श्री भारत-तात्पर्य-सङ्ग्रहस्तोत्रम्
श्रीबादरायणमुनिः स्वयमेव विष्णुः
पार्थच्छलात्तमधिकृत्य कृते प्रबन्धे ।
तस्यापि नित्यमहितं शशिभूषणत्वां
आम्रेडयन् गुरुरदर्शयदादि तत्त्वम् ॥ १॥
मोहाभिभूतमखिलं जगदाविरिञ्चं
त्वामेकमेवं भगवन् रहितं च तेन ।
विख्याप्यमङ्कणक दिव्यकथानुषक्त्या
त्वां ब्रह्मतेन च मुनिः स्फुटयाम्बभूव ॥ २॥
सस्माच्च (तस्माच्च) मोहतदभावकृताद्विशेषात्
जन्मस्थिति प्रलय भागखिलं त्वदन्यत् ।
तत्कर्तृवस्तु परमं त्वमिति प्रबोधं
जातं विभावयति तस्य तदीय वाचा ॥ ३॥
कैलासशैलशिखरे हरिपार्थदृष्टं
त्वां ब्रह्मनाथ परमं समुदीर्य साक्षात् ।
तल्लक्षणं त्वयमनन्यतदीय धर्मं
क्रान्ते कियच्च भवति स्फुटमाचचक्षे ॥ ४॥
नारायणस्य सुचिरं त्वदुपासकस्य
यत्ब्रह्मभावमवदत्तव भावनाप्तम् ।
यत्ते स्तुतिं तदुदितां परभावगर्भां
त्वां ब्रह्म तेन च मुनिः स्फुटयाञ्चकार ॥ ५॥
मूलं कृष्णो ब्रह्म च ब्राह्मणाश्चेत्
यादावेवं ब्रह्मभावं महेश ।
पार्थानां ते नित्यसंरक्षकस्य
व्यासस्तत्रोद्घाटयामास शम्भो ॥ ६॥
ब्रह्मा विष्णुश्शङ्करश्चेति देवाः
कर्तारो ये सर्गरक्षालयानाम् ।
तेषां सृष्टिं संहृतिं च त्वदीच्छा
धीनामूचे द्योतयन् ब्रह्मतत्त्वम् ॥ ७॥
विशालाक्षस्थाणुर्द्रुहिणतनयः संहरणकृत्
सरोजाक्षक्रोधप्रभव इति वैशेषिकपदम् ।
विभूतित्वज्ञप्त्यै किमपिनिहितन्नाथ नियतं
निकर्षोक्तिस्ताभ्यां भवतैतिबुद्धिं निरसितुम् ॥
यत्रेदृशं नास्ति विभूति रुद्रता
विज्ञापकं नाथ विशेषकं पदम् ।
साऽपि स्वधर्म गृहमानवैशसात्
सर्वेश्वरं त्वां ननिकर्षगीस्पृशेत् ॥ ९॥
गीतासुगूढमुदितं भवतः परत्वं
नैवस्फुटं तदत एव हि सव्यसाची ।
गीथार्थमेव सहसापुनरप्यपृच्छत्
तबोधनार्थमुदिता हरिणानुगीता ॥ १०॥
तमेव चाद्यं पुरुषं प्रपद्ये
त्युदीरितं यन्मधुकैटभद्विषा ।
तमेव सर्वान् भ्रमयन्तमीश्वरं
महाफलाप्त्यै शरणं व्रजेति यत् ॥ ११॥
एतेन कृष्णस्य समं मुमुक्षुणा
स्वाराधनीयः प्रतिभासते परः ।
सर्वस्य चाहं हृदिसन्निविष्टे
त्याद्यैस्तु विष्णुः तदुदेतिसंशयः ॥ १२॥
इत्थमस्य यदि संशयो भवेत्
अन्यथाग्रहणमेव वा पुनः ।
नाग्रहीन्मदुपविष्ट एवं
इत्यग्रहं हरिरवोचदुत्तरे ॥ १३॥
उक्त्वा च संशयविपर्ययोः निरासं
चक्रे हरिश्चतुरया द्रुतमुक्तिभङ्ग्या ।
शक्यन्तदद्य न मया भणितुं यथोक्तं
योगाधिरूडमनसा न बहिर्दृशेति ॥ १४॥
अधुना तदुपास्य संशयाद्यपगच्छत्विति सौहृदं स्मरन् ।
इति होक्तमिहश्रुतम्मयेत्युपदेश्ये कियदाह तत्र सः ॥ १५॥
तस्य स्थिरीकरणमात्मनि पूर्ववृत्तं
स्वस्यैव बुद्धिमनसी द्विजदम्पती च ।
कृत्वानुयोजनतदुत्तरयोरनुक्त्वा
विख्याप्य तद्विवरणं च चकार शौरिः ॥ १६॥
अग्रेतत्त्वं परं किं त्वहमपि च कुतः सर्व भूतानि चेति
प्रश्नेशिष्यस्य तस्मै गुरुकृतमखिलं ब्रह्मतत्त्वोपदेशम् ।
मोक्षं शिष्यस्य चोक्त्वापुनरपिविजये नानुयुक्तो गुरुः कः
शिष्योवेति स्वमेवेश्वरगुरुमवदत् स्वस्यचित्तं स्वशिष्यम् ॥ १७॥
ब्रह्मण्येवं स्वचेतो मियमनसमुपस्थापितं ग्रन्थिमोक्षं
स्वेनैवोक्तं विमृश्य प्रपदनवचनं तत्प्रतीतार्थनिष्ठम् ।
यत्तत्सर्वस्यचाहं हृदिमुखवचनं तत्पुनश्शास्त्रदृष्टया
इत्येवं पार्थोऽवगच्छेदितिविवृतिरकार्यत्र गीताशयस्य ॥ १८॥
तच्च ब्रह्मप्रपत्यास्पदसुररिपोः ईश्वरत्वं न चान्यः
नाहं कञ्च्चित्प्रपद्ये विबुधमितिवचः श्रोतुरुत्कृष्टभक्त्यै ।
सेवन्ते नीलकण्ठं परिमितफलदं न प्रबुद्धचा इतीदं
ब्रह्मैक्यध्यातृ विद्वद्विषयमितरथा नास्ति भूयोनुरोधः ॥ १९॥
इत्थं चक्रे भारतं यः प्रबन्धं
व्यक्त्या व्यासश्शाम्भवोत्कर्षवर्षी ।
ध्वन्यध्वन्यध्वन्य मूर्धन्य धन्यस्तं
शौरिं तत्साक्षिणं चानतोऽस्मि ॥ २०॥
इति श्रीअप्पय्यदीक्षितविरचितं श्रीभारततात्पर्यसङ्ग्रहस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Rama Prakasha ramaprakashak at gmail.com