स्वात्मबोधामृतम्
अहं भासकं बोधरूपं स्वनिष्ठं
स्वतो भास यद्गाति चिद्रूपमेकम् ।
निजानन्दमक्षुब्धरूपं प्रशान्तं
न भिन्नं न तस्मात्परं नावरञ्च ॥ १॥
न दृश्यं तथोदृश्यमस्माद्विभिन्नं
यदा भात्यहं मानरूपेण नित्यम् ।
स्वदिप्त्या स्वयं शान्तमद्वैतमात्रं
विभिन्नं कथं तत्प्रपश्ये स्वयं यत् ॥ २॥
यदा नेति नेतीति सर्वं निरस्तं
किमाभाति तस्याद्विभिन्न च तस्मिन् ।
अहं सम्म्फुरेत्तस्यं तस्मिंस्तदात्म्यं
चिदानन्दरूपस्ततोऽहं ततोऽहम् ॥ ३॥
यदा भान्ति दृश्यं स्वतो नैव यस्मात्
स्वतःसिध्द मद्वैतदृङ्मात्रमेकम् ।
अहं वेदनं तस्य कस्माद्विभाति
ततोऽहं परं ब्रह्म सच्चितसुखं यत् ॥ ४॥
निरस्ताखिलं ज्ञेयमस्मापितःस्यात
यदा किं तदा ज्ञानमात्राद्विभिन्नम् ।
अहं संस्फुरेत्कस्य तस्मिमन्स्तदानीं
परब्रह्म चिन्मात्ररूपं ततोऽहम् ॥ ५॥
अवश्यं यदा दृश्यमेवं च वेत्तुं
अहं यत्तदाद्यन्त सिध्दं न दृश्यम् ।
यदाद्यन्त सिध्दं हि मध्येऽपि तावत्
त्रिकालाद्वयं दृश्यभिन्नं ततोऽहम् ॥ ६॥
अहं यस्फुटं तन्नशून्यं कथं चित्
त्रिकालस्थितेः क्वाप्यभावो न तस्य ।
त्रिकालस्थितं किं भजेद्गिन्नरूपं
अहं यत्सदैकस्वरूपं चिदेव ॥ ७॥
जडं यन्न तत्कारणं कस्यचित्स्यात्
ततः सर्वकार्यस्य हेतुश्चिदेव ।
यदाद्यन्तमध्येऽस्ति तस्मिन्स्वनिष्ठं
ह्ययं यस्फुरेत्तत्कथं स्याज्जडं यत् ॥ ८॥
यदा कारणं ज्ञानरूपं स्वसिध्दं
जडं नो भवेत्तत्तदा किं जडं स्यात् ।
जडं तत्स्वतो नैव यद्गाति यस्मात्
अहंयच्चिदेव स्वदिप्त्या जडं किम् ॥ ९॥
विकल्पाज्जडं कार्यमाभाति चेत्तत्
भवेन्नैव सत्यं न भातं स्वतश्च ।
स्वभातं हि यत्स्याद्विकल्पो न तज्जः
अहं तिद्गभानं विकल्पो न कार्यम् ॥ १०॥
यदा गाभ्यपायि स्वयं कार्यमत्र
स्वतःसिध्दिमत्कारणं नो तथास्यात् ।
यदुत्पत्तिनाशाद्विमुक्तञ्च तस्मिन्
यदुप्तत्तिनाशात्मकं तत्कथं स्यात् ॥ ११॥
त्रिपुट्यात्मकं भाति भानं च यास्मिन
सुखप्राप्तये कार्यमेतद्वदन्ति ।
सुखेनैव भिन्नं यतःस्यात्स्वसिध्दे
त्रिपुट्यात्मकं कार्यमस्ति निरर्थम् ॥ १२॥
यदेकं सुखं स्वप्रभं स्वात्ममात्रं
न भोक्ता न भोग्यं च तन्नैव भोगः ।
भ्रमाच्चेदिदं तन्नसत्यं यदा स्यात्
सत्यीस्यसत्यं भ्रमो वौद्वयं सत् ॥ १३॥
द्वयं यान्निरस्य स्वयं यद्विशिष्येत्
द्वयं नैव तस्मिंस्तदेवाद्वयं हि ।
तदेवाद्वयं यत्स्फुरेत्स्वेन भासा
ह्यहङ्कारतस्तन्न भिन्नात्मकं स्यात ॥ १४॥
कथं सत्यमिथ्यात्मकं कार्यमेकं
यदा सर्वकार्यं जडं तन्मृषैवम् ।
स्वतः सिध्दिमत्कारणे सर्वकार्यं
निरर्थं यतःकृत्स्न भेदो वृथा स्यात ॥ १५॥
न कायर्ं तथा स्थूलसूक्ष्मात्मकं यत्
परस्मिंश्च तत्कारणे क्वापि भिन्नम् ।
यतो नित्यमेकं परब्रह्मशान्तं
न भिन्नं ततःक्वाप्यभिन्नं न कार्यम् ॥ १६॥
भवेत्तत्कृतं कारणान्तं च विश्वं
अहं यत्तयोर्भाति मध्ये च कस्मात् ।
अहं चिद्यदा संस्फुरेत्तन्न कार्यात्
ततश्चित्स्वतोऽहं बहुत्वं न भिन्नम् ॥ १७॥
यदा भाति किञ्चिध्द्यहं भानतम्तत्
अहं दृक्च दृश्यं न मन्ये कथं चित् ।
विरुध्दं न चैकास्पदं स्या तस्तत्
अहं यत्स्बतो भानतस्तद्वयं न ॥ १८॥
अनन्तं स्वतो भातमद्वैतमात्रं
कथं चिन्न तद्यद्वणोतीह यस्मात् ।
जगज्जीवविश्वेशभानं वृथा हि
यदा भाव्यते मायिङ्क कथ्यते तत् ॥ १९॥
न यस्योपलब्धिः प्रमाणप्रसिध्दा
न यद्गाति शक्यं न यस्मात्सुतृप्तिः ।
विभानं च तत्स्यान्मृषा मायिकंवा
न सत्यात्मके साधने तन्नियोज्यम् ॥ २०॥
सुखं यन्न तत्स्याज्जडं कार्यतोऽपि
जडं कार्यमस्मान्न तद्वा कदाचित ।
स्वतः पूर्णवत्कारणस्य स्वदृष्टया
कथं चिन्न भिन्नं किमाप्तव्यमन्यत् ॥ २१॥
चिदानन्दमात्रैकरूपे स्वसिध्दे
कथं तस्य तद्गिन्नरूपप्रसक्तिः ।
न माया न मायाकृतं भिन्नकार्यं
विवेकादविद्या च चाविद्यकं वा ॥ २२॥
विशिष्येतभिन्न सुखं चानवाप्तं
न तृप्तिं भजेत्साति लोके मनुष्यः ।
सुखं सर्वङ्गं स्वात्मसर्वातिभूतं
प्रपश्यन्भजेत्कोऽपि तृप्तिं च मुक्तिम् ॥ २३॥
न शोको न मोहो न दुःखं सुखस्य
ह्यहं तत्सुखं निश्चयान्नित्यतृप्तीः ।
न शोको न मोहो न दुःखन्न जन्म
विकारो न मृत्युर्भवेत्क्वापि तस्य ॥ २४॥
यदा भिन्नतस्तत्सुखं भोग्यरूपं
सुखाद्गिन्नतोयं भवेद्दुःखरूपम् ।
वितृष्णः सुखी पूर्णकामोन तृप्तः
भवेस्मिन्नसौ चक्रवद्गामितः स्यात् ॥ २५॥
स्वभिन्नं सुखं तज्जडं दृश्यरूपं
भवेद्देहलाभश्च भोगाय तस्य ।
स्वदुःखोपशान्त्यै भवेद्गोगतृष्णा
ततः कर्म तज्जं फलं जन्म तस्मात् ॥ २६॥
जडश्चाशुची रुग्णदेहःक्षयिष्णुः
न भोगेषु तृप्तिः सुदुष्टेन्द्रियाणि ।
धनेच्छासु रागादिकात्स्याद्विकर्म
ह्यहो पापकं जन्मदुःखप्रदं हि ॥ २७॥
सुखं देहजं प्राप्तये जन्मयोग्यं
यदागामि नश्यत्सुखं जन्मना तत् ।
स्वभासाक्षरं दिव्यसौख्यस्वरूपं
स्वयं तद्यतस्तत्कृते जन्म न स्यात् ॥ २८॥
सदा मृत्युभीतिर्ह्यहो जीवनाशा
ज्वलत्कामपीडा सुदुर्वृत्तचित्तम् ।
सदैवातिचिन्ता भवेज्जीविकायाः
अहो कष्टमेतद्गवेज्जन्मना यत् ॥ २९॥
इहद्वारभूतं त्रयं विश्रुतं च
प्रवेष्टुं बलान्मृत्युसंसारभीतेंः ।
धनेच्छा च जिव्हा च कान्ताच तद्यों
रुणाद्गिस्वयं भौर्न तस्यास्ति काचित् ॥ ३०॥
विहीनश्च कामादिकेभ्यः पुमान्यः
स युक्तः सुखीत्यब्रवीद्वासुदेव ।
त्यजेत्कामलोभौ च कोपस्तृतीयः
त्रिधाद्वारमेतत्स्फुटं दुर्गतेस्तत् ॥ ३१॥
प्रवृत्या निवृत्या यथा शुक्यमेतत्
त्यजेदेव यब्दाधिकं ब्रह्ममार्गे ।
सदा वासनात्याग एव प्रशस्तः
न सत्यस्थितावस्ति सौख्यं विभिन्नम् ॥ ३२॥
सदा वासनात्याग एव प्रशस्तः
न सत्यस्थितावस्ति सौख्यं विभिन्नम् ।
त्यजेद्ग्राम्यसौख्यं विवेकाच्च दोषात्
यदेकं परं तत्सुखं चिन्तितव्यम् ॥ ३३॥
विमुक्तं यदा भोग्यभावात्सुवृत्तं
चिदेवं स्वयं चित्तमेतत्तदानीम् ।
क्षणध्वंसि यत्तद्विवेकान्निवार्यं
यदा चित्तनेतच्चिदेव स्वयं स्यात् ।
स्वतःपूर्णचित्सौख्यर्सिधौ नभिन्नं
किमस्तीह कर्तव्यतास्य स्वबोधात् ॥ ३४॥
यदा भाविन्त तीव्रवेगेन किञ्चित्
सतन्निश्चयात्तद्गवेच्छिघ्रमेव ।
अहं ब्रह्मवृत्याहि भूमाहमेव
ह्यहं देहहवृत्या हि देहोहमेव ॥ ३५॥
श्रुतिस्तत्त्वमस्यादिवाक्यैश्च नित्यं
निराकृत्य जीवेश्वरौ नेति वक्ति ।
परं शुध्द मद्वैतसच्चित्सुखं यत्
त्वमेवासि तद्ब्रह्मबोधं ददाति ॥ ३६॥
स्वतोऽहं ततं सर्ववेदेषु यत्स्यात्
विशोध्यं तदौपाधिकाब्दन्धमोक्षात् ।
अहम्ब्रह्ममात्रं हि वेदा वदन्ति
ह्यविद्या न विद्या न जीवेश्वरौ तत् ॥ ३७॥
जडं यन्न तस्यास्ति भानं हि यस्मात्
स्वभानं ततो ब्रह्मणःस्यादहं यत् ।
न सर्वादिहेतुर्भवेद्ब्रह्मकार्यं
तोऽहं जडं तन्न चिद्रूपमेव ॥ ३८॥
अहंवृत्तितः सर्वमेवं विभाति
स्वभासा स्ववृत्तेरहं पूर्वमस्याः ।
अहंवृत्यभावे न विश्वं स्वनिष्ठं
क्वचिन्नाप्यभावेहमस्तस्य वृत्तिः ॥ ३९॥
जडा वृत्तिरस्याश्च यत्तज्जडं स्या-
तहं यत्स्वतो भासकं यश्चिदेव ।
अवस्थात्रयातीतमेकं विशुद्वं
स्वतःशाश्वतं ब्रह्म नश्येश्च कस्मात् ॥ ४०॥
तरङ्गेषु नीरं यथा व्यापकं स्यात्
तथा सर्वकार्येष्वहं नित्यमेकम् ।
तरङ्गस्य रूपादिबाधे जलं तत्
अहं विश्वरूपादिबाधे चिदेव ॥ ४१॥
यदा कार्यसिद्विर्हि कस्मादपि स्यात्
जडं तत्स्वयङ्कारणात्काशितं हि ।
स्वभासा स्वयं चित्स्वतः केवलं यत्
अहं भानतस्तस्य भावाद्विभाति ॥ ४२॥
चिदं च त्यतोऽहं स्वरूपेण सर्वं
भवेदात्मरूपं हि कार्यस्य तस्मात् ।
अहं यो विभासेऽस्ति सर्वस्य देहे-
यमात्मा परब्रह्म वेदस्य वाणी ॥ ४३॥
यदेकं च वेदादिभिः स्तूयमानं
चिदानन्दसद्रूपमेवाहमत्र ।
किमाभाति मायाकृतङ्कार्यमस्मिन्
न भोग्यं ततो नैव भेक्ता न भोगः ॥ ४४॥
अमारूपविश्वस्य भानं चिदेतत्
अभारूपभोग्यस्य भानं चिदेतत् ।
अमारूपदेहस्य भानं चिदेतत्
चिदेवस्यं भोग्य भोक्ता न भोगः ॥ ४५॥
यदाभाति यस्मान्न भिन्नं ततस्तत्
चिदेवस्वयं कार्यतो यद्विभाति ।
अहं नैव भिन्नं भवेत्तस्य तस्मात्
अहं भानतो भानमेतच्चिदेव ॥ ४६॥
चिदेवं च जीवश्चिदेवेश्वरो हि
चिदेव तथा देहतो विच्वतोऽपि ।
चिदेवस्वयं सर्वभावे विभाति
स्वतः पूर्णतस्तत्स्वयं स्वेन भासा ॥ ४७॥
यथा नैव भिन्नो घटो मृत्तिकायाः
तथैवात्र मन्तव्यमेतश्चिदेव ।
न मृत्साभवन्नामरूपं घटस्य
चिदेवं तथाहं न कार्यात्मकं स्यात् ॥ ४८॥
यथा रज्जुरेका विदोशस्य भिन्ना
फणी रज्जुतो भीरभीतेश्च हेतुः ।
तथा ज्ञस्य विज्ञस्य विश्वं द्विधा हि
भयं चाभयं भोग्यभूमास्वरूपम् ॥ ४९॥
निजाज्ञानतोज्ञस्य विश्वं सुदुःखं
जडो भोग्यबुध्या हि दुःखं प्रयाति ।
निजज्ञानतो ज्ञस्य भूमा स्वरूपं
सुविज्ञः सुखी भोगबुध्द्याविहीनः ॥ ५०॥
जगत्सत्यकार्यात्मदृष्टयेक्षतेज्ञः
असत्यं जगत्कार्यमेवेक्षते ज्ञः ।
कृतीज्ञः मुखं कारणाद्वीक्ष्य धन्यः
ह्यतृप्तः सुखं कार्यतोवीक्ष्य चाज्ञः ॥ ५१॥
वितृष्णो ह्यपूर्णः स्वदेहात्मवेदी
वितृष्णश्च पूर्णः स्वभूमात्मवेदी ।
न देशान्न कालात्तथा वस्तुतोऽपि
परिच्छेद एवं न तज्ज्ञानतोस्य ॥ ५२॥
अविद्यां न मायां न जीवेश्वरो वा
न भोग्यं न भोगं नरं नैव नारीम् ।
न बन्धं न मोक्षं जनुर्नैव मृत्युं
न विश्वं न पिण्डं समीक्षेत विद्वान ॥ ५३॥
स्वभानात्मकं वीक्ष्य संर्व यदेतत्
स्वचिद्रूपमेकं विमृग्य स्वनिष्ठः ।
अहं ब्रह्म जीवो न तस्यास्ति किञ्चित्
सदा निर्विकल्पः स्वमात्रोऽस्ति विद्वान् ॥ ५४॥
स्वरूपं सदा सर्वतः पूर्णमेकं
समीक्ष्य स्वभिन्नं न पश्येन्निजेऽस्मिन् ।
न माया न मायाकृतं कार्यमस्मिन्
स तत्सश्चिदानन्दमद्वैतमात्रः ॥ ५५॥
प्रकाशेत सर्वं च यत्पूर्णरूपं
चितोऽहं स्वसंवेदनं स्याद्यदातु ।
किमाभाति तस्माद्विभिन्नं च तस्मिन्
चिदेवाद्वयं स्वेन भासा चकास्ति ॥ ५६॥
पुमान्स्वात्मबोधामृतं प्राप्य तृप्तो
न मुह्येत्कदा माययाविद्यया वा ।
वितन्वन्स्वसौख्यं प्रकाशोत्र लोके
स्वमात्रः सदा गाजते विश्वपूज्यः ॥ ५७॥
॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य सद्गुरु भगवता
॥ श्री श्रीधरस्वामिना विरचितं स्वात्मबोधामृतं सम्पूर्णम् ॥