्माच्च शाम्भवम् ॥ ३९॥
ततः परं पूर्वसत्तां पररूढस्तु न त्यजेत् ।
उल्काहस्तो यथा कश्चित् प्राप्यमादायतां व्रजेत् ॥ ४०॥ (त्यजेत्)
ज्ञानेनज्ञेयमालोक्य तथा ज्ञानेत्यजेदि । (ज्ञानं त्यजेदिति)
उक्तं श्रीकालपादादौ ज्ञाने नष्टे न तत्सदा ॥ ४१॥
ज्ञाप्तिसाधनमेवोक्तं न ज्ञेयं परमं पदम् ।
एषाभिनवगुप्तेन रचिता तन्त्रधानिका ॥ ४२॥
हृद्भूमौ यस्य रूढा स शिवकल्पमहीरूहः (शिवकल्पमहारूहः)
इति श्रीतन्त्रधानिकायांतृतीयमाह्निकम् ॥ ३॥
(इति श्रीमदभिनवगुप्ताचार्यविशेषविरचितायां
तन्त्रवटधानिकायां तृतीयं आह्निकम्)
(॥ समाप्ताचेयं तन्त्रवटधानिका ॥)
समाप्ताचेयं तन्त्रवटधानिका शिवायास्तुतरामोंतत्सत् ।
॥ इति शिवम् ॥
Note : Variations in referenced texts are given in parentheses.
A note for the verse 13 in second Ahnika. The text of the
second line of this verse indicating signs of Shaktipata is
partly missing in the referenced book. The complete text of
the line is found in the Tantraloka of Abhinavagupta and the
Malinivijayottara Tantra.
Encoded and proofread by Ruma Dewan