नन्दकिशोरः क्रीडति रे
नन्दकिशोरः क्रीडति रे ।
गोपकुमारैः गोपकुले ॥
नयति च धेनूश्चारयितुं
सरसस्तीरे पालयितुं
मधुरं वंशीं वादयति
धेनुवत्सान् लालयति
कन्दुकेन सः खेलति रे ॥
खेलन् गच्छति मित्रगृहं
तत्र चोरयति नवनीतं
प्रेम्णा यच्छति मित्रेभ्यः
धावति झटिति स गोपिभ्यः
क्षीरं पीत्वा नन्दति रे ॥
-- रचना - उषा राणी सङ्का