व्यासादिप्रोक्तं शिवरहस्यमहेतिहासमहिमवर्णनम्
व्यासः -
इयं शिवकथासुधामुहुरुमामनोहारिणी
शिवेन कथिता पुरा त्रिपुरवैरिणा सादरम् ।
अपारसुकृतार्णवैः परमवाप भूमण्डलं
महाघलयकारणं करणमाशु मुक्तेः परम् ॥ १५१॥
रहस्यमेतद्रहसि श्रुतं पुरा पुरारिवक्त्राम्बुरुहेण गौर्या ।
अनेककल्पावधिसावधानमात्रेडितं साधु सुधारसेन ॥ १५२॥
ततः कदाचिद्गणनायकेन श्रुतं शिवावक्त्रसरोरुहेण ।
स्कन्देन तस्मात् श्रुतमादरेण श्रीनन्दिकेशेन ततः श्रुतं च ॥ १५३॥
ततः सुरैरेतदतिप्रयत्नैः प्राप्तं रहस्यं मुनयो मयेदम् ।
नारायणेनोक्तमतिप्रयत्नात् आराधितेनैव मुहुर्मयापि ॥ १५४॥
इदं रहस्यं खलु गोपनीयं रत्नस्वरूपं खलु रत्नरत्नम् ।
भक्ताय देयं खलु शाम्भवाय ज्ञात्वा स्वरूपं पुनरादरेण ॥ १५५॥
एतद्यथा कर्णपथं प्रयाति शैवं रहस्यं परमं पवित्रम् ।
करोति तावत् सकलाघनाशं संसारघोराद्भुतराशिनाशम् ॥ १५६॥
पिशाचाः -
एतत्पुस्तकमादरेण लिखितं यः पूजयेत् सन्ततं
तत्सन्तानसमृद्धिरक्षयसुखावाप्तिर्महाघक्षयः ।
स्यादेवेति शिवप्रसाददमिदं शैवं रहस्यं परं
श्रोतव्यं शिवपूजनादररसैर्माहेश्वरैरन्वहम् ॥ १८५॥
धन्यं भालतलं विभूतिललितं रुद्राक्षमालाङ्कितं
धन्यं कर्णतलं च नेत्रयुगलं धन्यं शिवालोकनैः ।
धन्यं श्रोत्रयुगं च शङ्करकथापीयूषधारावृतं
धन्यं मानसमम्बिकापतिपदध्यानानुरक्तं सदा ॥ १८८॥
धन्यं मन्दिरमिन्दुशेखरपदाचारादरात्यादर-
व्याहारव्यवहारधीररुचिरव्यापारदाराकरम् ।
हारापारकुमारवीरसुकरासारप्रसाराचिरं
प्राकारप्रवरं परं परमिदं किं धन्यमन्यद्भवेत् ॥ १८९॥
श्रीकालकालमहिलाबलकालकालहालाहलामलगलामलजालभाल ।
कल्लोललोलकमलामलपत्रजालमूलत्रिशूलममलं कलयेऽनुवेलम् ॥ १९०॥
श्रीगौरीरमणप्रभावकथनानन्देन मन्मानसं व्याप्तं
प्राप्तमतः परं शिवपदाम्भोजार्चनानां फलम् ।
स्कन्दानन्ददमेतदेव परमं शैवं रहयं मुहुः
मोहाग्निप्रलयाम्बुवाह इति मे वृद्धिः प्रवृद्धा मुदे ॥ १९१॥
ऋषयः -
ये वाञ्छन्ति शिवं शिवामितकथारूपस्फुरत्स्वर्धुनी
निर्धूताखिलपातकात्मकमलाः शीलाः सुशीलाः कलौ ।
ते सर्वे वयमेव सन्ततमुमाकान्तप्रसादात् परं
सम्प्राप्यात्र शिवङ्करं शिवमिति ध्यात्वा शिवं यान्त्यपि ॥ १९९॥
अज्ञानोरुतरान्धकारलहरीपूरारुणः कोप्ययं
विज्ञानामृतसागरः शिवकथारूपो विरूपं परम् ।
सर्वं शर्वरूपमेव कुरुते मुक्तानमुक्तानहो
तद्बिन्दुस्फुरदिन्दिराकरकरं कर्तुं समर्थः श्रुतः ॥ २००॥
योगाभ्यासरता भवन्तु बहवः तीर्थाटनाद्युद्यताः
तीर्थावासरताश्च निष्ठुरगिरिद्वारान्धकारादराः ।
तत्रास्था मम मास्त्वहं शिवरहस्यापारवर्णस्फुर-
न्निश्रेणीशिखरेण शङ्करकुलालम्बी शिवं प्रार्थये ॥ २०१॥
कण्ठे तिष्ठति यस्य वा शिवरहस्यानन्तचिन्तामणिः
नित्यं तद्वशतां प्रयान्ति विबुधाः कालान्विताः स्वान्विताः ।
तद्गेहाङ्गणमेत्य तिष्ठति रमा वाणीशचीसंयुता
तद्भाग्यावधिमिन्दुखण्डविलसन्मौलिः परं वेत्त्यहो ॥ २०२॥
आरुह्यामहं मुहुः शिवरहस्यानन्ददं स्यन्दनं
ऋग्वेदादिकवेदचक्रघटितं व्यासादिकैश्चाश्रितम् ।
हारापाखरध्वजं शिवकथाशय्यावितानान्वितं
शर्वाधिष्ठितमन्तरायरहितव्यापारमानन्दये ॥ २०३॥
पश्यामः शतशः शिवङ्करशिवाकान्तातिकान्ता-
मितानन्तानन्दकथासुधाकरकरव्यापारसाराकरम् ।
हारश्रीकरतारकं शिवरहस्यानन्दमत्यद्भुतं
हाराचारचिराचिरद्युतिहरव्याहारगङ्गावृतम् ॥ २०४॥
अत्यल्पं फलमिन्दिरारमणतारूपं विधित्वात्मकं
त्रैलोक्याधिपतित्वमप्यगसुताकान्तार्चकस्येत्यतः ।
अन्यत् तावदभूतपूर्वममराप्राप्यं किमप्यम्बिका-
कान्तानन्दकथोत्सुकस्य च परं कल्प्यं फलं तद्विधेः ॥ २०५॥
श्रुत्वापि प्रयतो द्विजः शिवरहस्यार्धार्धभागाक्षरा
पारश्रीकरधीरवीरवमप्यस्ताघकोटिर्भवेत् ।
मुक्तोऽपीति शपामि शङ्करपदाम्भोजे भुजावुन्नतौ
कृत्वा देवगणस्तुतां शिवकथां मत्वापि नत्वा शिवौ ॥ २०६॥
सत्यं तावदिहोच्यते शिवरहस्यानन्दमन्दाकिनी
कल्लोलानिलपोतपूतहृदयाम्भोजेषु मृत्युञ्जयः ।
नृत्यत्यम्बिकया सहामृतरसैः कैलासवासेन वा
कृत्यं नेति मुहुर्मुहुः शिवरहस्यानन्दकन्दादरः ॥ २०७॥
श्रुत्यन्ताः प्रमथाधिनायककथापूतास्ततस्तत्कथा-
मध्यस्थाक्षररूपमप्यघगिरिप्रध्वंसवज्रायुधम् ।
तत्पादाम्बुधिवाडवोऽप्यधकुलापारान्धकारा-
मितानभ्रार्कामृतराशिमण्डलकुलं किं वा सुधासागरः ॥
कस्तूरीखल्यबिल्वश्वमिव सुकरापाररत्नाकरोरु
(कस्तूरीस्वल्पखिल्यमिव सुकृतकरापार)
श्रीयुक्तानन्तमुक्ताफलमिव विमलं शैवमेतद्रहस्यम् ।
धृत्वा भावोऽपि भाति प्रभुवि जगतां शम्भुभक्तप्रभावो
भावो भाग्याम्बुराशिः शिवपदकमलाराधकः कोऽपि लोके ॥ २०९॥
किं तस्यावभृथाप्लवैः सुरसरिद्रेवादितीर्थाप्लवैः
किं गोकोटितुलादिदाननिकरैः किं दिव्यतीर्थाटनैः ।
भक्तिश्चेद्गिरिशार्चने शिवरहस्यानन्दसिन्धुरफुर-
द्धीरापारतरङ्गमङ्गलकथाभागार्धभागोऽपि वा ॥ २१०॥
संसाराद्भुतसागरं शिवरहस्योत्कृष्टलोकाश्रितः
श्रीविश्वेश्वरकर्णधारकृपया तीर्त्वाद्य नक्रैर्भयम् ।
त्यक्त्वा तत्परपाररूपपरमानन्दस्वरूपाम्बिका
कान्तानन्ददपादपद्मपुलिनासीनो न सीदाम्यहो ॥ २११॥
पायादन्वहमेव वः शिवरहस्याम्भोरुहं कन्दति
स्कन्दो नालति तन्मनःशिवपदाम्भोजप्रभा कोशति ।
पत्रन्तीशगुणाः शिवाङ्घ्रिकमलं तत्कर्णिकारूपति
स्वान्तं मे भ्रमरत्युमापतिकथा तत्केसरन्ति स्वतः ॥ २१२॥
पायादङ्कगताम्बिकाङ्कविलसत्पर्यङ्कलीलालता-
पारानन्ददसिन्दुराननसुधादानाकरः शाङ्करः ।
स्कन्दालोकनसादरो गिरिसुतास्मेराधरास्वाद-
नानन्दालोलितविग्रहो मुहुरुमादिव्याङ्गसङ्गप्रियः ॥ २१३॥
पायादव्ययभव्यभूरिविभवो भूभृत्कुमारीकरा-
पारश्रीकरतारहाररुचिरालङ्कारशङ्काकरः ।
किं गौरीकरजाजिरातिरुचिरश्रीः पद्मरागाधरा-
धारश्रीरियमित्युमापरिवृढो गाढं शिवालिङ्गितः ॥ २१४॥
पायादर्धेन्दुमौलिः श्रुतिकथितकथा कल्पवृक्षोऽतिदक्षो
दिक्षु व्याप्तः क्षणं वा भवभवभवजापारतापापहारः ।
स्मृत्यारूढोऽपि योषित्परिवृढगिरिजारक्षितो वेदशाखः
नन्दीशादिप्रसूनो मुनिजनमधुपो मोक्षलक्ष्मीफलाढ्यः ॥ २१५॥
पायादर्धाङ्गगौरीकरकमलकथारत्नसिन्धुर्यतोऽभूत्
तत्वज्ञानामृतांशुः शिवभजनसुधाशैवकल्पद्रुमोऽपि ।
शङ्गश्रीलिङ्गपूजाव्रतनियममणिर्भक्तिभूकामधेनुः
वैराग्यैरावृतोऽपि त्रिनयनचरणध्यानरूपापि लक्ष्मीः ॥ २१६॥
पायादर्धशशाङ्कशेखरकथाश्रीकामधेनुर्यया
लिङ्गाराधनपुण्यलक्षणमभूत् क्षीरं तदप्यक्षरम् ।
आमिक्षापि विलक्षणा शिवयशोरूपा शिवाधिक्यता
धीरूपं दधि शङ्कराङ्घ्रिकमलस्नेहावृतं तद्धृतम् ॥ २१७॥
कर्तव्या नगनिम्नगाब्धिसिकतानीरांशभूभृद्भवा
पारांशांशधनांशभागगणना कालेन कालेन वा ।
ब्रह्माद्यैरपि सादरैः शिवरहस्योक्ताक्षरार्धाक्षर
व्यक्ताकर्णनपुण्यशैलगणना कर्तुं न शक्या द्विजाः ॥ २१८॥
स्वस्त्यस्तु प्रियमस्तु शं शिवरहस्याकर्णने सन्ततं
विश्वासोऽस्तु शिवार्चने शिवजने भूतित्रिपुण्ड्रे शिवे ।
रुद्राक्षाभरणे शिवार्चनरताः पुत्राः पवित्रास्ततः
पौत्राद्या अपि सन्तु शोभनकुलान्याकल्पमायुश्च वः ॥ २१९॥
भो भो भवाद्भुतदवानलजालमाला-
सन्तापभीः शिवरहस्यकथाभिवृष्ट्या ।
शान्ताः प्रशान्तहृदयाः सदया भवन्तः
स्वात्मन्युमारमणपादरजो भजध्वम् ॥ २२०।
संसारोरुवसन्तसूरकिरणव्यापारतापातुरापारं
श्रान्तिविनाशिनीं शिवरहस्याभूतपूर्वप्रपाम् ।
को वा नेच्छति वाञ्छितं यदि भवेदिष्टं परं जीवनं
त्यक्त्वा स्वात्मविघातकं कलिमलाक्रान्तं कलौ केवलम् ॥ २२१॥
स्कन्दः -
आचन्द्रार्कमिदं रहस्यमनिशं शैवं शिवार्थे मुदा
श्रोतव्यं सुखसन्ततिप्रदमुमाकान्तप्रियं सादरम् ।
एतत्पुस्तकदानमप्यघहरं पुण्याम्बुराशिप्रदं
सर्वाभीष्टदमप्यतः शिवरतैः श्राव्यं श्रुतिव्याहृतम् ॥ २२७॥
॥ इति शिवरहस्यान्तर्गते व्यासादिप्रोक्तं शिवरहस्यमहेतिहासमहिमवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ५०। वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 50. vAvRRittashlokAH ..
Notes:
Vyāsa व्यास et al speak about the merits of reading, listening to, and/or donating the book ŚivaRahasyaM शिवरहस्यम्.
Proofread by Ruma Dewan