श्रीमदभिनवगुप्तप्रणीतः परमार्थसारः
॥ ॐ नमश्चिदात्मपरमार्थवपुषे ॥
अथ श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्ताचार्यविरचितः
परमार्थसारः ।
परं परस्थं गहनादनादिमेकं निविष्टं बहुधा गुहासु ।
सर्वालयं सर्वचराचरस्थं त्वामेव शम्भुं शरणं प्रपद्ये ॥ १॥
गर्भाधिवासपूर्वकमरणान्तकदुःखचक्रविभ्रान्तः ।
आधारं भगवन्तं शिष्यः पप्रच्छ परमार्थम् ॥ २॥
आधारकारिकाभिस्तं गुरुरभिभाषते स्म तत्सारम् ।
कथयत्यभिनवगुप्तः शिवशासनदृष्टियोगेन ॥ ३॥
निजशक्तिवैभवभरादण्डचतुष्टयमिदं विभागेन ।
शक्तिर्माया प्रकृतिः पृथ्वी चेति प्रभावितं प्रभुणा ॥ ४॥
तत्रान्तर्विश्वमिदं विचित्रतनुकरणभुवनसन्तानम् ।
भोक्ता च तत्र देही शिव एव गृहीतपशुभावः ॥ ५॥
नानाविधवर्णानां रूपं धत्ते यथाऽमलः स्फटिकः ।
सुरमानुषपशुपादपरूपत्वं तद्वदीशोऽपि ॥ ६॥
गच्छति गच्छति जल इव हिमकरबिम्बं स्थिते स्थितिं याति ।
तनुकरणभुवनवर्गे तथाऽयमात्मा महेशानः ॥ ७॥
राहुरदृश्योऽपि यथा शशिबिम्बस्थः प्रकाशते तद्वत् ।
सर्वगतोऽप्ययमात्मा विषयाश्रयणेन धीमुकुरे ॥ ८॥
आदर्शे मलरहिते यद्वद्वदनं विभाति तद्वदयम् ।
शिवशक्तिपातविमले धीतत्त्वे भाति भारूपः ॥ ९॥
भारूपं परिपूर्णं स्वात्मनि विश्रान्तितो महानन्दम् ।
इच्छासंवित्करणैर्निर्भरितमनन्तशक्तिपरिपूर्णम् ॥ १०॥
सर्वविकल्पविहीनं शुद्धं शान्तं लयोदयविहीनम् ।
यत्परतत्त्वं तस्मिन्विभाति षट्त्रिंशदात्मजगत् ॥ ११॥
दर्पणबिम्बे यद्वन्नगरग्रामादि चित्रमविभागि ।
भाति विभागेनैव च परस्परं दर्पणादपि च ॥ १२॥
विमलतमपरमभैरवबोधात्तद्वद्विभागशून्यमपि ।
अन्योन्यं च ततोऽपि च विभक्तमाभाति जगदेतत् ॥ १३॥
शिवशक्तिसदाशिवतामीश्वरविद्यामयीं च तत्त्वदशाम् ।
शक्तीनां पञ्चानां विभक्तभावेन भासयति ॥ १४॥
परमं यत्स्वातन्त्र्यं दुर्घटसम्पादनं महेशस्य ।
देवी मायाशक्तिः स्वात्मावरणं शिवस्यैतत् ॥ १५॥
मायापरिग्रहवशाद्बोधो मलिनः पुमान्पशुर्भवति ।
कालकलानियतिबलाद्रागाविद्यावशेन सम्बद्धः ॥ १६ ।
अधुनैव किंचिदेवेदमेव सर्वात्मनैव जानामि ।
मायासहितं कञ्चुकषट्कमणोरन्तरङ्गमिदमुक्तम् ॥ १७॥
कम्बुकमिव तण्डुलकणविनिविष्टं भिन्नमप्यभिदा ।
भजते तत्तु विशुद्धिं शिवमार्गौन्मुख्ययोगेन ॥ १८॥
सुखदुःखमोहमात्रं निश्चयसंकल्पनाभिमानाच्च ।
प्रकृतिरथान्तःकरणं बुद्धिमनोऽहङ्कृति क्रमशः ॥ १९॥
श्रोत्रं त्वगक्षि रसना घ्राणं बुद्धीन्द्रियाणि शब्दादौ ।
वाक्पाणिपादपायूपस्थं कर्मेन्द्रियाणि पुनः ॥ २०॥
एषां ग्राह्यो विषयः सूक्ष्मः प्रविभागवर्जितो यः स्यात् ।
तन्मात्रपञ्चकं तच्छब्दः स्पर्शो महो रसो गन्धः ॥ २१॥
एतत्संसर्गवशात्स्थूलो विषयस्तु भूतपञ्चकताम् ।
अभ्येति नभः पवनस्तेजः सलिलं च पृथ्वी च ॥ २२॥
तुष इव तण्डुलकणिकामावृणुते प्रकृतिपूर्वकः सर्गः ।
पृथ्वीपर्यन्तोऽयं चैतन्यं देहभावेन ॥ २३॥
परमावरणं मल इह सूक्ष्मं मायादि कञ्चुकं स्थूलम् ।
बाह्यं विग्रहरूपं कोशत्रयवेष्टितो ह्यात्मा ॥ २४॥
अज्ञानतिमिरयोगादेकमपि स्वं स्वभावमात्मानम् ।
ग्राह्यग्राहकनानावैचित्र्येणावबुध्येत ॥ २५॥
रसफाणितशर्करिकागुडखण्डाद्या यथेक्षुरस एव ।
तद्वदवस्थाभेदाः सर्वे परमात्मनः शम्भोः ॥ २६॥
विज्ञानान्तर्यामिप्राणविराड्देहजातिपिण्डान्ताः ।
व्यवहारमात्रमेतत्परमार्थेन तु न सन्त्येव ॥ २७॥
रज्ज्वां नास्ति भुजङ्गस्त्रासं कुरुते च मृत्युपर्यन्तम् ।
भ्रान्तेर्महती शक्तिर्न विवेक्तुं शक्यते नाम ॥ २८॥
तद्वद्धर्माधर्मस्वर्निरयोत्पत्तिमरणसुखदुःखम् ।
वर्णाश्रमादि चात्मन्यसदपि विभ्रमबलाद्भवति ॥ २९॥
एतत्तदन्धकारं यद्भावेषु प्रकाशमानतया ।
आत्मानतिरिक्तेष्वपि भवत्यनात्माभिमानोऽयम् ॥ ३०॥
तिमिरादपि तिमिरमिदं गण्डस्योपरि महानयं स्फोटः ।
यदनात्मन्यपि देहप्राणादावात्ममानित्वम् ॥ ३१॥
देहप्राणविमर्शनधीज्ञाननभःप्रपञ्चयोगेन ।
आत्मानं वेष्टयते चित्रं जालेन जालकार इव ॥ ३२॥
स्वज्ञानविभवभासनयोगेनोद्वेष्टयेन्निजात्मानम् ।
इति बन्धमोक्षचित्रां क्रीडां प्रतनोति परमशिवः ॥ ३३॥
सृष्टिस्थितिसंहारा जाग्रत्स्वप्नौ सुषुप्तमिति तस्मिन् ।
भान्ति तुरीये धामनि तथापि तैर्नावृतं भाति ॥ ३४॥
जाग्रद्विश्वं भेदात्स्वप्नस्तेजः प्रकाशमाहात्म्यात् ।
प्राज्ञः सुप्तावस्था ज्ञानघनत्वात्ततः परं तुर्यम् ॥ ३५॥
जलधरधूमरजोभिर्मलिनीक्रियते यथा न गगनतलम् ।
तद्वन्मायाविकृतिभिरपरामृष्टः परः पुरुषः ॥ ३६॥
एकस्मिन्घटगगने रजसा व्याप्ते भवन्ति नान्यानि ।
मलिनानि तद्वदेते जीइवाः सुखदुःखभेदजुषः ॥ ३७॥
शान्ते शान्त इवायं हृष्टे हृष्टो विमोहवति मूढः ।
तत्त्वगणे सति भगवान्न पुनः परमार्थतः स तथा ॥ ३८॥
यदनात्मन्यपि तद्रूपावभासनं तत्पुरा निराकृत्य ।
आत्मन्यनात्मरूपां भ्रान्तिं विदलयति परमात्मा ॥ ३९॥
इत्थं विभ्रमयुगलकसमूलविच्छेदने कृतार्थस्य ।
कर्तव्यान्तरकलना न जातु परयोगिनो भवति ॥ ४०॥
पृथिवी प्रकृतिर्माया त्रितयमिदं वेद्यरूपतापतितम् ।
अद्वैतभावनबलाद्भवति हि सन्मात्रपरिशेषम् ॥ ४१॥
रशनाकुण्डलकटकं भेदत्यागेन दृश्यते यथा हेम ।
तद्वद्भेदत्यागे सन्मात्रं सर्वमाभाति ॥ ४२॥
तद्ब्रह्म परं शुद्धं शान्तमभेदात्मकं समं सकलम् ।
अमृतं सत्यं शक्तौ विश्राम्यति भास्वरूपायाम् ॥ ४३॥
इष्यत इति वेद्यत इति सम्पाद्यत इति च भास्वरूपेण ।
अपरामृष्टं यदपि तु नभःप्रसूनत्वमभ्येति ॥ ४४॥
शक्तित्रिशूलपरिगमयोगेन समस्तमपि परमेशे ।
शिवनामनि परमार्थे विसृज्यते देवदेवेन ॥ ४५॥
पुनरपि च पञ्चशक्तिप्रसरणक्रमेण बहिरपि तत् ।
अण्डत्रयं विचित्रं सृष्टं बहिरात्मलाभेन ॥ ४६॥
इति शक्तिचक्रयन्त्रं क्रीडायोगेन वाहयन्देवः ।
अहमेव शुद्धरूपः शक्तिमहाचक्रनायकपदस्थः ॥ ४७॥
मय्येव भाति विश्वं दर्पण इव निर्मले घटादीनि ।
मत्तः प्रसरति सर्वं स्वप्नविचित्रत्वमिव सुप्तात् ॥ ४८॥
अहमेव विश्वरूपः करचरणादिस्वभाव इव देहः ।
सर्वस्मिन्नहमेव स्फुरामि भावेषु भास्वरूपमिव ॥ ४९॥
द्रष्टा श्रोता घ्राता देहेन्द्रियवर्जितोऽप्यकर्तापि ।
सिद्धान्तागमतर्कांश्चित्रानहमेव रचयामि ॥ ५०॥
इत्थं द्वैतविकल्पे गलिते प्रविलङ्घ्य मोहनीं मायाम् ।
सलिले सलिलं क्षीरे क्षीरमिव ब्रह्मणि लयी स्यात् ॥ ५१॥
इत्थं तत्त्वसमूहे भावनया शिवमयत्वमभियाते ।
कः शोकः को मोहः सर्वं ब्रह्मावलोकयतः ॥ ५२॥
कर्मफलं शुभमशुभं मिथ्याज्ञानेन संगमादेव ।
विषमो हि संगदोषस्तस्करयोगोऽप्यतस्करस्येव ॥ ५३॥
लोकव्यवहारकृतां य इहाविद्यामुपासते मूढाः ।
ते यान्ति जन्ममृत्यू धर्माधर्मार्गलाबद्धाः ॥ ५४॥
अज्ञानकालनिचितं धर्माधर्मात्मकं तु कर्मापि ।
चिरसंचितमिव तूलं नश्यति विज्ञानदीप्तिवशात् ॥ ५५॥
ज्ञानप्राप्तौ कृतमपि न फलाय ततोऽस्य जन्म कथम् ।
गतजन्मबन्धयोगो भाति शिवार्कः स्वदीधितिभिः ॥ ५६॥
तुषकम्बुककिंशारुकमुक्तं बीजं यथाङ्कुरं कुरुते ।
नैव तथाणवमायाकर्मविमुक्तो भवाङ्कुरं ह्यात्मा ॥ ५७॥
आत्मज्ञो न कुतश्चन बिभेति सर्वं हि तस्य निजरूपम् ।
नैव च शोचति यस्मात्परमार्थे नाशिता नास्ति ॥ ५८॥
अतिगूढहृदयगञ्जप्ररूढपरमार्थरत्नसंचयतः ।
अहमेवेति महेश्वरभावे का दुर्गतिः कस्य ॥ ५९॥
मोक्षस्य नैव किंचिद्धामास्ति न चापि गमनमन्यत्र ।
अज्ञानग्रन्थिभिदा स्वशक्त्यभिव्यक्तता मोक्षः ॥ ६०॥
भिन्नाज्ञानग्रन्थिर्गतसन्देहः पराकृतभ्रान्तिः ।
प्रक्षीणपुण्यपापो विग्रहयोगेऽप्यसौ मुक्तः ॥ ६१॥
अग्न्यभिदग्धं बीजं यथा प्ररोहासमर्थतामेति ।
ज्ञानाग्निदग्धमेवं कर्म न जन्मप्रदं भवति ॥ ६२॥
परिमितबुद्धित्वेन हि कर्मोचितभाविदेहभावनया ।
संकुचिता चितिरेतद्देहध्वंसे तथा भवति ॥ ६३॥
यदि पुनरमलं बोधं सर्वसमुत्तीर्णबोद्धृकर्तृमयम् ।
विततमनस्तमितोदितभारूपं सत्यसंकल्पम् ॥ ६४॥
दिक्कालकलनविकलं ध्रुवमव्ययमीश्वरं सुपरिपूर्णम् ।
बहुतरशक्तिव्रातप्रलयोदयविरचनैककर्तारम् ॥ ६५॥
सृष्ट्यादिविधिसुवेधसमात्मानं शिवमयं विबुद्ध्येत ।
कथमिव संसारी स्याद्विततस्य कुतः क्व वा सरणम् ॥ ६६॥
इति युक्तिभिरपि सिद्धं यत्कर्म ज्ञानिनो न सफलं तत् ।
न ममेदमपि तु तस्येति दार्ढ्यतो न हि फलं लोके ॥ ६७॥
इत्थं सकलविकल्पान्प्रतिबुद्धो भावनासमीरणतः ।
आत्मज्योतिषि दीप्ते जुह्वज्ज्योतिर्मयो भवति ॥ ६८॥
अश्नन्यद्वा तद्वा संवीतो येन केनचिच्छान्तः ।
यत्र क्वचन निवासी विमुच्यते सर्वभूतात्मा ॥ ६९॥
हयमेधशतसहस्राण्यपि कुरुते ब्रह्मघातलक्षाणि ।
परमार्थविन्न पुण्यैर्न च पापैः स्पृश्यते विमलः ॥ ७०॥
मदहर्षकोपमन्मथविषादभयलोभमोहपरिवर्जी ।
निःस्तोत्रवषट्कारो जड इव विचरेदवादमतिः ॥ ७१॥
मदहर्षप्रभृतिरयं वर्गः प्रभवति विभेदसम्मोहात् ।
अद्वैतात्मविबोधस्तेन कथं स्पृश्यतां नाम ॥ ७२॥
स्तुत्यं वा होतव्यं नास्ति व्यतिरिक्तमस्य किंचन च ।
स्तोत्रादिना स तुष्येन्मुक्तस्तन्निर्नमस्कृतिवषट्कः ॥ ७३॥
षट्त्रिंशत्तत्त्वभृतं विग्रहरचनागवाक्षपरिपूर्णम् ।
निजमन्यदथ शरीरं घटादि वा तस्य देवगृहम् ॥ ७४॥
तत्र च परमात्ममहाभैरवशिवदेवतां स्वशक्तियुताम् ।
आत्मामर्शनविमलद्रव्यैः परिपूजयन्नास्ते ॥ ७५॥
बहिरन्तरपरिकल्पनभेदमहाबीजनिचयमर्पयतः ।
तस्यातिदीप्तसंविज्ज्वलने यत्नाद्विना भवति होमः ॥ ७६॥
ध्यानमनस्तमितं पुनरेष हि भगवान्विचित्ररूपाणि ।
सृजति तदेव ध्यानं संकल्पालिखितसत्यरूपत्वम् ॥ ७७॥
भुवनावलीं समस्तां तत्त्वक्रमकल्पनामथाक्षगणम् ।
अन्तर्बोधे परिवर्तयति च यत्सोऽस्य जप उदितः ॥ ७८॥
सर्वं समया दृष्ट्या यत्पश्यति यच्च संविदं मनुते ।
विश्वश्मशाननिरतां विग्रहखट्वाङ्गकल्पनाकलिताम् ॥ ७९॥
विश्वरसासवपूर्णं निजकरगं वेद्यखण्डककपालम् ।
रसयति च यत्तदेतद्व्रतमस्य सुदुर्लभं च सुलभं च ॥ ८०॥
इति जन्मनाशहीनं परमार्थमहेश्वराख्यमुपलभ्य ।
उपलब्धृताप्रकाशात्कृतकृत्यस्तिष्ठति यथेष्टम् ॥ ८१॥
व्यापिनमभिहितमित्थं सर्वात्मानं विधूतनानात्वम् ।
निरुपमपरमानन्दं यो वेत्ति स तन्मयो भवति ॥ ८२॥
तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन्देहम् ।
ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः ॥ ८३॥
पुण्याय तीर्थसेवा निरयाय श्वपचसदननिधनगतिः ।
पुण्यापुण्यकलङ्कस्पर्शाभावे तु किं तेन ॥ ८४॥
तुषकम्बुकसुपृथक्कृततण्डुलकणतुषदलान्तरक्षेपः ।
तण्डुलकणस्य कुरुते न पुनस्तद्रूपतादात्म्यम् ॥ ८५॥
तद्वत्कञ्चुकपटलीपृथक्कृता संविदत्र संस्कारात् ।
तिष्ठन्त्यपि मुक्तात्मा तत्स्पर्शविवर्जिता भवति ॥ ८६॥
कुशलतमशिल्पिकल्पितविमलीभावः समुद्गकोपाधेः ।
मलिनोऽपि मणिरुपाधेर्विच्छेदे स्वच्छपरमार्थः ॥ ८७॥
एवं सद्गुरुशासनविमलस्थिति वेदनं तनूपाधेः ।
मुक्तमप्युपाध्यन्तरशून्यमिवाभाति शिवरूपम् ॥ ८८॥
शास्त्रादिप्रामाण्यादविचलितश्रद्धयापि तन्मयताम् ।
प्राप्तः स एव पूर्वं स्वर्गं नरकं मनुष्यत्वम् ॥ ८९॥
अन्त्यः क्षणस्तु तस्मिन्पुण्यां पापां च वा स्थितिं पुष्यन् ।
मूढानां सहकारिभावं गच्छति गतौ तु न स हेतुः ॥ ९०॥
येऽपि तदात्मत्वेन विदुः पशुपक्षिसरीसृपादयः स्वगतिम् ।
तेऽपि पुरातनसम्बोधसंस्कृतास्तां गतिं यान्ति ॥ ९१॥
स्वर्गमयो निरयमयस्तदयं देहान्तरालगः पुरुषः ।
तद्भङ्गे स्वौचित्याद्देहान्तरयोगमभ्येति ॥ ९२॥
एवं ज्ञानावसरे स्वात्मा सकृदस्य यादृगवभातः ।
तादृश एव तदासौ न देहपातेऽन्यथा भवति ॥ ९३॥
करणगणसम्प्रमोषः स्मृतिनाशः श्वासकलिलताच्छेदः ।
मर्मसु रुजाविशेषाः शरीरसंस्कारजो भोगः ॥ ९४॥
स कथं विग्रहयोगे सति न भवेत्तेन मोहयोगेऽपि ।
मरणावसरे ज्ञानी न च्यवते स्वात्मपरमार्थात् ॥ ९५॥
परमार्थमार्गमेनं झटिति यदा गुरुमुखात्समभ्येति ।
अतितीव्रशक्तिपातात्तदैव निर्विघ्नमेव शिवः ॥ ९६॥
सर्वोत्तीर्णं रूपं सोपानपदक्रमेण संश्रयतः ।
परतत्त्वरूढिलाभे पर्यन्ते शिवमयीभावः ॥ ९७॥
तस्य तु परमार्थमयीं धारामगतस्य मध्यविश्रान्तेः ।
तत्पदलाभोत्सुकचेतसोऽपि मरणं कदाचित्स्यात् ॥ ९८॥
योगभ्रष्टः शास्त्रे कथितोऽसौ चित्रभोगभुवनपतिः ।
विश्रान्तिस्थानवशाद्भूत्वा जन्मान्तरे शिवीभवति ॥ ९९॥
परमार्थमार्गमेनं ह्यभ्यस्याप्राप्य योगमपि नाम ।
सुरलोकभोगभागी मुदितमना मोदते सुचिरम् ॥ १००॥
विषयेषु सार्वभौमः सर्वजनैः पूज्यते यथा राजा ।
भुवनेषु सर्वदेवैर्योगभ्रष्टस्तथा पूज्यः ॥ १०१॥
महता कालेन पुनर्मानुष्यं प्राप्य योगमभ्यस्य ।
प्राप्नोति दिव्यममृतं यस्मादावर्तते न पुनः ॥ १०२॥
तस्मात्सन्मार्गेऽस्मिन्निरतो यः कश्चिदेति स शिवत्वम् ।
इति मत्वा परमार्थे यथातथापि प्रयतनीयम् ॥ १०३॥
इदमभिनवगुप्तोदितसंक्षेपं ध्यायतः परं ब्रह्म ।
अचिरादेव शिवत्वं निजहृदयावेशमभ्येति ॥ १०४॥
आर्याशतेन तदिदं संक्षिप्तं शास्त्रसारमतिगूढम् ।
अभिनवगुप्तेन मया शिवचरणस्मरणदीप्तेन ॥ १०५॥
इति श्रीमहामाहेश्वराचार्याभिनवगुप्तविरचितः परमार्थसारः ॥
Encoded and proofread by Suryansu Ray