श्रीगोपालस्तवराजः
स्तवराजं प्रवक्ष्यामि श्रीगोपालस्य भावतः ।
भुक्तिमुक्तिप्रदं दिव्यं भक्तानामभिवर्द्धनम् ॥ १॥
नवीननीरदश्यामो गाम्भीर्यादृष्ट्यगोचरः ।
पीतवासानुरागेण लावण्येकपरावधिः ॥ २॥
सच्चिदानन्दमन्त्रैको नित्याखण्डात्मविग्रहः ।
सदा सकामः सर्वात्मा निगमागमसंस्तुतः ॥ ३॥
द्विभुजो भुक्तिमुक्तिभ्यां वाप्या पीयूषवर्षणः ।
नवकञ्जदलाक्षिभ्यां सृष्टिस्थितिकरः प्रभुः ॥ ४॥
भक्तिभिर्भूषितो देव आपादतलमस्तकम् ।
क्रीडन्नेव सदा बालैर्गोपालो लोकपालकः ॥ ५॥
वेदवेत्रेण शास्ते गा लोकानुग्रहकाम्यया ।
स्वानन्दे गोपिकावृन्दे वृन्दारण्ये परात्मनि ॥ ६॥
मन्दस्मितेन भक्तान्स्वान्हर्षयन्मोहयन्परान् ।
सदात्मराधसा दासो भजतां कामधुग्घरिः ॥ ७॥
अक्लिष्टकर्मा निर्दोषो निर्गुणो निरपाश्रयः ।
अप्राकृतगुणोदारो नित्यानन्दगुणात्मकः ॥ ८॥
गोपीभिः श्रुतिभिर्गीतः लीलानुग्रहविग्रहः ।
लीलया योगमायां यस्तया सर्वं करोति च ॥ ९॥
तपसः सुकृतस्यापि योगविज्ञानयोरपि ।
भक्तेरनुग्रहस्याक्ष्णा दर्शनं ह्यस्य सत्फलम् ॥ १०॥
देहि तद्दर्शनं नाथ लोचने कुरु शीतले ।
संसारतापजनितमज्ञानतिमिरं हरे ॥ ११॥
सर्वतः साधनैर्हीनं शिश्नोदरपरायणम् ।
दम्भार्थमखिलारम्भं पाहि मां करुणानिधे ॥ १२॥
साम्प्रतं रमसे ह्यस्मिन् व्रजे वृन्दावने वने ।
अज्ञानतिमिरान्धानामस्माकं नावभाससे ॥ १३॥
देहवाक्कायवृत्तीनामासुरीणां सुरेश्वर ।
न शक्यसे ह्यवस्थानं त्वयि कल्पशतैरपि ॥ १।४॥
न चोत्पादयितुं शक्या त्वयि प्रीतः सुखात्मनि ।
प्रसादं भवतो हित्वा त्वां प्राप्तुं को भवेत्प्रभुः ॥ १५॥
नित्याखण्डसुखस्थस्य पूर्णकामस्य नित्यशः ।
स्वलाभपरितुष्टस्य कथं तोषो विधीयताम् ॥ १६॥
सर्वत्र समभावेन पश्यतः परमात्मनः ।
कया युक्त्या प्रसादः स्यात्प्रसन्नस्यैव नित्यदा ॥ १७॥
तथापि तस्य देवस्य लीलालीलस्य बालवत् ।
प्रसादा निजभक्तेषु प्रवर्तन्ते स्वयं प्रभोः ॥ १८॥
न रागो वा विरागो वा क्रीडितुः क्रीडने शिशोः ।
यथा तथा कल्पतरोः प्रसादः संश्रिते स्वयम् ॥ १९॥
अथवा जगतामीशे किं कुतर्को गिरां मिते ।
विशिष्टेष्टैरुपदिष्टेऽस्मिन् वर्तना युज्यते पथि ॥ २०॥
कदा यशोदातनयः कदा श्रीनन्दनन्दनः ।
कदा श्रीराधिकाकान्तो दीनेहां पूरयिष्यति ॥ २१॥
यथा द्रुपदजा दीना कुन्तिका महिला यथा ।
अनुग्रहीता भवतां यथा मां स्वीकुरु प्रभो ॥ २२॥
यदि मां कुकृतिं वीक्ष्य उदास्तेऽथ भगवन्विभो ।
तदा धरण्यां रुष्टायां क्व यामि शरणं वद ॥ २३॥
रङ्गेण सार्वभौमस्य न शक्योपकृतिः क्वचित् ।
तथाप्ययं मलाङ्केन तेन सम्भाव्यते न किम् ॥ २४॥
असारेऽस्मिन्नु संसारे कारागारे स्थितं जनम् ।
मामुद्धर मुरारे श्रीकंसारे शरणं गतम् ॥ २५॥
श्रीमच्चरणराजीवरजोलिप्सुर्मुखम्पच ।
सुरतं समुपासीनोऽभग्नशक्तिं भवामि भोः ॥ २६॥
तिर्यक्षु नाथ यादस्सु नारकेषु नरेषु वा ।
जनिर्मे भ्रमतो नाथ भवतान्नासुरेषु च ॥ २७॥
यत्र न श्रीमतः सेवा कथा नो भक्तसङ्गतिः ।
न तत्र मे जनिर्भूयादिति याचे पुनः पुनः ॥ २८॥
मनसा वपुषा वाचा नान्यं येन समाश्रये ।
तथा मां कुरु कल्याण श्रीमन् श्याम मनोहर ॥ २९॥
विहाय सकलं विश्वं विश्वेशानपि सर्वशः ।
त्यामेवाहं प्रपन्नोऽस्मि त्वमेव परमा गतिः ॥ ३०॥
वृन्दारण्ये तरणितनयातीरजे दिव्यकुञ्जे
पीठे चिन्तामणिवरमये वेणुमापूरयन्तम् ।
नीलाम्भोदद्युतिमनुपमं पीतवासो वसानं
वन्दे मुक्ताभरणकुसुमैर्भूषितं नन्दनन्दम् ॥ ३१॥
स्तवराजमिमं पुण्यं श्रीकृष्णस्य परात्मनः ।
भगवान् भजतोऽमुष्य वश्यो भवति भूतले ॥ ३२॥
इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे स्तोत्रनिरूपणं
नाम षोडशोऽध्याये श्रीगोपालस्तवराजः सम्पूर्णः ।
Proofread by Manish Gavkar