त्र्यम्बकेश्वरमहिमवर्णनम्
ईश्वरः -
त्रियम्बको नाम गिरिरस्ति प्रियतमो मम ।
मन्दराच्चापि कैलासात्तथैव कनकाचलात् ॥ १॥
ते निवासा महेशस्य त्रियम्बकगिरिस्त्वहम् ।
त्रियम्बकेश्वरं नाम्ना तल्लिङ्गं परमाद्भुतम् ॥ २॥
तल्लिङ्गं येन दृष्टं स्यात्तेन दृष्टा त्रिलोकिका ।
त्रैलोक्ये यानि लिङ्गानि तानि सर्वाणि शङ्करि ॥ ३॥
त्रियम्बकेश्वरं लिङ्गं मम सर्वार्थसिद्धिदम् ।
येन दृष्टं श्रुतं वापि प्रणतं वा समर्चितम् ॥ ४॥
स एव धन्यधौरेयः पुरुषार्थैकभाजनम् ।
तत्र सन्ति महाशैवास्त्र्यम्बकेशसमर्चकाः ॥ ५॥
भस्मोद्धूलितसर्वाङ्गाः त्रिपुण्ड्राङ्कितमस्तकाः ।
रुद्राक्षमालाभरणा रुद्रसूक्तजपादराः ॥ ६॥
पञ्चाक्षरपरा नित्यं सदा मल्लिङ्गपूजकाः ।
बहवस्तत्र देवेशि त्र्यम्बकेशं यजन्ति माम् ॥ ७॥
बिल्वपत्रैश्च कमलेस्तथा गोदावरीजलैः ।
पूतैर्मां स्नापयन्तीशे रुद्रमन्त्रैरहर्निशम् ॥ ८॥
फलमूलैश्च विविधैर्नैवेद्यैश्च सदाम्बिके ।
मत्पूजारहितास्ते तु जलमन्नं फलादिकम् ॥ ९॥
नाश्नन्ति नियतं देवि नैवेद्यैर्वर्तयन्ति ते ।
गौतमार्थे समानीता स्वमौलिस्थजटाग्रतः ॥ १०॥
पुण्या गोदावरी देवि वृद्धगङ्गेति विश्रुता ।
तस्यां स्नात्वा महानद्यां दृष्ट्वा श्रीत्र्यम्बकेश्वरम् ॥ ११॥
अश्वमेधशतात्पुण्यं भविष्यति न संशयः ॥ १२॥
॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे त्र्यम्बकेश्वरमहिमवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २१। १-१२॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 21. 1-12..
Notes:
Shiva tells Gauri about the Tryambakeshwara Jyotirlinga that is located near the origin of River Godavari (aka Vriddha Ganga), that sprang from the dreadlocks of Shiva following prayers of Rishi Gautam.
The shloka numbers are maintained per the source text.
Proofread by Ruma Dewan