ऋषिगौतमेन त्र्यम्बकेश्वरशिवाराधनवर्णनम्
ईश्वरः -
श्रृणु देवि पुरा विप्रो गौतमो नाम शाङ्करः ।
मम भक्तवरोऽत्यन्तं सदा मल्लिङ्गपूजकः ॥ १६॥
अहल्यां तां पुरा त्यक्त्वा सुत्राम्णा च प्रधर्षिताम् ।
तद्वियोगेन दुःखार्तः शप्त्वा तां सुप्रियां प्रियाम् ॥ १७॥
शिवक्षेत्राणि पुण्यानि भ्रमंस्तद्दुःखकर्शितः ।
कोकामुखं च केदारमोङ्कारामरकण्टकम् ॥ १८॥
कुरुक्षेत्रं प्रभासं च पुष्करं विरजं तथा ।
कालञ्जरं च बदरीं गयां चैव प्रयागकम् ॥ १९॥
हरिद्वारमयोध्यां च पुण्यं पिण्डारकं तथा ।
श्रीगङ्गासागरं देवि हलसङ्गं महेश्वरि ॥ २०॥
तत्रत्यपुण्यतीर्थेषु पूज्य लिङ्गानि भक्तितः ।
वाराणसीमपि प्राप्य तत्र नो नष्टाकिल्बिषः ॥ २१॥
श्रीविश्वनाथं तुष्टाव स्नात्वा च मणिकर्णिकाम् ।
बिल्वपत्रैः समभ्यर्च्य स्नाप्य गङ्गाम्भसा शिवम् ॥ २२॥
---
गौतमः -
रत्नेश वीरेश त्रिलोचनेश केदारसङ्घेश सुमध्यमेश ।
श्रीकृत्तिवासेश्वर शूलटङ्क श्रीवृद्धकालेश्वर मङ्गलेश ॥ २३॥
माण्डीश्वरेशानकभारभूत कपर्दिशम्भो हरिन्नादेश ।
क्षेमेश्वरेशान सुमङ्गलेश व्यासेश दक्षेश्वर दैविकेश ॥ २४॥
सर्वेश विश्वेश्वरा पाहि दीनं मां गौतमं दुःखशताभिविष्टम् ॥ २५॥
आताम्रारुणत्वज्जटोरुपटलीलीलाविहङ्गायिता
गङ्गाव्योमपथप्रचारनिकरैर्देवैस्तरां संस्तुता ।
स्वात्मौद्धत्यपतद्भुजङ्गकुहरे नानावरद्राविणी
जह्नोर्यज्ञसदःप्रचारशमनी तान् नागरप्लाविनी ॥ २६॥
---
ईश्वरः -
इत्थं स गौतमो देवि मां विश्वेशं प्रणम्य च ।
मया चाज्ञापितो विप्र त्र्यम्बकं गच्छ सुव्रत ॥ २७॥
तत्र गोदावरीस्नानं सिंहयुक्तं बृहस्पतौ ।
अश्वमेधशतात्पुण्यं प्राप्स्यसेऽति मदर्चनात् ॥ २८॥
मत्तो विश्वेश्वराद्गौरि लब्धानुज्ञः स गौतमः ।
त्रियम्बकं गिरिं प्रपय त्र्यम्बकेशं समर्चयन् ॥ २९॥
बिल्वपत्रैर्महादेवि मां तदा लिङ्गरूपिणम् ।
भस्मोद्धूलितसर्वाङ्गो रुद्राक्षकृतभूषणः ॥ ३०॥
पञ्चाग्निमध्यनिरतः संसाराद्विरतस्तदा ।
मां ध्यायन्रविबिम्बस्थं त्र्यम्बकेशं स भक्तितः ॥ ३१॥
स्वमानसवरोद्बोधं दशश्लोकैरुदाहरत् ॥ ३२॥
---
गौतमः -
रे रे मानस मुञ्च लौल्यमनिशं नश्यत्सु वित्तादिषु
तन्नैसर्गिकमध्यमीषु पदयोः प्रेतेशसंहन्त्रिणः ।
कामासुक्षपणैकदीक्षितललाटेक्षे कुरुष्वास्ति
चेद्भीरासेचन के जटेन्दुशकले शम्भोर्गले चासिते ॥ ३३॥
किं यज्ञेन बहुज्ञकर्तृसुलभेनायासवित्तादिभिः
साध्येनेप्सितभोगदाननिपुणेनाज्ञाननाश्येन च ।
शम्भोस्ताण्डवसुन्दरं पदयुगं भक्त्याभिगच्छेत
सकृन्मुक्तिः स्यात्सुखरूपिणी तदवरं सर्वं सुखं मानस ॥ ३४॥
चेतः संसृतिलोलमानवशुचं तत्रापि संसार्यसि
शम्भोः पादसरोरुहं सदनमस्त्यस्ति स्वसा भक्तिका ।
श्रद्धा ते गृहिणी स पूजनविधिः पुत्रोऽस्त सुभ्रातृता
शान्त्यक्रोधदयाशमादिषु सुखं भुङ्क्ष्वाक्षयं शाश्वतम् ॥ ३५॥
शाठ्येयर्ष्यामदलोभमोहकरणैः किं वाऽधिकारैर्घनैः
किं दरिः स्वसुखैकसाधनतया शुश्रूषमाणैः पतीन् ।
छायामात्रफलैरगारवलयैः किं भूरुहापेक्षया
सर्वं भ्रान्तिविजृम्भितं हृदय मे मुक्त्वा शिवं भावय ॥ ३६॥
वित्तं रिक्तजनैकदुर्लभतमं कृच्छ्रेण लब्धं यदि
भोक्तुं न प्रसुरेष दुर्गुणगणैरालिप्यते केवलम् ।
मृत्यावापतति क्षणादविदितं तद्वंशजर्जीयते
कि तेनास्ति भजस्व शम्भुचरणाविष्टार्थदाने चणौ ॥ ३७॥
चेतस्त्वं कुरु चिन्तनं त्यज शुचं साम्पारिकीं किं तया
ब्राह्मण्येन सह स्थितस्य तव यत् साध्यं तदेवाचर ।
यत्तत्त्वार्थनिबोधनं श्रुतिगिरां तासामनुष्ठानतः
साफल्योद्यममीश्वरार्पणधिया निःसङ्गतामावह ॥ ३८॥
चेतस्त्वं सकलप्रमाणपदवीदूरेऽल्पसारे पुनः
संसारे रमसे त्वदेकविदितं सारं समालम्ब्य चै ।
एतादृग्यदि शम्भुमेव मजसे तत्रैव रागो भवेत्
सौवर्णद्व्यणुकेन तोषमयतः प्राप्तः सुमेरुर्यदि ॥ ३९॥
चेतो यत्परिचिन्त्यते च भवता तव पौरुषं चेद्बलं
विघ्नस्तत्र कियांस्तथाप्यधिगतं किं वा सुखैकोत्तरम् ।
यत्साध्यं श्रुतिचोदितं व्यवसितं नित्यशतद्यक्षतं (?) (नित्येष विह्यक्षतं )
तद्धेतौ यदि यत्नमद्य कुरुषे तच्छालाघनीयं भवेत् ॥ ४०॥
बोधादित्यकरप्रसारविरहादम्लानरागच्छदै सच्छायां
विषयाख्यकन्दजनितां प्रेमाम्बुपुरार्द्रिताम् ।
स्वस्थित्या मृतिदायिनीमपि फलम्रान्त्याज्ञसम्मानितां
आशाख्यां विषवल्लरीं त्यज मनः तन्मुक्तिबीजं तव ॥ ४१॥
रे रे मानसराजहंस नितरां शम्भोः पदाब्धेस्तटे
भक्त्या चञ्चुपुटेन साधुविलसन्मुक्तावली गृह्यताम् ।
तेन त्वं भविता जरादिरहितो रोगादिहीनः सुखं
गच्छोड्डीय दिवानिशं द्विजकुलैर्जुष्टं महेशालयम् ॥ ४२॥
---
सूतः -
स इत्थं चेतसोद्बोधं कृत्वा पल्लकनन्दनः ।
गौतमः पूजयामास बिल्वैर्गोदावरीजलैः ॥ ४३॥
ततः कालेन महता तद्दृष्टिपथमागतः ॥ ४४॥
रैक्काद्यैर्मुनिभिर्वृतः स भगवानारुह्य सच्छाक्करं
हिक्कारोगगणान्वितान्तकहरस्तत्राययौ गौतमम् ।
दृष्ट्या साधु सुधार्द्रया करुणया पश्यंस्तदीयं
वपुर्भस्माक्षादिसमन्वितं च तपसा कार्श्यं गतः शङ्करः ॥ ४५॥
ईश्वरः -
दृष्ट्वा मामम्बिकायुक्तं नीलकण्ठं त्रिशूलिनम् ।
सन्तुष्टावाष्टमूर्तिं मां गौतमो हृष्टधीस्तदा ॥ ४६॥
---
गौतमः -
करधृतमृगबालं भक्तचित्तानुकूलं श्रितजनसुरसालं हस्तवर्यैकशूलम् ।
गललसदहिमालं नेत्रसंशोभिभालं श्रितसुरतरुमूलं तं भजे कालकालम् ॥ ४७॥
श्रेयांसि सन्दिशति पापमपाकरोति बुद्धिं प्रसादयति सौख्यततिं तनोति ।
दुःखं विनाशयति शङ्करपादपद्मसम्पूजनं जनमिमं सफलीकरोति ॥ ४८॥
विनिहतनरसिंह चर्मचेलाजकपालोद्धृत विष्णुरक्तपानलोल ।
धृतचन्द्रकलानलाक्षिफाल कृतहालाहल पानतो गलेन्द्रनील ॥ ४९॥
कुरङ्गेल्लासत्पाणि पद्मामलाङ्गम्फुरद्भोगिमालावृताशादिचेल ।
महाशूलहस्ताखिलाण्डादिलोल बलाक्लृप्तस्वाभ्यङ्गबालैकपाल ॥ ५०॥
॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे ऋषिगौतमेन त्र्यम्बकेश्वरशिवाराधनम् ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २१॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 21..
Notes:
Shiva narrates to Gauri, the story of Rishi Gautam, who worshipped Him at several Shiva Kshetra-s including some of the Jyotirlingas in order to find relief from the distress that he underwent after cursing his wife Ahalya. At Varanasi, where he worshipped Vishwanatha, Shiva advised him to go to Tryambakeshwara and worship Him at Tryambaka Giri. Rishi Gautama follows Shiva's advise and does the needful.
The shloka numbers are maintained per the source text.
Proofread by Ruma Dewan