सनत्सुजातीयम्
उद्योगपर्व - अध्याय ०४१
॥ श्रीः ॥
५.४१ । अध्यायः ४१
धृतराष्ट्रेण पुनर्धर्मरहस्यकथनं चोदितेन विदुरेण स्वस्य
शूद्रयोनिजातत्वेन तत्कथनानौचित्यकथनम् ॥ १ ॥
तथा स्मरण मात्रसंनिहितं सनत्सुजातंप्रति धृतराष्ट्राय
तत्वोपदेशप्रार्थना ॥ २ ॥
धृतराष्ट्र उवाच ।
अनुक्तं यदि ते किञ्चिद्वाचा विदुर विद्यते ।
तन्मे शुश्रूषतो ब्रूहि विचित्राणि हि भाषसे ॥ ४१-१
विदुर उवाच ।
धृतराष्ट्र कुमारो वै यः पुराणः सनातनः ।
तनत्सुजातः प्रोवाच मृत्युर्नास्तीति भारत ॥ ४१-२
स ते गुह्यान्प्रकाशांश्च सर्वान्हृदयसंश्रयान् ।
प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः ॥ ४१-३
धृतराष्ट्र उवाच ।
किं त्वं न वेद तद्भूयो यन्मे ब्रूयात्सनातनः ।
त्वमेव विदुर ब्रूहि प्रज्ञाशेषोऽस्ति चेत्तव ॥ ४१-४
विदुर उवाच ।
शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे ।
कुमारस्य तु याबुद्धिर्वेद तां शाश्वतीमहम् ॥ ४१-५
ब्राह्मीं हि योनिमापन्नः सगुह्यमपि यो वदेत् ।
न तेन गर्ह्यो देवानां तस्मादेतद्ब्रवीमि ते ॥ ४१-६
धृतराष्ट्र उवाच ।
ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम् ।
कथमेतेन देहेन स्यादिहैव समागमः ॥ ४१-७
वैशम्पायन उवाच ।
चिन्तयामास विदुरस्तभृषिं शंसितव्रतम् ।
स च तच्चिन्तितं ज्ञात्वा दर्शयामास भारत ॥ ४१-८
स चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा ।
सुखोपविष्टं विश्रान्तमथैनं विदुरोऽब्रवीत् ॥ ४१-९
भगवन्संशयः कश्चिद्धृतराष्ट्रस्य मानसः ।
यो न शक्यो मया वक्तुं त्वमस्मै वक्तुमर्हसि ॥ ४१-१०
यं श्रत्वाऽयं मनुष्येन्द्रः सर्वदुःखातिगो भवेत् ॥ ४१-११
लाभालाभौ प्रियद्वेष्यौ यथैनं न जरान्तकौ ।
विषहेरन्भयामर्षौ श्रुत्पिपासे मदोद्भवौ ।
अरतिश्चैव तन्द्री च कामक्रोधौ क्षयोदयौ ॥ ४१-१२
इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि
एकचत्वारिंशोऽध्यायः ॥
उद्योगपर्व - अध्याय ०४२
॥ श्रीः ॥
५.४२ । अध्यायः ४२
सनत्सुजातेन धृतराष्ट्रंप्रति तत्त्वोपदेशः ॥ १ ॥
वैशम्पायन उवाच ।
ततो राजा धृतराष्ट्रो मनीषी
संपूज्य वाक्यं विदुरेरितं तत् ।
सनत्सुजातं रहिते महात्मा
पप्रच्छ बुद्धिं परमां बुभूषन् ॥ ४२-१
धृतराष्ट्र उवाच ।
सनत्सुजात यदिमं शृणोमि
न मृत्युरस्तीति तवोपदेशम् ।
देवासुरा ह्याचरन्ब्रह्मचर्य-
ममृत्यवे तत्कतरन्नु सत्यम् ॥ ४२-२
सनत्सुजात उवाच ।
अमृत्युं कर्मणा केचिन्मृत्युर्नास्तीति चापरे ।
शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः ॥ ४२-३
उभे सत्ये क्षत्रियाद्य प्रवृत्ते
मोहो मृत्युः संमतोऽयं कवीनाम् ।
प्रमादं वै मृत्युमहं ब्रवीमि
तथाऽप्रमादममृतत्वं ब्रवीमि ॥ ४२-४
प्रमादाद्वै असुराः पराभव-
न्नप्रमादाद्ब्रह्मभूताः सुराश्च ।
नैव मृत्युर्व्याघ्र इवात्ति जन्तू-
न्न ह्यस्य रूपमुपलभ्यते हि ॥ ४२-५
यमं त्वेके मृत्युमतोऽन्यमाहु-
रात्मावासममृतं ब्रह्मचर्यम् ।
पितृलोके राज्यमनुशास्ति देवः
शिवः शिवानामशिवोऽशिवानाम् ॥ ४२-६
अस्यादेशान्निःसरते नराणां
क्रोधः प्रमादो लोभरूपश्च मृत्युः ।
अहं गतेनैव चरन्विमार्गा-
न्न चात्मनो योगमुपैति कश्चित् ॥ ४२-७
ते मोहितास्तद्वशे वर्तमाना
इतः प्रेतास्तत्र पुनः पतन्ति ।
ततस्तान्देवा अनुविप्लवन्ते
अतो मृत्युर्मरणादभ्युपैति ॥ ४२-८
कर्मोदये कर्मफलानुरागा-
स्तत्रानु ते यान्ति न तरन्ति मृत्युम् ।
सदर्थयोगानवगमात्समन्ता-
त्प्रवर्तते भोगभोगेन देही ॥ ४२-९
तद्वै महामोहनमिन्द्रियाणां
मिथ्यार्थयोगस्य गतिर्हि नित्या ।
मिथ्यार्थयोगाभिहतान्तरात्मा
स्मरन्नुपास्ते विषयान्समन्तात् ॥ ४२-१०
अभिध्या वै प्रथमं हन्ति लोकान्
कामक्रोधावनुगृह्याशु पश्चात् ।
एते बालान्मृत्यवे प्रापयन्ति
धीरास्तु धैर्येण तरन्ति मृत्युम् ॥ ४२-११
सोऽभिध्यायन्नुत्पतिष्णन्निहन्या-
दनादरेणाप्रतिबुध्यमानः ।
नैनं मृत्युर्मृत्युरिवात्ति भूत्वा
एवं विद्वान्यो विनिहन्ति कामान् ॥ ४२-१२
कामानुसारी पुरुषः कामाननु विनश्यति ।
कामान्व्युदस्य धुनुते यत्किञ्चित्पुरुषो रजः ॥ ४२-१३
तमोप्रकाशो भूतानां नरकोऽयं प्रदृश्यते ।
मुह्यन्त इव धावन्ति गच्छन्तः श्वभ्रमुन्मुखाः ॥ ४२-१४
अमूढवृत्तेः पुरुषस्येह कुर्या-
त्किं वै मृत्युस्तार्ण इवास्य व्याघ्रः ।
अमन्यमानः क्षत्रिय किञ्चिदन्य-
न्नाधीयते तार्ण इवास्य सर्पः ॥ ४२-१५
क्रोधाल्लोभान्मोहभयान्तरात्मा
स वै मृत्युस्त्वच्छरिरे य एषः ।
एवं मृत्युं जायमानं विदित्वा
ज्ञाने तिष्ठन्न बिभेतीह मृत्योः ।
विनश्यते विषये तस्य मृत्यु-
र्मृत्योर्यथा विषयं प्राप्य मर्त्यः ॥ ४२-१६
धृतराष्ट्र उवाच ।
यानेवाहुरिज्यया साधुलोकान्
द्विजातीनां पुण्यतमान्सनातनात् ।
तेषां परार्थं कथयन्तीह वेदा
एतद्विद्वान्नैति कथं नु कर्म ॥ ४२-१७
सनत्सुजात उवाच ।
एवं ह्यविद्वानुपयाति तत्र
तत्रार्थजातं च वदन्ति वेदाः ।
सवेह आयाति परं परात्मा
प्रयाति मार्गेण निहत्य मार्गान् ॥ ४२-१८
धृतराष्ट्र उवाच ।
कोऽसौ नियुङ्क्ते तमजं पुराणं
स चेदिदं सर्वमनुक्रमेण ।
किं वास्य कार्यमथवा सुखं च
तन्मे विद्वन्ब्रूहि सर्वं यथावत् ॥ ४२-१९
सनत्सुजात उवाच ।
दोषो महानत्र विभेदयोगे
ह्यनादियोगेन भवन्ति नित्याः ।
तथास्य नाधिक्यमपैति किञ्चि-
दनादियोगेन भवन्ति पुंसः ॥ ४२-२०
य एतद्वा भगवान्स नित्यो
विकारयोगेन करोति विश्वम् ।
तथाच तच्छक्तिरिति स्म मन्यते
तथार्थयोगेन भवन्ति वेदाः ॥ ४२-२१
धृतराष्ट्र उवाच ।
यस्माद्धर्मान्नाचरन्तीह केचि-
त्तथा धर्मान्केचिदिहाचरन्ति ।
धर्मः पापेन प्रतिहन्यते स्वि-
दुताहो धर्मः प्रतिहन्ति पापम् ॥ ४२-२२
सनत्सुजात उवाच ।
तस्मिन्स्थितौ वाप्युभयं हि नित्यं
ज्ञानेन विद्वान्प्रतिहन्ति सिद्धम् ।
तथान्यथा पुण्यमुपैति देही
तथागतं पापमुपैति सिद्धम् ॥ ४२-२३
गत्वोभयं कर्मणा युज्यते स्थिरं
शुभस्य पापस्य स चापि कर्मणा ।
धर्मेण पापं प्रणुदतीह विद्वान्
धर्मो बलीयानिति तत्र विद्धिः ॥ ४२-२४
धृतराष्ट्र उवाच ।
यानिहाहुः स्वस्य धर्मस्य लोका-
न्द्विजातीनां पुण्यकृतां सनातनान् ।
तेषां क्रमान्कथय ततोऽपि चान्या-
न्नैतद्विद्वन्वेत्तुमिच्छामि कर्म ॥ ४२-२५
सनत्सुजात उवाच ।
येषां व्रतेऽथ विस्पर्धा बले बलवतामिव ।
ते ब्राह्मणा इतः प्रेत्य स्वर्गे यान्ति प्रकाशताम् ॥ ४२-२६
येषां धर्मे च विस्पर्धा तेषां जज्ज्ञानसाधनम् ।
ते ब्राह्मणा इतो मुक्ताः स्वर्गं यान्ति त्रिविष्टपम् ॥ ४२-२७
तस्य सम्यक्समाचारमाहुर्वेदविदो जनाः ।
नैनं मन्येत भूयिष्ठं बाह्यमाभ्यन्तरं जनम् ॥ ४२-२८
यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोदकम् ।
अन्नं पानं ब्राह्मणस्य तञ्जीवोन्नानुसंज्वरेत् ॥ ४२-२९
यत्राकथयमानस्य प्रयच्छत्यशिवं भयम् ।
अतिरिक्तमिवाकुर्वन्स श्रेयान्नेतरो जनः ॥ ४२-३०
यो वा कथयमानस्य ह्यात्मानं नानुसंज्वरेत् ।
ब्रह्मस्वं नोपभुञ्जीत तदन्नं संमतं सताम् ।
कुशवल्कलचेलाद्यं ब्रह्मस्वं योगिनो विदुः ॥ ४२-३१
यथा खं वान्तमश्नाति श्वा वै नित्यमभूतये ।
एवं ते वान्तमश्नन्ति स्ववीर्यस्योपसेवनात् ॥ ४२-३२
नित्यमज्ञातचर्या मे इति मन्येत ब्राह्मणः ।
ज्ञातीनां तु वसन्मध्ये नैवं विन्देत किञ्चन ॥ ४२-३३
कोह्येवमन्तरात्मानं ब्राह्मणो हन्तुमर्हति ।
निर्लिङ्गमचलं शुद्धं सर्वद्वन्द्वविवर्जितम् ॥ ४२-३४
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥ ४२-३५
अश्रान्तः स्यादनादाता संमतो निरुपद्रवः ।
शिष्टो न शिष्टवत्स स्याद्ब्राह्मणो ब्रह्मवित्कविः ॥ ४२-३६
अनाढ्या मानुषे वित्ते आढ्या दैवे तथा क्रतौ ।
ते दुर्धर्षा दुष्प्रकम्प्यास्तान्विद्याद्ब्रह्मणस्तनुम् ॥ ४२-३७
सर्वान्खिष्टकृतो देवान्विद्याद्य इह कश्चन ।
न स मानो ब्राह्मणस्य तस्मिन्प्रयतते स्वयम् ॥ ४२-३८
यमप्रयतमानं तु मानयन्ति समाहिताः ।
न मान्यमानो मन्येत नावमानेऽतिसंज्वरेत् ॥ ४२-३९
लोकः स्वभाववृत्तिर्हि निमेषोन्मषवत्सदा ।
विद्वांसो मानयन्तीह इति मन्येत मानितः ॥ ४२-४०
अधर्मनिपुणा मुढा लोके मायाविशारदाः ।
न मान्यं मानयिष्यन्ति एवं मन्येत मानितः ॥ ४२-४१
न वै मानं च मौनं च सहितौ वसतः सदा ।
अयं हि लोको मानस्य असौ मौनस्य तद्विदुः ॥ ४२-४२
श्रीर्हि मानार्थसंवासा सा चापि परिपन्थिनी ।
ब्राह्मी सुदुर्लभा श्रीर्हि प्रज्ञाहीनेन क्षत्रिय ॥ ४२-४३
द्वाराणि तस्येह वदन्ति सन्तो
बहुप्रकाराणि दुराधराणि ।
सत्यार्जवे ह्रीर्दमशौचविद्या
षण्मानमोहप्रतिबन्धनानि ॥ ४२-४४
इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि
द्विचत्वारिंशोऽध्यायः ॥
उद्योगपर्व - अध्याय ०४३
॥ श्रीः ॥
५.४३ । अध्यायः ४३
सनत्सुजातेन धृतराष्ट्रंप्रति तत्त्वोपदेशः ॥ १ ॥
धृतराष्ट्र उवाच ।
कस्यैष मौनः कतरन्नु मौनं
प्रब्रूहि विद्वन्निह मौनभावम् ।
मौनेन विद्वानुत याति मौनं
कथं मुने मौनमिहाचरन्ति ॥ ४३-१
सनत्सुजात उवाच ।
यतो न वेदा मनसा सहैन-
मनुप्रविशन्ति ततोऽथ मौनम् ।
यत्रोत्थितो वेदशब्दस्तथायं
स तन्मयत्वेन विभाति राजन् ॥ ४३-२
धृतराष्ट्र उवाच ।
ऋचो यजूंषि यो वेद सामवेदं च वेद यः ।
पापानि कुर्वन्पापेन लिप्यते किं न लिप्यते ॥ ४३-३
सनत्सुजात उवाच ।
नैनं सामान्यृचो वापि न यजूंष्यविचक्षणम् ।
त्रायन्ते कर्मणः पापान्न ते मिथ्या ब्रवीम्यहम् ॥ ४३-४
न च्छन्दांसि वृजिनात्तारयन्ति
मायाविनं मायया सर्वमानम् ।
नीडं शकुन्ता इव जातपक्षा-
श्छन्दांस्येनं प्रजहत्यन्तकाले ॥ ४३-५
धृतराष्ट्र उवाच ।
न चेद्वेदा वेदविदं त्रातुं शक्ता विचक्षण ।
अथ कस्मात्प्रलापोऽयं ब्राह्मणानां सनातनः ॥ ४३-६
सनत्सुजात उवाच ।
तस्यैव नामादिविशेषरूपै-
रिदं जगद्भाति महानुभाव ।
निर्दिश्य सम्यक्प्रवदन्ति वेदा-
स्तद्विश्ववैरूप्यमुदाहरन्ति ॥ ४३-७
तदर्थयुक्तं तप एतदिज्या
ताभ्यामसौ पुण्यमुपैति विद्वान् ।
पुण्येन पापं विनिहत्य पश्चा-
त्संजायते ज्ञानविदीपितात्मा ॥ ४३-८
ज्ञानेन चात्मानमुपैति विद्वा-
नथान्यथा वर्गफलानुकाङ्क्षी ।
अस्मिन्कृतं तत्परिगृह्य सर्व-
ममुत्र भुङ्क्ते पुनरेति मार्गम् ॥ ४३-९
अस्मिँल्लोके तपस्तप्तं फलमन्यत्र भुज्यते ।
ब्राह्मणानामिमे लोका वृद्धे तपसि संयताः ॥ ४३-१०
` ब्राह्मणानां तपः स्वृद्धमन्येषां तावदेव तत् ।
एतत्समृद्धमत्यृद्धं तपो भवति केवलम् ॥' ४३-११
धृतराष्ट्र उवाच ।
कथं समृद्धमप्यृद्धं तपो भवति केवलम् ।
सनत्सुजात तद्ब्रूहि यथा विद्याम तद्वयम् ॥ ४३-१२
सनत्सुजात उवाच ।
निष्कल्मषं तपस्त्वेतत्केवलं परिचक्षते ।
एतत्समृद्धमप्यृद्धं तपो भवति केवलम् ॥ ४३-१३
तपोमूलमिदं सर्वं यन्मां पृच्छसि क्षत्रिय ।
तपसा वेदविद्वांसः परं त्वमृतमाप्नुयुः ॥ ४३-१४
धृतराष्ट्र उवाच ।
कल्मषं तपसो ब्रूहि श्रुतं निष्कल्मषं तपः ।
सनत्सुजात येनेदं विद्यां गुह्यं सनातनम् ॥ ४३-१५
सनत्सुजात उवाच ।
क्रोधादयो द्वादश यस्य दोषा-
स्तथा नृशंसानि दश त्रि राजन् ।
धर्मादयो द्वादशैते पितॄणां
शास्त्रे गुणा ये विदिता द्विजानाम् ॥ ४३-१६
क्रोधः कामो लोभमोहौ विधित्सा-
ऽकृपाऽसूये मानशोकौ स्पृहा च ।
ईर्ष्या जुगुप्सा च मनुष्यदोषा
वर्ज्याः सदा द्वादशैते नराणाम् ॥ ४३-१७
एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते ।
लिप्समानोन्तरं तेषां मृगाणामिव लुब्धकः ॥ ४३-१८
विकत्थनः स्पृहयालुर्मनस्वी
बिभ्रत्कोषं चपलो रोषणश्च ।
एतान्पापाः षण्णराः पापधर्मान्
प्रकुर्वते नो त्रसन्तः सुदुर्गे ॥ ४३-१९
संभोगसंविद्विषमोऽतिमानी
दत्तानुतापी कृपणो बलीयान् ।
वर्गप्रशंसी वनितासु द्वेष्टा
एते परे सप्त नृशंसवर्गाः ॥ ४३-२०
धर्मश्च सत्यं च दमस्तपश्च
आमात्सर्यं ह्रीस्तितिक्षानसूया ।
यज्ञश्च दानं च धृतिः श्रुतं च
व्रतानि वै द्वादश ब्राह्मणस्य ॥ ४३-२१
यस्त्वेतेभ्यः प्रभवेद्द्वादशभ्यः
सर्वामपीमां पृथिवीं स शिष्यात् ।
त्रिभिर्द्वाभ्यामेकतो वार्थितो य-
स्तस्य स्वमस्तीति स वेदितव्यः ॥ ४३-२२
दमस्त्यागोऽप्रमादश्च एतेष्वमृतमाहितम् ।
तानि सत्यमुखान्याहुर्ब्राह्मणा ये मनीषिणः ॥ ४३-२३
दमोऽष्टादशदोषः स्यात्प्रातिकूल्यं कृते भवेत् ।
अनृतं चाभ्यसूया च कामार्थौ च तथा स्पृहा ॥ ४३-२४
क्रोधः शोकस्तथा तृष्णा लोभः पैशून्यमेव च ।
मत्सरश्च विहिंसा च परितापस्तथाऽरतिः ॥ ४३-२५
अपस्मारश्चातिवादस्तथा संभावनात्मनि ।
एतैर्विमुक्तो दोषैर्यः स दान्तः सद्भिरुच्यते ॥ ४३-२६
मदोऽष्टादशदोषः स्यात्त्यागो भवति षड्विधः ।
विपर्ययाः स्मृता एते मददोषा उदाहृताः ।
दोषा दमस्य ये प्रोक्तास्तान्दोषान्परिवर्जयेत् ॥ ४३-२७
श्रेयांस्तु षड्विधस्त्यागस्तृतीयो दुष्करो भवेत् ।
तेन दुःखं तरत्येव भिन्नं तस्मिञ्जितं कृते ॥ ४३-२८
श्रेयांस्तु षड्विधस्त्यागः श्रियं प्राप्य न हृष्यति ।
इष्टापूर्ते द्वितीयं स्यान्नित्यवैराग्ययोगतः ॥ ४३-२९
कामत्यागश्च राजेन्द्र स तृतीय इति स्मृतः ।
अप्यवाच्यं वदन्त्येतं स तृतीयो गुणः स्मृतः ॥ ४३-३०
त्यक्तैर्द्रव्यैर्यद्भवति नोपयुक्तैश्च कामतः ।
न च द्रव्यैस्तद्भवति नोपयुक्तैश्च कामतः ॥ ४३-३१
न च कर्मस्वसिद्धेषु दुःखं ते न च न ग्लपेत् ।
सर्वैरेव गुणैर्युक्तो द्रव्यवानपि यो भवेत् ॥ ४३-३२
अप्रिये च समुत्पन्ने व्यथां जातु न गच्छति ।
इष्टान्पुत्रांश्च दारांश्च न याचेत कदाचन ॥ ४३-३३
अर्हते याचमानाय प्रदेयं तच्छुभं भवेत् ।
अप्रमादी भवेदेतैः स चाप्यष्टगुणो भवेत् ॥ ४३-३४
सत्यं ध्यानं समाधानं चोद्यं वैराग्यमेव च ।
अस्तेयं ब्रह्मचर्यं च तथाऽसंग्रहमेव च ॥ ४३-३५
एवं दोषा मदस्योक्तास्तान्दोषान्परिवर्जयेत् ।
तथा त्यागोऽप्रमादश्च स चाप्यष्टगुणो मतः ॥ ४३-३६
अष्टौ दोषाः प्रमादस्य तान्दोषान्परिवर्जयेत् ।
इन्द्रियेभ्यश्च पञ्चभ्यो मनसश्चैव भारत ।
अतीतानागतेभ्यश्च मुक्त्युपेतः सुखी भवेत् ॥ ४३-३७
सत्यात्मा भव राजेन्द्र सत्ये लोकाः प्रतिष्ठिताः ।
तांस्तु सत्यमुखानाहुः सत्ये ह्यमृतमाहितम् ॥ ४३-३८
निवृत्तेनैव दोषेण तपो व्रतमिहाचरेत् ।
एतद्धातृकृतं वृत्तं सत्यमेव सतां व्रतम् ॥ ४३-३९
दोषैरेतैर्वियुक्तस्तु गुणैरेतैः समन्वितः ।
एतत्समृद्धमत्यर्थं तपो भवति केवलम् ॥ ४३-४०
यन्मां पृच्छसि राजेन्द्र संक्षेपात्प्रब्रवीमि ते ।
एतत्पापहरं पुण्यं जन्ममृत्युजरापहम् ॥ ४३-४१
धृतराष्ट्र उवाच ।
आख्यानपञ्चमैर्वेदैर्भूयिष्ठं कथ्यते जनः ।
तथा चान्ये चतुर्वेदास्त्रिधेदाश्च तथा परे ॥ ४३-४२
द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथा परे ।
तेषां तु कतरः स स्याद्यमहं वेद वै द्विजम् ॥ ४३-४३
सनत्सुजात उवाच ।
एकस्य वेस्याज्ञानाद्वेदास्ते बहवः कृताः ।
सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः ॥ ४३-४४
एवं वेदमविज्ञाय प्राज्ञोऽहमिति मन्यते ।
दानमध्ययनं यज्ञो लोभादेतत्प्रवर्तते ॥ ४३-४५
सत्यात्प्रच्यवमानानां सङ्कल्पो वितथो भवेत् ।
ततो यज्ञः प्रतायेत सत्यस्यानवधारणात् ॥ ४३-४६
मनसान्यस्य भवति वाचान्यस्याथ कर्मणा ।
सङ्कल्पसिद्धः पुरुषः सङ्कल्पानधितिष्ठति ॥ ४३-४७
अनैभृत्येन चैतस्य दीक्षितव्रतमाचरेत् ।
नामैतद्धातुनिर्वृत्तं सत्यमेव सतां परम् ॥ ४३-४८
ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः ।
विद्याद्बहु पठन्तं तु द्विजं वै बहुपाठिनम् ॥ ४३-४९
तस्मात्क्षत्रिय मा मंस्था जल्पितेनैव वै द्विजम् ।
य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया ॥ ४३-५०
छन्दांसि नाम क्षत्रिय तान्यथर्वा
पुरा जगौ महर्षिसङ्घ एषः
छन्दोविदस्ते य उत नाधीतवेदा
न वेदवेद्यस्य विदुर्हि तत्त्वम् ॥ ४३-५१
छन्दांसि नाम द्विपदां वरिष्ठ
स्वच्छन्दयोगेन भवन्ति तत्र ।
छन्दोविदस्ते न च तानधीत्य
गता न वेदस्य न वेद्यमार्याः ॥ ४३-५२
न वेदानां वेदिता कश्चिदस्ति
कश्चित्त्वेतान्बुद्ध्यते वापि राजन् ।
यो वेद वेदान्न स वेद वेद्यं
सत्ये स्थितो यस्तु स वेद वेद्यम् ॥ ४३-५३
न वेदानां वेदिता कश्चिदस्ति
वेद्येन वेदं न विदुर्न वेद्यम् ।
यो वेद वेदं स च वेद वेद्यं
यो वेद वेद्यं न स वेद सत्यम् ॥ ४३-५४
यो वेद वेदान्स च वेद वेद्यं
न तं विदुर्वेदविदो न वेदाः ।
तथापि वेदेन विदन्ति वेदं
ये ब्राह्मणा वेदविदो भवन्ति ॥ ४३-५५
धामांशभागस्य तथा हि वेदा
यथा च शाखा हि महीरुहस्य ।
संवेदने चैव यथामनन्ति
तस्मिन्हि सत्ये परमात्मनोऽर्थे ॥ ४३-५६
अभिजानामि ब्राह्मणं व्याख्यातारं विचक्षणम् ।
यश्छिन्नविचिकित्सः स व्याचष्टे सर्वसंशयान् ॥ ४३-५७
नास्य पर्येषणं गच्छेत्प्रचीनं नोत दक्षिणम् ।
नार्वाचीनं कुतस्तिर्यङ्गादिशन्तु कथञ्चन ॥ ४३-५८
तस्य पर्येषणं गच्छेत्प्रत्यर्थिषु कथञ्चन ।
अविचिन्वन्निमं वेदे तपः पश्यति तं प्रभुम् ॥ ४३-५९
तूष्णींभूत उपासीत न चेष्टेन्मनसापि च ।
उपावर्तस्व तद्ब्रह्म अन्तरात्मनि विश्रुतम् ॥ ४३-६०
मौनान्न स मुनिर्भवति नारण्यवसनान्मुनिः ।
स्वलक्षणं तु यो वेद स मुनिः श्रेष्ठ उच्यते ॥ ४३-६१
सर्वार्थानां व्याकरणाद्वैयाकरण उच्यते ।
तन्मूलतो व्याकरणं व्याकरोतीति तत्तथा ॥ ४३-६२
प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन्नरः ।
सत्ये वै ब्राह्मणस्तिष्ठंस्तद्विद्वान्सर्वविद्भवेत् ॥ ४३-६३
धर्मादिषु स्थितोऽप्येवं क्षत्रिय ब्रह्म पश्यति ।
वेदानां चानुपूर्व्येण एतद्बुद्ध्या ब्रवीमि ते ॥ ४३-६४
॥इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि
त्रिचत्वारिंशोऽध्यायः ॥
उद्योगपर्व - अध्याय ०४४
॥ श्रीः ॥
५.४४ । अध्यायः ४४
सनत्सुजातेन धृतराष्ट्रंप्रति सत्त्वोपदेशः ॥ १ ॥
धृतराष्ट्र उवाच ।
सनत्सुजात यामिमां परां त्वं
ब्राह्मीं वाचं वदसे विश्वरूपाम् ।
परां हि कामेन सुदुर्लभां कथां
प्रब्रूहि मे वाक्यमिदं कुमार । ४४-१
सनत्सुजात उवाच ।
नैतद्ब्रह्म त्वरमाणेन लभ्यं
यन्मां पृच्छन्नतिहृष्यस्यतीव ।
बुद्धौ विलीने मनसि प्रचिन्त्य
विद्या हि सा ब्रह्मचर्येण लभ्या ॥ ४४-२
धृतराष्ट्र उवाच ।
अत्यन्तविद्यामिति यत्सनातनीं
ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम् ।
अनारभ्यां वसतीह कार्यकाले
कथं ब्राह्मण्यममृतत्वं लभेत ॥ ४४-३
सनत्सुजात उवाच ।
अव्यक्तविद्यामभिधास्ये पराणीं
बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम् ।
यां प्राप्यैनं मर्त्यलोकं त्यजन्ति
या वै विद्या गुरुवृद्धेषु नित्या ॥ ४४-४
धृतराष्ट्र उवाच ।
ब्रह्मचर्येण या विद्या शक्या वेदितुमञ्चसा ।
तत्कथं ब्रह्मचर्यं स्यादेतद्ब्रह्मन्ब्रवीहि मे ॥ ४४-५
सनत्सुजात उवाच ।
आचार्ययोनिमिह ये प्रविश्य
भूत्वा गर्भे ब्रह्मचर्यं चरन्ति ।
इहैव ते शास्त्रकारा भवन्ति
प्रहाय देहं परमं यान्ति योगम् ॥ ४४-६
अस्मिँल्लोके वै जयन्तीह कामा-
न्ब्राह्मीं स्थितिं ह्यनुतितिक्षमाणाः ।
त आत्मानं निर्हरन्तीह देहा-
न्मुञ्जादिषीकामिव सत्वसंस्थाः ॥ ४४-७
शरीरमेतौ कुरुतः पिता माता च भारत ।
आचार्यशास्ता या जातिः सा पुण्या साऽऽजराऽमम ४४-८
यः प्रावृणोत्यवितथेन वर्णा-
नृतं कुर्वन्नमृतं संप्रयच्छम् ।
तं मन्येत पितरं मातरं च
तस्मै न द्रुह्येत्कतमस्य जानन् ॥ ४४-९
गुरुं शिष्यो नित्यमभिवादयीत
स्वाध्यायमिच्छेच्छुचिरप्रमत्तः ।
मानं न कुर्यान्नादधीत रोप-
मेप प्रथमो ब्रह्मचर्यस्य पादः ॥ ४४-१०
शिष्यवृत्तिक्रमेणैव विद्यामाप्नोति यः शुचिः ।
ब्रह्मचर्यव्रतस्यास्य प्रथमः पाद उच्यते ॥ ४४-११
आचार्यस्य प्रियं कुर्यात्प्राणैरपि धनैरपि ।
कर्मणा मनसा वाचा द्वितीयः पाद उच्यते ॥ ४४-१२
समा गुरौ यथा वृत्तिर्गरुपत्न्यां तथा चरेत् ।
तत्पुत्रे च तथा कुर्वन्द्वितीयः पाद उच्यते ॥ ४४-१३
आचार्येणात्मकृतं विजानन्
ज्ञात्वा चार्थं भावितोऽस्मीत्यनेन ।
यन्मन्यते तं प्रति हृष्टबुद्धिः
स वै तृतीयो ब्रह्मचर्यस्य पादः ॥ ४४-१४
नाचार्यस्यानपाकृत्य प्रवासं
प्राज्ञः कुर्वीत नैतदहं करोमि ।
इतीव मन्येत न भाषयेत
स वै चतुर्थो ब्रह्मचर्यस्य पादः ॥ ४४-१५
कालेन पादं लभते तथार्थं
ततश्च पादं गुरुयोगतश्च ।
उत्साहयोगेन च पादमृच्छे-
च्छास्त्रेण पादं च ततोऽभियाति ॥ ४४-१६
धर्मादयो द्वादश यस्य रूप-
मन्यानि चाङ्गानि तथा बलं च ।
आचार्ययोगे फलतीति चाहु-
र्ब्रह्मार्थयोगेन च ब्रह्मचर्यम् ॥ ४४-१७
एवं प्रवृत्तो यदुपालभेत वै
धनमाचार्याय तदनुप्रयच्छेत् ।
स तां वृत्तिं बहुगुणामेवमेति
गुरोः पुत्रे भवति च वृत्तिरेषा ॥ ४४-१८
एवं वसन्सर्वतो वर्धतीह
बहून्पुत्रांल्लभते च प्रतिष्ठाम् ।
वर्षन्ति चास्मै प्रदिशो दिशश्च
वसत्यस्मिन्ब्रह्मचर्ये जनाश्च ॥ ४४-१९
एतेन ब्रह्मंचर्येण देवा देवत्वमाप्नुवन् ।
ऋषयश्च महाभागा ब्रह्मलोकं मनीषिणः ॥ ४४-२०
गन्धर्वाणामनेनैव रूपमप्सरसमभूत् ।
एतेन ब्रह्मचर्येण सूर्योऽप्यह्नाय जायते ॥ ४४-२१
आकाङ्क्ष्यार्थस्य संयोगाद्रसभेदार्थिनामिव ।
एवं ह्येते समाज्ञाय तादृग्भावं गता इमे ॥ ४४-२२
य आश्रयेत्पावयेच्चापि राज-
न्सर्वं शरीरं तपसा तप्यमानः ।
एतेन वै बाल्यमभ्येति विद्वान्
मृत्युं तथा स जयत्यन्तकाले ॥ ४४-२३
अन्तवतः क्षत्रिय ते जयन्ति
लोकाञ्जनाः कर्मणा निर्मलेन ।
ब्रह्मैव विद्वांस्तेन चाभ्येति सर्वं
नान्यः पन्था अयनाथ विद्यते ॥ ४४-२४
धृतराष्ट्र उवाच ।
आभाति शुक्लमिव लोहितमि-
वाथो कृष्णमथाञ्जनं काद्रवं वा ।
सद्ब्रह्मणः पश्यति योऽत्र विद्वा-
न्कथं रूपं तदमृतमक्षरं पदम् ॥ ४४-२५
सनत्सुजात उवाच ।
आभाति शुक्लमिव लोहितमि-
वाथो कृष्णमायसमर्कवर्णम् ।
न पृथिव्यां तिष्ठति नान्तरिक्षे
नैतत्समुद्रे सलिलं बिभर्ति ॥ ४४-२६
न तारकासु न च विद्युदाश्रितं
न चाभ्रेषु दृश्यते रूपमस्य ।
न चापि वायौ न च देवतासु
नैतच्चन्द्रे दृश्यते नोत सूर्ये ॥ ४४-२७
नैवर्क्षु तन्न यजुष्षु नाप्यथर्वसु
न दृश्यते वै विमलेषु सामसु ।
रथन्तरे बार्हद्रथे वापि राज-
न्महाव्रते नैव दृश्येद्भ्रुवं तत् ॥ ४४-२८
अपारणीयं तमसः परस्ता-
त्तदन्तकोऽप्येति विनाशकाले ।
अणीयो रूपं क्षुरधारया समं
महच्च रूपं तद्वै पर्वतेभ्यः ॥ ४४-२९
सा प्रतिष्ठा तदमृतं लोकास्तद्ब्रह्म तद्यशः ।
भूतानि जझिरे तस्मात्प्रलयं यान्ति तत्र हि ॥ ४४-३०
अनामयं तन्महदुद्यतं यशो
वाचो विकारं कवयो वदन्ति ।
यस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं
ये तद्विदुरमृतास्ते भवन्ति ॥ ४४-३१
` तदेतदह्ना संस्थितं भाति सर्वं
तदात्मवित्पश्यति ज्ञानयोगात् ।
तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं
ये तद्विदुरमृतास्ते भवन्ति ॥' ॥ ४४-३२
इति श्रीमन्महाभारते उद्योगपर्वणि सनुत्सुजातपर्वणि
चतुश्चत्वारिंशोऽध्यायः ॥
sईच्तिओन्उद्योगपर्व - अध्याय ०४५
॥ श्रीः ॥
५.४५ । अध्यायः ४५
सनत्सुजातेन धृतराष्ट्रंप्रति तत्वोपदेशः ॥ १ ॥
सनत्सुजात उवाच ।
शोकः क्रोधश्च लोभश्च कामो मानः परासुता ।
ईर्ष्या मोहो विवित्सा च कृपाऽसूया जुगुप्सुता ॥ ४५-१
द्वादशैते महादोषा मनुष्यप्राणनाशनाः ।
एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते ।
यौराविष्टो नरः पापं मूढसंज्ञो व्यवस्यति ॥ ४५-२
स्पृहयालुरुग्रः परुषो वा वदान्यः
क्रोधं बिभ्रन्मनसा वै विकत्थी ।
नृशंसधर्माः षडिमे जना वै
प्राप्याप्यर्थं नोत सभाजयन्ते ॥ ४५-३
संभोगसंविद्विषमोऽतिमानी
दत्त्वा विकत्थी कृपणो दुर्बलश्च ।
बहुप्रशंकसी वनिताद्विट् सदैव
सप्तैवोक्ताः पापशीला नृशंसाः ॥ ४५-४
धर्मश्च सत्यं च तपो दमश्च
अमात्सर्यं ह्रीस्तितिक्षानसूया ।
दानं श्रुतं चैव धृतिः क्षमा च
महाव्रता द्वादश ब्राह्मणस्य ॥ ४५-५
यो नैतेभ्यः प्रच्यवेद्द्वादशभ्यः
सर्वामपीमां पृथिवीं स शिष्यात् ।
त्रिभिर्द्वाभ्यामेकतो वार्थितो यो
नास्य स्वमस्तीति च वेदितव्यम् ॥ ४५-६
दमस्त्यागोऽथाप्रमाद इत्येतेष्वमृतं स्थितम् ।
एतानि ब्रह्ममुख्यानां ब्राह्मणानां मनीषिणाम् ॥ ४५-७
सद्वाऽसद्वा परीवादे ब्राह्मणस्य न शस्यते ।
नरकप्रतिष्ठास्ते स्युर्य एवं कुरुते जनाः ॥ ४५-८
मदोऽष्टादशदोषः स स्यात्पुरा योऽप्रकीर्तितः ।
लोकद्वेष्यं प्रतिकूल्यमभ्यसूया मृषावचः ॥ ४५-९
कामक्रोधौ पारतन्त्र्यं परिवादोऽथ पैशुनम् ।
अर्थहानिर्विवादश्च मात्सर्यं प्राणिपीडनम् ॥ ४५-१०
ईर्ष्या मोदोऽतिवादश्च संज्ञानाशोऽभ्यसूयिता ।
तस्मात्प्राज्ञो न माद्येत सदा ह्येतद्विगर्हितम् ॥ ४५-११
सौहृदे वै षङ्गुणा वेदितव्यः
प्रिये हृष्यन्त्यप्रिये च व्यथन्ते ।
स्यादात्मनः सुचिरं याचते यो
ददात्ययाच्यमपि देयं खलु स्यात् ।
इष्टान्पुत्रान्विभवान्स्वांश्च दारा-
नभ्यर्थितश्चार्हति शुद्धभावः ॥ ४५-१२
त्यक्तद्रव्यः संवसेन्नेह कामा-
द्भिङ्क्ते कर्मस्वाशिषं बाधते च ॥ ४५-१३
द्रव्यवान्गुणवानेवं त्यागी भवति सात्विकः ।
पञ्चभूतानि पञ्चभ्यो निवर्तयति तादृशः ॥ ४५-१४
एतत्समृद्धमप्यृद्धं तपो भवति केवलम् ।
सत्वात्प्रच्यवमानानां सङ्कल्पेन समाहितम् ॥ ४५-१५
यतो यज्ञः प्रवर्धन्ते मत्यस्यैवावरोधनात् ।
मनसान्यस्य भवति वाच्यन्यस्याथ कर्मणा ॥ ४५-१६
सङ्कल्पसिद्धं पुरुषमसङ्कल्पोऽधितिष्ठति ।
ब्राह्मणस्य विशेषेण किञ्चान्यदपि मे श्रृणु ॥ ४५-१७
अध्यापयेन्महदेतद्यशस्यं
वाचो विकराः कवयो वदन्ति ।
अस्मिन्योगे सर्वमिदं प्रतिष्ठितं
ये तद्विदुरमृतास्ते भवन्ति ॥ ४५-१८
न कर्मणा सुकृतेनैव राजन्
सत्यं जयेज्जुहुयाद्वा यजेद्वा ।
नैतेन वालोऽमृत्युमभ्येति राजन्
रतिं चासौ न लभत्यन्तकाले ॥ ४५-१९
तृष्णीमेक उपासीत चेष्टेत मनसापि न ।
तथा संस्तुतिनिन्दाभ्यां प्रीतिरोषौ विवर्जयेत् ॥ ४५-२०
अत्रैव तिष्ठन्क्षत्रिय ब्रह्माविशति पश्यति ।
वेदेषु चानुपूर्व्येण एतद्विद्वन्ब्रवीमि ते ॥ ४५-२१
इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि
पञ्चचत्वारिंशोऽध्यायः ॥
उद्योगपर्व - अध्याय ०४६
॥ श्रीः ॥
५.४६ । अध्यायः ४६
सनत्सुजातेन धृतराष्ट्रंप्रति तत्वोपदेशः ॥ १ ॥
सनत्सुजात उवाच ।
यत्तच्छुक्रं महञ्ज्योतिर्दीप्यमानं महद्यशः ।
तद्वै देवा उपासते तस्मात्सूर्यो विराजते ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-१
शुक्राद्ब्रह्म प्रभवति ब्रह्म शुक्रेण वर्धते ।
तच्छुकं ज्योतिषां मध्येऽतप्तं तपति तापनम् ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-२
आपोऽथाद्भ्यः सलिलस्य मध्ये
उभौ देवौ शिश्रियातेऽन्तरिक्षे ।
अतन्द्रितः सवितुर्विवस्वा-
नुभौ बिभर्ति पृथिवीं दिवं च ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-३
उभौ च देवौ पृथिवीं दिवं च
दिशः शुक्रो भुवनं बिभर्ति ।
तस्माद्दिशः सरितश्च स्रवन्ति
तस्मात्समुद्रा विहिता महान्ताः ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-४
चक्रे रथस्य तिष्ठन्तोऽध्रुवस्याव्ययकर्मणः ।
केतुमन्तं वहन्त्यश्वास्तं दिव्यमजरं दिवि ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-५
न सादृश्ये तिष्ठति रूपमस्य
न चक्षुपा पश्यति कश्चिदेनम् ।
मनीषयाथो मनसा हृदा च
य एनं विदुरमृतास्ते भवन्ति ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-६
द्वादशपूगां सरितं पिबन्तो देवरक्षिताम् ।
मध्वीक्षन्तश्च ते तस्याः संचरन्तीह घोराम् ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-७
तदर्धमासं पिबति संचितं भ्रमरो मधु ।
ईशानः सर्वभूतेषु हविर्भूतमकल्पयत् ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-८
हिरण्यपर्णमश्वत्थमभिपद्य ह्यपक्षकाः ।
ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथादिशम् ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-९
पूर्णात्पूर्णान्युद्धरन्ति पूर्णात्पूर्णानि चक्रिरे ।
हरन्ति पूर्णात्पूर्णानि पूर्णमेवावशिष्यते ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-१०
तस्माद्वै वायुरायातस्तस्मिंश्च प्रयतः सदा ।
तस्मादग्निश्च सोमश्च तस्मिंश्च प्राण आततः ॥ ४६-११
सर्वमेव ततो विद्यात्तत्तद्वक्तुं न शक्नुमः ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-१२
अपानं गिरपि प्राणः प्राणं गिरति चन्द्रमाः ।
आदित्यो गिरते चन्द्रमादित्यं गिरते परः ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-१३
एकं पादं नोत्क्षिपति सलिलाद्धंस उच्चरन् ।
तं चेत्सन्ततमूर्ध्वाय न मृत्युर्नामृतं भवेत् ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-१४
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा
लिङ्गस्य योगेन स याति नित्यम् ।
तमीशमीड्यमनुकल्पमाद्यं
पश्यन्ति मूढा न विराजमानम् ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-१५
असाधना वापि ससाधना वा
समानमेतद्दृश्यते मानुषेषु ।
समानमेतदमृतस्येतरस्य
मुक्तास्तत्र मध्व उत्सं समापुः ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-१६
उभौ लोकौ विद्यया व्याप्य याति
तदा हुतं चाहुतमग्निहोत्रम् ।
मा ते ब्राह्मी लघुतामादधीत
प्रज्ञानं स्यान्नाम धीरा लभन्ते ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-१७
एवंरूपो महात्मा स पावकं पुरुषो गिरन् ।
यो वै तं पुरुषं वेद तस्येहार्थो न रिष्यते ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-१८
यः सहस्रं सहस्राणां पक्षान्संतत्य संपतेत् ।
मध्यमे मध्य आगच्छेदपिचेत्स्यान्मनोजवः ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-१९
न दर्शने तिष्ठति रूपमस्य
पश्यन्ति चैनं सुविशुद्धसत्वाः ।
हितो मनीषी मनसा न तप्यते
ये प्रव्रजेयुरमृतास्ते भवन्ति ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-२०
गूहन्ति सर्पा इव गह्वराणि
स्वशिक्षया स्वेन वृत्तेन मर्त्याः ।
तेषु प्रमुह्यन्ति जना विमूढा
यथाध्वानं मोहयन्ते भयाय ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-२१
नाहं सदाऽसत्कृतः स्यां न मृत्यु-
र्न चामृत्युरमृतं मे कुतः स्यात् ।
सत्यानृते सत्यसमानबन्धे
सतश्च योनिरतसतश्चैक एव ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-२२
न साधुना नोत असाधुना वा-
ऽसमानमेतद्दृश्यते मानुषेषु ।
समानमेतदमृतस्य विद्या-
देवं युक्तो मधु तद्वै परीप्सेत् ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-२३
नास्यातिवादा हृदयं तापयन्ति
नानधीतं नाहुतमग्निहोत्रम् ।
मनो ब्राह्मी लघुतामादधीत
प्रज्ञां चास्मै नाम धीरा लभन्ते ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-२४
एवं यः सर्वभूतेषु आत्मानमनुपश्यति ।
अन्यत्रान्यत्र युक्तेषु किं स शोचेत्ततः परम् । ४६-२५
यथोदपाने महति सर्वतः संप्लुतोदके ।
एवं सर्वेषु वेदेषु आत्मानमनुजानतः ॥ ४६-२६
अङ्गुष्ठमात्रः पुरुषो महात्मा
न दृश्यतेऽसौ हृदि संनिविष्टः ।
अजश्चरो दिवारात्रमतन्द्रितश्च
स तं मत्वा कविरास्ते प्रसन्नः ॥ ४६-२७
अहमेव स्मृतो माता पिता पुत्रोऽस्म्यहं पुनः ।
आत्माहमपि सर्वस्य यच्च नास्ति यदस्ति च ॥ ४६-२८
पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत ।
ममैव यूयमात्मस्था न मे यूयं न वो ह्यहम् ॥ ४६-२९
आत्मैव स्थानं मम जन्म चात्मा
ओतप्रोतोऽहमजरप्रतिष्ठः ।
अजश्चरो दिवारात्रमतन्द्रितोऽहं
मां विज्ञाय कविरास्ते प्रसन्नः ॥ ४६-३०
अणोरणीयान्सुमनाः सर्वभूतेषु जाग्रति ।
पितरं सर्वभूतेषु पुष्करे निहितं विदुः ॥ ४६-३१
इति श्रीमन्महाभारते उद्यगपर्वणि सनत्सुदजातपर्वणि
षट्चत्वारिंशोऽध्यायः ॥ समाप्तमिदं सनत्सुजातपर्व ॥