धर्मपदम्
१. यमकवर्गः प्रथमः
मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोमयाः ।
मनसा चेत्प्रदुष्टेन भाषते वा करोति वा ।
ततो एनं दुःखमन्वेति चक्रमिव वहतः पदम् ॥ १॥
मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोमयाः ।
मनसा चेत्प्रसन्नेन भाषते वा करोति वा ।
तत एनं सुखमन्वेति छायेवानपायिनी ॥ २॥
अक्रोशित् मां अवधी मां अजैषीत् मां अहार्षीत् मे ।
ये च तदुपनह्यन्ति वैरं तेषां न शाम्यति ॥ ३॥
अक्रोशित् मां अवधीत् मां अजैषीत् मां अहार्षीत् मे ।
ये तन्नोपनह्यन्ति वैरं तेषूपशाम्यति ॥ ४॥
नहि वैरेण वैराणी शाम्यन्तीह कदाचन ।
अवैरेण च शाम्यन्ति एष धर्मः सनातनः ॥ ५॥
परे च न विजानन्ति वयमत्र यंस्यामः ।
ये च तत्र विजानन्ति ततः शाम्यन्ति मेधगाः ॥ ६॥
शुभमनुपश्यन्तं विहरन्तमिन्द्रियेषु असंवृतम् ।
भोजनेऽमात्राज्ञं कुसीदं हीनवीर्यम् ।
तं वै प्रसहति मारो वातो वृक्षमिव दुर्बलम् ॥ ७॥
अशुभमनुपश्यन्तं विहरन्तं इन्द्रियेषु सुसंवृतम् ।
भोजने च मात्राज्ञं श्रद्धमाराब्धवीर्यम् ।
तं वै न प्रसहते मारो वातः शैलमिव पर्वतम् ॥ ८॥
अनिष्कषायः काषायं यो वस्त्रं परिधास्यति ।
अपेतो दमसत्याभ्यां न स काषायमर्हति ॥ ९॥
यश्च वान्तकषायः स्यात् शीलेषु सुसमाहितः ।
उपेतो दम-सत्याभ्यां स वै काषायमर्हति ॥ १०॥
असारे सारमतयः सारे चासारदर्शिनः ।
ते सारं नाधिगच्छन्ति मिथ्यासङ्कल्पगोचराः ॥ ११॥
सारं च सारतो ज्ञात्वा असारं च असारतः ।
ते सारं अधिगच्छन्ति सम्यक्-सङ्कल्प-गोचराः ॥ १२॥
यथागारं दुश्छन्नं वृष्टिः समतिविध्यति ।
एवं अभावितं चित्तं रागः समतिविध्यति ॥ १३॥
यथागारं सुच्छन्नं वृष्टिर्न समति विध्यति ।
एवं सुभावितं चित्तं रागो न समति विध्यति ॥ १४॥
इह शोचति प्रेत्त्य शोचति पापकारी उभयत्र शोचति ।
स शोचति स विहन्यते दृष्ट्वा कर्म क्लिष्टमात्मनः ॥ १५॥
इह मोदते प्रेत्त्य मोदते कृतपुण्य उभयत्र मोदते ।
स मोदते स प्रमोदते दृष्ट्वा कर्मविशुद्धिमात्मनः ॥ १६॥
इह तप्यति प्रेत्त्य तप्यति पापकारी उभयत्र तप्यति ।
पापं मे कृतमिति तप्यति भूयस्तप्यति दुर्गतिंगतः ॥ १७॥
इह नन्दति प्रेत्य नन्दति कृतपुण्य उभयत्र नन्दति ।
पुण्यं मे कृतमिति नन्दति भूयो नन्दति सुगतिंगतः ॥ १८॥
बह्यीमपि संहितां भाषमाणः न तत्करो भवति नरः प्रमत्तः ।
गोप इव गा गणयन् परेषां न भागवान् श्रामण्यस्य भवति ॥ १९॥
अल्पमपि संहितां भाषमाणो धर्मस्य भवत्यनुधर्मचारी ।
रागं च द्वेषं च प्रहाय मोहं सम्यक् प्रजानन् सुविमुक्तचित्तः ।
अनुपाददानः इह वाऽमुत्र वा स भागवान् श्रामण्यस्य भवति ॥ २०॥
॥ इति यमकवर्गः समाप्तः ॥
२. अप्रमादवर्गः द्वितीयः
अप्रमादोऽमृतपदं प्रमादो मृत्योः पदम् ।
अप्रमत्ता न म्रियन्ते ये प्रमत्ता यथा मृताः॥ १॥
एतं विशेषतो ज्ञात्वाऽप्रमादे पण्डिता ।
अप्रमादे प्रमोदन्त आर्याणां गोचरे रताः ॥ २॥
ते ध्यायिनः साततिका नित्त्यं दृढपराक्रमाः ।
स्पृशन्ति धीरा निर्वाणं योगक्षेमं अनुत्तरम् ॥ ३॥
उत्थानवतः स्मृतिमतः शुचिकर्मणो निशम्यकारिणः ।
संयतस्य च धर्मजीवनोऽप्रमत्तस्य यशोभिवर्द्धते ॥ ४॥
उत्थानेनाऽप्रमादेन संयमेन दमेन च ।
द्वीपं कुर्वन्ति मेधावी यं ओघो नाभिकिरति ॥ ५॥
प्रमादमनुयुञ्जन्ति बाला दुर्मेधसो जना ।
अपमादं च मेधावी धनं श्रेष्ठमिव रक्षति ॥ ६॥
मा प्रमादमनुयुञ्जीत मा कामरतिसंस्तवम् ।
अप्रमत्तो हि ध्यायन् प्राप्नोति विपुलं सुखम् ॥ ७॥
प्रमादमप्रमादेन यदा नुदति पण्डितः ।
प्रज्ञाप्रासादमारुह्य अशोकः शोकिनीं प्रजाग् ।
पर्वतस्थ इव भूमिस्थान् धीरो बलान् अवेक्षते ॥ ८॥
अप्रमत्तः प्रमत्तेषु सुप्तेषु बहुजागरः ।
अबलाश्वमिव शीघ्राश्वो हित्त्वा याति सुमेधाः ॥ ९॥
अप्रमादेन मघवा देवानां श्रेष्ठतां गतः ।
अप्रमादं प्रशंसन्ति प्रमादो गर्हितः सदा ॥ १०॥
अप्रमादरतो भिक्षुः प्रमादे भयदर्शी वा ।
सायोजनं अणुं स्थूलं दहन्नग्निरिव गच्छति ॥ ११॥
अप्रमादरतो भिक्षुः प्रमादे भयदर्शी वा ।
अभव्यः परिहाणाय निर्वाणस्यैव अन्तिके ॥ १२॥
॥ इति अप्रमादवर्गः समाप्तः ॥
३. चित्तवर्गस्तृतीयः
स्पन्दनं चपलं चित्तं दुरक्ष्यं दुर्निवार्यम् ।
ऋजुं करोति मेधावी इषुकार इव तेजनम् ॥ १॥
वारिजं इव स्थले क्षिप्तं उदकस्यौकत उद्भूतः ।
परिस्पन्दत इदं चित्तं मारधेयं प्रहातुम् ॥ २॥
दुर्निग्रहस्य लघुनो यत्र-काम-निपातिनः ।
चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम् ॥ ३॥
सुदुर्दृशं सुनिपुणं यत्र-कामनिपाति ।
चित्तं रक्षेन्मेधावी चित्तं गुप्तं सुखावहम् ॥ ४
दूरङ्गमं एकचरं अशरीरं गुहाशयम् ।
ये चित्तं संयंस्यन्ति मोक्ष्यन्ते मारबन्धनात् ॥ ५॥
अनवस्थितचित्तस्य सद्धर्मं अविजानतः ।
परिप्लवप्रसादस्य प्रज्ञा न परिपूर्यते ॥ ६॥
अनवस्रुत चित्तस्य अनन्वाहतचेतसः ।
पुण्यपापप्रहीणस्य नाऽस्ति जाग्रतो भयम् ॥ ७॥
कुंभोपमं कायमिमं विदित्वा नगरोपमं चित्तमिदं स्थापयित्त्वा ।
युध्येत मारं प्रज्ञायुधेन जितं च रक्षेदनिवेशनः स्यात् ॥ ८॥
अचिरं वतायं कायः पृथिवीं अधिशेष्यते ।
क्षुद्रोऽपेतविज्ञानो निरर्थं इव कलिङ्गरम् ॥ ९॥
द्विट् द्विषं यत् कुर्यात् वैरी वा पुनर्वैरिणम् ।
मिथ्याप्रणिहितं चित्तं पापीयांसं एनं ततः कुर्यात् ॥ १०॥
न तत् मातापितरौ कुर्यातां अन्ये चापि च ज्ञातिकाः ।
सम्यक्प्रणिहितं चित्तं श्रेयांसं एनं ततः कुर्यात् ॥ ११॥
॥ इति चित्तवर्गः समाप्तः ॥
४. पुष्पवर्गश्चतुर्त्थः
क इमां पृथिवीं विजेष्यते यमलोकं चेमं सदेवकम् ।
को धर्मपदं सुदेशितं कुशलः पुष्पमिव प्रचेष्यति ॥ १॥
शैक्षः पृथवीं विजेष्यते यमलोकं च इमं सदेवकम् ।
शैक्षो धर्मपदं सुदेशितं कुशलः पुष्पमिव प्रचेष्यति ॥ २॥
फेनोपमं कायमिमं विदित्वा मरीचिधर्मं अभिसंबुधानः ।
छित्वा मारस्य प्रपुष्पकाणि अदर्शनं मृत्युराजस्य गच्छेत् ॥ ३॥
पुष्पाणि ह्येव प्रचिन्वन्तं व्यासक्तमनसं नरम् ।
सुप्तं ग्रामं महोघ इव मृत्युरादाय गच्छति ॥ ४॥
पुष्पाणि ह्येव प्रचिन्वन्तं व्यासक्तमनसं नरम् ।
अतृप्तमेव कामेषु अन्तकः कुरुते वशम् ॥ ५॥
यथापि भ्रमरः पुष्पं वर्णगन्धं अघ्नन् ।
पलायते रसमादाय एवं ग्रामे मुनिश्चरेत् ॥ ६॥
न परेषां विलोमानि न परेषां कृताकृतम् ।
आत्मनं एव अवेक्षेत कृतान्यकृतानि च ॥ ७॥
यथापि रुचिरं पुष्पं वर्णवदगन्धकम् ।
एवं सुभाषिता वाक् सफला भवति कुर्वतः ॥ ८॥
यथापि रुचिरं पुष्पं वर्णवत् सगन्धकम् ।
एवं सुभाषिता वाक् सफला भवति कुर्वतः ॥ ९॥
यथापि पुष्पराशेः कुर्यात् मालागुणान् बहून् ।
एवं जातेन मर्त्त्येन कर्त्तव्यं कुशलं बहु ॥ १०॥
न पुष्पगन्धः प्रतिवातमेति न चन्दनं तगरमल्लिके वा ।
सताञ्च गन्धः प्रतिवातमेति सर्वा दिशः सत्पुरुषः प्रवाति ॥ ११॥
चन्दनं तगरं वापि उत्पलं अथ वार्षिकी ।
एतेषां गन्धजातानां शीलगन्धोऽनुत्तरः ॥ १२॥
अल्पमात्रोऽयं गन्धो योऽयं तगरचन्दनी ।
यश्च शीलवतां गन्धो वाति देवेषु उत्तमः ॥ १३॥
तेषां सम्पन्नशीलानां अप्रमाद-विहारिणाम् ।
सम्यग्ज्ञानविमुक्त्तानां मारो मार्गं न विन्दति ॥ १४॥
यता सङ्कारधाने उज्झिते महापथे ।
पद्म तत्र जायेत शुचिगन्धं मनोरमम् ॥ १५॥
एवं सङ्कारभूते अन्धभूते पृथग्जने ।
अतिरोचते प्रज्ञया सम्यक्-संबुद्ध-श्रावकः ॥ १६॥
॥ इति पुष्पवर्गः समाप्तः ॥
५. बालवर्गः पञ्चमः
दीर्घा जाग्रतो रात्रिः दीर्घं श्रान्तस्य योजनम् ।
दीर्घो बालानां संसारः सद्धर्मं अविजानताम् ॥ १॥
चरन् चेत् नाधिगच्छेत् श्रेयांसं सदृशं आत्मनः ।
एकचर्यां दृढं कुर्यात् नाऽस्ति बाले सहायता ॥ २॥
पुत्रा मे सन्ति धनं मेऽस्ति इति बालो विहन्यते ।
आत्मा ह्यात्मनो नाऽस्ति कुतः पुत्राः कुतो धनम् ॥ ३॥
यो बालो मन्यते बाल्यं पण्डितश्चापि तेन स ।
बालश्च पण्डितमानी स वै बाल इत्युच्यते ॥ ४॥
यावज्जीवमपि चेद् बालः पण्डितं पर्युपासते ।
न स धर्मं विजानाति दर्वी सूपरसं यथा ॥ ५॥
मुहूर्त्तमपि चेद् विज्ञाः पण्डितं पर्युपासते ।
क्षिप्रं धर्मं विजानाति जिह्वा सूपरसं यथा ॥ ६॥
चरन्ति बाला दुर्मेधसोऽमित्रेणैवात्मना ।
कुर्वन्तः पापकं कर्मं यद्भवति कटुकफलम् ॥ ७॥
न तत् कर्म कृतं साधु यत् कृत्त्वाऽनुतप्यते ।
यस्याश्रुमुखो रुदन् विपाकं प्रतिसेवते ॥ ८॥
तच्च कर्मं कृतं साधु यत् कृत्वा नानुतप्यते ।
यस्य प्रतीतः सुमन विपाकं प्रतिसेवते ॥ ९॥
मध्विव मन्यते बालो यावत् पापं न पच्यते ।
यदा च पच्यते पापं अथ बालो दुःखं निगच्छति ॥ १०॥
मासे मासे कुशाग्रेण बालो भुञ्जीत भोजनम् ।
न स संख्यातधर्माणां कलामर्हति षोडशीम् ॥ ११॥
नहि पापं कृतं कर्म सद्यः क्षीरमिव मुञ्चति ।
दहन् बालमन्वेति भस्मच्छन्न इव पावकः ॥ १२॥
यावदेव अनर्थाय ज्ञप्तं बालस्य जायते ।
हन्ति बालस्य शुक्लांशं मूर्द्धानमस्य विपातयन् ॥ १३॥
असद् भवनमिच्छेत् पुरस्कारं च भिक्षुषु ।
आवासेषु चैश्वर्यं पूजां परकुलेषु च ॥ १४॥
ममैव कृतं मन्येतां गृहि-प्रव्रजितावुभौ ।
ममैवातिवशाः स्यातां कृत्याकृत्येषु कषु चित् ।
इति बालस्य सङ्कल्प इच्छा मानश्च वर्द्धते ॥ १५॥
अन्या हि लाभोपनिषद् अन्या निर्वाणगामिनि ।
एवमेतद् अभिज्ञाय भिक्षुर्बुद्धस्य श्रावकः ।
सत्कारं नाभिनन्देत् विवेकमनुबृंहयेत् ॥ १६॥
॥ इति बालवर्गः समाप्तः ॥
६. पण्डितवर्गः षष्ठः
निधीनामिव प्रवक्तारं यं पश्येत् वर्ज्यदर्शिनाम् ।
निगृह्यवादिनं मेधाविनं तादृशं पण्डितं भजेत् ।
तादृशं भजमानस्य श्रेयो भवति न पापीयः ॥ १॥
अववदेदनुशिष्यात् असभ्याच्च निवारयेत् ।
सतां हि स प्रियो भवति असतां भवत्यप्रियः ॥ २॥
न भजेत् पापकानि मित्राणि न भजेत् पुरुषाधमान् ।
भजेत् मित्राणि कल्याणानि भजेत पुरुषनुत्तमान् ॥ ३॥
धर्मपीतीः सुखं शेते विप्रसन्नेन चेतसा ।
आर्यप्रवेदिते धर्मे सदा रमते पण्डितः ॥ ४॥
उदकं हि नयन्ति नेतृका इषुकारा नमयन्ति तेजनम् ।
दारुं नमयन्ति तक्षका आत्मानं दमयन्ति पण्डिताः ॥ ५॥
शैलो यथैकघनो वातेन न समीर्यते ।
एवं निन्दाप्रशंसासु न समीर्यन्ते पण्डिताः ॥ ६॥
यथापि हृदो गंभीरो विप्रसन्नोऽनाविलः ।
एवं धर्मान् श्रुत्वा विप्रसीदन्ति पण्डिताः ॥ ७॥
सर्वत्र वै सत्पुरुषा व्रजन्ति न कामकामा लपन्ति सन्तः ।
सुखेन स्पृष्टा अथवा दुःखेन नोच्चावचं पण्डिता दर्शयन्ति ॥ ८॥
नात्महेतोः न परस्य हेतोः न पुत्रमिच्छेन्न धनं न राष्ट्रम् ।
नेच्छेद् अधर्मेण समृद्धिमात्मनः स शीलवान् प्रज्ञावान् धार्मिकः स्यात् ॥
९॥
अल्पकास्ते मनुष्येषु ये जनाः पारगामिनः ।
अथेमा इतराः प्रजाः तीरमेवानुधावति ॥ १०॥
ये च खलु सम्यगाख्याते धर्मे धर्मानुवर्त्तिनः ।
ते जना पारमेष्यन्ति मृत्युधेयं सुदुस्तरम् ॥ ११॥
कृष्णं धर्मं विप्रहाय शुक्लं भावयेत् पण्डितः ।
ओकात् अनोकं आगम्य विवेके यत्र दुरमम् ॥ १२॥
तत्राभिरतिमिच्छेत् हित्त्वा कामान् अकिञ्चनः ।
पर्यवदापयेत् आत्मानं चित्तक्लेशैः पण्डितः ॥ १३॥
येषां संबोध्यंगेषु सम्यग्चित्तं सुभावितम् ।
आदानप्रतिनिःसर्गे अनुपादाय ये रताः ।
क्षीणास्रवा ज्योतिष्मन्तस्ते लोके परिनिर्वृताः ॥ १४॥
॥ इति पण्डितवर्ग समाप्तः ॥
७. अर्हद्वर्गः सप्तमः
गताध्वनो विशोकस्य विप्रमुक्तस्य सर्वथा ।
सर्वग्रन्थप्रहीणस्य परिदाहो न विद्यते ॥ १॥
उद्युञ्जते स्मृतिमन्तो न निकेते रमन्ते ते ।
हंसा इव पल्वलं हित्त्वा ओकमोकं जहति ते ॥ २॥
येषां सन्निचयो नाऽस्ति ये परिज्ञातभोजनाः ।
शून्यतोऽनिमित्तश्च विमोक्षो येषां गोचरः ।
आकाश इव शकुन्तानां गतिस्तेषां दुरन्वया ॥ ३॥
यस्यास्रवाः परिक्षीणा आहारे च अनिःसृतः ।
शून्यतोऽनिमित्तश्च विमोक्षो यस्य गोचरः ।
आकाश इव शकुन्तानां पदं तस्य दुरन्वयम् ॥ ४॥
यस्येन्द्रियाणि शमथं गतानि अश्वा यथा सारथिना सुदान्ताः ।
प्रहीणमानस्य अनास्रवस्य देवा अपि तस्य स्पृहयन्ति तादृशः ॥ ५॥
पृथिवीसमो न विरुध्यते इन्द्रकीलोपमः तादृक् सुव्रतः ।
हृद इवापेतकर्दमः संसारा न भवन्ति तादृशः ॥ ६॥
शान्तं तस्य मनो भवति वाक् च कर्म च ।
सम्यगाज्ञाविमुक्तस्य उपशान्तस्य तादृशः ॥ ७॥
अश्रद्धोऽकृतज्ञश्च सन्धिछेदश्च यो नरः ।
हतावकाशो वान्ताशः स वै उत्तम पुरुषः ॥ ८॥
ग्रामे वा यदि वाऽऽरण्ये निम्ने वा यदि वा स्थले ।
यत्रार्हन्तो विहरन्ति सा भूमी रामणीयका ॥ ९॥
रमणीयान्यरण्यानि यत्र न रमते जनः ।
वीतरागा रंस्यन्ते न ते कामगवेषिणः ॥ १०॥
॥ इति अर्हद्वर्गः समाप्तः ॥
८. सहस्रवर्गो अष्टमः
सहस्रमपि चेद् वाचोऽनर्थपदसंहिता ।
एकमर्थपदं श्रेयो यत् श्रुत्त्वोपशाम्यति ॥ १॥
सहस्रमपि चेद्गाथा अनर्त्थपदसंहिता ।
एकं गाथापदं श्रेयो यत् श्रुत्त्वोपशाम्यति ॥ २॥
यश्च गाथाशतं भाषेतानर्थपदसंहिताः ।
एकं धर्मपदं श्रेयो यत् श्रुत्त्वोपशाम्यति ॥ ३॥
यः सहस्रं सहस्रेण संग्रामे मानुषान् जयेत् ।
एकं च जयेद् आत्मानं स वै संग्रामजिदुत्तमः ४
आत्मा ह वै जितः श्रेयान् या चेयमितरा प्रजा ।
दान्तात्मनः पुरुषस्य नित्यं संयतचारिणः ॥ ५॥
नैव देवो न गन्धर्वो न मारः सह ब्रह्मणा ।
जितं अपजितं कुर्यात् तथारूपस्य जन्तोः ॥ ६॥
मासे मासे सहस्रेण यो यजेत शतं समान् ।
एकं च भावितात्मानं मुहुर्त्तमपि पूजयेत् ।
सैव पुजना श्रेयसी यच्चेद् वर्षशतं हुतम् ॥ ७॥
यश्च वर्षशतं जन्तुरग्निं परिचरेत् वने ।
एकं च भावितात्मानं मुहुर्त्तमपि पूजयेत् ।
सैव पूजना श्रेयसी यच्चेत् वर्षशतं हुतम् ॥ ८॥
यत् किञ्चिद् इष्टं च हुतं च लोके संवत्सरं यजेत पुण्यापेक्षः ।
सर्वमपि तन्न चतुर्भागमेति अभिवादना ऋजुगतेषु श्रेयसी ॥ ९॥
अभिवादनशीलस्य नित्त्यं वृद्धापचायिनः ।
चत्वारो धर्मा वर्धन्ते आयुर्वर्णः सुखं बलम् ॥ १०॥
यश्च वर्षशतं जीवेत् दुःशीलोऽसमाहितः ।
एकाहं जीवितं श्रेयः शीलवतो ध्यायिनः ॥ ११॥
यश्च वर्षशतं जीवेत् दुष्प्रज्ञोऽसमाहितः ।
एकाहं जीवितं श्रेयः प्रज्ञावतो ध्यायिनः ॥ १२॥
यञ्च वर्षशतं जीवेत् कुसीदो हीनवीर्यः ।
एकाहं जीवितं श्रेयः वीर्यमारभतो दृढम् ॥ १३॥
यश्च वर्षशतं जीवेत् अपश्यन् उदयव्ययं
एकाहं जीवितं श्रेयः पश्यतः उदयव्ययम् ॥ १४॥
यश्च वर्षशतं जीवेत् अपश्यन्नमृतं पदम् ।
एकाहं जीवितं श्रेयः पश्यतोऽमृतं पदम् ॥ १५॥
यञ्च वर्षशतं जीवेदपश्यन् धर्ममुत्तमम् ।
एकाहं जीवितं श्रेयः पश्यतो धर्ममुत्तमम् ॥ १६॥
॥ इति सहस्रवर्गः समाप्तः ॥
९. पापवर्गः नवमः
अभित्वरेत कल्याणे पापात् चित्तं निवारयेत् ।
तन्द्रितं हि कुर्वतः पुण्यं पापे रमते मनः ॥ १॥
पापं चेत् पुरुषः कुर्यात् न तत् कुर्यात् पुनः पुनः ।
न तस्मिन् छन्दं कुर्यात् दुःखः पापस्य उच्चयः ॥ २॥
पुण्यं चेत् पुरुषः कुर्यात् कुर्यादेतत् पुनः पुनः ।
तस्मिन् छन्दं कुर्यात् सुखः पुण्यस्य उच्चयः ॥ ३॥
पापोऽपि पश्यति भद्रं यावत् पापं न पच्यते ।
यदा च पच्यते पापं अथ पापो पापानि पश्यति ॥ ४॥
भद्रोऽपि पश्यति पापं यावत् भद्रं न पच्यते ।
यदा च पच्यते भद्रं अथ भद्राणि पश्यति ॥ ५॥
माऽवमन्येत पापस्य न मां तद् आगमिष्यति ।
उदबिन्दुनिपातेन उदकुंभोऽपि पूर्यते ।
बालः पूरयति पापं स्तोकं स्तोकमप्याचिन्वन् ॥ ६॥
माऽवमन्येत पुण्यस्य न मां तद् आगमिष्यति ।
उदबिन्दुनिपातेन उदकुंभोऽपि पूर्यते ।
धीरः पूरयति पुण्यस्य स्तोकं स्तोकमप्याचिन्वन् ॥ ७॥
वाणिगिव भयं मार्गं अल्पसार्थो महाधनः ।
विषं जीवितुकाम इव पापानि परिवर्जयेत् ॥ ८॥
पाणौ चेद् व्रणो न स्याद् हरेत् पाणिना विषम् ।
नाऽव्रणं विषमन्वेति नाऽस्ति पापं अकुर्वतः ॥ ९॥
योऽल्पदुष्टाय नराय दुष्यति शुद्धाय पुरुषायाऽनङ्गनाय ।
तमेव बालं प्रत्येति पापं सूक्ष्मो रजः प्रतिवातमिव क्षिप्तम् ॥ १०॥
गर्भमेक उत्पद्यन्ते निरयं पापकर्मिणः ।
स्वर्गं सुगतयो यान्ति परिनिर्वान्त्यनास्रवाः ॥ ११॥
नान्तरीक्षे न समुद्रमध्ये न पर्वतानां विवरं प्रविश्य ।
न विद्यते स जगति प्रदेशो यत्रस्थितो मुच्येत पापकर्मणः ॥ १२॥
नान्तरिक्षे न समुद्रमध्ये न पर्वतानां विवरं प्रविश्य ।
न विद्यते स जगति प्रदेशो यत्रस्थितं न प्रसहेत मृत्युः ॥ १३॥
॥ इति पापवर्गः समाप्तः ॥
१०. दण्डवर्गः दशमः
सर्वे त्रस्यन्ति दण्डात् सर्वे बिभ्यति मृत्योः ।
आत्मानं उपमां कृत्वा न हन्यात् न घातयेत् ॥ १॥
सर्वे त्रसयन्ति दण्डात् सर्वेषां जिवितं प्रियम् ।
आत्मानं उपमां कृत्वा न हन्यात् न घातयेत् ॥ २॥
सुखकामानि भूतानि यो दण्डेन विहिनस्ति ।
आत्मनः सुखमन्विष्य प्रेत्त्य स न लभते सुखम् ॥ ३॥
सुखकामानि भूतानि यो दण्डेन न हिनसति ।
आत्मनः सुखमन्विष्य प्रेत्त्य स लभते सुखम् ॥ ४॥
मा वोचः परुषं किञ्चिद् उक्ताः प्रतिवदेयुस्त्वाम् ।
दुःखा हि संरंभकथा प्रतिदण्डाः स्पृशेयुस्त्वाम् ॥ ५॥
स चेत् नेरयसि आत्मानं कांस्यमुपहतं यथा ।
एष प्राप्तोऽसि निर्वाणं संरंभस्ते न विद्यते ॥ ६॥
यथा दण्डेन गोपालो गाः प्राजयति गोचरम् ।
एवं जरा च मृत्युश्चायुः प्राजयतः प्राणिनाम् ॥ ७॥
अथ पापानि कर्माणि कुर्वन् बालो न बुध्यते ।
स्वैः कर्मभिः दुर्मेधा अग्निदग्ध इव तप्यते ॥ ८॥
यो दण्डेनाऽदण्डेषु अप्रदुष्टेषु दुष्यति ।
दशानामन्यतमं स्थानं क्षिप्रमेव निगच्छति ॥ ९॥
वेदनां परुषां ज्यानिं शरीरस्य च भेदनम् ।
गुरुकं वाऽप्याबाधं चित्तक्षेपं वा प्राप्नुयात् ॥ १०॥
राजतो वोपसर्गं अभ्याख्यानं वा दारुणम् ।
परिक्षयं वा ज्ञातीनां भोगानां वा प्रभञ्जनम् ॥ ११॥
अथवाऽस्यागाराणि अग्निर्दहति पावकः ।
कायस्य भेदात् दुष्प्रज्ञो निरयं स उपपद्यते ॥ १२॥
न नग्नचर्या न जटा न पङ्कां नाऽनशनं स्थण्डिलशायिका वा ।
रजोजलीयं उत्कुटिकाप्रधानं शोधयन्ति मर्त्त्यं अवितीर्णकांक्षम् ॥ १३॥
अलङ्कृतश्चेदपि शमं चरेत् शान्तो दान्तो नियतो ब्रह्मचारी ।
सर्वेषु भूतेषु निधाय दण्डं स ब्राह्मणः स श्रमणः स भिक्षुः ॥ १४॥
ह्रीनिषेधः पुरुषः कश्चित् लोके विद्यते ।
यो निन्दां न प्रबुध्यति अश्वो भद्रः कशामिव ॥ १५॥
अश्वो यथा भद्रः कशानिविष्ट आतापिनः संवेगिनो भवत ।
श्रद्धया शीलेन च वीर्येण च समाधिना धर्मविनिश्चयेन च ।
सम्पन्नविद्याचरणाः प्रतिस्मृताः प्रहास्यथ दुःखमिदं अनल्पकम् ॥ १६॥
उदकं हि नयन्ति नेतृकाः इषुकारा नमयन्ति तेजनम् ।
दारुं नमयन्ति तक्षका आत्मानं दमयन्ति सुव्रताः ॥ १७॥
॥ इति दण्डवर्गः समाप्तः ॥
११. जरावर्ग एकादशः
को नु हासः क आनन्दो नित्यं प्रज्वलिते सति ।
अन्धकारेणाऽवनद्धाः प्रदीपं न गवेषयथ ॥ १॥
पश्य चित्रीकृतं बिम्बं अरुष्कायं समुच्छ्रितम् ।
आतुरं बहुसङ्कल्पं यस्य नाऽस्ति ध्रुवं स्थितिः ॥ २॥
परिजीर्णमिदं रूपं रोगनीडं प्रभंगुरम् ।
भिद्यते पूतिसन्देहो मरणान्तं हि जिवितम् ॥ ३॥
यानिमान्यपथ्यान्यलाबूनीव शरदि ।
कापोतकान्यस्थीनी तानि दृष्ट्वा का रतिः ॥ ४
अस्थ्नां नगरं कृतं मांसलोहितलेपनम् ।
यत्र जरा च मृत्युश्च मानो म्रक्षश्चावहितः ॥ ५॥
जीर्यन्ति वै राजरथा सुचित्रा अथ शरीरमपि जरामुपेति ।
सतां च धर्मो न जरामुपेति सन्तो ह वै सद्भयः प्रवेदयन्ति ॥ ६॥
अल्पश्रुतोऽयं पुरुषो बलीवर्द इव जीर्यति ।
मांसानि तस्य वर्द्धन्ते प्रज्ञा तस्य न वर्द्धते ॥ ७॥
अनेकजातिसंसारं समधाविषं अनिविशमानः ।
गृहकारकं गवेषयन् दुःखा जातिः पुनः पुनः ॥ ८॥
गृहकारक दृष्टोऽसि पुनर्गेहं न करिष्यसि ।
सर्वास्ते पार्श्विका भग्ना गृहकूटं विसंस्कृतम् ।
विसंस्कारगतं चित्तं तृष्णानां क्षयमध्यगात् ॥ ९॥
अचरित्त्वा ब्रह्मचर्यं अलब्ध्वा यौवने धनम् ।
जीर्णक्रौञ्च इव क्षीयन्ते क्षीणमत्स्य इव पल्वले ॥ १०॥
अचरित्वा ब्रह्मचर्यं अलब्ध्वा यौवने धनम् ।
शेरते चापोऽतिक्षीणा इव पुराणान्यनुतन्वन्त्ः ॥ ११॥
॥ इति जरावर्गः समाप्तः ॥
१२. आत्मवर्गः द्वादशः
आत्मान चेत् प्रियं जानीयाद् रक्षेत्तं सुरक्षितम् ।
त्रयाणामन्यतमं यामं प्रतिजागृयात् पण्डितः ॥ १॥
आत्मानमेव प्रथमं प्रतिरूपे निवेशयेत् ।
अथान्यमनुशिष्यात् न क्लिश्येत् पण्डितः ॥ २॥
आत्मानं चेत् तथा कुर्यात् यथाऽन्यमनुशासति ।
सुदान्तो वत दमयेद् आत्मा हि किल दुर्दमः ॥ ३॥
आत्मा हि आत्मनो नाथः कोहि नाथः परः स्यात् ।
आत्मना हि सुदान्तेन नाथं लभते दुर्लभम् ॥ ४॥
आत्मनैव कृतं पापं आत्मजं आत्मसंभवम् ।
अभिमथ्नाति दुर्मेधसं वज्रमिवाश्ममयं मणिम् ॥ ५॥
यस्याऽत्यन्तदौःशील्यं मालुवा शालमिवाततम् ।
करोति स तथात्मानं यथैनमिच्छन्ति द्विषः ॥ ६॥
सुकराण्यसाधून्यात्मनोऽहितानि च ।
यद्वै हितं च साधु च तद्वै परमदुष्करम् ॥ ७॥
यः शासनमर्हतां आर्याणां धर्मजीविनाम् ।
प्रतिक्रुश्यति दुर्मेधा दृष्टिं निःश्रित्य पापिकाम् ।
फलानि काष्ठकस्येव आत्महत्त्यायै फुल्लति ॥ ८॥
आत्मनैव कृतं पापं आत्मना संक्लिश्यति ।
आत्मनाऽकृतं पापं आत्मनैव विशुध्यति ।
शुद्धयशुद्धी प्रत्त्यात्मं नाऽन्योऽन्यं विशोधयेत् ॥ ९॥
आत्मनोऽर्थं परार्थेन बहुनाऽपि न हापयेत् ।
आत्मनोऽर्थमभिज्ञाय सदर्थप्रसितः स्यात् ॥ १०॥
॥ इति आत्मवर्गः समाप्तः ॥
१३. लोकवर्गः त्रयोदशः
हीनं धर्मं न सेवेत प्रमादेन न संवसेत् ।
मिथ्यादृष्टिं न सेवेत न स्यात् लोकवर्द्धनः ॥ १॥
उत्तिष्ठेन्न प्रमाद्येद् धर्मं सुचरितं चरेत् ।
धर्मचारी सुखं शेतेऽस्मिं लोके परत्र च ॥ २॥
धर्मं चरेत् सुचरितं न तं दुश्चरितं चरेत् ।
धर्मचारी सुखं शेतेऽस्मिं लोके परत्र च ॥ ३॥
यथा बुद्बुदकं पश्येत् यथा पश्येत् मरीचिकाम् ।
एवं लोकमवेक्षमाणं मृत्युराजो न पश्यति ॥ ४॥
एन पश्यतेमं लोकं चित्रं राजरथोपमम् ।
यत्र बाला विषीदन्ति नाऽस्ति सङ्गो विजानताम् ॥ ५॥
यश्च पूर्वं प्रमाद्य पश्चात् स न प्रमाद्यति ।
स इमं लोकं प्रभासयति अभ्रान्मुक्त इव चन्द्रमा ॥ ६॥
यस्य पापं कृतं कर्म कुशलेन पिधीयते ।
स इमं लोकं प्रभासयति अभ्रान्मुक्त इव चन्द्रमा ॥ ७॥
अन्धभूतोऽयं लोकः तनुकोऽत्र विपश्यति ।
शकुनो जालमुक्त इवाल्पः स्वर्गाय गच्छति ॥ ८॥
हंसा आदित्यपथे यान्ति आकाशे यान्ति ऋद्धिया ।
नीयन्ते धीरा लोकात् जित्वा मारं सवाहिनीकम् ॥ ९॥
एकं धर्ममतीतस्य मृषावादिनो जन्तोः ।
वितीर्णपरलोकस्य नाऽस्ति पापमकार्यम् ॥ १०॥
न वै कदर्या देवलोकं व्रजन्ति बाला ह वै न प्रशंसन्ति दानम् ।
धीरश्च दानं अनुमोदमानस्तेनैव स भवति सुखी परत्र ॥ ११॥
पृथिव्या एकराज्यात् स्वर्गस्य गमनाद् वा ।
सर्वलोकाऽऽधिपत्त्याद् स्रोत आपत्तिफलं वरम् ॥ १२॥
॥ इति लोकवर्गः समाप्तः ॥
१४. बुद्धवर्गः चतुर्दशः
यस्य जितं नावजीयते जितमस्य न याति कश्चिल्लोके ।
तं बुद्धमनन्तगोचरं अपदं केन पदेन नेप्यथ ? ॥ १॥
यस्य जालिनी विषात्मिका तृष्णा नाऽस्ति कुत्रचिन्नेतुम् ।
तं बुद्धमनन्तगोचरं अपदं केन पदेन नेप्यथ ? ॥ २॥
ये ध्यानप्रसृता धीराः नैष्काम्योपशमे रताः ।
देवा अपि तेषां स्पृहयन्ति संबुद्धानां स्मृतिमताम् ॥ ३॥
कृच्छ्रो मनुष्यप्रतिलाभः कृच्छ्रं मर्त्त्यानां जीवितम् ।
कृच्छ्रं सद्धर्मश्रवणं कृच्छ्रो बुद्धानाम् उत्पादः ॥ ४॥
सर्वपापस्याकरणं कुशलस्योपसम्पदा ।
स्वचित्तपर्यवदापनं एतद् बुद्धानां शासनम् ॥ ५॥
क्षान्तिः परमं तपः तितिक्षा निर्वाणं परमं वदन्ति बुद्धाः ।
नहि प्रव्रजितः परोपघाती श्रमणो भवति परं विहेठयन् ॥ ६॥
अनुपवादोऽनुपघातः प्रातिमोक्षे च संवरः ।
मात्राज्ञता च भक्ते प्रान्तं च शयनासनम् ।
अधिचित्ते चायोगः एतद् बुद्धानां शासनम् ॥ ७॥
न कार्षापणवर्षेण तृप्तिः कामेषु विद्यते ।
अल्पास्वादा दुःखाः कामा इति विज्ञाय पण्डितः ॥ ८॥
अपि दिव्येषु कामेषु रतिं स नाऽधिगच्छति ।
तृष्णाक्षयरतो भवति सम्यक्संबुद्धश्रावकः ॥ ९॥
बहु वै शरणं यन्ति पर्वातांश्च वनानि च ।
आरामवृक्षचैत्यानि मनुष्या भयतर्जिताः ॥ १०॥
नैतत् खलु शरणं क्षेमं नैतत् शरणमुत्तमम् ।
नैतत् शरणमागम्य सर्वदुःखात्प्रमुच्यते ॥ ११॥
यश्च बुद्धं च धर्मं च संघं न्च शरणं गतः ।
चत्वारि आर्यसत्यानि सम्यक् प्रज्ञया पश्यति ॥ १२॥
दुःखं दुःखसमुत्पादं दुःखस्य चातिक्रमम् ।
आर्याष्टाङ्गिकं मार्गं दुःखोपशमगामिनम् ॥ १३॥
एतत् खलु शरणं क्षेमं एतत् शरणमुत्तमम् ।
एतत् शरणमागम्य सर्वदुःखात् प्रमुच्यते ॥ १४॥
दुर्लभः पुरुषाजानेयो न स सर्वत्र जायते ।
यत्र स जायते धीरस्तत्कुलं सुखमेधते ॥ १५॥
सुखो बुद्धानां उत्पादः सुखा सद्धर्म-देशना ।
सुखा संघस्य सामग्री समग्राणां तपः सुखम् ॥ १६॥
पूजार्हान् पूजयतो बुद्धान् यदि वा श्रावकान् ।
प्रपञ्चसमितिक्रान्तान् तीर्णशोकपरिद्रवान् ॥ १७॥
तान् तादृशान् पूजयतो निर्वृतान् अकुतोभयान् ।
न शक्यं पुण्यं संख्यातुं एवम्मात्रमपि केनचित् ॥ १८॥
इति बुद्धवर्गः समाप्तः
१५. सुखवर्गः पञ्चदशः
सुसुखं वत जीवामो वैरिष्ववैरिणः ।
वैरिषु मनुष्येषु विहरामोऽवैरिणः ॥ १॥
सुसुखं वत जीवाम आतुरेषु अनातुराः ।
आतुरेषु मनुष्येषु विहरामोऽनातुराः ॥ २॥
सुसुखं वत जीवाम उत्सुकेषु अनुत्सुकाः ।
उत्सुकेषु मनुष्येषु विहराम अनुत्सुकाः ॥ ३॥
सुसुखं वत जीवामो येषां नो नाऽस्ति किञ्चन ।
प्रीतिभक्ष्या भविष्यामः देवा आभास्वरा यथा ॥ ४॥
जयो वैरं प्रसूते दुःखं शेते पराजितः ।
उपशान्तः सुखं शेने हित्त्वा जयपराजयौ ॥ ५॥
नाऽस्ति रागसमोऽग्निः नाऽस्ति द्वेषसमः कलिः ।
नासति स्कन्धसदृशानि दुःखाः नाऽस्ति शान्तिपरं सुखम् ॥ ६॥
जिघत्सा परमो रोगः संस्कारः परमं दुःखम् ।
एतद् ज्ञात्वा यथाभूतं निर्वाणं परमं सुखम् ॥ ७॥
आरोग्यं परमो लाभः सन्तुष्टिः परमं धनम् ।
विश्वासः परमा ज्ञातिः निर्वाणं परमं सुखम् ॥ ८॥
प्रविवेकरसं पीत्वा रसं उपशमस्य च ।
निर्दरो भवति निष्पापो धर्म प्रीतिरसं पिबन् ॥ ९॥
साधु दर्शनमार्याणां सन्निवासः सदा सुखः ।
अदर्शनेन बालानां नित्यमेव सुखी स्यात् ॥ १०॥
बालसंगतचारी हि दीर्घमधानं शोचति ।
दुःखो बालैः संवासोऽमित्रेणैव सर्वदा ।
धीरश्च सुखसंवासो ज्ञातीनामिव समागमः ॥ ११॥
तस्माद्धि धीरं च प्राज्ञं च बहुश्रुतं च धुर्यशीलं व्रतवन्तमार्यम्
।
तं तादृशं सत्पुरुषं सुमेधसं भजेत नक्षत्रपथमिव चन्दमाः ॥
१२॥
॥ इति सुखवर्गः समाप्तः ॥
१६. प्रियवर्गः षोडशः
अयोगे युञ्जन्नात्मानं योगे चायोजयन् ।
अर्थं हित्त्वा प्रियग्राही स्पृहयेदात्मानुयोगिनम् ॥ १॥
मा प्रियैः समागच्छ अप्रियैः कदाचन
प्रियाणाम् अदर्शनं दुःखं अप्रियाणां च दर्शनम् ॥ २॥
तस्मात् प्रियं न कुर्यात् प्रियापायो हि पापकः ।
ग्रन्थाः तेषां न विद्यन्ते येषां नाऽस्ति प्रियाप्रियम् ॥ ३॥
प्रियतो जायते शोकः प्रियतो जायते भयम् ।
प्रियतो विप्रमुक्तस्य नाऽस्ति शोकः कुतो भयम् ॥ ४॥
प्रेमतो जायते शोकः प्रेमतो जायते भयम् ।
प्रेमतो विप्रमुक्तस्य नाऽस्ति शोकः कुतो भयम् ॥ ५॥
रत्या जायते शोको रत्या जायते भयम् ।
रत्या विप्रमुक्तस्य नाऽस्ति शोकः कुतो भयम् ॥ ६॥
कामतो जायते शोकः कामतो जायते भयम् ।
कामतो विप्रमुक्तस्य नाऽस्ति शोकः कुतो भयम् ॥ ७॥
तृष्णाया जायते शोकः तृष्णाया जायते भयम् ।
तृष्णाया विप्रमुक्तस्य नाऽस्ति शोकः कुतो भयम् ॥ ८॥
शीलदर्शनसम्पन्नं धर्मिष्ठं सत्यवादिनम् ।
आत्मनः कर्म कुर्वाणं तं जनः कुरुते प्रियम् ॥ ९॥
छन्दजातोऽनाख्याते मनसा च स्फुरितः स्यात् ।
कामेषु चाऽप्रतिबद्धचित्त ऊर्ध्वस्रोता इत्युच्यते ॥ १०॥
चिरप्रवासिनं पुरुषं दूरतः स्वस्त्यागतम् ।
ज्ञातिमित्राणि सुहृदश्चाऽभिनन्दन्त्यागतम् ॥ ११॥
तथैव कृतपुण्यमपि अस्माल्लोकात्परं गतम् ।
पुण्यानि प्रतिगृह्यन्ति प्रियं ज्ञातिभिवागतम् ॥ १२॥
॥ इति प्रियवर्गः समाप्तः ॥
१७. क्रोधवर्गः सप्तदशः
क्रोधं जह्याद् विप्रजह्यात् मानं संयोजनं सर्वमतिक्रमेत ।
तं नाम-रूपयोरसज्यमानं अकिञ्चनं नाऽनुपतन्ति दुःखानि ॥ १॥
यो वै उत्पतितं क्रोधं रथं भ्रान्तमिव धारयेत् ।
तमहं सारथिं ब्रवीमि रश्मिग्राह इतरो जनः ॥ २॥
अक्रोधेन जयेत् क्रोधं असाधुं साधुना जयेत्।
जयेत् कदर्थं दानेन जयेत् सत्येनाऽलीकवादिनम् ॥ ३॥
सत्यं भणेन्न क्रुध्येत् दद्यादल्पेऽपि याचितः ।
एतैस्त्रिभिः स्थानैः गच्छेद् देवानामन्तिके ॥ ४॥
अहिंसका ये मुनयो नित्यं कायेन संवृताः ।
ते यन्ति अच्युतं स्थानं यत्र गत्वा न शोचन्ति ॥ ५॥
सदा जाग्रतां अहोरात्रं अनुशिक्षमाणानाम् ।
निर्वाणं अधिमुक्तानां अस्तं गच्छन्ति आस्रवाः ॥ ६॥
पुरणमेतद् अतुल ! नैतद् अद्यतनमेव ।
निन्दन्ति तुष्णीमासीनं निन्दन्ति बहुभाणिनम् ।
मितभाणिनमपि निन्दन्ति नाऽस्ति लोकेऽनिन्दितः ॥७॥
न चाऽभूत् न भविष्यति न चैतहिं विद्यते ।
एकान्तं निन्दितः पुरुषः एकान्तं वा प्रशंसितः ॥ ८॥
यश्चेद् विज्ञाः प्रशंसन्ति अनुविच्य श्वः श्वः ।
अच्छिद्रवृत्तिं मेधाविनं प्रज्ञाशीलसमाहितम् ॥ ९॥
निष्कं जंबूनदस्येव कस्तं निन्दितुमर्हति ।
देवा अपि तं प्रशंसन्ति ब्रह्मणाऽपि प्रशंसितः ॥ १०॥
कायप्रकोपं रक्षेत् कायेन संवृतः स्यात् ।
कायदुश्चरितं हित्त्वा कायेन सुचरितं चरेत् ॥ ११॥
वचः प्रकोपं रक्षेद् वाचा संवृतः स्यात् ।
वचो दुश्चरितं हित्त्वा वाचा सुचरितं चरेत् ॥ १२॥
मनः प्रकोपं रक्षेद् मनसा संवृतः स्यात् ।
मनोदुश्चरितं हित्त्वा मनसा सुचरितं चरेत् ॥ १३॥
कायेन संवृता धीरा अथ वाचा संवृताः ।
मनसा संवृता धीरा ते वै सुपरिसंवृताः ॥ १४॥
॥ इति क्रोधवर्गः समाप्तः ॥
१८. मलवर्गोष्टादशः
पाण्डुपलासमिवेदानीमसि यमपुरुषोऽपि चत्वां उपस्थिताः ।
उद्योगमुखे च तिष्ठसि पाथेयमपि च ते न विद्यते ॥ १॥
स कुरु द्वीपमात्मनः क्षिप्रं व्यायच्छस्व पण्डितो भव ।
निर्धूतमलोऽनङ्गणो दिव्यां आर्यभूमिं एष्यसि॥ २॥
उपनीतवया इदनीमसि सम्प्रयातोऽसि यमस्यान्तिके ।
वासोऽपि च ते नाऽस्ति अन्तरा पाथेयमपि च ते न विद्यते ॥ ३॥
स कुरु द्वीपमात्मनः क्षिप्रं व्यायच्छस्व पण्डितो भव ।
निर्धूतमलोऽनङ्गणो न पुनर्जातिजरे उपेष्यसि ॥ ४॥
अनुपूर्वेण मेधावी स्तोकं स्तोकं क्षणे क्षणे ।
कर्मारो रजतस्येव निर्धमेत् मलमात्मनः ॥ ५॥
अयस इव मलं समुत्थितं तस्माद् उत्थाय तदेव खादति ।
एवं अतिधावनचारिणं स्वानि कर्माणि नयन्ति दुर्गतिम् ॥ ६॥
अस्वाध्यायमला मन्त्रा अनुत्थानमला गृहा ।
मलं वर्णस्य कौसीद्यं प्रमादो रक्षतो मलम् ॥ ७॥
मलं स्त्रिया दुश्चरितं मात्सर्यं ददतो मलम् ।
मलं वै पापका धर्मा अस्मिन् लोके परत्र च ॥ ८॥
ततो मलं मलतरं अविद्या परमं मलम् ।
एतत् मलं प्रहाय निर्मला भवत भिक्षवः ॥ ९॥
सुजीवितं अह्रीकेण काकशूरेण ध्वंसिना ।
प्रस्कन्दिना प्रगल्भेन संक्लिष्टेन जीवितम् ॥ १०॥
ह्रीमता च दुर्जीवितं नित्यं शूचिगवेषिणा ।
अलीनेनाऽप्रगल्भेन शुद्धाजीवेन पश्यता ॥ ११॥
यः प्राणमतिपातयति मृषावादं च भाषते ।
लोकेऽदत्तमादत्ते परदारांश्च गच्छति ॥ १२॥
सुरामैरेयपानं च यो नरोऽनुयुनक्ति ।
इहैवमेष लोके मूलं खनत्यात्मनः ॥१३॥
एवं भो पुरुष ! जानीहि पापधर्माणोऽसंयतान् ।
मा त्वां लोभोऽधर्मश्च चिरं दुःखाय रन्धेरन् ॥ १४॥
ददाति वै यथाश्रद्धं यथा प्रसादनं जनः ।
तत्र यो मूको भवति परेषां पानभोजने ।
न स दिवा वा रात्रौ वा समाधिं अधिगच्छति ॥ १५॥
यस्य च तत् समुच्छिन्नं मूलघातं समुद्धतम् ।
स वै दिवा वा रात्रौ वा समाधिं अधिगच्छति ॥ १६॥
नाऽस्ति रागसमोऽग्निः नाऽस्ति द्वेषसमो ग्राहः ।
नाऽस्ति मोहसमं जालं नाऽस्ति तृष्णा समा नदी ॥ १७॥
सुदर्शं वद्यमन्येषां आत्मनः पुनर्दुर्दशम् ।
परेषां हि स वद्यानि अवपुणाति यथातुषम् ।
आत्मनः पुनः छादयति कलिमिव कितवात् शठः ॥ १८॥
परवद्याऽनुदर्शिनो नित्यं उद्ध्यानसंज्ञिनः ।
आस्रवास्तस्य वर्द्धन्ते आराद् स आस्रवक्षयात् ॥ १९॥
आकाशे च पदं नाऽस्ति श्रमणो नाऽस्ति बहिः ।
प्रपञ्चाऽभिरताः प्रजा निष्प्रपञ्चास्तथागताः ॥ २०॥
आकाशे च पदं नाऽस्ति श्रमणो नाऽस्ति बहिः ।
संस्काराः शाश्वता न सन्ति नाऽस्ति बुद्धानामिङ्गितम् ॥ २१॥
॥ इति मलवर्गः समाप्तः ॥
१९. धर्मष्ठवर्गः एकोनविंशः
न तेन भवति धर्मस्थो येनार्थं सहसा नयेत् ।
यश्चाऽर्थं अनर्थं च उभौ निश्चिनुयात् पण्डितः ॥ १॥
असाहसेन धर्मेण समेन नयते परान् ।
धर्मेण गुप्तो मेधावी धर्मस्थ इत्युच्यते ॥ २॥
न तावता पण्डितो भवति यावता बहु भाषते ।
क्षेमी अवैरी अभयः पण्डित इत्युच्यते ॥ ३॥
न तावता धर्मधरो यावता बहु भाषते ।
यश्चाल्पमऽपि श्रुत्वा धर्मं कायेन पश्यति ।
स वै धर्मधरो भवति यो धर्मं न प्रमाद्यति ॥ ४॥
न तेन स्थविरो भवति येनाऽस्य पलितं शिरः ।
परिपक्वं वयस्तस्य मोघजीर्ण इत्युच्यते ॥ ५॥
यस्मिन् सत्यं च धर्मश्चाहिंसा संयमो दमः ।
स वै वान्तमलो धीरः स्थविर इतुच्यते ॥ ६॥
न वाक् करणमात्रेण वर्णपुष्कलतया वा ।
साधुरूपो नरो भवति ईर्षुको मत्सरी शठः ॥ ७॥
यस्य चैतत् समुच्छिन्नं मूलघातं समुद्धतम् ।
स वान्तदोषो मेधावी साधुरूप इत्युच्यते ॥ ८॥
न मुण्डकेन श्रमणोऽव्रतोऽलीकं भणन् ।
इच्छालाभसमापन्नः श्रमणः किं भविष्यति ॥ ९॥
यश्च शमयति पापानि अणूनि स्थूलानि सर्वशः ।
शमितत्वाद्धि पापानां श्रमण इतुच्यते ॥ १०॥
न तावता भिक्षुर्भवति यावता भिक्षते परान् ।
विश्वं धर्मं समादाय भिक्षुर्भवति न तावता ॥ ११॥
य इह पुण्यं च पापं च वाहयित्वा ब्रह्मचर्यवान् ।
संख्याय लोके चरति स वै भिक्षुरित्युच्यते ॥ १२॥
न मौनेन मुनिर्भवति मूढरूपोऽविद्वान् ।
यश्च तुलामिव प्रगृह्य वरमादाय पण्डितः ॥ १३॥
पापानि परिवर्जयति स मुनिस्तेन स मुनिः ।
यो मनुत उभौ लोकौ मुनिस्तेन प्रोच्यते ॥ १४॥
न तेनाऽऽर्यो भवति येन प्राणान् हिनस्ति ।
अहिंसया सर्वप्राणानां आर्य इति प्रोच्यते ॥ १५॥
न शीलव्रतमात्रेण बाहुश्रुत्त्येन वा पुनः ।
अथवा समाधिलाभेन विविच्य शयनेन वा ॥ १६॥
स्पृशामि नैष्कर्म्यसुखं अपृथग्जनसेवितम् ।
भिक्षो विश्वासं मा पादीः अप्राप्त आस्रवक्षयम् ॥ २१॥
॥ इति धर्मस्थवर्गः समाप्तः ॥
२०. मार्गवर्गः विंशः
मार्गाणामष्टाङ्गिकः श्रेष्ठः सत्यानां चत्वारि पदानि ।
विरागः श्रेष्ठो धर्माणां द्विपदानां च चक्षुष्मान् ॥ १॥
एष वो मार्गो नाऽस्त्यन्यो दर्शनस्य विशुद्धये ।
एतं हि यूयं प्रतिपद्यध्वं मारस्यैष प्रमोहनः ॥ २॥
एतं हि यूयं प्रतिपन्ना दुःखस्यान्तं करिष्यथ ।
आख्यातो वै मया मार्गः आज्ञाय शल्य-संस्थानम् ॥ ३॥
युष्माभिः कार्यं आतप्यं आख्यातारस्तथागताः ।
प्रतिपन्नाः प्रमोक्ष्यन्ते ध्यायिनो मारबन्धनात् ॥ ४॥
सर्वे संस्कारा अनित्या इति यदा प्रज्ञया पश्यति ।
अथ निर्विन्दति दुःखानि एष मार्गो विशुद्धये ॥ ५॥
सर्वे संस्कारा दुःखा इति यदा प्रज्ञया पश्यति ।
अथ निर्विन्दति दुःखानि एष मार्गो विशुद्धये ॥ ६॥
सर्वे धर्मा अनात्मान इति यदा प्रज्ञया पश्यति ।
अथ निर्विन्दति दुःखानि एष मार्गो विशुद्धये ॥ ७॥
उत्थानकालेऽनुत्तिष्ठन् युवा बलि आलस्यमुपेतः ।
संसन्न-सङ्कल्प-मनाः कुसीदः प्रज्ञया मार्गं अलसो न विन्दति ॥ ८॥
वाचाऽनुरक्षी मनसा सुसंकृतः कायेन चाऽकुशलं न कुर्यात् ।
एतान् त्रीन् कर्मपथान् विशोधयेत् आराधयेत् मार्गं ऋषिप्रवेदितम् ॥ ९॥
योगाद् वै जायते भूरि अयोगाद् भूरिसंक्षयः ।
एतं द्वेधापथं ज्ञात्त्वा भवाय विभवाय च ।
तथाऽऽत्मानं निवेशयेद् यथाभूरि प्रवर्धते ॥ १०॥
वनं छिन्धि मा वृक्षं वनतो जायते भयम् ।
छित्त्वा वनं च वनथं च निर्वना भवथ भिक्षवः ॥ ११॥
यावद्धि वनथो न छिद्यतेऽणुमात्रोऽपि नरस्य नारीषु ।
प्रतिबद्धमनाः नु तावत् स वत्सः क्षीरप इव मातरि ॥ १२॥
उच्छिन्धि स्नेहमात्मनः कुमुदं शारदीकमिव पाणिना ।
शान्तिमार्गमेव बृंहय निर्वाणं सुगतेन देशितम् ॥ १३॥
इह वर्षासु वसिष्यामि इह हेमन्तग्रीष्मयोः ।
इति बालो विचिन्तयति अन्तरायं न बुध्यते ॥ १४॥
तं पुत्र-पशु-सम्मतं व्यासक्तमनसं नरम् ।
सुप्तं ग्रामं महौघ इव मृत्युरादाय गच्छति ॥ १५॥
न सन्ति पुत्रास्त्राणाय न पिता नाऽपि बान्धवाः ।
अन्तकेनाधिपन्नस्य नाऽस्ति ज्ञातिषु त्राणता ॥ १६॥
एतमर्त्थवशं ज्ञात्वा पण्डितो शीलसंवृतः ।
निर्वाणगमनं मार्गं क्षिप्रमेव विशोधयेत् ॥ १७॥
॥ इति मार्गवर्गः समाप्तः ॥
२१. प्रकीर्णकवर्गः एकविंशः
मात्रासुखपरित्यागात् पश्येच्चेत् विपुलं सुखम् ।
त्यजेन्मात्रासुखं धीरः सम्पश्यन् विपुलं सुखम् ॥ १॥
परदुःखोपादानेन य आत्मनः सुखमिच्छति ।
वैरसंसर्गसंसृष्टो वैरात् स न प्रमुच्यते ॥ २॥
यद्धि कृत्यं अपविद्धं अकृत्यं पुनः कुर्युः।
उन्मलानां प्रमत्तानां तेषां वर्द्धन्त आस्रवाः ॥ ३॥
येषांञ्च सुसमारब्धा नित्यं कायगता स्मृतिः ।
अकृत्यं ते न सेवन्ते कृत्ये सातत्यकारिणः ।
सतां सम्प्रजानानां अस्तं गच्छन्त्यास्रवाः ॥ ४॥
मातरं पितरं हत्त्वा राजानौ द्वौ च क्षत्रियौ ।
राष्ट्रं साऽनुचरं हत्त्वाऽनघो याति ब्राह्मणः ॥ ५॥
मातरं पितरं हत्वा राजानौ द्वौ च श्रोत्रियौ ।
व्याघ्रपंचमं हत्त्वाऽनघो याति ब्राह्मणः ॥ ६॥
सुप्रबुद्धं प्रबुध्यन्ते सदा गौतमश्रावकाः ।
येषां दिवा च रात्रौ च नित्यं बुद्धगता स्मृतिः ॥ ७॥
सुप्रबुद्धा प्रबुध्यन्ते सदा गौतमश्रावकाः ।
येषां दिवा च रात्रौ च नित्यं धर्मगता स्मृतिः ॥ ८॥
सुप्रबुद्धाः प्रबुध्यन्ते सदा गौतमश्रावकाः ।
येषां दिवा च रात्रौ च नित्यं संघगता स्मृतिः ॥ ९॥
सुप्रबुद्धा प्रबुध्यन्ते सदा गौतमश्रावकाः ।
येषां दिवा च रात्रौ च नित्यं कायगता स्मृतिः ॥१०॥
सुप्रबुद्धाः प्रबुध्यन्ते सदा गौतमश्रावकाः ।
येषां दिवा च रात्रौ च अहिंसायां रतं मनः ॥ ११॥
सुप्रबुद्धाः प्रबुध्यन्ते सदा गौतमश्रावकाः ।
येषां दिवा च रात्रौ च भावनायां रतं मनः ॥ १२॥
दुष्प्रव्रज्यां दुरभिरामं दुरावासं गृहं दुःखम् ।
दुखोऽसमानसंवासो दुःखाऽनुपतितोऽध्वगः ।
तस्मान्न चाऽध्वगः स्यान्न च दुःखानुपतितः स्यात् ॥ १३॥
श्रद्धः शीलेन सम्पन्नो यशोभोगसमर्पितः ।
यं यं प्रदेशं भजते तत्र तत्रैव पूजितः ॥ १४॥
दूरे सन्तः प्रकाशन्ते हिमवन्त इव पर्वताः ।
असन्तोऽत्र न दृश्यन्ते रात्रिक्षिप्ता यथा शराः ॥ १५॥
एकासन एकशय्य एकश्चरन्नतन्द्रितः ।
एको दमयन्नात्मानं वनान्ते रतः स्यात् ॥ १६॥
॥ इति प्रकीर्णकवर्गः समाप्तः ॥
२२. निरयवर्गो द्वाविंशः
अभूतवादी निरयमुपेति यो वाऽपि कृत्वा न करोमि ति चाह ।
उभावपि तौ प्रेत्त्य समा भवतो निहीनकर्माणौः मनुजौः परत्र ॥ १॥
काषायकण्ठा बहवः पापधर्मा असंयताः ।
पापाः पापैः कर्मभिर्निरयं ते उत्पद्यन्ते ॥ २॥
श्रेयान् अयोगोलो भुक्तस्तप्तोऽग्निशिखोपम ।
यच्चेद् भुञ्जीत दुःशीलो राष्ट्रपिंडं असंयतः ॥ ३॥
चत्वारि स्थानानि नरः प्रमत्तः आपद्यते परदारोपसेवी ।
अपुण्यलाभं न निकामशय्यां निन्दां तृतीयां निरयं चतुर्थम् ॥ ४॥
अपुण्यलाभश्च गतिश्च पापिका भीतस्य भीतया रतिश्च स्तोकिका ।
राजा च दण्डं गुरुकं प्रणयति तस्मात् नरो परदारान् न सेवेत् ॥ ५॥
कुशो यथा दुर्गृहीतो हस्तमेवाऽनुकृन्तति ।
श्रामण्यं दुष्परामृष्टं निरयायोपकर्षति ॥ ६॥
यत् किञ्चित् शिथिलं कर्म संक्लिष्टं च यद् व्रतम् ।
संकृच्छ्रं ब्रह्मचर्यं न तद् भवति महत्फलम् ॥ ७॥
कुर्याच्चेत् कुर्वीतैतद् दृढमेतत् पराक्रमेत ।
शिथिलो हि परिव्राजको भूय आकिरते रजः ॥ ८॥
अकृतं दुष्कृतं श्रेयः पश्चात् तपति दुष्कृतम् ।
कृतं च सुकृतं श्रेयो यत् कृत्वा नाऽनुतप्यते ॥ ९॥
नगरं यथा प्रत्यन्तं गुप्तं सान्तर्बाह्यं
एवं गोपयेदात्मानं क्षणं वै मा उपातिगाः ।
क्षणाऽतीता हि शोचन्ति निरये समर्पिताः ॥ १०॥
अलज्जिता ये लज्जन्ते लज्जित ये न लज्जन्ते ।
मिथ्यादृष्टि समादाना सत्त्वा गच्छन्ति दुर्गतिम् ॥ ११॥
अभये च भयदर्शिनो भये चाऽभयदर्शिनः ।
मिथ्यादृष्टिसमादानाः सत्त्वा गच्छन्ति दुर्गतिम् ॥ १२॥
अवद्ये वद्यमतयो वद्ये चाऽवद्यदर्शिनः ।
मिथ्यादृष्टिसमादानाः सत्त्वा गच्छन्ति दुर्गतिम् ॥ १३॥
वद्यं च वद्यतो ज्ञात्वाऽवद्यं चावद्यतः ।
सम्यग्दृष्टिसमादानाः सत्त्वा गच्छन्ति सुगतिम् ॥ १४॥
॥ इत् निरयवर्गः समाप्तः ॥
२३. नागवर्गः त्रयोविंशः
अहं नाग इव संग्रामे चापतः पतितं शरम् ।
अतिवाक्यं तितिक्षिष्ये दुःह्शीला हि बहुजनाः ॥ १॥
दान्तं नयन्ति समितिं दान्तं राजाऽभिरोहति ।
दान्तः श्रेष्ठा मनुष्येषु योतिवाक्यं तितिक्षसे ॥ २॥
वरमश्वतरा दान्ता आजानीयाश्च सिन्धवः ।
कुञ्जराश्च महानागा आत्मदान्तस्ततो वरम् ॥ ३॥
न हि एतैर्यानैः गच्छेदगतां दिशम् ।
यथाऽऽत्मना सुदान्तेन दान्तो दान्तेन गच्छति ॥ ४॥
धनपालको नाम कुञ्जरः कटकप्रभेदनो दुर्निवार्यः ।
बद्धः कवलं न भुंक्ते स्मरति नागवनस्य कुञ्जरः ॥ ५॥
मृद्धो यदा भवति महाघसश्च निद्रायितः सपरिवर्त्तशायी ।
महावराह इव निवापपुष्टः पुनः पुनः गर्भमुपैति मन्दः ॥ ६॥
इदं पुरा चित्तमचरत् चारिकां यथेच्छं यथाकामं यथासुखम् ।
तदद्याऽहं निग्रहिष्यामि योनिशो हस्तिनं प्रभिन्नमिवाङ्कुशग्राहः ॥ ७॥
अप्रमादरता भवत स्वचित्तमनुरक्षत ।
दुर्गादुद्धरताऽऽत्मानं पङ्के सक्त इव कुञ्जरः ॥ ८॥
स चेत् लभेत निपक्वं सहायं सार्द्धं चरन्तं साधुविहारिणं धीरम् ।
अभिभूय सर्वान् परिश्रयान् चरेत् तेनाऽऽत्तमनाः स्मृतिमान् ॥ ९॥
न चेत् लभेत निपक्वं सहायं सार्द्धं चरन्तं साधुविहारिणं धीरम् ।
राजेव राष्ट्रं विजितं प्रहाय एकश्चरेत् मातङ्गोऽरण्य इव नागः ॥ १०॥
एकस्य चरितं श्रेयो नाऽस्ति बाले सहायता ।
एकश्चरेन्न च पापानि कुर्याद् अल्पोत्सुको मातंगोऽरण्य इव नागः ॥ ११॥
अर्थे जाते सुखाः सहायाः तुष्टिः सुखा या येतरेतरेण ।
पुण्यं सुखं जीवितसंक्षये सर्वस्य दुःखस्य सुखं प्रहाणम् ॥ १२॥
सुखा मात्रीयता लोकेऽथ पित्रीयता सुखा
सुखा श्रमणता लोकेऽथ ब्राह्मणता सुखा ॥ १३॥
सुखं यावद् जरां शीलं सुखा श्रद्धा प्रतिष्ठिता ।
सुखः प्रज्ञायाः प्रतिलाभः पापानां अकरणं सुखम् ॥ १४॥
॥ इति नागवर्गः समाप्तः ॥
२४. तृष्णावर्गः चतुर्विंशः
मनुजस्य प्रमत्तचारिणः तृष्णा वर्द्धते मालुवेव ।
स प्लवतेऽहरहः फलमिच्छन् इव वने वानरः ॥ १॥
यं एषा साहयति जन्मिनी तृष्णा लोके विषात्मिका ।
शोकास्तस्य प्रवर्द्धन्तेऽभिवर्द्धमानं वीरणम् ॥ २॥
यश्चैतां साहयति जन्मिनीं तृष्णां लोके दुरत्ययाम् ।
शोकाः तस्मात् प्रपतन्त्युदबिन्दुरिव पुष्करात् ॥ ३॥
तद् वो वदामि भद्रं वो यावन्त इह समागताः ।
तृष्णाया मूलं खनतोशीरार्थीव वीरणम् ॥ ४॥
यथाऽपि मूलेऽनुपद्रवे दृढे छिन्नोऽपि वृक्षः पुनरेव रोहति ।
एवमपि तृष्णाऽनुशयेऽनिहते निर्वर्त्तते दुःखमिदं पुनः पुनः ॥ ५॥
यस्य षट्त्रिंशत् स्रोतांसि मनापश्रवणानि भूयासुः ।
वाहा वहन्ति दुर्दृष्टि सङ्कल्पा रागनिःसृताः ॥ ६॥
स्रवन्ति सर्वतः स्रोतांसि लतोद्भिद्य तिष्ठति ।
तां च दृष्ट्वा लतां जातां मूलं प्रज्ञया छिन्दत ॥ ७॥
सरितः स्निग्द्धाश्च सौमनस्या भवन्ति जन्तोः
ते स्रोतःसृताः सुखैषिणस्ते वै जातिजरोपगा नराः ॥ ८॥
तृष्णया पुरस्कृताः प्रजाः परिसर्पन्ति शश इव बद्धः ।
संयोजनसंगसक्तका दुःखमुपयन्ति पुनः पुनः चिराय ॥ ९॥
तृष्णया पुरस्कृताः प्रजाः परिसर्पन्ति शश इव बद्धः ।
तस्मात् तृष्णां विनोदयेद् भिक्षुराकाङ्क्षी विरागमात्मानः ॥ १०॥
यो निर्वणार्थी वनाऽधिमुक्तो वनमुक्तो वनमेव धावति ।
तुं पुद्गलमेव पश्यत मुक्तो बन्धनमेव धावति ॥ ११॥
न तद् दृढं बन्धनमाहुर्धीरा यद् आयसं दारुजं पर्वजं च ।
सारवद्-रक्ता मणिकुण्डलेषु पुत्रेषु दारेषु च याऽपेक्षा ॥ १२॥
एतद् दृढं बन्धनमाहुर्धीरा अपहारि शिथिलं दुष्प्रमोचम् ।
एतदपि छित्त्वा परिव्रजन्ति अनपेक्षिणः कामसुखं प्रहाय ॥ १३॥
ये रागरक्ता अनुपतन्ति स्रोतः स्वयंकृतं मर्कटक इव जालम् ।
एतदपि छित्त्वा व्रजन्ति धीरा अनपेक्षिणः सर्वदुःखं प्रहाय ॥ १४॥
मुञ्च पुरो मुञ्च पश्चात् मध्ये मुञ्च भवस्य पारगः ।
सर्वत्र विमुक्तमानसो न पुनः जातिजरे उपैपि ॥ १५॥
वितर्कप्रमथितस्य जन्तोः तीव्ररागस्य शुभाऽनुदर्शिनः ।
भूयः तृष्णा प्रवर्द्धते एष खलु दृढं करोति बन्धनम् ॥ १६॥
वितर्कोपशमे च यो रतोऽशुभं भावयते सदा स्मॄतः ।
एष खलु व्यन्तीकरिष्यति एष छेत्स्यति मारबन्धनम् ॥ १७॥
निष्ठांगतोऽसंत्रासी वीततृष्णोऽनंगणः ।
उत्सृज्य भवशल्यानि अन्तिमोऽयं समुछ्रयः ॥ १८॥
वीततृष्णोऽनादानो निरुक्तिपदकोविदो ।
अक्षराणां सन्निपातं जानाति पूर्वापराणि च ।
स वै अन्तिमशारीरो महाप्राज्ञ इत्युच्यते॥ १९॥
सर्वाभिभूः सर्वविदहमस्मि सर्वेषु धर्मेषु अनुपलिप्तः ।
सर्वंजहः तृष्णाक्षये विमुक्तः स्वयमभिप्राय कमुद्दिशेयम् ॥ २०॥
सर्वदानं धर्मदानं जयति सर्वरसं धर्मरसो जयति ।
सर्वां रतिं धर्मरतिर्जयति तृष्णाक्षयः सर्वदुःखं जयति ॥ २१॥
घ्नन्ति भोग दुर्मेधसं न चेत् पारगवेषिणः ।
भोगतृष्णया दुर्मेधा हन्त्यन्य इवात्मानः ॥ २२॥
तृणदोषाणि क्षेत्राणि रागदोषेयं प्रजा ।
तस्माद्धि वीतरागेषु दत्तं भवति महाफलम् ॥ २३॥
तृणदोषाणि क्षेत्राणि द्वेषदोषेयं प्रजा ।
तस्माद्धि वीतदोषेषु दत्तं भवति महाफलम् ॥ २४॥
तृणदोषाणि क्षेत्राणि मोहदोषेयं प्रजा ।
तस्माद्धि वीतमोहेषु दत्तं भवति महाफलम् ॥ २५॥
तृणदोषाणि क्षेत्राणि इच्छादोषेयं प्रजा ।
तस्माद्धि विगतेच्छेषु दत्तं भवति महाफलम् ॥ २६॥
॥ इति तृष्णावर्गः समाप्तः ॥
२५. भिक्षुवर्गः पञ्चविंशः
चक्षुषा संवरः साधुः साधुः श्रेत्रेण संवरः ।
घ्राणेन संवरः साधुः साधुः जिह्वया संवरः ॥ १॥
कायेन संवरः साधुः साधुः वाचा संवरः ।
मनसा संवरः साधुः साधुः सर्वत्र संवरः ।
सर्वत्र संवृतो भिक्षुः सर्वदुःखात् प्रमुच्यते ॥ २॥
हस्तसंयतः पादसंयतो वाचा संयतः संयतोत्तमः ।
अध्यात्मरतः समाहित एकः सन्तुष्टस्तमाहुर्भिक्षुम् ॥ ३॥
यो मुखसंयतो भिक्षुः मन्त्रभाणी अनुद्धतः ।
अर्थं धर्मं च दीपयति मधुरं तस्य भाषितम् ॥ ४॥
धर्मारामो धर्मरतो धर्मं अनुविचिन्तयन् ।
धर्ममनुस्मरन् भिक्षुः सद्धर्मान्न परिहीयते ॥ ५॥
स्वलाभं नाऽतिमन्येत नाऽन्येष्यः स्पृहयन् चरेत् ।
अन्येषां स्पृहयन् भिक्षुः समाधिं नाऽधिगच्छति ॥ ६॥
अल्पलाभोऽपि चेद् भिक्षुः स्वलाभं नाऽतिमन्यते ।
तं वै देवाः प्रशंसन्ति शुद्धाऽऽजीवं अतन्द्रितम् ॥ ७॥
सर्वशो नामरूपे यस्य नाऽस्ति ममायितम् ।
असति च न शोचति स वै भिक्षुरित्युच्यते ॥८ ॥
मैत्रीविहारी यो भिक्षूः प्रसन्नो बुद्धशासने ।
अधिगच्छेत् पदं शान्तं संस्कारोपशमं सुखम् ॥ ९॥
सिञ्च भिक्षो ! इमां नावं सिक्ता ते लघुत्वं एष्यति ।
छित्त्वा रागं च द्वेषं च ततो निर्वाणमेष्यसि ॥ १०॥
पञ्च छिन्धि पञ्च जह्ये पञ्चोतरं भावय ।
पञ्चसंगाऽतिगो भिक्षुः ओघतीर्ण इत्युच्यते ॥ ११॥
ध्याय भिक्षो मा च प्रमादः मा ते कामगुणे भ्रमतु चित्तम् ।
मा लोहगोलं गिल प्रमत्तः मा क्रन्दीः दुःखमिदमिति दह्यमानः ॥ १२॥
नाऽस्ति ध्यानमप्रज्ञस्य प्रज्ञा नाऽस्त्यध्यायतः ।
यस्मिन् ध्यानं च प्रज्ञा च स वै निर्वाणाऽन्तिके ॥ १३॥
शून्यागारं प्रविष्टस्य शान्तचित्तस्य भिक्षोः ।
अमानुषी रतिर्भवति सम्यग् धर्मं विपश्यतः ॥ १४॥
यतो यतः संमृशति स्कन्धानां उदयव्ययम् ।
लभते प्रीतिप्रामोद्यं अमृतं तद्विजानताम् ॥ १५॥
तत्राऽयमादिर्भवतीह प्राज्ञस्य भिक्षोः ।
इन्द्रियगुप्तिः सन्तुष्टिः प्रातिमोक्षे च संवरः ।
मित्राणि भजस्व कल्याणानि शुद्धाजीवान्यतन्द्रितानि ॥ १६॥
प्रतिसंस्तारवृत्तस्याऽऽचारकुशलः स्यात् ।
ततः प्रामोद्यबहुलो दुःखस्याऽन्तं करिष्यति ॥ १७॥
वर्षिका इव पुष्पाणि मर्दितानि प्रमुञ्चति ।
एवं रागं च द्वेषं च विप्रमुञ्चत भिक्षवः ॥ १८॥
शान्तकायो शान्तवाक् शान्तिमान् सुसमाहितः ।
वान्तलोकाऽऽमिषो भिक्षुः उपशान्त इत्युच्यते ॥ १९॥
आत्मना चोदयेदात्मानं प्रतिवसेदात्मनां आत्मना ।
स आत्मगुप्तः स्मृतिमान् सुखं भिक्षो विहरिष्यसि ॥ २०॥
आत्मा ह्यात्मनो नाथः आत्मा ह्यात्मनो गतिः ।
तस्मात् संयमयात्मानं अश्वं भद्रमिव वाणिक् ॥ २१॥
प्रामोद्यबहुलो भिक्षुः प्रसन्नो बुद्धशासने ।
अधिगच्छेत् पदं शान्तं संस्कारोपशमं सुखम् ॥ २२॥
यो ह वै दहरो भिक्षुर्युक्त्ते बुद्धशासने ।
स इमं लोकं प्रभासयत्यभ्रान् मुक्त इव चन्द्रमा ॥ २३॥
॥ इति भिक्षुवर्गः समाप्तः ॥
२६. ब्राह्मणवर्गः षड्विंशः
छिन्धि स्रोतः पराक्रम्य कामान् प्रणुद ब्राह्मण ।
संस्कारणां क्षयं ज्ञात्वाऽकृतज्ञोऽसि ब्राह्मण ॥ १॥
यदा द्वयोर्धर्मयोः पारगो भवति ब्राह्मणः ।
अथाऽस्य सर्वे संयोगा अस्तं गच्छन्ति जानतः ॥ २॥
यस्य पारं अपारं वा पारापारं न विद्यते ।
वीतदरं विसंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥ ३॥
ध्यायिनं विरजमासीनं कृतकृत्यं अनास्रवम् ।
उत्तमार्थमनुप्राप्तं तमहं ब्रवीमि ब्राह्मणम् ॥ ४॥
दिवा तपत्यादित्यो रात्रावाभाति चन्द्रमाः ।
सन्नद्धः क्षत्रियस्तपति ध्यायी तपति ब्राह्मणः ।
अथ सर्वमहोरात्रं बुद्धस्तपति तेजसा ॥ ५॥
वाहितपाप इति ब्राह्मणः समचर्यः श्रमण इत्युच्यते ।
प्रव्राजयन्नाऽऽत्मनो मलं तस्मात् प्रव्रजित इत्युच्यते ॥ ६॥
न ब्राह्मणं प्रहरेत् नाऽस्मै मुञ्चेद् ब्राह्मणः ।
धिग् ब्राह्मणस्य हन्तारं ततो धिग् यस्मै मुञ्चति ॥ ७॥
न ब्राह्मणस्यैतद् अकिञ्चित् श्रेयो यदा निषेधो मनसा प्रियेभ्यः ।
यतो यतो हिंस्रमनो निवर्तते ततस्ततः शाम्यत्येव दुःखम् ॥ ८॥
यस्य कायेन वाचा मनसा नाऽस्ति दुष्कृतम् ।
संवृतं त्रिभिः स्थानैः तमहं ब्रवीमि ब्राह्मणम् ॥ ९॥
यस्माद् धर्मं विजानीयात् सम्यक्-संबुद्ध-देशितम् ।
सत्कृत्य तं नमस्येद् अग्निहोत्रमिव ब्राह्मणः ॥ १०॥
न जटाभिर्न गोत्रेण न जात्या भवति ब्राह्मणः ।
यस्मिन् सत्यं च धर्मस्च स शुचिः स च ब्राह्मणः ॥ ११॥
किं ते जटाभिः दुर्मेधः ! किं तेऽजिनशाट्या ।
आभ्यन्तरं ते गहनं बाह्यं परिमार्जयसि ? ॥ १२॥
पांशुकूलधरं जन्तुं कृशं धमनिसन्ततम् ।
एकं वने ध्यायन्तं तमहं ब्रवीमि ब्राह्मणम् ॥ १३॥
न चाहं ब्राह्मणं ब्रवीमि योनिजं मातृसंभवम् ।
भो वादी नाम स भवति स वै भवति सकिञ्चनः ।
अकिञ्चनमनादानं तमहं ब्रवीमि ब्राह्मणम् ॥ १४॥
सर्वसंयोजनं छित्त्वा यो वै न परित्रस्यति ।
संगातिगं विसंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥ १५॥
छित्वा नन्दिं वरत्रां च सन्दानं सहनुक्रमम् ।
उत्क्षिप्तपरिघं बुद्धं तमहं ब्रवीमि ब्राह्मणम् ॥ १६॥
आक्रोशन् वधबन्धं चादुष्टो यस्तितिक्षति ।
क्षान्तिबलं बलानीकं तमहं ब्रवीमि ब्राह्मणम् ॥ १७॥
अक्रोधनं व्रतवन्तं शीलवन्तं अनुश्रुतम् ।
दान्तमन्तिमशारीरं तमहं ब्रवीमि ब्राह्मणम् ॥ १८॥
वारि पुष्करपत्र इवाराग्रे इव सर्षपः ।
यो न लिप्यते कामेषु तमहं ब्रवीमि ब्राह्मणम् ॥ १९॥
यो दुःखस्य प्रजानातीहैव क्षयमात्मनः ।
पन्नभारं विसंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥ २०॥
गंभीरप्रज्ञं मेधाविनं मार्गामार्गस्य कोविदम् ।
उत्तमार्थमनुप्राप्तं तमहं ब्रवीमि ब्राह्मणम् ॥ २१॥
असंसृष्टं गृहस्थैः अनागारैश्चोभाभ्याम् ।
अनोकःसारिणं अल्पेच्छं तमहं ब्रवीमि ब्राह्मणम् ॥ २२॥
निधाय दण्डं भूतेषु त्रसेषु स्थावरेषु च ।
यो न हन्ति न घातयति तमहं ब्रवीमि ब्राह्मणम् ॥ २३॥
अविरुद्धं विरुद्धेषु आत्तदण्डेषु निर्वृतम् ।
सादानेष्वनादानं तमहं ब्रवीमि ब्राह्मणम् ॥ २४॥
यस्य रागश्च द्वेषश्च मानो म्रक्षश्च पातितः ।
सर्षप इवाऽऽराग्रात् तमहं ब्रवीमि ब्राह्मणम् ॥ २५॥
अकर्कशां विज्ञापनीं गिरं सत्त्यामुदीरायेत् ।
यथा नाऽभिषजेत् किञ्चित् तमहं ब्रवीमि ब्राह्मणम् ॥ २६॥
य इह दीर्घं वा हृस्वं वाऽणुं स्थूलं शुभाऽशुभम् ।
लोकेऽदत्तं नादत्ते तमहं ब्रवीमि ब्राह्मणम् ॥ २७॥
आशा यस्य न विद्यन्तेऽस्मिन् लोके परस्मिन् च ।
निराशयं विसंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥ २८॥
यस्याऽऽलया न विद्यन्त आज्ञायाऽकथंकथी ।
अमृतावगाधमनुप्राप्तं तमहं ब्रवीमि ब्राह्मणम् ॥ २९॥
य इह पुण्यं च पापं चोभयोः संगं उपात्यगात् ।
अशोकं विरजं शुद्धं तमहं ब्रवीमि ब्राह्मणम् ॥ ३०॥
चन्द्रमिव विमलं शुद्धं विप्रसन्नमनाविलम् ।
नन्दीभवपरीक्षीणं तमहं ब्रवीमि ब्राह्मणम् ॥ ३१॥
य इमं प्रतिपथं दुर्गं संसारं मोहमत्यगात् ।
तीर्णः पारगतो ध्याय्यनेजोऽकथंकथी ।
अनुपादाय निर्वृतः तमहं ब्रवीमि ब्राह्मणम् ॥ ३२॥
य इह कामान् प्रहायाऽनागारः परिव्रजेत् ।
कामभवपरिक्षीणं तमहं ब्रवीमि ब्राह्मणम् ॥ ३३॥
य इह तृष्णां प्रहायाऽनागारे परिव्रजेत् ।
तृष्णाभवपरिक्षीणं तमहं ब्रवीमि ब्राह्मणम् ॥ ३४॥
हित्त्वा मानुषकं योगं दिव्यं योगमुपात्यगात् ।
सर्वयोगविसंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥ ३५॥
हित्त्वा रतिञ्चारतिञ्च शीतीभूतं निरूपधिम् ।
सर्वलोकाऽभिभुवं वीरं तमहं ब्रवीमि ब्राह्मणम् ॥ ३६॥
च्युतिं यो वेद सत्त्वानां उपत्तिं च सर्वशः ।
असक्तं सुगतं बुद्धं तमहं ब्रवीमि ब्राह्मणम् ॥ ३७॥
यस्य गतिं न जानन्ति देव-गन्धर्व-मानुषाः ।
क्षीणास्रवं अर्हन्तं तमहं ब्रवीमि ब्राह्मणम् ॥ ३८॥
यस्य पुरश्च पश्चाच्च मध्ये च नाऽस्ति किञ्चन ।
अकिञ्चनमनादानं तमहं ब्रवीमि ब्राह्मणम् ॥ ३९॥
ऋषभं प्रवरं वीरं महर्षिं विजितवन्तम् ।
अनेजं स्नातकं बुद्धं तमहं ब्रवीमि ब्राह्मणम् ॥ ४०॥
पूर्वनिवासं यो वेद स्वर्गापाऽयं च पश्यति ।
अथ जातिक्षयं प्राप्तोऽभिज्ञाव्यवसितो मुनिः ।
सर्वव्यवसितव्यवसानं तमहं ब्रवीमि ब्राह्मणम् ॥ ४१॥
॥ इति ब्राह्मणवर्गः समाप्तः ॥
॥ इति धर्मपदं सम्पूर्णम् ॥
Digitized by a team of volunteers working for http://malayalamebooks.org
The book is available at
http://www.archive.org/details/Dhammapada\_Pali\_Sanskrit\_Hindi\_by\_Rahul\_Sankrityayan
1. Link for Dharmapada stories for each verse
http://www.thisismyanmar.com/nibbana/dhammapada/dmpadatm
2. Link for English Translation from Myanmar
http://www.thisismyanmar.com/nibbana/dhammapada/versestm
3. OR below is a consolidated link for both verse and story adopted
from the above links. .
http://www.tipitaka.net/tipitaka/dhp/index.php