श्रीरामायणतात्पर्यसङ्ग्रहस्तोत्रम्
वाल्मीकिरादिकविराट् अखिलार्थदर्शी
साक्षाद्विरिञ्च इव संप्रतिपन्नभावः ।
विश्वेश विष्णुमधिकृत्य कृते प्रबन्धे
व्यक्त्या तवैव निबबन्ध परं परत्वम् ॥ १॥
रामायणे हि कलशप्रभवाश्रमस्था
देवादयोऽपि तमुपासत इत्युदीर्य ।
स्थानानि चात्र मधुजिन्मघवन्मुखानां
तस्याश्रमे निगदितानि न ते कपर्दिन् ॥ २॥
तेनत्वमेव ननु सिद्ध्यसि पारिशेष्या-
त्तस्येन्दुशेखर तपोनिकरैरुपास्यः ।
तस्याप्युपासकतया विनिवेशितेभ्यः
तेभ्यस्तवत्वतितरां महिमा प्रसिद्धयेत् ॥ ३॥
अत्यन्तपूज्य विषयं किलयत्प्रसिद्धं
श्रीमद्विशेषणमिदं हरिमूर्तिरूपात् ।
अस्त्रात्वदाप्तमधिकं किमपि त्रिशूलं
व्यङ्क्तुं त्वयीव न परत्र निवेशितं तत् ॥ ४॥
कुम्भोद्भवस्य सुरसंसदुपास्यता च
श्रीमद्विशेषणमिदं च तवेन्दुमौले ।
श्रीरामचन्द्र वचनेविति तन्निबन्धः
तस्यापि भक्तिमधिकां भवति व्यनक्ति ॥ ५॥
यस्यास्ति हि स्म शिबिरं शिवदक्षिणाग्रे
कुक्षिङ्गते जलनिधेर्नलसेतु कॢप्त्यै ।
तस्मिन् जगद्विदित भूमनि सेतुबन्धे
पूर्वं प्रसन्न इति च त्वयि भक्तिमूचे ॥ ६॥
श्रान्तस्सुदीर्घसमरेण रघुप्रवीर-
श्चिआन्ताकुलः कलशयोनिकृतोपदेशः ।
ब्रह्मच्युतत्रिणयनेश भवत्स्वरूपं
स्तोत्रेण यद्रिपुजयाय रविं प्रपन्नः ॥ ७॥
रक्षोधिपो निहत एव दिवं प्रयाहि
कार्यं कृतं खलु नः इत्युदिते विधात्रा ।
राज्यस्थितः कुरुतुरङ्गममेधयज्ञ
मित्युक्तमेवजगृहे तव यच्चशम्भो ॥ ८॥
इक्ष्वाकुवंश भवराज्यपदे निविष्टः
त्वामेव यच्च सुचिरं हयमेधकॢप्त्या ।
ईजेकथान्तर गिरा शिवतेन चक्री
यष्टव्य इत्यवरजस्य निरस्य भावम् ॥ ९॥
एतैस्त्वयि प्रकटिता रघुनन्दनस्य
भक्तिः स्थिरा परतरत्वमतिश्च नित्या ।
सुव्यक्तमादिकविना स्वयमात्मनश्च
रुद्रस्सविष्णुरिव चेत्युपमोक्तिभङ्ग्या ॥ १०॥
संवत्सरं वरद वासयितुं प्रवृत्तः
सीतां दशाननगृहे जगतां नियन्तुः ।
सङ्कल्प एव तव तद्वसतेरबोधे
रामस्य हेतुरिति भावममुष्य मन्ये ॥ ११॥
सीतापहारमवलोक्य रघूत्तमाय
ब्रूयुर्नजात्विति मुनिः विदितत्वदाज्ञः ।
पृष्टो यदस्य रघुचन्द्रमसा निवासं
उक्त्वागतः खगपतिः कियदन्यदन्यत् ॥ १२॥
संसूच्य वक्ष्य इति नाह कबन्ध एत-
दज्ञानमभ्यनयदत्र च सूर्यसूनुः ।
उक्तं हि तत्र भगवन्ननिमित्तमन्यत्
सङ्कल्प एव भवतश्शिव तस्य दृष्टिः ॥ १३॥
ज्ञातेरिपुं रघुपतिः लघुसञ्जिहीर्षेत्
यःक्रोधतः समजिहीर्षदशेषलोकान् ।
मोघो भवेच्छिवतदा निहते रिपौ ते
सङ्कल्प एव न हतेतु तदीयबाणः ॥ १४॥
तत्रोद्यते सकलसंहरणाय भीत्या
सद्यो दशाननवधोस्त्विति वाञ्छया च ।
यन्नाहरोपित शरन्तमुपेत्यदेवः
तत्रापि सर्वजगदीश स एव हेतुः ॥ १५॥
गङ्गाशिवेशिरसिते पतनेन पुण्या
पापापनोदन विनोदपटीयसीति ।
देवादयोऽपि वसुधातल वासमाप्ताः
स्नातास्तथेति स वचो निबबन्ध चार्षम् ॥ १६॥
नारायणस्य धनुषस्तव भीमचापात्
उत्कृष्टतां गणयतः किल भार्गवस्य ।
यन्मेनिरेत्वदधिकं तमितीववाक्यं
तद्बाधितं च वचनेन रघूद्वहस्य ॥ १७॥
दृप्तस्य कोपकलुषस्य वचः किलाद्यं
धर्मस्य विग्रहवतस्तु वचोद्वितीयम् ।
युद्धे क्वचित्त्वदधिकत्वमरेर्वचश्च
त्वद्दत्तसत्यवरनिर्वहणाययुक्तम् ॥ १८॥
इत्थं तव श्रुतिशत प्रथितं परत्वं
प्राधान्यतः स्मरहर प्रतिपादनीयम् ।
द्वारं तु रामचरितं कविना गृहीतं-
रामायणे महितं उत्तमकाव्यरत्ने ॥ १९॥
केचिद्विभीषणसमाचरितं प्रधानं
कोणे श्रुतं प्रपदनं प्रतिपाद्यमाहुः ।
प्राधान्यमत्र कथमुत्तमनाम्नि काव्ये-
वाच्यातिशायिविषयार्थि तदश्नुवीत ॥ २०॥
स्याच्चत्तदीशफलगौरवतः प्रधानं
इक्ष्वाकु-नायक समाचरितं तथा स्यात् ।
तच्चापि वायसकृतं धनलाभतोऽपि
दारात्मलाभमधिकं हि बुधा वदन्ति ॥ २१॥
तच्चेद्विमुक्तिफलकं फलगौरवं स्यात्
राज्येप्सयैव तु कृतं तदिति प्रसिद्धम् ।
श्रीरामचन्द्रपवनात्मजयोश्च सूक्त्या
साक्षाच्च तस्य वचनेन विभीषणस्य ॥ २२॥
लङ्का सुहृद्धन सुखानुभवादि सर्वं
त्यक्तं मयेति तु वचो न ततो विरक्त्या ।
श्रीरामचन्द्रकरुणा कटाक्षलब्धे
तत्रैव रागपिशुनः खलु वाक्यशेषः ॥ २३॥
ज्ञात्वातदीप्सितमतोऽथ रघुप्रवीरः
तेनैव रावणबलादि च वाचयित्वा ।
कृत्वा च रावणतदिष्टवध प्रतिज्ञां
राज्याधिपत्यमददां अभिषेकपूर्वम् ॥ २४॥
प्राचेतसाय कवये प्रथमाय तस्मै
तत्काव्यहारतरळाय च राघवाय ।
विश्वात्मने तदुभयस्थिर भावलक्ष्य
मुख्यास्पदाय विभवे च नमश्शिवाय ॥ २५॥
इति श्रीअप्पय्यदीक्षितविरचितं श्रीरामायणतात्पर्यसङ्ग्रहस्तोत्रं समूर्णम् ।
Encoded and proofread by Rama Prakasha ramaprakashak at gmail.com