ब्रह्माण्डमहापुराणान्तर्गते भारतवर्षवर्णनम्
सूत उवाच -
एवमेव निसर्गो वै वर्षाणां भारते शुभे ।
दृष्टः परमतत्त्वज्ञैर्भूयः किं वर्णयामि वः ॥ १॥
ऋषिरुवाच -
यदिदं भारतं वर्षं यस्मिन्स्वायम्भुवादयः ।
चतुर्दशैते मनवः प्रजासर्गेऽभवन्पुनः ॥ २॥
एतद्वेदितुमिच्छामस्तन्नो निगद सत्तमः ।
एतच्छ्रुतवचस्तेषामब्रवीद्रोमहर्षणः ॥ ३॥
अत्र वो वर्णयिष्यामि वर्षेऽस्मिन् भारते प्रजाः ।
इदं तु मध्यमं चित्रं शुभाशुभफलोदयम् ॥ ४॥
उत्तरं यत्ममुद्रस्य हिमवद्दक्षिणं च यत् ।
वर्षं तद्भारतं नाम यत्रेयं भारती प्रजा ॥ ५॥
भरणाच्च प्रजानां वै मनुर्भरत उच्यते ।
निरुक्तवचनाच्चैवं वर्षं तद्भारतं स्मृतम् ॥ ६॥
इतः स्वर्गश्च मोक्षश्च मध्यश्चान्तश्च गम्यते ।
न खल्वन्यत्र मर्त्यानां भूमौ कर्म विधीयते ॥ ७॥
भारतस्यास्य वर्षस्य नव भेदान्निबोधत ।
समुद्रान्तरिता ज्ञेयास्ते त्वगम्याः परस्परम् ॥ ८॥
इन्द्र द्वीपः कशेरूमांस्ताम्रवर्णो गभस्तिमान्
नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथ वारुणः ॥ ९॥
अयं तु नवमस्तेषां द्वीपः सागरसंवृतः
योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरात् ॥ १०॥
आयतो ह्याकुमार्य्या वै चागङ्गाप्रभवाच्च वै
तिर्यगुत्तरविस्तीर्णः सहस्राणि नवैव तु ॥ ११॥
द्वीपो ह्युपनिविष्टोऽयं म्लेच्छैरन्तेषु सर्वशः ।
पूर्वे किराता ह्यस्यान्ते पश्चिमे यवनाः स्मृताः ॥ १२॥
ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः ।
इज्यायुधवणिज्याभिर्वर्त्तयन्तो व्यवस्थिताः ॥ १३॥
तेषां संव्यवहारोऽत्र वर्त्तते वै परस्परम् ।
धर्मार्थकामसंयुक्तो वर्णानां तु स्वकर्मसु ॥ १४॥
सङ्कल्पः पञ्चमानां च ह्याश्रमाणां यथाविधि ।
इह स्वर्गापवर्गार्थं प्रवृत्तिर्येषु मानुषी ॥ १५॥
यस्त्वयं नवमो द्वीपस्तिर्यगायाम उच्यते ।
कृत्स्नं जयति यो ह्येनं संराडित्यभिधीयते ॥ १६॥
अयं लोकस्तु वै संराडन्तरिक्षं विराट् स्मृतम् ।
स्वराडसौ स्मृतो लोकः पुनर्वक्ष्यामि विस्तरात् ॥ १७॥
सप्तैवास्मिन्सुपर्वाणो विश्रुताः कुलपर्वताः ।
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥ १८॥
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ।
तेषां सहस्रशश्चान्ये पर्वतास्तु समीपगाः ॥ १९॥
अविज्ञाताः सारवन्तो विपुलाश्चित्रसानवः ।
मन्दरः पर्वतश्रेष्ठो वैहारो दुर्दुरस्तथा ॥ २०॥
कोलाहलः ससुरसो मैनाको वैद्युतस्तथा ।
वातन्धमो नागगिरिस्तथा पाण्डुरपर्वतः ॥ २१॥
तुङ्गप्रस्थः कृष्णगिरिर्गोधनो गिरिरेव च ।
पुष्पगिर्युज्जयन्तौ च शैलो रैवतकस्तथा ॥ २२॥
श्रीपर्वतश्चित्रकूटः कूटशैलो गिरिस्तथा ।
अन्ये तेभ्योऽपरिज्ञाता ह्रस्वाः स्वल्पोपजीविनः ॥ २३॥
तैर्विमिश्रा जनपदा आर्या म्लेच्छाश्च भागशः ।
पीयन्ते यैरिमा नद्यो गङ्गा सिन्धुः सरस्वती ॥ २४॥
शतद्रुश्चन्द्र भागा च यमुना सरयूस्तथा ।
इरावती वितस्ता च विपाशा देविका कुहूः ॥ २५॥
गोमती धूतपापा च बुद्बुदा च दृषद्वती ।
कौशिकी त्रिदिवा चैव निष्ठीवी गण्डकी तथा ॥ २६॥
चक्षुर्लोहित इत्येता हिमवत्पादनिस्सृताः ।
वेदस्मृतिर्वेदवती वृत्रघ्नी सिन्धुरेव च ॥ २७॥
वर्णाशा नन्दना चैव सदानीरा महानदी ।
पाशा चर्मण्वतीनूपा विदिशा वेत्रवत्यपि ॥ २८॥
क्षिप्रा ह्यवन्ति च तथा पारियात्राश्रयाः स्मृताः ।
शोणो महानदश्चैव नर्म्मदा सुरसा क्रिया ॥ २९॥
मन्दाकिनी दशार्णा च चित्रकूटा तथैव च ।
तमसा पिप्पला श्येना करमोदा पिशाचिका ॥ ३०॥
चित्रोपला विशाला च बञ्जुला वास्तुवाहिनी ।
सनेरुजा शुक्तिमती मङ्कुती त्रिदिवा क्रतुः ॥ ३१॥
ऋक्षवत्सम्प्रसूतास्ता नद्यो मणिजलाः शिवाः ।
तापी पयोष्णी निर्विन्ध्या सृपा च निषधा नदी ॥ ३२॥
वेणी वैतरणी चैव क्षिप्रा वाला कुमुद्वती ।
तोया चैव महागौरी दुर्गा वान्नशिला तथा ॥ ३३॥
विन्ध्यपादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः ।
गोदावरी भीमरथी कृष्णवेणाथ बञ्जुला ॥ ३४॥
तुङ्गभद्रा सुप्रयोगा बाह्या कावेर्यथापि च ।
दक्षिणप्रवहा नद्यः सह्य पादाद्विनिःस्मृताः ॥ ३५॥
कृतमाला ताम्रपर्णी पुष्पजात्युत्पलावती ।
नद्योऽभिजाता मलयात्सर्वाः शीतजलाः शुभाः ॥ ३६॥
त्रिसामा ऋषिकुल्या च बञ्जुला त्रिदिवाबला ।
लाङ्गूलिनी वंशधरा महेन्द्र तनयाः स्मृताः ॥ ३७॥
ऋषिकुल्या कुमारी च मन्दगा मन्दगामिनी ।
कृपा पलाशिनी चैव शुक्तिमत्प्रभवाः स्मृताः ॥ ३८॥
तास्तु नद्यः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः ।
विश्वस्य मातरः सर्वा जगत्पापहराः स्मृताः ॥ ३९॥
तासां नद्युपनद्योऽन्याः शतशोऽथ सहस्रशः ।
तास्विमे कुरुपाञ्चालाः शाल्वा माद्रेयजाङ्गलाः ॥ ४०॥
शूरसेना भद्रकारा बोधाः सहपटच्चराः ।
मत्स्याः कुशल्याः सौशल्याः कुन्तलाः काशिकोशलाः ॥ ४१॥
गोधा भद्राः कलिङ्गाश्च मागधाश्चोत्कलैः सह ।
मध्यदेश्या जनपदाः प्रायशस्तत्र कीर्त्तिताः ॥ ४२॥
सह्यस्य चोत्तरान्तेषु यत्र गोदावरी नदी ।
पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः ॥ ४३॥
तत्र गोवर्द्धनं नाम पुरं रामेण निर्मितम् ।
रामप्रियाथ स्वर्गीया वृक्षा दिव्यास्तथौषधीः ॥ ४४॥
भरद्वाजेन मुनिना तत्प्रियार्थेऽवरोपिताः ।
अतः पुरवरोद्देशस्तेन जज्ञे मनोरमः ॥ ४५॥
बाह्लीका वाटधानाश्च आभीरा कालतोयकाः ।
अपरान्ताश्च सुह्माश्च पाञ्चलाश्चर्ममण्डलाः ॥ ४६॥
गान्धारा यवनाश्चैव सिन्धुसौवीरमण्डलाः ।
चीनाश्चैव तुषाराश्च पल्लवा गिरिगह्वराः ॥ ४७॥
शका भद्राः कुलिन्दाश्च पारदा विन्ध्यचूलिकाः ।
अभीषाहा उलूताश्च केकया दशमालिकाः ॥ ४८॥
ब्राह्मणाः क्षत्रियाश्चैव वैश्यशूद्रकुलानि तु ।
काम्बोजा दरदाश्चैव बर्बरा अङ्गलौहिकाः ॥ ४९॥
अत्रयः सभरद्वाजाः प्रस्थलाश्च दशेरकाः ।
लमकास्तालशालाश्च भूषिका ईजिकैः सह ॥ ५०॥
एते देशा उदीच्या वै प्राच्यान्देशान्निबोधत ।
अङ्गवङ्गाश्चोलभद्राः किरातानां च जातयः ॥
तोमरा हंसभङ्गाश्च काश्मीरास्तङ्गणास्तथा ॥ ५१॥
झिल्लिकाश्चाहुकाश्चैव हूणदर्वास्तथैव च ॥ ५२॥
अन्ध्रवाका मुद्गरका अन्तर्गिरिबहिर्गिराः ।
ततः प्लवङ्गवो ज्ञेया मलदा मलवर्तिकाः ॥ ५३॥
समन्तराः प्रावृषेया भार्गवा गोपपार्थिवाः ।
प्राग्ज्योतिषाश्च पुण्ड्राश्च विदेहास्ताम्रलिप्तकाः ॥ ५४॥
मल्ला मगधगोनर्दाः प्राच्यां जनपदाः स्मृताः ।
अथापरे जनपदा दक्षिणापथवासिनः ॥ ५५॥
पण्ड्याश्च केरलाश्चैव चोलाः कुल्यास्तथैव च ।
सेतुका मूषिकाश्चैव क्षपणा वनवासिकाः ॥ ५६॥
माहराष्ट्रा महिषिकाः कलिङ्गश्चैव सर्वशः ।
आभीराश्च सहैषीका आटव्या सारवास्तथा ॥ ५७॥
पुलिन्दा विन्ध्यमौलीया वैदर्भा दण्डकैः सह ।
पौरिका मौलिकाश्चैव अश्मका भोगवर्द्धिनाः ॥ ५८॥
कोङ्कणाः कन्तलाश्चान्ध्राः कुलिन्दाङ्गारमारिषाः ।
दाक्षिणाश्चैव ये देशा अपरांस्तान्निबोधत ॥ ५९॥
सूर्य्यारकाः कलिवना दुर्गालाः कुन्तलैः सह ।
पौलेयाश्च किराताश्च रूपकास्तापकैः सह ॥ ६०॥
तथा करीतयश्चैव सर्वे चैव करन्धराः ।
नासिकाश्चैव ये चान्ये ये चैवान्तरनर्मदाः ॥ ६१॥
सहकच्छाः समाहेयाः सह सारस्वतैरपि ।
कच्छिपाश्च सुराष्ट्राश्च आनर्ताश्चर्बुदैः सह ॥ ६२॥
इत्येते अपरान्ताश्च शृणुध्वं विन्ध्यवासिनः ।
मलदाश्च करूषाश्च मेकलाश्चोत्कलैः सह ॥ ६३॥
उत्तमानां दशार्णाश्च भोजाः किष्किन्धकैः सह ।
तोशलाः कोशलाश्चैव त्रैपुरा वैदिशास्तथा ॥ ६४॥
तुहुण्डा बर्बराश्चैव षट्पुरा नैषधैः सह ।
अनूपास्तुण्डिकेराश्च वीतिहोत्रा ह्यवन्तयः ॥ ६५॥
एते जनपदाः सर्वे विन्ध्यपृष्ठनिवासिनः ।
अतो देशान्प्रवक्ष्यामि पर्वताश्रयिणश्च ये ॥ ६६॥
निहीरा हंसमार्गाश्च कुपथास्तङ्गणाः शकाः ।
अपप्रावरणाश्चैव ऊर्णा दर्वाः सहूहुकाः ॥ ६७॥
त्रिगर्त्ता मण्डलाश्चैव किरातास्तामरैः सह ।
चत्वारि भारते वर्षे युगानि ऋषयोऽब्रुवन् ॥ ६८॥
कृतं त्रेतायुगं चैव द्वापरं तिष्यमेव च ।
तेषां निसर्गं वक्ष्यामि उपरिष्टादशेषतः ॥ ६९॥
॥ इति ब्रह्माण्डमहापुराणे भारतवर्षवर्णनम् ॥
॥ ब्रह्माण्डमहापुराणम् । वायुप्रोक्तं पूर्वभागः । अनुषङ्गपादः - २।
अध्यायः १६ - भारतवर्णनम् ॥
.. brahmANDamahApurANam . vAyuproktaM pUrvabhAgaH . anuSha~NgapAdaH - 2.
adhyAyaH 16 - bhAratavarNanam ..
Notes:
Brahmāṇḍa Mahā-Purāṇa ब्रह्माण्ड महापुराण; in this chapter has the description about the subcontinent and Karmabhūmi कर्मभूमि - Bhāratavarṣa भारतवर्ष and it's nine main zones - including the hills, mountains and rivers that span the land.
Encoded and proofread by Ruma Dewan