परिव्राड् हृदयम्
मोक्षानन्दैकदेहो निखिलतनुभृतां पूर्णभाग्योदयार्कः
तत्त्वज्ञानाब्धिचन्द्रः सकलनिगमवाङ्मौलिपीयूषपूर्णः ।
जीवब्रह्मैक्यरूपं निरतिशयसुखं काशयन्वेदवेद्यम
सच्चित्सौख्यात्मभूमा जयति निजरुचा शङ्करोयस्तमीडे ॥ १॥
स्वीयं साम्यं विधत्ते गुरुरिति वचसा चेत आकृष्ययत्नात्
वत्रे श्रीदासभक्तिं परमखिलमिदं ज्ञातवानस्मि सारम् ।
सत्यं स्पर्शो न कल्प्यो विदितमिति मया सद्गुरुर्नोपमेयः
दृष्टान्तो नैव दृष्टस्त्रिभुवनजठरे सद्गुरुस्त्वप्रमेयः ॥ २॥
ज्योतिःसंस्पर्शयोगाभ्द्वति खलु यथा वर्तिरेव प्रदीपः
आस्ते संलग्नचेता गुरूपदयुगले गौरवं तत्समेत्य ।
अज्ञानवध्वान्तनाशे प्रथित तरणिवद्राजतेयं चिदर्चिः
पापं तापं च दैन्यं परिहरति नृणां स्वस्य संयोगलाभात् ॥ ३॥
आदर्शान्ते च दृश्यं सकलमपि मृषा विश्वमेतत्तथैव
सच्चित्सौख्यात्मके, यघ्द्यविकृतमनिशं वीक्षते तत्स्वरूपम् ।
आयाते वा प्रयाते जलमुचि खमिव स्वान्तमायाविदूरः
आचार्याल्लब्धबोधो भ्रम विधुरमना राजते राजते च ॥ ४॥
यत्सत्यासत्ययोगादखिल जगदिदं भासते तद्विचिन्त्य
क्षीरं हंसो यथा तद्विचिनुत इति यः स्वात्मरूपं स धन्यः ।
दुग्धे गूढं यथोस्ते घृतमिति स यतिर्विश्वरूपे स्वमात्रः
जीवन्नप्यद्वयो यो गुरुवचनकृपापाङ्गपीयूषदृष्टया ॥ ५॥
निष्कास्य स्वीयशक्त्या हृदिकृत निलयान् कामशङ्कूऊश्च भूयः
सेवां कुर्वन्निरीहो विगलितमयतोहङ्कृतिः साधुवृत्तः ।
भक्त्या श्रुण्वन्मुमुक्षुः स्त्रवदमृतवचः श्रीगुरोर्ज्ञानदातुः
बुध्द्वा मत्वा च धन्यो जगति विजयते ब्रह्मरूपः कृतार्थः ॥ ६॥
आत्मानात्मक्रमोऐयं प्रथममभिहितःस्वीयदेहे परस्मिन्
देहोऐनित्यो ह्मनात्मा स्वपरवपुषि यो नित्य आत्मा स्वयं सः ।
स्वस्माद्गिन्नं च दृश्यं स्वपर वपुरपि ज्ञेयमात्रं जडं यत्
यच्चैतन्याभियोगाव्द्यवहृतिपटुतां याति तत्स्वीयरूपम् ॥ ७॥
यन्त्रे विद्युद्यथौहं प्रवहति तनुषु स्वात्मभानं तथैतत्
चिन्मात्रं नित्यिंसद्धं विगलितकलुषं देहसङ्गाद्विमुकतम् ।
तस्मात् सर्वेऐपि देहा व्यवहृतिपटवः सर्वसौभाग्यभाजः
जीवोज्ञात्वा वृथैवं विषयमनुसरन्सर्वदुःखं प्रयातिम् ॥ ८॥
भुक्तं पीतं च सर्वं प्रभवति तनुतो भिन्नरूपं यदेवम्
ननाधातुस्वरूपं तदिह मतिमता ज्ञायते देहयन्त्रम् ।
कर्ता यन्त्रस्य बाह्ये व्यवहरति तथा दृश्यते भिन्नेरूपः
सामान्याद्वैपरीत्यं सकलमिह यतः सर्वमाश्चर्यमेतत् ॥ ९॥
यन्त्रस्यास्यात्र कर्ता विदितमिदमहो चालयत्यन्तरस्थः
मत्वौहं यन्त्रमेवं वहति दिननिशं याति पुस्त्रीत्वमन्यत् ।
गच्छत्यायाति भांउक्ते वदति च कुरुते विस्मरन्नामरूपम्
दारान्वित्तं च पुत्रं पतिमिह विषयान्कामयन्मूढ आस्ते ॥ १०॥
देहोयं यन्त्रमेवं व्यवहृति विधये दृश्यते नास्य यन्ता
स्वान्योन्याध्यासतोस्मिन्सकलमपि भवे जायते कर्ममोहात् ।
गाढं दुःखं च भूयो विविधविषयतो वासनापि प्रवृध्दा
कार्यात्तद्वासनास्यात्पुनरपि च तया कार्यमेवाथ जन्म ॥ ११॥
देहीहन्ता तदुत्थात्वतिशयममतापुत्रभार्यादिकेषु
द्रव्यीन्यत्रापि भूयो बहुविधविषये दुःखदा नित्यमेव ।
पुस्त्वं वा स्त्रीत्वमन्ये न च भवति यत्स्तस्य वैकारिकेस्मिन
देहे स्त्रीत्वं च पुंस्त्वं मनुत इति वृथा मौढयसंस्कारतोज्ञः ॥ १२॥
सवर्ं दुःखास्पदं यत्क्षणलवविरसं पूतिगन्धंं निष्कृष्टम्
हन्तात्यन्तापवित्रंह्यतिशयकुहकं जातमात्रेण हेयम् ।
विण्मूत्रश्लेष्मपूर्णं खपरवपुरहो संविदित्वापि भूयः
सौन्दर्याद्यैश्च भावैरनवरतमिदं मन्यते तोषहेतुम् ॥ १३॥
विस्मृत्यात्मस्वरूपं विषयसुखकृतनेकयत्नान्विधास्यन्
स्वीयं महत्वातिहर्षं भजति न सहसा वेत्यहं वञ्चितोस्मि ।
वस्त्रालङ्कारतापि स्वपरवरपुरहो सुन्दरं भावयित्वा
जीवोयं वञ्चितः सन्रमत इति वृथा नारके मुग्धचेताः ॥ १४॥
शृङ्गारं वर्णयन्ति स्वपरवपुरमे नैव जानन्ति गर्ह्यम्
मिथ्या स्त्रीवर्णनं यद्विकृतमिति न किं भाति तेषां कवीनाम् ।
चाराः कामस्य सर्वे कथमपि च जनान्वञ्चयन्तोऽत्र दुष्टाः
माद्यन्तो मुग्धचित्ताः प्रथितमलमिदं भूषयन्ति स्ववाग्भिः ॥ १५॥
भोगेनात्यन्तसौख्यं यदि मतिरुदिता सूर्यते कामपुत्रम्
विघ्नन्दृष्ट्वेप्सितार्थ तदनधिगमतः क्रोधाविर्भवेच्च ।
प्राप्तोर्थो नैव नश्येन्मनुत इति यदा मोह एतस्य नाम
द्वारं स्याद्दुर्गतेश्च त्रयमिह गदितं वासुदेवेन साक्षात् ॥ १६॥
कामाख्यो दुष्किरातो निजधनुषि यदा मोहबाणान्नियोज्य
लक्ष्मीकृत्याथ नारीं तरतनुमथवा निक्षिपत्यत्र चित्रम् ।
एकाविद्वापि युग्मं बत सपदि भवेन्नापि कोपो न हिंसा
बाणैरन्यैश्च मृत्युर्विघटनमथवा मेलनं वृध्दिरेतैः ॥ १७॥
ज्ञात्वाध्यात्माधियोगादरय इति सुधीः काममोहादिकान्वै
जित्वा हत्वा च भूयो निजनिरतिशयासङ्गशेस्त्रेण पूर्णः ।
पृथ्वी तस्य प्रभावाद्धरति जगदिदं यौवने यो विरक्तः
पश्चात्तापादृते किं वयसि विगलिते साधनीयं च पश्चात् ॥ १८॥
आदौ मध्ये तथान्ते विषयविषमिदं मोहजं नाशबीजम्
कामक्रोधाश्रितं यत्क्षणसुखविरसं पुष्पितं यौवनेन ।
नानापापैश्च पश्चाज्जनिमृतफलदं नारकं दुःखकृच्च
यक्त्वा जीवन्समुक्तो भ्रमरहितमनाश्चिद्धनानन्दधामा ॥ १९॥
नो देहोनेन्द्रियं तन्मन इति न मतिः प्रापयत्यात्मरूपम्
किं भूम्या किं च धान्यैरगणित धनतो गेहतो राज्यतोऽपि
इष्टैमित्रैश्च पुत्रैः पशुभिरिह भवेतिङ्क तथा कामिन्नीभिः
तत्प्राप्य । सर्व यत्नाद्गृहसुतवनिता क्षेत्र वित्तादि दूरम ॥ २०॥
विज्ञानज्ञानपूर्णः प्रवचननिपुणो नीतिधर्मप्रवीणः
सर्वत्रात्मैकदृग्यः सकलनिगमवाग्भूषणः शान्तचित्तः ।
तीर्त्वामोऽहं निरिच्छः सकरुणहृदयः शब्दपीयूषपूर्णः
यत्सान्निध्यात्प्रशान्तं मन इति च गुरुं संश्रयेद् ब्राह्मणन्तम् ॥ २१॥
यद्वद्गृधस्य दृष्टिर्नभसि विहरतोधो मृतप्राणीलग्ना
तद्वद्वेदान्तवक्ता धनकणवनितालाभदृष्टिर्य आस्ते ।
शाब्दंस्याद्वर्णनं तद्विरति विरहितं तेन लाभो न दृष्टः
शब्दैर्नस्यात्क्षुधान्तः क्षुधमिह स कथं वारयेदन्नशून्यः ॥ २२॥
नित्यानित्यप्रतीतिर्विर्षयविरमणं षट्कमेवं शमादेः
मोक्तं वाञ्छातितीव्रा यदि भवति तदा सोधिकारी च मोक्षे ।
नित्योऽहं चित्सुखात्मा विदितमिति च यदृश्यमात्रन्त्वनित्यम्
नित्यानित्यानुभूतिर्विलयति महाजन्मदुःखौघबीजम् ॥ २३॥
अस्मिंल्लोके यथास्यात्तनुकरणमनः प्राणसाध्यं तथान्ये
लोके सौख्यन्न चान्यद्विषयभवमतः स्वर्गसौख्यं न वाञ्छेत् ।
नीचोच्यैः साधनैर्नो भवति विषयजं तारतम्यं सुखस्य
लोकान्निर्वेदमायादकृतमिह न तत्स्यात्कृतेनात्र यस्मात् ॥ २४॥
इष्टापूर्ते वरिष्ठं न च भवति ततोएन्यः प्लवः श्रेय एवम्
मत्वा स्वर्गाच्च कर्मीऐ पुनरपिजननं मृत्युलोके प्रयाति ।
गत्वा ब्रह्माणमिन्द्रो विरतियुतैतोवेत्स्वरूपं च तस्मात्
धीरा ज्ञात्वामृतत्वं ध्रुवमिह न भवे प्रार्थयन्तध्रुवेषु ॥ २५॥
श्रेयो धीरो वृणीते विषयमनुसरन्प्रेय एवात्र मन्दः
काम्यं दुःखैकबीजं क्षणविरसमथो जन्मदं मोहरूपम् ।
अस्माच्छेरयश्च भिन्नं सततमिह भवेदाददानस्य साधु
श्रेयः स्वात्मैव साक्षान्निरतिशयसुखं निर्भयं ब्रह्मसंज्ञम् ॥ २६॥
दुःखान्तान्मोहरूपान्परिणतिविरसानिन्द्रियोत्थानशुद्वान
आमृत्युब्रह्मलोकं शतशतगुणितानस्थिरान् कर्मजान्तान् ।
आनन्दान्स्वातिरिक्तान्कुहकसलिलवद्गासमानानसत्यम्
त्यक्त्वा सर्वान्न्स्वपूर्णं निरवधि विमलं चिन्तयेदात्मसौख्यम् ॥ २७॥
सर्वेषां पातहेतुः प्रथममिह भवेत्कामरूपो विकारः
दुष्पूरेणानलेन स्वमपनयनतो विव्हलोज्ञोति दुःखी ।
हन्यात्कामारिमेनं भवति खलु यतो विघ्न आत्मप्रतीतौ
देहस्यैवात्र भानं दृढयति न ततो रूपशून्यात्मदृष्टिः ॥ २८॥
चित्सौख्यं स्वात्मनो यत्तदपनयनतः काम एषोति दुष्टः
दौर्गत्यं देहयोनावहह सुखमिति स्वीय शक्त्वा युनक्ति ।
जातो यस्माद्धि पूर्वं तदभिलषति यो जायते तत्र भूयः
जेतव्योध्यात्मयोगाज्जनिमृततिफलदः कामशत्रुश्च यूना ॥ २९॥
लब्ध्वैकं ब्रह्मचर्य भवतिहि सुतरां नान्यतो ब्रह्मलाभः
तेनैवेन्द्रो ह्यवास स्वयमतिनिकटै ब्रह्मणस्तत्ततो वेत् ।
छान्दोग्येस्पष्ट मुक्तं कथित इति कामनाशाय मन्त्रेः
लिन्दुंश्वेतं त्वदत्कं कथमपि न कदा माभिगां तद्यशो ह्म ॥ ३०॥
वेदे शास्त्रेषु पूर्णः कविरपि च तथा ग्रन्थकर्तापि भूयो
यावन्नो कामजेता सततमपि भृणंस्तत्वमेषोति बध्दः ।
शास्त्रं भारोस्य जन्तोर्वहति यदि वृषःशर्करां तेन किं स्यात्
स्वादं किं वेत्ति दर्वी मणियुतभुजगोन्तर्विपो भीषणोयम् ॥ ३१॥
सर्वात्मब्रह्मनित्यं महदपिमहतो सुक्ष्मरूपाच्च सूक्ष्मम्
तत्त्वं विश्वस्य साक्षी स्वयमहमिति यत्संस्फूरत्सर्व देहे ।
खल्वेतद्ब्रह्मसर्वं निरवधिममलं नैव योषित्पुमान्यत्
का नारी को नरो वा सुत इह च तथा कुत्र तत्कामजन्म ॥ ३२॥
सर्वं पूर्णं श्रुतेर्वागतनुविभवतो निर्गुणोकाय आत्मा
सवीस्वेतासु भूमा तनुषुजपतियः सर्वदा सोऽहमेवम् ।
तस्मित्भूनिम्नस्वरूपे नर इति वनिता मन्यतेत्राविवेकात्
यत्तदुःखस्यमूलं जनिमृतिकृदतो भावनां तां विजह्यात ॥ ३३॥
दृष्टवा देहं नरो वा युवतिरिति यदा भावनाज्ञानतःस्यात्
देहादन्याश्चिदात्मा किल निरवधितो यः स तस्यावमानः ।
एको देवः प्रसिध्दः प्रतितनुषु यदा तस्य कस्यास्त्यपेक्षा
जीवो ब्रह्मैव साक्षादयमिति विदिते का च नारी नरः कः ॥ ३४॥
स्वात्मन्यद्वैतरूपे निखिलजगदधिष्ठान भूते च भूम्नि
स्त्रीत्वं वा पुंस्त्वमेतन्मनुत इति यदा देहतः स्वात्मघात्ः ।
येविद्वांसो न येषां निरवधिममलं स्वात्मरूपं विभाति
``तसूर्यानन्दलोका``नतिशयतमसा चावृतांस्तान्प्रयन्ति ॥ ३५॥
यास्मिंस्तत्स्वात्यरूपं निभृतविरतितः प्रस्फुटं स्यात्स्वदेहे
न नो नारी स जीवो विधिरपि न तथा श्रूयते कर्मणास्य ।
संस्कारापीह न स्यात्स्वयमिह शुचितः प्रव्रजेत्स स्वमात्र
चत्वारो ये कुमाराः सनकमुखकृता जातरूपाश्चरन्ति ॥ ३६॥
सन्यास्तास्त्रीषु गार्गी व्रजनमिति ततो वेदबाह्यं न तासाम्
``तान्येवं वावराणि'' श्रुतिरिह तनुते न्यास एवाति भूयान् ।
``विद्वांसःप्रव्रजन्ते'' ``यदहरिह तदा प्रव्रजेद``यो विरक्तः
ज्यायान्नो वा कनीयान्प्रभवति महिमा ब्राह्मणस्यैष नित्यः ॥ ३७॥
दिव्ये वा लौकिके वा किमपि न मनसश्चिन्तनं चापि सौख्ये
स्वप्नेऽप्येवं जुगुप्सा वमनवदिह तद्गोग्यमात्रे च नित्यम् ।
भोग्ये पूर्णा विरक्तिः कृतसुकृतभराज्जन्मदुःखादनेकात्
जन्मन्यस्मिंश्च जाता भवति स मतिमान्नयास एवाधिकारी ॥ ३८॥
संन्यासो नैव केचिद्विहित इति कलौ ख्यापयन्ते वृथैव
संन्यासो भूमिकेयं बहुजननभवोदेति वैराग्यतश्च ।
यस्मात्स्वाभाविकीयकृतसुकृतफला मुक्तिसोपानमार्गे
प्रारब्धं तत्तोस्मात्प्रचलति हि कलौ ``नैव शक्योपनेतुम``॥ ३९॥
दृष्टाः पूंर्व कुमाराःशुक इति च तथा शङ्करोन्ये ततोस्मात्
जाता बाल्याद्विरक्ता बहव इह यतो ज्ञानविज्ञानपूर्णाः ।
ज्ञानं वैराग्यमेतत्समुदितमतुलं पूर्वसंस्कारयोगात्
सूर्यश्चाहं मनुश्च श्रुतमिदमुदितं वामदेवेन गर्भे ॥ ४०॥
ज्ञात्वा निःसारमेवं जगदखिलमितः प्रव्रजेद्यो विवेकी
बाल्येशक्यं स गच्छेद्विधिरिति स तदा ह्याश्रमादाश्रमं च ।
संन्यस्तो याज्ञवल्क्यः श्रुतिशिरसि यतो न्यास एवाति मुख्यः
संन्यासः सर्वयत्नादधिगत यशसा साधनीयो विमुक्त्यै ॥ ४१॥
रज्जवज्ञानेन सर्पो जनित इह यथाभाति मन्दान्धकारे
स्वात्माज्ञानात्तथास्याद्विविधविषयिणी वासना मन्दबुध्दौ ।
सच्चित्सौख्ये स्वरूपे कथमपि न यतोन्यद्गवेत्स्वप्रतीत्या
बुध्द्वा सम्यक्स्वरूपं निजसुखकवलास्वादतृप्तः परिव्राट् ॥ ४२॥
केषाञ्चित्स्याद्विरक्तिः स्वयमिहविषये सञ्चितादेव बाल्ये
तेषां ज्ञानं च पश्वाद्गुरुचरणकृपा पाङ्गसङ्गप्रसङ्गात् ।
पश्यन्तोन्यन्न किञ्चिज्जगति निजरुचा जन्मतो ज्ञानिनो ये
तेषां नो गुर्वपेक्षा, निरतिशयसुखाः पूर्णतृप्ताः स्वसिध्दा ॥ ४३॥
बन्धायासक्तचित्तं विषयविरहितं स्याच्चचितं विमुक्त्यै
भोगेच्छा सैव बन्धः श्रुतिशिरसि यतस्तांस्त्यजन्मोक्षभागी ।
इच्छाविद्यैव साक्षात्तदपनयनतो जीवभवस्य नाशः
दृष्टादृश्याद्वि बध्दो भवति च सुतरां दृश्यशून्ये विमुक्तः ॥ ४४॥
त्यक्त्या द्वे नामरूपे जगत इह ततः शेषयित्वा स्वरूपम्
सच्चित्सौख्याद्वयं यद्गवति स पुरुषो दृश्यशून्यो विमुक्तः ।
रज्जुःसर्पस्य बाधे स्वयमिह विगताशेषभावा यथास्ते
तद्वत्स्यात्स्वीयरूपं व्यपगतसकलं सच्चिदानन्दमात्रम् ॥ ४५॥
त्यक्त्वा कार्यस्य दृष्टिं सकलजगदधिष्ठानभूतं स्वरूपम्
ज्ञात्वा तत्सर्वसाम्याद्व्रजति च परितः काशयन्सूर्यवद्यः ।
नित्यानन्दः परात्मा निरवधिरमलोसङ्गरूपः परिव्राट्
तस्मिन्सत्यस्य सत्ये जगदुखिलमिदं नाविंरासीन्न नश्येत् ॥ ४६॥
त्वङ्निर्मोकात्स्वशक्त्या बहिरहिरिव ये लब्धबोधा व्रजन्ति
ज्ञानाद्वैराग्यमेषां भवति विरतितो ज्ञानलाभः परेषाम् ।
पारिव्राज्यं द्विधा स्यान्नियमितमसां ज्ञानवैराग्यपूर्वम्
देहाद्गेहात्ततः स्यात्सकलमिदमहं ब्रह्ममात्रैकरूपम् ॥ ४७॥
त्यक्त्वादौ भोगवाञ्छा त्यजति स मतिमान्सर्वभेदात्मदृष्टिम्
भावाभावौ ततोस्माच्चलति न सुतरां धीर्दृढा निर्विकल्पात् ।
नो सत्यं नाप्यसत्यं किमपि न मनुते स्वात्ममात्रोद्वितीयः
सर्वस्यैतस्यचात्मा जगति विजयते सच्चिदानन्दमात्रः ॥ ४८॥
यत्रानन्दाश्च मोदाः प्रमुद इतिमुदा सर्व एते विशन्ति
ब्रह्मानन्देत्र सर्वे स्वयममलपदे पूर्णकामा भवन्ति ।
भिन्नं नाप्यभिन्नं किमपि न च ततःकस्यवैशिष्ट्यमेषाम्
स्वीये सच्चिद्घने यत्सकलमुपशमं याति किं चान्यदस्मात् ॥ ४९॥
जाल्मः कामोति दुष्टो मनुजमनुपदं बाधतेन्तर्निलीनः
सोढुं शक्तोनुको नो सकृदपि मनुते भोगतोस्माद्विमोकम् ।
व्याधेर्नाशाय यद्वद्वयुपचरति तथा काममोहस्य तापः
शाम्येद्गोगेन मत्वा बत विषयमतः पामरोयोत्र भुङ्क्ते ॥ ५०॥
कामःशाभ्येन्न भोगादितिगदितमतो बुध्दिमेति प्रयत्नात्
अग्निर्यावांश्च भूयान्घृत इह पतिते कामतृध्दिस्तथा स्यात् ।
भोगैर्वृध्दश्चकामः पुनरपि च ततो भोग एवात्र भूयान्
शाभ्येन्नैवास्य तृष्णा मृगजलत इतो नैव यत्नोऽपि शान्तः ॥ ५१॥
भुमौ यावध्दिरण्यं पशुयुवतिजना धान्यमेतत्समस्तम्
क्रोडीकृत्यायथ दत्तं निखिलमपि च तन्नालमेकस्य तृप्त्यै ।
मत्वा चित्तस्य शान्त्यै शममतिसुखदं ह्याव्रजेद्यो विवेकी
वाक्यं निर्दुष्टमेतद्वदति मनुरहोनावमन्येत जातु ॥ ५२॥
यश्वैतान्प्राप्नुयाद्वै जगति च सकलान्केवलान्यस्त्यजेत्तान्
भोगानां प्रापणात्स्यान्मनुरिह मनुते त्याग एषां वरिष्ठः ।
यस्यात्कामस्य सौख्यं जगति यदपि तत्स्वर्गसौख्यं च दिव्यम्
सौख्यं तृष्णायक्षयाद्यद्गवति न च कला षोडशी तस्य तत्स्यात् ॥ ५३॥
आस्ते मूर्तिर्यथैकात्वभिनवघटिता सर्व सौन्दर्यरूपा
जाता मृत्कर्पटाद्यैर्निजकुटिलदृशा मोहयन्ती जनानाम् ।
निःसारा भोगलब्धौ नयनमतिहरा दूरतोतीव रम्या
दुर्गन्धद्रव्यपूर्णा ह्यशुभतनुरहो तद्वदेवातिहेया ॥ ५४॥
जित्वा सर्वाणियत्नाज्जयति यदि न चेदिन्द्रियं चैकमस्मात्
प्रज्ञा तेनैव साकं क्षरति निमिषतो वारि यावद्दृतेर्वेऐ ।
तस्मादादौ जयेत्तत्परममतियुतो यन्मनः सर्वमुख्यम्
पश्चात्सर्वेन्द्रियाणि स्वयमिह हि वशे स्वानुभूत्या भवन्ति ॥ ५५॥
कण्डूं कण्डूयमानामतिशयसुखदां मन्यमानोऽपि नेच्छेत्
तत्प्राप्त्यर्थं न यत्नः कुरुत इति तथा स्यान्न तद्वासनापि ।
तद्वज्ज्ञात्वेन्द्रियोत्थं सुखमपि न च तत्कामयेद्यो विवेकी
कण्डतिग्रस्तचित्तो बत किमुतसुखी धान्य एवं कृती च ॥ ५६॥
त्यक्त्वा लौल्यं च कर्माण्युपरतित इतो भोगशून्यो विरक्तः
जित्वा विघ्नानशेषानविकृतमनसा नित्यसौख्यात्मदृष्ट्या ।
नित्यं ब्रह्माहमेकं निजगुरुवचसा भावयित्वानुभूआत्या
श्रध्दायुक्तो मुमुक्षुर्निरतिशयसुखस्वात्मतुष्टः कृती स्यात् ॥ ५७॥
यत्प्रीत्या प्रीतिपात्रं सकलमपि नृणां तद्गवेदात्मरूपम्
आत्मार्थ स्त्री तथा स्यात्पतिरपि च ततो द्रव्यपुत्रादिकं यत् ।
स्विये देहेऽपि तद्वन्निजमनसि मतौ प्रीतिरात्मार्थमेव
प्रोयान्यत्स्वात्मभानं त्वहमिति किमुत स्वात्मरूपं यदस्ति ॥ ५८॥
यावद्यस्मिन्प्रियत्वं प्रभवति खलु तत्सौख्यदं वस्तुतावत्
सर्वस्मात्प्रीतिरात्मन्यधिकविषयिका श्रेष्ठसौख्यं स्वतःस्यात् ।
दातुं भोक्तुं स्वरूपेऐहमि न च किमपि स्वात्मनोन्यद्यतस्तत्
सर्वस्माच्छेरष्ठसौख्यं स्वयमिह निखिले स्वार्चिषैवेति साक्षात् ॥ ५९॥
दृश्यं यद्बाह्यसृष्टौ विशदयति निजं मिन्नभिन्नाकृतेस्तत्
पश्येश्चक्षुस्तथेदं विदितमिह भवेश्चेतसा तन्मनोऽपि ।
बुध्दिर्जानाति बुध्द्या चपलमन इदं वेत्ति यत्स्वेन भासा
बुद्वेःसाक्षी स्वतोर्चिस्तमस इति तथाहं कृतेस्तत्वयं हि ॥ ६०॥
अन्यत्स्वस्माद्यदेवं जनितमिति च तन्नाशमभ्येति पश्चात्
को वा बुध्येत्स्वनाशं जनमति च यदावेन्न तस्यास्ति नाशः ।
नाशो यस्मान्नमेस्य स्वजनिरपि तथा जातमेवेह नश्येत्
नित्यं सश्चित्सुखैकं सकलतनुषु यद्ब्रह्म तेनाहमद्वा ॥ ६१॥
ब्रह्यैवाग्रे सदेकं सकलमिदमहोवेत्तदेवाहमेवम्
स्वात्मानं तत्तोऐस्मादभवदिति यतः खल्विदं ब्रह्य तस्मात् ।
दीवानां वा ऋषीणां तदभवदिति यस्तन्नृणां प्रत्यबुध्यत्
तद्ब्रह्मैवाहमस्मीत्यनुभवौदिते ब्रह्म सोत्र भुतेर्वाक् ॥ ६२॥
नाम्नाहं स्वात्मरूपं यदभवदिति तत्स्वीच्छया स्वीयशक्त्या
सर्वास्वेतासु संस्थं त्वहमिति तनुषु स्वेन भासा स्वमात्रम् ।
यःकोप्यामन्त्रितःसन्नहमिति वदति स्वीयनामेति तस्मात्
भूमात्मैकोएहमेवं व्यवहृति विधये भिन्नरूपैर्युतोऽपि ॥ ६३॥
सर्वेष्वेतेषु देहेष्वहमहमिति यः स्वेन रूपेण भाति
प्राक्सर्वस्मात्स एकः स्वयमिह न तथान्यन्न किञ्चित्तदानीम् ।
एकाकी नैव रेमेऽपरमति न तथापश्यदत्रात्मनः सः
वमावामेन भूत्वा स्वयमभवदयं पूरुषो दक्षिणेन ॥ ६४॥
प्रागेकाकी स भूत्वा विषयमनुसरन्काम्यमानोत्र जायाम्
पुत्रं वित्तञ्च सर्वं ह्ययुपकरणमथो कर्म कुर्वंस्तदर्थम् ।
एका लाभेप्य कृत्स्नो मनुत इति तथा नान्यदस्माद्वरिष्ठम्
क्लेशान्प्राणावशेषान्सहत इति ततो भूय एवात्र मुग्धः ॥ ६५॥
अस्मच्छब्दो यथैआव प्रचलति च तथा सर्व लिङ्गेषु युष्मत्
त्वं वाहं भानतोयं सकलवपुषि यो लिङ्गशून्योद्वयः सः ।
नकारो ना विकारो निजनिरतिशयादात्मरूपं हि सर्वम्
का नारी को नरः स्यादहह जगदिदं दुःखमूलं विमौऐढ्यात् ॥ ६६॥
साक्षी सर्वस्य भूमा सकलजगदधिष्ठानरूपोतिविश्वः
सर्वास्वेतासु नित्यं ह्ययमिति तनुषु स्वीयरूपेण भाति ।
सर्वत्राद्वैतरूपो जनिमृतिरहितो नामरूपाद्विमुक्तः
चिद्रूपः प्रत्यगात्मा प्रकृतिविकृतिभिर्नानुलिप्तस्त्वसङ्गः ॥ ६७॥
जाग्रब्दाल्याद्यवस्थास्वहमिति सततं व्येति तन्नैव यस्मात्
भिन्नस्ताभ्योविकारी विलसति सकलेष्वेव देहेषु पूणर्ः ॥
बुद्वेः साक्षी स्वयं यः सद्सदिदमहो भासयान्निर्विशेषः
सर्वेष्वेतेष्वयोग्निप्रतिम इह सदा स्वेन रूपेण दीप्तः ॥ ६८॥
ईशावास्यं श्रुतेर्वाग्जगदखिलमिदं नेहनानास्ति किञ्चित्
मृत्योराप्नोति मृत्युं जगदखिलमिदं यस्तु नानेव पश्येत् ।
बह्मैवेदं वरिष्ठं भवति च सकलं विश्वमेतत्स्वयं यत्
आंर्त स्याद्यत्ततोन्यच्छ्रतिगदितमिदं भेदतो भीश्चः मृत्युः ॥ ६९॥
ज्ञात्वा देवं तथेवं तरति भवमिमं मुच्यते सर्वपाशेऐः
पन्था नान्योतिमृत्यं नयति यत इतो विद्यते नायनाय ।
ज्ञानादेवामृतत्वं भवति न पुनरावर्तते पूर्णकामः
प्राणाः क्रामान्ति नैव क्वचन न गमनं तस्य यः स्याद्विमुक्तः ॥ ७०॥
भोक्तव्यं ज्ञस्य नास्ति स्वयमिहहि यतः पूर्णानन्दरूपः
सर्वत्रावस्थितायं स्वयमनतिशयः कुत्र गच्छेत्किमर्थम् ।
अज्ञो देहात्मबुध्द्या विविध विषयतः कर्तृभोक्तृत्वमेत्य
कर्माधोध्वर्ञ्च भोक्तुं जनित इति भवेध्द्यासतः स्वच्छयैव ॥ ७१॥
क्षीयन्तस्मिंश्च दृष्टे श्रुतमिहहि यतः सर्वकर्माणि चास्य
कर्मप्राप्तं सुखं यत्तदपनयनतो नित्यसौख्यं हि विद्वान ।
नो शोको जन्मदुःखं मरणमपि तथानन्दमात्रात्मनोस्य
ज्ञात्वा ब्रह्मैक्यमेत्य स्वयमिति स यतिःकेवलो निर्विकल्पः ॥ ७२॥
मत्वा सौख्यं स्वतोन्यत्तदनधिगमतो दुःखरूपौत्र जीवः
ज्ञाते तत्त्वे स भूमा स्वयमितिहि सुखं नैव दुःखं सुखस्य ।
जतं क्षीयेतसाक्षी स्वयमिह सकलं वेत्ति यः सोविनाशी
सौख्यं यत्स्वात्मनोन्यज्जनिमृतिमदहो स्वात्मसौख्यं नतावत् ॥ ७३॥
द्रष्टा दृश्याद्विभिन्नः श्रुति शिरसीयताश्चिद्घनः स्वेन भासा
द्रष्टुर्दृष्टेर्न लोपो यदि भवति ततः केवले किं ततोन्यत् ।
यत्रान्यत्स्यात्तदल्पं निजनिरवधितो यत्र नान्यत्स भूमा
द्रष्टत्वे जीव एवं जनिमृतिरहितः शाश्वतानन्द एव ॥ ७४॥
ज्ञात्वा बुध्देः परोऽहं सततमिति च तत्स्वात्मरूपं हि बुध्वा
जह्यात्कामं स्वदृष्टया वदति यदुपतिः स्वात्मसौख्याय नित्यम् ।
निर्दोषं ब्रह्म नित्यं सममिहसकलेस्मिन्स्थितास्ते च मुक्ताः
कस्मातैः प्रेत्यजीवन्निहहि जित इति श्रीपतिः सर्ग आह ॥ ७५॥
विक्षेपो नांस्ति यस्मान्मम न तत इह स्यात्समाधिः कदापि
विक्षेपो वा समाधिर्मनस इति न मे निर्विकल्पोहमात्मा ।
नो कुर्वे कारयेऽपि स्वयमिह जगतः साक्ष्यतः स्वस्थ आसे
स्वात्मानं वेद्यि यस्मादूपनिषदि मतं चावधूतेन गीतम् ॥ ७६॥
ज्ञात्वा स्वात्मानमेवं निजजनवनितावित्तपुत्रैषणायाः
व्युत्थाय ब्राह्मणास्ते श्रुतिरिह तनुते भैक्षमेवाश्रयन्ते ।
जक्षन्क्रीडंश्च यानैर्युवतिभिरथवा न स्मरे तच्छरीरम्
सर्वत्रायकायरूपं विमलसुखधनं वीक्षते ज्ञः स्वरूपम् ॥ ७७॥
देहात्मज्ञोविवेकी मनुत इह यतोध्यासतो देहदृष्टया
नामाकारान्गुणान्यः पुरुष इति च वा स्त्री नं तस्यात्मदृष्टीः ।
यद्वन्मूढस्य भायाद्वपुरिति सततं तद्वदेवात्मदृग्यः
तस्यैकं निर्विकारं निरतिशय सुखं सर्वतश्चित्स्वरूपम् ॥ ७८॥
प्राक्पश्चादस्ति कुम्भाद्गगनमिदमहोश्लिष्टमेवं पृथग्यत्
कुम्भोत्पत्तावपीह व्यवहृति समये सर्वदा सर्वतश्च ।
सर्वत्रैवेह तद्वश्च्यलनविरहितं सर्वदा चित्सुखं यत्
तिष्ठन्क्रीडंश्च गच्छन्मनुत इति सदा स्वीयरूपं परिव्राद् ॥ ७९॥
तावत्सर्वे तरङ्गा अतिशयतरला रूपतो भान्ति भिन्नाः
यावन्न ज्ञातमेतत्सकलमपि जलं भेदशून्यं स्वमात्रम् ।
ज्ञानी पाथस्तरङ्गान्वयवदिहसदा सर्वमात्वैव पश्यन्
आस्ते ब्रह्मैव भूत्वा ह्यविकृतमनिशं केवलं चित्सुखं यत् ॥ ८०॥
ज्ञात्वा सर्वेषु भूतेष्वहमिति सततं नो जुगुप्सेत विद्वान
यस्मिन्सर्वांणि भूतान्यहमिहहि यदाभूत्तदा जानतोस्य ।
पार्थक्यं नापि तेम्यः क्वचिदपि न च तच्चिन्तन भिन्नदृष्टया
स्यात्को मोहश्चशोकः श्रुतिगदितमिदं स्वीयमेकत्वदृष्टेः ॥ ८१॥
भूतस्थात्मानमेवं भ्रमरहितमनाः सर्वभूतानि विद्वान
स्वात्मन्येवात्र पश्यन्बृहदिति परमं याति नान्येन जातु ।
कैवल्ये दत्तदृष्टीः स हि भवदिति यद्भूतमेवं भविष्यत्
ज्ञात्वा भूमानमेवं सकलमिदमहं मन्यतेसौ परिव्राट् ॥ ८२॥
तद्ब्रह्मैवाहमस्मीत्यनुभव उदिते सर्वभेदप्रमोक्षः
जीवन्मुक्तस्तुरीयो भ्रमरहित हृदा स्वात्मसौख्यावशिष्टः ।
रागद्वेषौ न कामः क्वचिदपि न तथा भेदबुद्विश्च तस्मिन्
भायाद्वाप्यत्र तिष्ठेत्सकलमपि हुतं स्वात्मरूपे चिदग्नौ ॥ ८३॥
रूपं रूपं च भूत्वा सकल तनुषु यः प्राविशत्सोद्वयः स्यात्
``सुक्ते``दृष्टं च संर्व पुरुष इति ततः का च नारी नरः कः ।
अज्ञानी नैव जानन्विषयसुखकृते प्रेक्षते भेदभावान्
ब्रह्मज्ञानी परिव्राट् विषयविरन्तितो भिन्नभावातिरिक्तः ॥ ८४॥
यस्मान्नैवा परं वापरमिति च तथास्तीह किञ्चिच्छ्रतेर्वाग्
ज्यायो नागीय एवं न च भवति ततस्त्वेष रुद्रोत्रै सर्वः ।
श्रेष्ठःको वा कनिष्ठः पुरुष इति तथा स्त्री न कोप्यत्र भेदः
एको निष्कम्प आत्मा श्रुतिमथितमहश्चित्सुखं ब्रह्मभिक्षूः ॥ ८५॥
सच्चत्यच्चाभवद्यन्नगनगरनरारामतोऽपि स्वयं तत्
यद्भूतं यश्च भव्यं भवदिति सकलं नैव भिन्नं यतोस्मात् ।
वस्त्रे जिज्ञास्यमाने भवति किल यथा सूत्रमात्रावशेषम्
कार्ये जिज्ञास्यमाने श्रुति शिरसिमतं खल्विदं ब्रह्मभिक्षुः ॥ ८६॥
एकः सन्भिद्यते यस्तनुकरणमनो धर्मजात्यादि भेदात्
भ्रान्त्यैवेत्थं स एकः स्वयमिह बहुधा जायतेजायमानः ।
इन्द्रो मायाभिरेवं भवति निगमावाङ्नेह नानास्ति किञ्चित्
दृष्टव्योत्रैक धैवत्वज इति सततन्नामतो रूपतोऽपि ॥ ८७॥
अग्रे ज्ञानं यदासीत्तदनुगतमिदं सर्वतः स्वेन भासा
कार्यं तावज्जडं स्यादनुभव इति यो ज्ञानरूपः स सर्वः ।
कार्यं वातावज्जडं वा विदितमिह यतो ज्ञानरूपेण सर्वम्
कार्यं स्यात्कारणं चित्स्वयमिह न ततो भिन्नमेतत्स्वतोस्ति ॥ ८८॥
चिद्वीदं सर्वमेवं श्रुतिषु निगदितं नानृतं तत्कदाचित्
न स्याज्ज्ञानातिरिक्तं विदितमिह यतो ज्ञानमात्रं हि कार्यम् ।
कार्यं यज्ज्ञानरूपं चिदिति लसति तन्नाद्वितीयेत्र तिष्ठेत
भिन्नत्वं वा बहुत्वं जनिमृतिरथवा भोग्यभोक्तृत्वमन्यत् ॥ ८९॥
स्वस्मिन्सर्वस्य पूर्वं सम्रुदितमहमित्येव सर्व ततस्तत्
कार्यञ्चैत्यं जडं वा विदितमिह भवेज्ज्ञेयरूपं च दृश्यम् ।
पूर्व सर्वस्य यत्स्यात्प्रभवति सुतरां कारणं ह्यद्वयं तत्
तप्त्वैकोऽहं बहुस्यां भवति च सकलं नान्यदेतत्ततोस्मात् ॥ ९०॥
शून्यं न प्रस्फुरेत्तत्वहमिति न तथाज्ञानमेवं जडं वा
चैतन्यस्यैव भानं प्रविदितमिह तत्सर्वपूर्वं स्वमात्रम् ।
यत्स्यात्सर्वस्य पूर्वं निरतिशयसुखं स्वप्रभं केवलं सत्
स्वात्मानं ब्रह्मचावेत्तदहमिति ततः सर्वमेतच्छ्रुतेर्वाक् ॥ ९१॥
``तप्त्वा``शब्देन नासज्जडमिपि न तथा सश्चिदेवात्रं हेतुः
यस्यस्याज्ज्ञानमेवं तप इति गदितं सर्वकार्यं चितःस्यात् ।
एकं ज्ञानं विशुध्दं समभवदिति यज्ज्ञानमेवेदमग्रे
मध्याद्यन्तेषु कार्यं चिदिति तत इदं नैवमस्माद्विभिन्नम् ॥ ९२॥
यस्माज्जातं तदेवं भवित किल ततो भिन्नमीषन्न कार्यम्
कार्यें स्वार्चिः स हेतुस्त्वविकृतमनिशं स्वीयशक्त्या ह्युदेति ।
पूर्णं तत्पूर्णमेतद्द्वयरहितमितः पूर्णमादाय पूर्णम्
चिद्रूपं सर्वमेवं यदि भवति तदा निर्विकल्पं स्वयं तत् ॥ ९३॥
कस्मिन्ज्ञाते च सर्वं विदितमिह भवेहृह्म तत्स्वात्मरूपम्
तज्जं तल्लीनमेवं तदनितिसकलं खल्विदं ब्रह्म तस्मात् ।
एकीकृत्येदमेवं विविधपरिणतं कार्यमात्रं परस्मिन्
दृश्यं नीत्वात्वदृश्यं चिदिति सुखघनं पद्यते ब्रह्मभिक्षुः ॥ ९४॥
यश्चित्तस्तन्मयःस्यात्क्रतुमयपुरुषो ब्रह्ममत्वा तदेकम्
क्षीरे क्षीरे यथा तज्जलमिति च जले शुध्दमासित्कनेवम् ।
तहृह्याप्येति विद्वान्श्रुतिरिहतनुते स्यन्द्रमानश्चः नद्यः
हित्वा स्वं नामरूपे जलनिधिसलिलेस्तं प्रयान्तीह यद्वत् ॥ ९५॥
यद्वद्रज्ज्वावशिष्ठो भवति च भुजगो देशिकोक्त्या तथैतत्
कार्यं ब्रह्मावशिष्ठं विविधपरिणतं सचितानन्दमात्रम् ।
यस्यैवं नैव कार्यं करणमपि तथा विद्यतेभूद्गविष्यत
तद्ब्रह्मायं परिव्राट् निजगुरुवचसा काशते काशतेत्र ॥ ९६॥
सर्पो नैवास्ति रज्जुर्भुजग इति च सा रज्जुरत्रार्थ एकः
रज्जौ सर्पस्य बाधः क्रियत इति ततस्तद्वदेवात्र भून्मि ।
कार्यं ब्रह्मैव वास्मिन्किमपि न च तथा ब्रह्माणि स्याद्धिकार्यम्
एकोर्थो ब्रह्मचात्र स्वयमिह सततं केवलं नान्यदस्मात् ॥ ९७॥
तत्सत्यं यत्त्रिकाले निजनिरतिशयादेकरूपं स्वपूर्णम्
जातं नो वा मृतं यत्क्कचिदपि न कदा नो विकारश्च यस्मिन ।
नित्यानन्न्दात्मकं यत्स्वयमतिविमलं ज्ञानमात्रं ह्यनन्तम्
भिन्नं यस्मिन्न किञ्चिज्जनितमथ वसेश्चैकमेवाद्वयं यत् ॥ ९८॥
अग्रेऐद्वैते न चासीदसदपि न च सन्नेश्वरो वा तदानीम्
नासीद्वैराजरूपं महदपि न तथा भूम्नि जीवो रजो वा ।
नाकाशो वायुरग्निर्जलमपि पृथिवी संसृतिर्नैव विश्वम्
क्वानन्दे कस्य शर्मन्प्रलयजलमहो किं भवेदावरीवः ॥ ९९॥
नो मृत्युर्नोऐमृतत्वंं दिनमपि रजनी नो तथा सूर्यचन्द्रौ
स्वे नैवानीदवान्त किमपि न च ततोन्यत्तदेकं तदासीत् ।
सृष्टेःपूर्व यथा तघ्द्यविकृतमधुना वर्तते तावदेवम्
एतद्ब्रह्माविदित्वा कृपण इति भवेत्प्रैति यो मूढबुद्गिः ॥ १००॥
ज्ञेयं यत्तत्प्रवक्ष्याम्यहृमिति च वदत्बन्धमोक्षस्य हेतुम्
सन्नौसन्नाषि तद्वद्वदति यदुपतिर्ब्रह्म चानादि मद्यत ।
नाशौ नैवाव्ययस्य क्वचन भवति वा कोऽपि कर्तुं समर्थः
स्वाधारं नोपजीव्यं विदलयति यतः काशते काशतेत्र ॥ १०१॥
अद्वैते कार्यमेतन्मनुत इति यदाध्यस्यते भ्रान्तिरेषा
मिथ्या भ्रान्तेस्तदानीं ह्यविकृतमनिशं स्यादधिष्ठानमेकम् ।
ब्रह्मादौ मध्यतोन्ते भवति यत इदं ब्रह्ममात्रं हि कार्यम्
नाधिष्ठानात्कदापि क्वचिदपि च भवेद्गिन्नतातारोपितस्य ॥ १०२॥
नाभावः स्यात्सतो यत्सहज इति ग ततोभाव एवासतःस्यात्
नादित्येस्त्यन्धकारोसदपि सति तथा वर्तते नो कदाचित् ।
कुर्यादद्वैतबुध्दिं द्वयमिह न यतो वेदवाक्यं हिताय
खल्वेतद्ब्रह्म सर्वं तदिहमहमिति ब्रह्म विन्दते विद्वान ॥ १०३॥
ज्ञाते सत्येऽपिधत्ते जगदिति तदधिष्ठानभूवेत्र भूम्नि
रौप्यं शुक्तौ यथा स्याज्जगदिति न ततः खल्विदं ब्रह्म सर्वम् ।
यद्यद्वीक्षेत विद्वान्निजनिरतिशयात्स्वीयरूपं प्रपश्येत्
चित्सौख्यात्मस्वरूपे सकल जगदिदं नास्ति नासीद्गवेन्नो ॥ १०४॥
स्वाज्ञानज्ञानहेतू जगदुदयलयौ सर्वसाधारणौ स्तः
आजीव स्वर्णगर्भं श्रुतय इति जगुर्हूयते च प्रबोधे ।
बन्धो मोक्षश्च माया जगदिदमखिलं चापि जीवेशभेदः
रज्ज्वज्ञाने यथाहि स्तदुपरि न तथा रज्जुबोधे च तिष्ठत् ॥ १०५॥
पश्यन्पूर्णात्मरूपं सकलजगदिदं शोक मोहाद्यतीतः
शुध्दं ब्रह्माध्यगच्छन्निजनिरतिशयात्पूर्णकामः परिव्राट् ।
विस्मृत्य स्थूलसूक्ष्मे निखिलमपि च तत्स्वावृतेः कार्यभूतम्
जीवन्मुक्तस्तुरीयं पदमधिगतवान् शान्तमद्वैतरूपम् ॥ १०६॥
सर्वत्रानन्दरूपं प्रसृतमिह सदा निस्तरङ्गाब्धिवद्यत्
सत्तामात्रस्वरूपं चिदमलविभवं सर्वदेवैकरूपम् ।
सर्वेनन्दन्तु जीवा अधिगतयशसा स्वीयसच्चित्सुखाब्धौ
पूर्णानन्दाः स्म एवेत्यविरतमधुना सन्तु शान्ताच्च तृप्ताः ॥ १०७॥
सर्वानर्थातिदूरं श्रुतिशिरसि मतं मङ्गलं मङ्गलानाम्
सर्वत्राद्वैतरूपं सकल जगदधिष्ठानभूतं वरेण्यम् ।
स्मर्त्रे स्वैक्यं वितन्वन्निरवधिविमल सर्वसौभाग्यरूपम्
मायाविद्यादिहीनं सुखघनमनिशं ब्रह्म तत्सर्वदाहम् ॥ १०८॥
॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यसद्गुरुभगवता ॥
॥ श्री श्रीधरस्वामिना विरचितं परिव्राड् हृदयं सम्पूर्णम् ॥
parivrAj parivrAT (mahAbhArata, Apastambha dharmasUtra)
m. a wandering mendicant, ascetic of the fourth and
last religious order (who has renounced the world).