आत्मविद्याविलासः २
यत्पादपद्ममकरन्दजुषां नराणां
संसारघोरभुजगान्न भवेत्स्म भीतिः ।
सच्चिद्घनं सकलसौख्यलवाम्बुराशिं
श्रीदक्षिणाभिमुखमूर्तिमजं भजेऽहम् ॥ १॥
एतावदेव खलु पुम्भिरवाप्तुमर्हं
यच्चेतसो निलयनं निजतत्त्वबोधे ।
आक्रोशनं श्रुतिशिरांसि यदर्थमेव
कुर्वन्ति येन हि भवेत्पुरुषः सुखाब्धिः ॥ २॥
मातेव पुत्रमनुबोधयति श्रुतिर्हि
लोकं समस्तमपि योजयितुं सुखेन ।
तस्माच्छ्रुतेरभिहितार्थमतन्द्रितेन
चित्तेन साधयितुमत्र जना यतध्वम् ॥ ३॥
आदाविदं सकलमेव जगत्सदासी-
त्कुम्भादिवत्तदनु शक्तियुतात्परस्मात् ।
आकाशवायुदहनाम्बुभुवो बभूवु-
र्वातप्रसक्तसलिलादिव वीचिपूरः ॥ ४॥
सूक्ष्माख्यभूतगतसत्त्वरजस्तमोभि-
र्लिङ्गं शरीरमुदभूदत ईश्वरेच्छा ।
पञ्चीचकार वियदादिकभूतसूक्ष्मा-
ण्यण्डं ह्यभूदत इदं सह जीवभोग्यैः ॥ ५॥
सृष्ट्वा जगत्सकलमेवमशेषकर्ता
तत्प्राविशत्पुनरुपागतजीवभावः ।
विस्मृत्य सत्यसुखबोधमयस्वरूपं
भ्रान्त्या भ्रमत्यनिशमस्तविवेकलेशः ॥ ६॥
इत्थं प्रमादवशतः परिमुह्यमानो
देहात्मबुद्धिपरिकल्पितकर्मबन्धः ।
स्वर्गादिभोगगमनागमनातिखिन्नो
लूतावदेष भवमभ्यगमच्चिदात्मा ॥ ७॥
मायायुतस्त्वगमदीश्वरतां चिदात्मा
चाविद्यया युगभवद्भृतजीवभाव ॥
माया भवेद्विमलसत्त्वगुणप्रधाना
प्रोक्ता मलापिहितसत्त्वगुणा त्वविद्या ॥ ८॥
एकोऽप्यनेक इव भाति शरीरभेदा-
दात्मा घटादिगतभेदवशाद्वियद्वत् ।
देहेन्द्रियादिषु चलत्सु निजप्रकाशा-
त्पूर्णोऽपि निश्चलतरोऽपि विकारवद्वत् ॥ ९॥
एवं भवार्णवनिमज्जनदुःखितेषु
लोकेषु पूर्वजनिसञ्चितपुण्यपुञ्जैः ।
कश्चिद्विशुद्धमतिरेत्य गुरुं कृपाब्धिं
प्राह प्रणम्य भवसागरलङ्घनेच्छुः ॥ १०॥
संसारघोरजलधौ भगवन्नपारे
तापत्रयौघदहने सहजारिनक्रे ।
मोहाम्भसि प्रचलदुद्भवमृत्युभङ्गे
वीक्ष्यान्तरस्मि पतितं जगदद्य भीतः ॥ ११॥
मातुः स्थितस्य जठरे वचसां च दूरं
दुःखं पुनर्जननकालभवं दुरूह्यम् ।
बाल्येऽपि दुःखमविषह्यमवारणीय-
मालोच्य भीतिरधुना महती ममोत्था ॥ १२॥
तारुण्यमेत्य कुलयौवनरूपसम्प-
द्विद्यात्मगर्वपिहितात्महिताभिलाषः ।
विण्मूत्रमांसरुधिरास्थिमये शरीरे
नार्या रुचिं समुपयाति जनो विचित्रम् ॥ १३॥
सर्वापदां निलयमेत्य वयोऽधिकत्वं
जन्तुः सुखं न लभते ह्यपि किञ्चिदत्र ।
पुंसामिहास्ति न भयं खलु मृत्युतोऽन्य-
द्धिक्कृत्य संसृतिमिमामभवं विरक्तः ॥ १४॥
स्वामिन्कथं मम भवार्णवलङ्घनं स्या-
दायासलेशरहितं वद तत्र हेतुम् ।
श्रुत्वा तु शिष्यवचनं रमणीयमित्थं
प्रत्युत्तरं गुरुरदात्कृतमन्दहासः ॥ १५॥
देहेन्द्रियासुहृदयादिकचैत्यवर्गा-
त्प्रत्यक्चितेर्विभजनं भववारिराशेः ।
सन्तारणे प्लव इति श्रुतिडिण्डिमोऽयं
तस्माद्विचारय जडाजडयोः स्वरूपम् ॥ १६॥
प्रत्यक्चितिर्वपुरिदं न भवेज्जडत्वा-
त्कुड्यादिवज्जडतयाप्यसवो न चित्स्युः ।
नापीन्द्रियाणि करणं कुत एव चित्स्या-
त्कुद्दालकादिवदिति प्रविचारय त्वम् ॥ १७॥
दृश्यत्वतो न मनसश्च भवेच्चितित्वं
नाहङ्कृतिश्च परिणामवती चितिः स्यात् ।
बुद्धेरचित्त्वमपि जन्मविनाशवत्त्वा-
च्चित्तं च दृश्यमचिदित्यनुचिन्तय त्वम् ॥ १८॥
बुद्ध्वा समस्तमपि दृश्यमचित्स्वरूपं
प्रत्यक्चितिं च निजरूपतया विदित्वा ।
देहेन्द्रियाद्यखिलसाक्ष्यहमित्यजस्रं
सञ्चिन्तय व्यपगताखिलसंशयः सन् ॥ १९॥
देहादिकं जगदसज्जडदुःखरूपं
मय्यद्वितीयनिजबोधसदादिरूपे ।
सन्दृश्यते भ्रमवशाद्गगने निरंशे
गन्धर्वपत्तनमिवेत्यनुभावय त्वम् ॥ २०॥
या चित्प्रभा त्वमिति मेयविभासयित्री
यत्सङ्क्रमाद्घटपटाद्यवभासिका धीः ।
आब्रह्मकीटमहमित्यवभासमाना
या सैव संविदिति चिन्तय सन्ततं त्वम् ॥ २१॥
जाग्रन्मुखत्रिविधधामसुसाक्षिणी या
जाग्रन्मुखत्रिविधधाम विलक्षणाया ।
स्वप्नाद्यनुस्मृतिबलात्सततैकरूपा
सैवाहमस्मि चितिरित्यवधारय त्वम् ॥ २२॥
नोदेति नास्तमुपयाति न वृद्धिमेति
नैवोपयाति परिणाममपक्षयं वा ।
स्वाध्यस्तसर्वजननादिविकारसाक्षि-
ण्येषा हि संविदिति चिन्तय सन्ततं त्वम् ॥ २३॥
मच्छेषतां समवलम्ब्य सुतादिसर्वं
येन प्रियं भवति तेन सुखस्वरूपः ।
देहेन्द्रियादिविषयप्रलयैकसाक्षी
यस्मात्ततः सदिति मे निजरूपमास्स्व ॥ २४॥
आदौ त्वमेव सदभूरविशेषरूप-
स्त्वत्तोदितं जगदिदं सविशेषजातम् ।
त्वय्येव तिष्ठति तथा त्वयि चावसाने
संलीयते जलनिधाविव बुद्बुदादिः ॥ २५॥
व्यापित्वहेतुबलतो न दिशास्ति मेऽन्तो
नित्यत्वहेतुबलतश्च न कालतोऽन्तः ।
सार्वाथ्यहेतुबलतश्च न वस्तुतोऽन्त-
स्तस्मादनन्तमिति मे निजरूपमास्स्व ॥ २६॥
एवं निरन्तरसमाधिवशान्निराधि-
र्ज्ञानाग्निदग्धसहकारणजन्मबीजः ।
आविर्भवन्निजसुखानुभवैकतृप्तो
ब्रह्मैव नूनमिह सम्भवसि ध्रुवं त्वम् ॥ २७॥
इत्थं गिरा विमलया परसौख्यदात्र्या
वाचा गुरोर्विमथिताखिलसंशयौघः ।
शिष्यः समाधिपरिशीलनतीक्ष्णदिव्य-
ज्ञानासिखण्डितभवाख्यविषद्रुमोऽभूत् ॥ २८॥
स्वानन्दमप्रतिहतं परिभुज्य हर्षा-
दश्रुप्रपूर्णनयनः पुलकाङ्गिताङ्गः ।
शिष्यः सगद्गदमुवाच गुरुं घृणाब्धिं
नत्वा तदङ्घ्रियुगलं विनयोपयुक्तः ॥ २९॥
स्वामिन्भवद्वचनदिव्यसुधाभिषिक्त-
स्वानन्दमञ्जुनगरे विहरामि नित्ये ।
अज्ञानदुर्हृदमतीव शितेन सम्य-
ग्ज्ञानासिना परिविलूय सहानुजातम् ॥ ३०॥
गच्छामि कुत्र किमहं करवाणि किं वा
गृह्णामि किं परिजहामि मयि प्रपूर्णे ।
निर्व्याजसौख्यजलधौ परिदृश्यमानं
फेनादिकं जगदिति स्थिरनिश्चयो मे ॥ ३१॥
मायाभिधो जलधरो जगदाख्यमम्बु
वर्षत्वनेन मम चिद्वपुषः क्षतिः का ।
लाभोऽपि वा क इति सन्ततमात्मरूपं
सञ्चिन्तयन्स्थिरमतिर्विहरामि नित्ये ॥ ३२॥
वाक्कायमानसभवं सकलं हि कर्म
प्रोक्तं शुभाशुभमयं न ततोऽस्ति भिन्नम् ।
वागादिसाक्षिणि कथं मयि निर्मले स्या-
त्कर्मद्वयं तदुदितं जननादिकं वा ॥ ३३॥
व्यावृत्तरूपमिदमेव जगद्विभिन्नं
ज्ञानं त्वभिन्नमनुवृत्ततयाखिलेषु ।
ज्ञानं च भिन्नमिति चेज्जडतादिदोष-
प्राप्तिर्भवेच्छ्रुतिशिरांसि न तं सहन्ते ॥ ३४॥
नैवेन्द्रियाणि विषयेषु नियोजयामि
प्राग्वासनावशत एव हि तानि यान्ति ।
स्वान्गोचरान्प्रति ममास्ति न साक्षितापि
सा साक्ष्यभेदकलिता खलु सोऽप्यसत्यः ॥ ३५॥
भेदोऽपि साक्ष्यगत एव न साक्षिणो मे
भेदस्य साक्षिणि कथं प्रभवेत्स भेदः ।
भेदो न सुप्तिसमयेऽनुपलम्भनाच्च
सन्नास्तिता न इह दृष्टतया न वाच्या ॥ ३६॥
विश्वं सदेतदिति कार्यकरत्वहेतो-
र्यद्यस्य सत्त्वमिह साधयितुं यतेथाः ।
तर्ह्यत्र रज्जुभुजगाद्यपि सद्बलात्स्या-
त्सत्यत्वहेतुरिदमाहुरबाधितत्वम् ॥ ३७॥
कीदृग्विधं जगदये वद सत्त्वचित्त्या-
द्याकारहीनमिति पृष्टवतेऽस्ति मह्यम् ।
प्रत्युत्तरं किमिति ते तव मौनमेव
प्रत्युत्तरं भवति मां प्रति गच्छ जाल्म ॥ ३८॥
ज्ञानाग्निदग्धमपि भाति जगद्विचित्रं
यच्च ध्वनिभ्रमवतः सविशेषबोधात् ।
तस्मिन्भ्रमे विमथितेऽपि तथैव भाति
दिग्वत्यथो मम च तद्वदतो न सत्तत् ॥ ३९॥
भूमिं जले तदपि तेजसि तच्च वायौ
तं व्योम्नि तत्त्रिगुणया सह मय्यनन्ते ।
पूर्णे विलाप्य परिशिष्टमखण्डसंवि-
त्स्वानन्दरूपमनुभूय रमेऽहमद्य ॥ ४०॥
अज्ञानतन्निरसने मयि बोधरूपे
स्यातां कथं तिमिरतद्विरती इवार्के ।
बन्धश्च मोक्ष इति कल्पनमप्यसत्यं
भ्रान्त्यैव भात्यखिलसाक्षिणि नित्यमुक्ते ॥ ४१॥
आरब्धकर्मणि च भोगत एव नष्टे
प्राणादयोऽपि मम नोत्क्रमितुं समर्थाः ।
तप्ताग्निनिष्ठजतुवन्मथि पूर्णबोधे
लीना भवन्ति न पुनर्जननादिकं स्यात् ॥ ४२॥
आम्नायमस्तकसुसंस्कृतवैभवोऽहं
व्योम्नोऽपि पूर्णतममूर्तिरहं स्थितोऽहम् ।
सर्वालयोऽहमहमाद्यवभासकोऽहं
वागाद्यगोचरसदोदितसौख्यकोऽहम् ॥ ४३॥
इति श्रीसदाशिवेन्द्रसरस्वत्या विरचितः आत्मविद्याविलासः (२) सम्पूर्णः ॥
Proofread by Sunder Hattangadi