भर्तृहरिप्रणीतं पुरुषार्थदशकम्
तस्मादनन्तमजरं परमं विकासि
तच्चित्त ! चिन्तय किमेभिरसद्विकल्पैः ।
यस्यानुषङ्गिण इमे भुवनाधिपत्य-
भोगादयः कृपणलोकमता भवन्ति ॥ १॥
पातालमाविशसि चापि नभौ विलङ्घ्य
दिङ्मण्डलं भ्रमसि मानस।! चापलेन ।
भ्रान्त्यापि जातु [विमलं] कथमात्मनीनं
न ब्रह्म संस्मरसि निर्वृतिमेषि येन ॥ २॥
यूयं वयं वयं यूयम् इत्यासीन्मतिरावयोः
किं जातमधुना येन यूयं यूयं वयं वयम् ॥ ३॥
महीशय्या शय्या विततमुपधानं भुजलता
वितानस् त्वाकाशो व्यजनमनुकूलोऽयमनिलः ।
स्फुरन् दीपश् चन्द्रो विरतिवनितासङ्गम् उदितः
सुखं शान्तः शेते तनुतरविभूतिर् नृप इव ॥ ४॥
किं वेदै स्मृतिभिः पुराणवचनैः शास्त्रैर्मद्वाविस्तरैः
स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः ।
मुक्त्वैक्षकं भवदुःखभाररचनाविध्वंसकालानल-
स्वात्मानन्दपदप्रवेशकथनाः शेते वणिग्वृत्तिभिः ॥ ५॥
आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीर्
अर्थाः सङ्कल्पकल्पा घनसमयतटिद्विभ्रमा भोगपूगाः ।
कण्ठाश्लेषोपगूढं तदपि च न चिरं यत् प्रियाभिः प्रणीतं
ब्रह्मण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥ ६॥
यदासीदज्ञानं स्मरतिमिरसंस्कारजनितं
तदा दृष्टं नारीमयमिदमशेषं जगदपि ।
इदानीमस्माकं पटुतरविवेकाञ्जनजुषां
समीभूता दृष्टिस् त्रिभुवनमपि ब्रह्म मनुते ॥ ७॥
किं कन्दर्प ! वृथा कदर्थयसि मां कोदण्डटङ्कारितै
रे रे कोकिल ! कोमलं कलरवं किं वाभिधन् स्वादुना ।
मुग्धे ! स्निग्ध [विदग्ध] मुग्धमधुरच्छायैः कटाक्षैरलं
चेतश् चुम्बति चन्द्रचूडचरणध्यानामृतं सम्प्रति ॥ ८॥
प्रशान्तशास्त्रार्थविचारचापलं
निवृत्तनानारसकाव्यकौतुकम् ।
निरस्तनिश्शेषविकल्पविप्लवं
प्रपत्तुमन्विच्छति शूलिनं मनः ॥ ९॥
मातर्मेदिनि तात मारुत सखे तेजः सुबन्धो जल !
भ्रातर्व्योम निबद्ध एष भवतामन्त्यं प्रणामाञ्जलिः ।
युष्मत्सङ्गवशोपजातसुकृतोद्रेकस्फुरन्निर्मलं
ज्ञानापास्तसमस्तमोहमहिमा लीये परब्रह्मणि ॥ १०॥
इति पुरुषार्थप्रकरणम् ।
इत्याचार्यभर्तृहरिप्रणीतं पुरुषार्थदशकं समाप्तम् ॥
Encoded and proofread by Sunder Hattangadi