स्वयम्भूस्तोत्रम्
स्वयम्भुवे नमस्तुभ्यम् ।
अनुक्रमणिका
१. श्री ऋषभनाथ अथवा आदिनाथ जिन-स्तुतिः
२. श्री अजितनाथ जिन-स्तुतिः
३. श्री शम्भवनाथ जिन-स्तुतिः
४. श्री अभिनन्दननाथ जिन-स्तुतिः
५. श्री सुमतिनाथ जिन-स्तुतिः
६. श्री पद्मप्रभ जिन-स्तुतिः
७. श्री सुपार्श्वनाथ जिन-स्तुतिः
८. श्री चन्दप्रभ जिन-स्तुतिः
९. श्री सुविधिनाथ जिन-स्तुतिः
१०. श्री शीतलनाथ जिन-स्तुतिः
११. श्री श्रेयांसनाथ जिन-स्तुतिः
१२. श्री वासुपूज्य जिन-स्तुतिः
१३. श्री विमलनाथ जिन-स्तुतिः
१४. श्री अनन्तनाथ जिन-स्तुतिः
१५. श्री धर्मनाथ जिन-स्तुतिः
१६. श्री शान्तिनाथ जिन-स्तुतिः
१७. श्री कुन्थुनाथ जिन-स्तुतिः
१८. श्री अरनाथ जिन-स्तुतिः
१९. श्री मल्लिनाथ जिन-स्तुतिः
२०. श्री मुनिसुव्रत जिन-स्तुतिः
२१. श्री नमिनाथ जिन-स्तुतिः
२२. श्री नेमिनाथ जिन-स्तुतिः
२३. श्री पार्श्वनाथ जिन-स्तुतिः
२४. श्री महावीर जिन-स्तुतिः
अथ स्तोत्रम्
१. श्री ऋषभनाथ अथवा आदिनाथ जिन-स्तुतिः
स्वयम्भुवां भूत-हितेन भूतले
समञ्जस-ज्ञान-विभूति-चक्षुषा ।
विराजितं येन विधुन्वता तमः
क्षपाकरेणेव गुणौत्करैः करैः ॥ १॥
प्रजापतिर्यः प्रथमं जिजीविषूः
शशास कृष्यादिषु कर्मसु प्रजाः ।
प्रबुद्धतत्त्वः पुनरद्भुतोदयो
ममत्वतो निर्विविदे विदांवरः ॥ २॥
विहाय यः सागर-वारि-वाससं
वधूमिवेमां वसुधा-वधूं सतीम् ।
मुमुक्षुरिक्ष्वाकु कुलादिरात्मवान्
प्रभुः प्रवव्राज सहिष्णुरच्युतः ॥ ३॥
स्व-दोष-मूलं स्व-समाधि-तेजसा
निनाय यो निर्दय-भस्मसात्क्रियाम् ।
जगाद तत्त्वं जगतेऽर्थिनेऽञ्जसा
बभूव च ब्रह्म-पदामृतेश्वरः ॥ ४॥
स विश्व-चक्षुर्वष भोऽर्चितः सतां
समग्र-विद्याऽऽत्म-वपुर्निरञ्जनः ।
पुनातु चेतो मम नाभि-नन्दनो
जिनोऽजित-दुल्लक-वादि-शासनः ॥ ५॥
२. श्री अजितनाथ जिन-स्तुतिः
यस्य प्रभावात् त्रिदिव-च्युतस्य
क्रीडास्वपि क्षीबमुखाऽरविन्दः
अजेय-शक्तिर्भुवि बन्धु-वर्ग-
श्चकार नामाऽजित इत्यबन्ध्यम् ॥ ६॥
अद्याऽपि यस्याऽजितशासनस्य
सतां प्रणेतुः प्रतिमङ्गलार्थम् ।
प्रगृह्यते नाम परम-पवित्रं
स्वसिद्धि-कामेन जनेन लोके ॥ ७॥
यः प्रादुरासीत्प्रभु-शक्ति-भूम्ना
भव्याऽऽशयालीन-कलङ्क-शान्त्यै ।
महामुनिर्मुक्त-घनोपदेहो
यथाऽरविन्दाऽभ्युदयाय भास्वान् ॥ ८॥
येन प्रणीतं पृथु धर्म-तीर्थं
ज्येष्ठं जनाः प्राप्य जयन्ति दुःखम् ।
गाङ्गं हृदं चन्दन-पङ्क-शीतं
गज-प्रवेका इव धर्म-तप्ताः ॥ ९॥
स ब्रह्मनिष्ठः सम-मित्र-शत्रु-
विद्या-विनिर्वान्त-कषाय-दोषः ।
लब्धात्मलक्ष्मीरजितोऽजितात्मा
जिन श्रियं मे भगवान् विधत्ताम् ॥ १०॥
३. श्री शम्भवनाथ जिन-स्तुतिः
त्वं शम्भवः सम्भव-तर्ष-रोगैः
सन्तप्यमानस्य जनस्य लोके ।
आसीरिहाऽऽकस्मिक एव वैद्यो
वैद्यो यथाऽनाथरुजां प्रशान्त्यै ॥ ११॥
अनित्यमत्राणमहङ्क्रियाभिः
प्रसक्त-मिथ्याऽध्यवसाय-दोषम् ।
इदं जगज्जन्म-जराऽन्तकार्तं
निरञ्जनां शान्तिमजीगमस्त्वम् ॥ १२॥
शतहृदोन्मेष-चलं हि सौख्यं
तृष्णामयाऽप्यायन-मात्र-हेतुः ।
तृष्णाभिवृद्धिश्च तपत्यजस्त्रं
तापस्तदायासयतीत्यवादीः ॥ १३॥
बन्धश्च मोक्षश्च तयोश्च हेतू
बद्धश्च मुक्तश्च फलं च मुक्तेः ।
स्याद्वादिनो नाथ! तवैव युक्तं
नैकान्तदृष्टेस्त्वमतोऽसि शास्ता ॥ १४॥
शक्रोऽप्यशक्तस्तव पुण्यकीर्तेः
स्तुत्यां प्रवृत्तः किमु मादृशोऽज्ञः ।
तथाऽपि भक्त्या स्तुत-पाद-पद्मो
ममार्य ! देयाः शिवतातिमुच्चैः ॥ १५॥
४. श्री अभिनन्दननाथ जिन-स्तुतिः
गुणाऽभिनन्दादभिनन्दनो भवान्
दया-वधूं क्षान्ति-सखीमशिश्रियत् ।
समाधि-तन्त्रस्तदुपोपपत्तये
द्वयेन नैर्ग्रन्थ्य-गुणेन चाऽयुजत् ॥ १६॥
अचेतने तत्कृत-बन्धजेऽपि च
ममेदमित्याभिनिवेशिक ग्रहात् ।
प्रभङ्गुरे स्थावर-निश्चयेन च
क्षतं जगत्तत्त्वमजिग्रहद्भवान् ॥ १७॥
क्षुदादि-दुःख-प्रतिकारतः स्थिति-
र्न चेन्द्रियार्थ-प्रभवाऽल्प-सौख्यतः ।
ततो गुणो नास्ति च देह देहिनो-
रितीदमित्थं भगवान् व्यजिज्ञपत् ॥ १८॥
जनोऽतिलोप्यनुबन्धदोषतो
भयादकार्येष्विह न प्रवर्तते ।
इहाऽप्यमुत्राऽप्यनुबन्धदोषवित्
कथं सुखे संसजतीति चाऽब्रवीत् ॥ १९॥
स चानुबन्धोऽस्य जनस्य तापकृत्
तृषोऽभिवृद्धिः सुखतो न च स्थितिः ।
इति प्रभो ! लोक-हितं यतो मतं
ततो भवानेव गतिः सतां मतः ॥ २०॥
५. श्री सुमतिनाथ जिन-स्तुतिः
अन्वर्थसंज्ञः सुमतिर्मुनिस्त्वं
स्वयं मतं येन सुयुक्ति-नीतम् ।
यतश्च शेषेषु मतेषु नास्ति
सर्व-क्रिया-कारक-तत्त्व-सिद्धिः ॥ २१॥
अनेकमेकं च तदेव तत्त्वं
भेदाऽन्वयज्ञानमिदं हि सत्यम् ।
मृषोपचारोऽन्यतरस्य लोपे
तच्छेषलोपोऽपि ततोऽनुपाख्यम् ॥ २२॥
सतः कथञ्चित्तदसत्त्व-शक्तिः
खे नास्ति पुष्पं तरुषु प्रसिद्धम् ।
सर्व-स्वभाव-च्युतमप्रमाणं
स्व-वाग्विरुद्धं तव दृष्टितोऽन्यत् ॥ २३॥
न सर्वथा नित्यमुदेत्यपैति
न च क्रिया-कारकमन्त्र युक्तम् ।
नैवाऽसतो जन्म सतो न नाशो
दीपस्तमः पुद्गलभावतोऽस्ति ॥ २४॥
विधिर्निषेधश्च कथञ्चिदिष्टौ
विवक्षया मुख्य-गुण-व्यवस्था ।
इति प्रणीतिः सुमतेस्तवेयं
मति-प्रवेकः स्तुवतोऽस्ति नाथ ! ॥ २५॥
६. श्री पद्मप्रभ जिन-स्तुतिः
पद्मप्रभः पद्म-पलाश-लेश्यः
पद्मालयाऽऽ लिङ्गितचारुमूर्तिः ।
बभौ भवान् भव्य-पयोरुहाणां
पद्माकराणामिव पद्मबन्धुः ॥ २६॥
बभार पद्मां च सरस्वतीं च
भवान् पुरस्तात्प्रतिमुक्तिलक्ष्म्याः ।
सरस्वतीमेव समग्र-शोभां
सर्वज्ञ-लक्ष्मीज्वलितां विमुक्तः ॥ २७॥
शरीर-रश्मि-प्रसरः प्रभोस्ते
बालार्क-रश्मिच्छविराऽऽलिलेप ।
नराऽमराऽऽकीर्ण-सभां प्रभा वां
शैलस्य पद्माभमणेः स्वसानुम् ॥ २८॥
नभस्तलं पल्लवयन्निव त्वं
सहस्रपत्राऽम्बुज-गर्भचारैः ।
पदाऽम्बुजैः पातित-मार-दर्पो
भूमौ प्रजानां विजहर्थ भूत्यै ॥ २९॥
गुणाम्बुधेर्विप्रुषमप्यजस्य
नाऽऽखण्डलः स्तोतुमलं तवर्षेः ।
प्रागेव मादृक्किमुताऽतिभक्ति-
म बालमालापयतीदमित्थम् ॥ ३०॥
७. श्री सुपार्श्वनाथ जिन-स्तुतिः
स्वाथ्यं यदात्यन्तिकमेष पुंसां
स्वार्थो न भोगः परिभङ्गुरात्मा ।
तृषोऽनुषङ्गान्न च तापशान्ति-
रितीदमाख्यद्भगवान् सुपार्श्वः ॥ ३१॥
अजङ्गगमं जङ्गम-नेय-यन्त्रं
यथा तथा जीव-धृतं शरीरम् ।
बीभत्सु पूति क्षयि तापकं च
स्नेहो वृथाऽत्रेति हितं त्वमाख्यः ॥ ३२॥
अलङ्घ्यशक्तिर्भवितव्यतेयं
हेतु-द्वयाऽऽविष्कृत-कार्य-लिङ्गा ।
अनीश्वरो जन्तुरहङ्क्रियार्त्तः
संहत्य कार्येष्विति साध्ववादीः ॥ ३३॥
बिभेति मृत्योर्न ततोऽस्ति मोक्षो
नित्य शिवं वाञ्छति नाऽस्य लाभः ।
तथाऽपि बालो भय-काम-वश्यो
वृथा स्वयं तप्यत इत्यवादीः ॥ ३४॥
सर्वस्य तत्त्वस्य भवान् प्रमाता
मातेव बालस्य हितानुशास्ता ।
गुणाऽवलोकस्य जनस्य नेता
मयाऽपि भक्त्या परिणयतेऽद्य ॥ ३५॥
८. श्री चन्दप्रभ जिन-स्तुतिः
चन्द्रप्रभं चन्द्र-मरीचि-गौरं
चन्द्रं द्वितीयं जगतीव कान्तम् ।
वन्देऽभिवन्द्यं महतामृषीन्द्रं
जिनं जित-स्वान्त-कषाय-बन्धम् ॥ ३६॥
यस्याङ्ग-लक्ष्मी-परिवेश-भिन्नं
तमस्तमोरेरिव रश्मिभिन्नम् ।
ननाश बाह्यं बहु मानसं च
ध्यान-प्रदीपाऽतिशयेन भिन्नम ॥ ३७॥
स्व-पक्ष-सौस्थित्य-मदाऽवलिप्ता
वाक्सिंह-नादैर्विमदा बभूवुः ।
प्रवादिनो यस्य मदार्द्रगण्डा
गजा यथा केसरिणो निनादैः ॥ ३८॥
यः सर्व-लोके परमेष्ठितायाः
पदं बभूवाऽद्भुत-कर्मतेजाः ।
अनन्त-धामाऽक्षर-विश्वचक्षुः
समन्तदुःख-क्षय-शासनश्च ॥ ३९॥
स चन्द्रमा भव्य-कुमुद्वतीनां
विपन्न-दोषाऽभ्र-कलङ्क-लेपः ।
व्याकोश-वाङ्-न्याय-मयूख-मालः
पूयात्पवित्रो भगवान्मनो मे ॥ ४०॥
९. श्री सुविधिनाथ जिन-स्तुतिः
एकान्तदृष्टि-प्रतिषेधि तत्त्वं
प्रमाण-सिद्धं तदतत्स्वभावम् ।
त्वया प्रणीतं सुविधे ! स्वधाम्ना
नैतत्समालीढ-पदं त्वदन्यैः ॥ ४१॥
तदेव च स्यान्न तदेव च स्यात्
तथाप्रतीतेस्तव तत्कथञ्चित् ।
नाऽत्यन्तमन्यत्वमनन्यता च
विधेर्निषेधस्य च शून्य-दोषात् ॥ ४२॥
नित्यं तदेवेदमिति प्रतीते-
र्न नित्यमन्यत् प्रतिपत्ति-सिद्धेः ।
न तद्विरुद्धं बहिरन्तरङ्ग-
निमित्त-नैमित्तिक-योगतस्ते ॥ ४३॥
अनेकमेकं च पदस्य वाच्यं
वृक्षा इति प्रत्ययवत्प्रकृत्या ।
आकाङ्क्षिणः स्यादिति वै निपातो
गुणाऽनपेक्षं नियमेऽपवादः ॥ ४४॥
गुण-प्रधानार्थमिदं हि वाक्यं
जिनस्य ते तद् द्विषतामपथ्यम् ।
ततोऽभिवन्द्यं जगदीश्वराणां
ममाऽपि साधोस्तव पादपद्मम् ॥ ४५॥
१०. श्री शीतलनाथ जिन-स्तुतिः
न शीतलाश्चन्दनचन्द्ररश्मयो
न गाङ्गमम्भो न च हारयष्टयः ।
यथा मुनेस्तेऽनघवाक्य-रश्मयः
शमाम्बुगर्भाः शिशिरा विपश्चिताम् ॥ ४६॥
सुखाऽभिलाषाऽनल-दाह-मूर्च्छितं
मनो निजं ज्ञानमयाऽमृताम्बुभिः ।
व्यदिध्यपस्त्वं विष-दाह-मोहितं
यथा भिषग्मन्त्र-गुणैः स्व-विग्रहम् ॥ ४७॥
स्व-जीविते काम-सुखे च तृष्णया
दिवा श्रमार्त्ता निशि शेरते प्रजाः ।
त्वमार्य ! नक्तं-दिवमप्रमत्तवा-
नजागरेवाऽऽत्म-विशुद्ध-वर्त्मनि ॥ ४८॥
अपत्य-वित्तोत्तर-लोक-तृष्णया
तपस्विनः केचन कर्म कुर्वते ।
भवन्पुनर्जन्म-जरा-जिहासया
त्रयीं प्रवृत्तिं समधीरवारुणत् ॥ ४९॥
त्वमुत्तम-ज्यातिरजः क्व निर्वृतः
क्व ते परे बुद्धि-लवोद्धव-क्षताः ।
ततः स्वनिः श्रेयस-भावनापरै-
बुध-प्रवेकैर्जिन ! शीतलेड्यसे ॥ ५०॥
११. श्री श्रेयांसनाथ जिन-स्तुतिः
श्रेयान् जिनः श्रेयसि वर्त्मनीमाः
श्रेयः प्रजाः शासदजेयवाक्यः ।
भवांश्चकाशे भुवनत्रयेऽस्मि-
नेको यथा वीत-घनो विवस्वान् ॥ ५१॥
विधिर्विषक्त-प्रतिषेधरूपः
प्रमाणमत्राऽन्यतरत्प्रधानम् ।
गुणो परो मुख्य नियामहेतु-
र्नयः दृष्टान्तसमर्थनस्ते ॥ ५२॥
विवक्षितो मुख्य इतीष्यतेऽन्यो
गुणोऽविवक्षो न निरात्मकस्ते ।
तथाऽरिमित्राऽनुभयादिशक्ति
द्वयाऽवधेः कार्यकरं हि वस्तु ॥ ५३॥
दृष्टान्त-सिद्धावुभयोर्विवादे
साध्यं प्रसिद्ध्येन्न तु तादृगस्ति ।
यत्सर्वथैकान्त-नियामि दृष्टं
त्वदीय-दृष्टिर्विभवत्यशेषे ॥ ५४॥
एकान्त-दृष्टि-प्रतिषेध-सिद्धि-
न्यायेषुभिर्मोहरिपुं निरस्य ।
असि स्म कैवल्य-विभूति-संराट्
ततस्त्वमर्हन्नसि मे स्तवाऽर्हः ॥ ५५॥
१२. श्री वासुपूज्य जिन-स्तुतिः
शिवासुपूज्योऽभ्युदय-क्रियासु
त्वं वासुपूज्यस्त्रिदशेन्द्र-पूज्यः ।
मयाऽपि पूज्योऽल्प-धिया मुनीन्द्र !
दीपार्चिषा किं तपनो न पूज्यः ॥ ५६॥
न पूजयाऽर्थस्त्वयि वीतरागे
न निन्दया नाथ ! विवान्त-वैरे ।
तथाऽपि ते पुण्य-गुण-स्मृतिर्नः
पुनाति चित्तं दुरिताञ्जनेभ्यः ॥ ५७॥
पूज्यं जिनं त्वाऽर्चयतो जनस्य
सावद्य-लेशो बहु-पुण्य-राशौ ।
दोषाय नाऽलं कणिका विषस्य
न दूषिका शीत-शिवाऽम्बुराशौ ॥ ५८॥
यद्वस्तु बाह्यं गुण-दोष-सूते-
निमित्तमभ्यन्तर-मूलहेतोः ।
अध्यात्म-वृत्तस्य तदङ्गभूत-
मभ्यन्तरं केवलमप्यलं ते ॥ ५९॥
बाह्येतरोपाधि-समग्रतेयं
कार्येषु ते द्रव्यगतः स्वभावः ।
नैवाऽन्यथा मोक्ष-विधिश्च पुंसां
तेनाभिवन्द्यस्त्वमृषिर्बुधानाम् ॥ ६०॥
१३. श्री विमलनाथ जिन-स्तुतिः
य एव नित्य-क्षणिकादयो नया
मिथोऽनपेक्षाः स्व-पर-प्रणाशिनः ।
त एव तत्त्वं विमलस्य ते मुनेः
परस्परेक्षा स्व-परोपकारिणः ॥ ६१॥
यथैकशः कारकमर्थ-सिद्धये
समीक्ष्य शेषं स्व-सहाय-कारकम् ।
तथैव सामान्य-विशेष-मातृका
नयास्तवेष्टा गुण-मुख्य-कल्पतः ॥ ६२॥
परस्परेक्षाऽन्वय-भेद-लिङ्गतः
प्रसिद्ध-सामान्य-विशेषयोस्तव ।
समग्रताऽस्ति स्व-पराऽवभासकं
यथा प्रमाणं भुवि बुद्धि-लक्षणम् ॥ ६३॥
विशेष्य-वाच्यस्य विशेषणं वचो
यतो विशेष्यं विनियम्यते च यत् ।
तयोश्च सामान्यमतिप्रसज्यते
विवक्षितात्स्यादितितेऽन्यवर्जनम् ॥ ६४॥
नयास्तव स्यात्पद-सत्य-लाञ्छिता
रसोपविद्धा इव लोह-धातवः ।
भवन्त्यभिप्रेत-गुणा यतस्ततो
भवन्तमार्याः प्रणता हितैषिणः ॥ ६५॥
१४. श्री अनन्तनाथ जिन-स्तुतिः
अनन्त-दोषाऽऽशय-विग्रहो ग्रहो
विषङ्गवान्मोह-मयश्चिरं हृदि ।
यतो जितस्तत्त्वरुचौ प्रसीदता
त्वया ततोऽभूर्भगवाननन्तजित् ॥ ६६॥
कषाय-नाम्नां द्विषतां प्रमाथिना-
मशेषयन्नाम भवानशेषवित् ।
विशोषणं मन्मथ-दुर्मदाऽऽमयं
समाधि-भैषज्य-गुणैर्व्यलीनयत ॥ ६७॥
परिश्रमाऽम्बुर्भय-वीचि-मालिनी
त्वया स्वतृष्णा-सरिदाऽऽर्य ! शोषिता ।
असङ्ग-धर्मार्क-गभस्ति-तेजसा
परं ततो निर्वृति-धाम तावकम् ॥ ६८॥
सुहृत्त्वयि श्री-सुभगत्वमश्नुते
द्विषंस्त्वयि प्रत्ययवत् प्रलीयते ।
भवानुदासीनतमस्तयोरपि
प्रभो ! परं चित्रमिदं तवेहितम् ॥ ६९॥
त्वमीदृशस्तादृश इत्ययं मम
प्रलाप-लेशोऽल्प-मतेर्महामुने!
अशेष-माहात्म्यमनीरयन्नपि
शिवाय संस्पर्श इवाऽमृताम्बुधेः ॥ ७०॥
१५. श्री धर्मनाथ जिन-स्तुतिः
धर्म-तीर्थमनघं प्रवर्तयन्
धर्म इत्यनुमतः सतां भवान् ।
कर्म-कक्षमदहत्तपोऽग्निभिः
शर्म शाश्वतमवाप शङ्करः ॥ ७१॥
देव-मानव-निकाय-सत्तमै-
रेजिषे परिवृतो वृतो बुधैः ।
तारका-परिवृतोऽतिपुष्कलो
व्यमनीव शश-लाञ्छनोऽमलः ॥ ७२॥
प्रातिहार्य-विभवैः परिष्कृतो
देहतोऽपि विरतो भवानभूत् ।
मोक्षमार्गमशिषन्नरामरान्
नाऽपि शासन-फलैषणाऽऽतुरः ॥ ७३॥
काय-वाक्य-मनसां प्रवृत्तयो
नाऽभवस्तव मुनेश्चिकीर्षया ।
नाऽसमीक्ष्य भवतः प्रवृत्तयो
धीर! तावकमचिन्त्यमीहितम् ॥ ७४॥
मानुषीं प्रकृतिमभ्यतीतवान्
देवतास्वपि च देवता यतः ।
तेन नाथ ! परमाऽसि देवता
श्रेयसे जिनवृष! प्रसीद नः ॥ ७५॥
१६. श्री शान्तिनाथ जिन-स्तुतिः
विधाय रक्षां परतः प्रजानां
राजां चिरं योऽप्रतिम-प्रतापः ।
व्यधात्पुरस्तात्स्वत एव शान्ति-
मुनिर्दया-मूर्तिरिवाऽघशान्तिम् ॥ ७६॥
चक्रेण यः शत्रु-भयङ्करेण
जित्वा नृपः सर्व-नरेन्द्र-चक्रम् ।
समाधि-चक्रेण पुनर्जिगाय
महोदयो दुर्जय-मोह-चक्रम् ॥ ७७॥
राज-श्रिया राजसु राज-सिंहो
रराज यो राज-सुभोग-तन्त्रः ।
आर्हन्त्य-लक्ष्म्या पुनरात्म-तन्त्रो
देवा सुरोदार-सभे रराज ॥ ७८॥
यस्मिन्नभूद्राजनि राज-चक्रं
मुनौ दया-दीधिति-धर्म-चक्रम् ।
पूज्ये मुहुः प्राञ्जलि देव-चक्रं
ध्यानोन्मुखे ध्वंसि कृतान्त-चक्रम् ॥ ७९॥
स्वदोष-शान्त्या विहिताऽऽत्मशान्तिः
शान्तेर्विधाता शरणं गतानाम् ।
भूयाद्भव-क्लेश-भयोपशान्त्यै
शान्तिर्जिनो मे भगवान् शरण्यः ॥ ८०॥
१७. श्री कुन्थुनाथ जिन-स्तुतिः
कुन्थु-प्रभृत्यखिल-सत्त्व-दयैकतानः
कुन्थुर्जिनो ज्वर-जरा-मरणोपशान्त्यै ।
त्वं धर्म-चक्रमिह वर्तयसि स्म भूत्यै
भूत्वा पुरा क्षितिपतीश्वर-चक्रपाणिः ॥ ८१॥
तृष्णाऽर्चिषः परिदहन्ति न शान्तिरासा-
मिष्टेन्द्रियार्थ-विभवैः परिवृद्धिरेव ।
स्थित्यैव काय-परिताप-हरं निमित्त-
मित्यात्मवान् विषय-सौख्य-पराङ्मुखोऽभूत् ॥ ८२॥
बाह्यं तपः परम-दुश्चरमाचरस्त्व-
माध्यात्मिकस्य तपसःपरिबृंहणार्थम् ।
ध्यानं निरस्य कलुष-द्वयमुत्तरस्मिन्
ध्यान-द्वये ववृतिषेऽतिशयोपपन्ने ॥ ८३॥
हुत्वा स्व-कर्म-कटुक-प्रकृतीश्चतस्रो
रत्नत्रयाऽतिशय-तेजसि जात-वीर्यः ।
बभ्राजिषे सकल-वेद-विधेर्विनेता
व्यभ्रे यथा वियति दीप्त-रुचिर्विवस्वान् ॥ ८४॥
यस्मान्मुनीन्द्र ! तव लोक-पितामहाद्या
विद्या विभूति कणिकामपि नाप्नुवन्ति ।
तस्माद्भवन्तमजमप्रतिमेयमार्याः
स्तुत्यं स्तुवन्ति सुधियः स्व-हितैकतानाः ॥ ८५॥
१८. श्री अरनाथ जिन-स्तुतिः
गुण-स्तोकं सदुल्लङ्घ्य तद्बहुत्व-कथा स्तुतिः ।
आनन्त्यात्ते गुणा वक्तुमशक्यास्त्वयि सा कथम् ॥ ८६॥
तथाऽपि ते मुनीन्द्रस्य यतो नामाऽपि कीर्तितम् ।
पुनाति पुण्य-कीर्तेर्नस्ततो ब्रूयाम किञ्चन ॥ ८७॥
लक्ष्मी-विभव-सर्वस्वं मुमुक्षोश्चक्र-लाञ्छनम् ।
साम्राज्यं सार्वभौमं ते जरत्तृणमिवाऽभवत् ॥ ८८॥
तव रूपस्य सौन्दर्यं दृष्ट्वा तृप्तिमनापिवान् ।
द्वयक्षः शक्रः सहस्राक्षो बभूव बहु-विस्मयः ॥ ८९॥
मोहरूपो रिपुः पापः कषाय-भट-साधनः ।
दृष्टि-संविदुपेक्षाऽस्त्रैस्त्वया धीर ! पराजितः ॥ ९०॥
कन्दर्पस्योद्धर दर्प स्त्रैलोक्य-विजयार्जितः ।
हे पयामास तं धीरे त्वयि प्रतिहतोदयः ॥ ९१॥
आयत्यां च तदात्वे च दुःख-योनिर्दुरुत्तरा ।
तृष्णा नदी त्वयोत्तीर्णा विद्या-नावा विविक्तया ॥ ९२॥
अन्तकः क्रन्दको नृणां जन्म-ज्वर-सखः सदा ।
त्वामन्तकाऽन्तकं प्राप्य व्यावृत्तः काम-कारतः ॥ ९३॥
भूषा-वेषाऽऽयुध-त्यागि विद्या-दम-दया-परम् ।
रूपमेव तवाऽऽचष्टे धीर ! दोष-विनिग्रहम् ॥ ९४॥
समन्ततोऽङ्ग भासां ते परिवेषेण भूयसा ।
तमो बाह्यमपाकीर्णमध्यात्मं ध्यान तेजसा ॥ ९५॥
सर्वज्ञ-ज्योतिषोद्भूतस्तावको महिमोदयः ।
कं न कुर्यात्प्रणम्रं ते सत्त्वं नाथ! सचेतनम् ॥ ९६॥
तव वागमृतं श्रीमत्सर्व-भाषा-स्वभावकम् ।
प्रीणयत्यमृतं यद्वत्प्राणिनो व्यापि संसदि ॥ ९७॥
अनेकान्तात्मदृष्टिस्ते सती शून्यो विपर्ययः ।
ततः सर्वं मृषोक्तं स्यात्तदयुक्तं स्वघाततः ॥ ९८॥
ये पर-स्खलितोन्निद्राः स्व-दोषेभ-निमीलनाः ।
तपस्विनस्ते किं कुर्युरपात्रं त्वन्मत-श्रियः ॥ ९९॥
ते तं स्वघातिनं दोषं शमीकर्तुमनीश्वराः ।
त्वद्विषः स्वहनो बालास्तत्त्वाऽवक्तव्यतां श्रिताः ॥ १००॥
सदेक-नित्य-वक्तव्यास्तद्विपक्षाश्च ये नयाः ।
सर्वथेति प्रदुष्यन्ति पुष्यन्ति स्यादितीह ते ॥ १०१॥
सर्वथा नियम-त्यागी यथादृष्ट मपेक्षकः ।
स्याच्छब्दस्तावके न्याये नान्येषामात्मविद्विषाम् ॥ १०२॥
अनेकान्तोप्यनेकान्तः प्रमाण-नय-साधनः ।
अनेकान्तः प्रमाणात्ते तदेकान्तोऽर्पितान्नयात् ॥ १०३॥
इति निरुपम-युक्त-शासनः
प्रिय-हित-योग-गुणाऽनुशासनः ।
अर-जिन ! दम-तीर्थ-नायक-
स्त्वमिव सतां प्रतिबोधनाय कः ? ॥ १०४॥
मति-गुण-विभवानुरूपत-
स्त्वयि-वरदाऽऽगम-दृष्टिरूपतः ।
गुण-कृषमपि किञ्चनोदितं
मम भवताद् दुरितासनोदितम् ॥ १०५॥
१९. श्री मल्लिनाथ जिन-स्तुतिः
यस्य महर्षेः सकल-पदार्थ-
प्रत्यवबोधः समजनि साक्षात् ।
साऽमर-मर्त्यं जगदपि सर्वं
प्राञ्जलि भूत्वा प्रणिपतति स्म ॥ १०६॥
यस्य च मूर्तिः कनकमयीव
स्व-स्फुरदाभा-कृत-परिवेषा ।
वागपि तत्त्वं कथयितुकामा
स्यात्पद-पूर्वा रमयति साधून् ॥ १०७॥
यस्य पुरस्ताद्विगलित-माना
न प्रतितीर्थ्या भुवि विवदन्ते ।
भूरपि रम्या प्रतिपदमासी-
ञ्जात-विकोशाम्बुज-मृदु-हासा ॥ १०८॥
यस्य समन्ताज्जिन-शिशिरांशोः
शिष्यक-साधु-ग्रह-विभवोऽभूत् ।
तीर्थमपि स्वं जनन-समुद्र-
त्रासित-सत्त्वोत्तरण-पथोऽग्रम् ॥ १०९॥
यस्य च शुक्लं परमतपोऽग्नि-
र्ध्यानमनन्तं दुरितमधाक्षीत् ।
तं जिन-सिंहं कृतकरणीय
मल्लिमशल्यं शरणमितोऽस्मि ॥ ११०॥
२०. श्री मुनिसुव्रत जिन-स्तुतिः
अधिगत-मुनि-सुव्रत-स्थिति-
मुनि-वृषभो मुनिसुव्रतोऽनघः ।
मुनि-परिषदि निर्बभौ भवा-
नुडु-परिषत्परिवीत-सोमवत् ॥ १११॥
परिणत-शिखि-कण्ठ-रागया
कृत-मद-निग्रह-विग्रहाभया ।
तव जिन ! तपसः प्रसूतया
ग्रह परिवेष-रुचेव शोभितम् ॥ ११२॥
शशि-रुचि-शुचि-शुक्ल-लोहितं
सुरभितरं विरजो निजं वपुः ।
तव शिवमतिविस्मयं यते !
यदपि च वाङ्मनसीयमीहितम् ॥ ११३॥
स्थिति-जनन-निरोध-लक्षणं
चरमचरं च जगत् प्रतिक्षणम् ।
इति जिन ! सकलज्ञ-लाञ्छनं
वचनमिदं वदतांवरस्य ते ॥ ११४॥
दुरित-मल-कलङ्कमष्टकं
निरुपम-योग-बलेन निर्दहन् ।
अभवदभव-सौख्यवान् भवान्
भवतु ममापि भवोपशान्तये ॥ ११५॥
२१. श्री नमिनाथ जिन-स्तुतिः
स्तुतिः स्तोतुः साधोः कुशल-परिणामाय स तदा
भवेन्मा वा स्तुत्यः फलमपि ततस्तस्य च ।
किमेवं स्वाधीन्याज्जगति सुलभे श्रायस-पथे
स्तुयान्न त्वां विद्वान्सततमभिपूज्यं नाम्मि-जिनम् ॥ ११६॥
त्वया धीमन् ! ब्रह्म-प्रणिधि-मनसा जन्म-निगलं
समूलं निर्भिन्नं त्वमसि विदुषां मोक्ष-पदवी ।
त्वयि ज्ञान-ज्योतिर्विभव-किरणैर्भाति भगव-
न्नभूवन् खद्योता इव शुचिरवावन्यमतयः ॥ ११७॥
विधेयं वार्य चाऽनुभयमुभयं मिश्रमपि तद्-
विशेषैः प्रत्येकं नियम-विषयैश्चापरिमितैः ।
सदाऽन्योन्यापेक्षैः सकल-भुवन-ज्येष्ठ-गुरुणा
त्वया गीत तत्त्वं बहु-नय-विवक्षेतर-वशात् ॥ ११८॥
अहिंसा भूतानां जगति विदितं ब्रह्म परमं
न सा तत्राऽऽरम्भोऽस्त्यणुरपि च यत्राऽऽ श्रमविधौ ।
ततस्तत्सिद्ध्यर्थं परम-करुणो ग्रन्थमुभयं
भवानेवाऽत्याक्षीन्न च विकृत-वेषोपधि-रतः ॥ ११९॥
वपुर्भूषा-वेष-व्यवधि-रहितं शान्त-करणं
यतस्ते सञ्चष्टे स्मर-शर-विषाऽऽतङ्क-विजयम् ।
विना भीमैः शस्त्रैरदय-हृदयाऽमर्ष-विलयं
ततस्त्वं निर्मोहः शरणमसि नः शान्ति-निलयः ॥ १२०॥
२२. श्री नेमिनाथ जिन-स्तुतिः
भगवानृषिः परम-योग-
दहन-हुत-कल्मषेन्धनः ।
ज्ञान-विपुल-किरणैः सकलं
प्रतिबुद्ध-कमलायतेक्षणाः ॥ १२१॥
हरिवंश-केतुरनवद्य-
विनय-दम-तीर्थ-नायकः ।
शील-जलधिरभवो विभव-
स्त्वमरिष्टनेमि-जिनकुञ्जरोऽजरः ॥ १२२॥
त्रिदशेन्द्र--मौलि-मणि-रत्न-
किरण-विसरोपचुम्बितम् ।
पाद-युगलममलं भवतो
विकसत्कुशेशय-दलाऽरुणोदरम् ॥ १२३॥
नख-चन्द्र-रश्मि-कवचाऽति-
रुचिर-शिखराऽङ्गुलि-स्थलम् ।
स्वार्थ-नियत-मनसः सुधियः
प्रणमन्ति मन्त्र-मुखरा महर्षयः ॥ १२४॥
द्युतिमद्रथाङ्ग-रवि-बिम्ब-
किरण-जटिलांशुमण्डलः ।
नील-जलद-जल-राशि-वपुः
सह बन्धुभिर्गरुडकेतुरीश्वरः ॥ १२५॥
हलभृच्च ते स्वजनभक्ति-
मुदित-हृदयौ जनेश्वरौ ।
धर्म-विनय-रसिकौ सुतरां
चरणाऽरविन्द-युगलं प्रणेमतुः ॥ १२६॥
ककुदं भुवः खचरयोषि-
दुषित-शिखरैरलङ्कृतः ।
मेघ-पटल-परिवीत-तट-
स्तव लक्षणानि लिखितानि वज्रिणा ॥ १२७॥
वहतीति तीर्थमृषिभिश्च
सततमभिगम्यतेऽद्य च ।
प्रीति-वितत-हृदयैः परितो
भृशमूर्जयन्त इति विश्रुतोऽचलः ॥ १२८॥
बहिरन्तरप्युभयथा च
करणमविघाति नाऽर्थकृत् ।
नाथ ! युगपदखिलं च सदा
त्वमिदं तलाऽऽमलकवद्विवेदिथ ॥ १२९॥
अत एव ते बुध-नुतस्य चरित-गुणमद्भुतोदयम् ।
न्याय-विहितमवधार्य जिने
त्वयि सुप्रसन्न-मनसः स्थिता वयम् ॥ १३०॥
२३. श्री पार्श्वनाथ जिन-स्तुतिः
तमाल-नीलैः सधनुस्तडिद्गुणैः ।
प्रकीर्ण-भीमाऽशनि-वायु-वृष्टिभिः ।
बलाहकैर्वैरि-वशैरुपतो
महामना यो न चचाल योगतः ॥ १३१॥
बृहत्फणा-मण्डल-मण्डपेन
यं स्फुरत्तडित्पिङ्ग-रुचोपसर्गिणम् ।
जुगूह नागो धरणो धराधरं
विराग-सन्ध्या-तडिदम्बुदो यथा ॥ १३२॥
स्व-योग-निस्त्रिंश-निशात-धारया
निशात्य यो दुर्जय-मोह-विद्विषम् ।
अवापदाऽऽर्हन्त्यमचित्यमद्भुतं
त्रिलोकपूजातिशयाऽऽस्पदं पदम् ॥ १३३॥
यमीश्वरं वीक्ष्य विधूत-कल्मषं
तपोधनास्तेऽपि तथा बुभूषवः ।
वनौकसः स्व-श्रम-बन्ध्य-बुद्धयः
शमोपदेशं शरणं प्रपेदिरे ॥ १३४॥
स सत्य-विद्या-तपसां प्रणायकः
समग्रधीरुग्रकुलाऽम्बरांशुमान् ।
मया सदा पार्श्वजिनः प्रणम्यते
विलीन-मिथ्यापथ-दृष्टि-विभ्रमः ॥ १३५॥
२४. श्री महावीर जिन-स्तुतिः
कीर्त्या भुवि भासि तया
वीर! त्वं गुण-समुत्थया भासितया ।
भासोडुस भाऽसितया
सोम इव व्योम्नि कुन्द-शोभासितया ॥ १३६॥
तव जिन ! शासन-विभवो
जयति कलावपि गुणानुशासन-विभवः ।
दोषकशासनविभवः
स्तुवन्ति प्रभा-कृशासनविभवः ॥ १३७॥
अनवद्यः स्याद्वादस्तव
दृष्टेष्टाविरोधतः स्याद्वादः ।
इतरो न स्याद्वादो सद्वितय-
विरोधान्मुनीश्वराऽस्याद्वादः ॥ १३८॥
त्वमसि सुरासुर-महितो
ग्रन्थिकसत्त्वाऽऽशयप्रणामाऽमहितः ।
लोक-त्रय-परमहितो-
ऽनावरणज्योतिरुज्ज्वलद्धाम-हितः ॥ १३९॥
सभ्यानामभिरुचितं
दधासि गुण-भूषणं श्रिया चारु-चितम् ।
मग्नं स्वस्यां रुचितं
जयसि च मृग-लाञ्छनं स्व-कान्त्या रुचितम् ॥ १४०॥
त्वं जिन ! गत-मद-माय-
स्तव भावानां मुमुक्षु कामद! मायः ।
श्रेयान् श्रीमदमाय-
स्त्वया समादेशि सप्रयामदमायः ॥ १४१॥
गिरिभित्त्यवदानवतः
श्रीमत इव दन्तिनः स्त्रवद्दानवतः ।
तव शम-वादानवतो
गतमूर्जितमपगत-प्रमादानवतः ॥ १४२॥
बहुगुण-सम्पदसकलं
परमतपि मधुर वचन-विन्यास-कलम् ।
नय-भक्तयवतंस-कलं
तव देव ! मतं समन्तभद्रं सकलम् ॥ १४३॥
इति श्रीआचार्य समन्तभद्र स्वामी विरचितं स्वयम्भूस्तोत्रं सम्पूर्णम् ।