श्रीवालिशैलाधिनाथत्रयम्
अजं वेदसारं भुजङ्गेन्द्रहारं
निजाराधनोद्यत्प्रजाहृद्विहारम् ।
गजेशार्चितं शैलजाचित्तचोरं
भजे शङ्करं वालिशैलाधिनाथम् ॥ १॥
जटामण्डले नानटद्दिव्यगङ्गा-
झरीतुङ्गवीचिच्छटादीप्यमानम् ।
पटीभूतकृत्तिं नटालीवरेण्यं (पटीभूतकृत्यं)
भजे शङ्करं वालिशैलाधिनाथम् ॥ २॥
दलत्कुन्दमन्दारकर्पूरगौरं
गलद्भस्मरेखाविजृम्भल्ललाटम् ।
बलारिस्तुतं बालबालेन्दुमौलिं
भजे शङ्करं वालिशैलाधिनाथम् ॥ ३॥
॥ इति श्रीवालिशैलाधिनाथत्रयं सम्पूर्णम् ॥
Proofread by Aruna Narayanan