ऋभुगीतान्तर्गते शिवस्तुतिश्लोकसंनयनम्
(शिवरहस्ये षष्ठांशे)
पिण्डाण्डसम्भवजगद्गतखण्डनोद्यद्वेतण्डशुण्डनिभपीवरबाहुदण्ड ।
ब्रह्मोरुमुण्डकलिताण्डजवाहबाण कोदण्डभूधरधरं भजतामखण्डम् ॥ ७.५१॥
विश्वात्मन्यद्वितीये भगवति गिरिजानायके काशरूपे
नीरूपे विश्वरूपे गतदुरितधियः प्राप्नुवन्त्यात्मभावम् ।
अन्ये भेदधियः श्रुतिप्रकथितैर्वर्णाश्रमोत्थश्रमैः
तान्ताः शान्तिविवर्जिता विषयिणो दुःखं भजन्त्यन्वहम् ॥ ७.५२॥
- -
वेदान्तैरपि चन्द्रशेखरपदाम्भोजानुरागादरा-
दारोदारकुमारदारनिकरैः प्राणैर्वनैरुज्झितः ।
त्यागाद्यो मनसा सकृत्शिवपदध्यानेन यत्प्राप्यते
तन्नैवाप्यति शब्दतर्कनिवहैः शान्तं मनस्तद्भवेत् ॥ ८.८४॥
- -
नित्यानन्दमयः स एव परमानन्दोदयः शाश्वतो
यस्मान्नान्यदतोऽन्यदार्तमखिलं तज्जं जगत्सर्वदः ।
यो वाचा मनसा तथेन्द्रियगणैर्देहोऽपि वेद्यो न चे-
दच्छेद्यो भववैद्य ईश इति या सा धीः परं मुक्तये ॥ ९.६४॥
- -
यस्मिन्सञ्च विचैति विश्वमखिलं द्योतन्ति सूर्येन्दवो
विद्युद्वह्निमरुद्गणाः सवरुणा भीता भजन्तीश्वरम् ।
भूतञ्चापि भवत्यदृश्यमखिलं शम्भोः सुखांशं जग-
ज्जातं चापि जनिष्यति प्रतिभवं देवासुरैर्निर्यपि (देवासुरैरीतितं)।
तन्नेहास्ति न किञ्चिदत्र भगवद्ध्यानान्न किञ्चित्प्रियम् ॥ १०.५५॥
यः प्राणापानभेदैर्मननधिया धारणापञ्चकाद्यैः
मध्ये विश्वजनस्य सन्नपि शिवो नो दृश्यते सूक्ष्मया ।
बुद्धयादध्यातयापि श्रुतिवचनशतैर्देशिकोक्त्यैकसूक्त्या
योगैर्भक्तिसमन्वितैः शिवतरो दृश्यो न चान्यत्तथा ॥ १०.५६॥
- -
ये वेदवादविधिकल्पितभेदबुद्ध्या पुण्याभिसन्धितधिया परिकर्शयन्तः ।
देहं स्वकीयमतिदुःखपरं पराभिस्तेषां सुखाय न तु जातु तवेश पादात् ॥ ११.६५॥
कः सन्तरेत भवसागरमेतदुद्यत्तरङ्गसदृशं जनिमृत्युरूपम् ।
ईशार्चनाविधिसुबोधितभेदहीनज्ञानोडुपेन प्रतरेद्भवभावयुक्तः ॥ ११.६६॥
- -
अनाथ नाथ ते पदं भजाम्युमासनाथ स-
न्निशीथनाथ मौलिसंस्फुटल्ललाटसङ्गज-
स्फुलिङ्गदग्धमन्मथं प्रमथनाथ पाहि माम् ॥ १२.६१॥
विभूतिभूषगात्र ते त्रिनेत्रमित्रतामियात्मनः-
सरोरुहं क्षणं तथेक्षणेन मे सदा ।
प्रबन्धसंसृतिभ्रमद्भ्रमज्जनौघसन्ततौ
न वेद वेदमौलिरप्यपास्तदुःखसन्ततिम् ॥ १२.६२॥
- -
स्वतन्त्रशक्तिर्भगवानुमाधवो विचित्रकायात्मकजाग्रतस्य ।
सुकारणं कार्यपरम्पराभिः स एव मायाविततोऽव्ययात्मा ॥ १३.६१॥
- -
पूर्णं सत्यं महेशं भज नियतहृदा योऽन्तरायैर्विहीनः
सो नित्यो निर्विकल्पो भवति भुवि सदा ब्रह्मभूतो ऋतात्मा (यतात्मा) ।
विच्छिन्नग्रन्थिरीशे शिवविमलपदे विद्यते भासतेऽन्तः
आरामोऽन्तर्भवति नियतं विश्वभूतो मृतश्च ॥ १४.६०॥
- -
भुवनगगनमध्यध्यानयोगाङ्गसङ्गे
यमनियमविशेषैर्भस्मरागाङ्गसङ्गैः ।
सुखमुखभरिताशाः कोशपाशाद्विहीना
हृदि मुदितपराशाः शाम्भवाः शम्भुवच्च ॥ १७.४६॥
- -
वननगभुवनं यच्छङ्करान्नान्यदस्ति
जगदिदमसुराद्यं देवदेवः स एव ।
तनुमनगमनाद्यैः कोशकाशावकाशे
स खलु परशिवात्मा दृश्यते सूक्ष्मबुद्ध्या ॥ १८.५६॥
चक्षुःश्रोत्रमनोऽसवश्च हृदि खादुद्भासितध्यान्तरा-
त्तस्मिन्नेव विलीयते गतिपरं यद्वासना वासिनी ।
चित्तं चेतयते हृदिन्द्रियगणं वाचां मनोदूरगं
तं ब्रह्मामृतमेतदेव गिरिजाकान्तात्मना संज्ञितम् ॥ १८.५७॥
- -
शान्तिदान्तिपरमा भवतान्ताः स्वान्तभान्तमनिशं शशिकान्तम् ।
अन्तकान्तकमहो कलयन्तो वेदमौलिवचनैः किल शान्ताः ॥ २०.५८॥
- -
माया सा त्रिगुणा गणाधिपगुरोरेणाङ्कचूडामणेः
पादाम्भोजसमर्चनेन विलयं यात्येव नास्त्यन्यथा ।
विद्या हृद्यतमा सुविद्युदिव सा भात्येव हृत्पङ्कजे
यस्यानल्पतपोभिरुग्रकरणादृक्तस्य मुक्तिः स्थिरा ॥ २१.५५॥
- -
तं वेदादिवचोभिरीडितमहायागैश्च भोगैर्व्रतै-
र्दानैश्चानशनैर्यमादिनियमैस्तं विद्विषन्ते द्विजाः ।
तस्यानङ्गरिपोरतीव सुमहाहृद्यं हि लिङ्गार्चनं
तेनैवाशु विनाश्य मोहमखिलं ज्ञानं ददातीश्वरः ॥ २२.५८॥
- -
सोमापीडपदाम्बुजार्चनफलैर्भुक्त्यै भवान्मानसं
नान्यद्योगपथा श्रुतिश्रवणतः किं कर्मभिर्भूयते ।
युक्त्या शिक्षितमानसानुभवतोऽप्यश्माप्यसङ्गो वचां
किं ग्राह्यं भवतीन्द्रियार्थरहितानन्दैकसान्द्रः शिवः ॥ २३.५६॥
- -
भक्त्या पद्मदलाक्षपूजितपदध्यानानुवृत्त्या मनः
स्वान्तानन्तपथप्रचारविधुरं मुक्त्यै भवेन्मानसम् ।
सङ्कल्पोज्झितमेतदल्पसुमहाशीलो दयाम्भोनिधौ
कश्चित्स्याच्छिवभक्तधुर्यसुमहाशान्तः शिवप्रेमतः ॥ २४.५३॥
- -
आर्तं यच्छिवपादतोऽन्यदितरं तज्जादिशब्दात्मकं
चेतोवृत्तिपरं पराप्रमुदितं षड्भावसिद्धं जगत् ।
भूताक्षादिमनोवचोभिरनघे सान्द्रे महेशे घने
सिन्धौ सैन्धवखण्डवज्जगदिदं लीयेत वृत्त्युज्झितम् ॥ २५.५२॥
- -
एकत्वं न बहुत्वमप्यणुमहत्कार्यं न वै कारणं
विश्वं विश्वपतित्वमप्यरसकं नो गन्धरूपं सदा ।
बद्धं मुक्तमनुत्तमोत्तममहानन्दैकमोदं सदा
भूमानन्दसदाशिवं जनिजरारोगाद्यसङ्गं महः ॥ २६.५३॥
- -
शाखादिभिश्च श्रुतयो ह्यनन्तास्त्वामेकमेव भगवन्बहुधा वदन्ति ।
विष्ण्विन्द्रधातृरविसून्वनलानिलादि भूतात्मनाथ गणनाथललाम शम्भो ॥ २८.२७॥
- -
अङ्गावबद्धाभिरुपासनाभिर्वदन्ति वेदाः किल त्वामसङ्गम् ।
समस्तहृत्कोशविशेषसङ्गं भूमानमात्मानमखण्डरूपम् ॥ २९.७०॥
- -
सन्देहसन्देहकरोऽर्यकास्वकैः करादिसन्दोहजगद्विकारिभिः ।
यो वीतमोहं न करोति दुर्हृदं विदेहमुक्तिं शिवदृक्प्रभावतः ॥ ३०.५६॥
- -
भवोद्भवमुखोद्भवं भवहराद्यहृद्यं भुवि
प्रकृष्टरसभावतः प्रथितबोधबुद्धं भव ।
भजन्ति भसिताङ्गका भरितमोदभारादरा
भुजङ्गवरभूषणं भुवनमध्यवृन्दावनम् ॥ ३१.५९॥
- -
क्व भेदभावदर्शनं न चैव शोकमोहहृ-
त्प्रपश्यतां श्रुते शिखाविशेषमैक्यभावनात् ।
यतो भवेज्जगाद तं महेश येन जीवितं
यदन्तराऽविशत्सदा यथोर्णनाभतन्तुवत् ॥ ३२.५२॥
- -
यस्त्वन्तकान्तकमहेश्वरपादपद्म-
लोलम्बसप्रभहृदा परिशीलकश्च ।
वृन्दारवृन्दविनतामलदिव्यपादो
भावो भवोद्भवकृपावशतो भवेच्च ॥ ३३.५१॥
- -
मनोवचोविदूरगं त्वरूपगन्धवर्जितं
हृदर्भकोकसन्ततं विजानतां मुदे सदा ।
सदाप्रकाशदुज्वलप्रभाविकाससद्युति
प्रकाशदं महेश्वर त्वदीयपादपङ्कजम् ॥ ३४.३४॥
- -
विरिञ्चिवञ्चनाततप्रपञ्चपञ्चबाणभि-
त्सुकाञ्चनाद्रिधारिणं कुलुञ्चनां पतिं भजे ।
अकिञ्चनेऽपि सिञ्चके जलेन लिङ्गमस्तके
विमुञ्चति क्षणादघं न किञ्चिदत्र शिष्यते ॥ ३५.३९॥
- -
सव्यासव्यतयाद्यवज्ञहृदया गोपोदहार्यः स्रियः
पश्यन्त्यम्बुजमित्रमण्डलगतं शम्भुं हिरण्यात्मकम् ।
सर्वत्र प्रसृतैः करैर्जगदिदं पुष्णाति मुष्णन्धनैः
घृष्टं चौषधिजालमम्बुनिकरैर्विश्वोत्थधूतं हरः ॥ ३७.५७॥
- -
लोकालोकजगत्स्थितिप्रविलयप्रोद्भावसत्तात्मिका भीतिः
शङ्करनामरूपमस्कृद्व्याकुर्वते केवलम् ।
सत्यासत्यनिरङ्कुशश्रुतिवचोवीचीभिरामृश्यते
यस्त्वेतत्सदितीव तत्त्ववचनैर्मीमांस्यतेऽयं शिवः ॥ ३८.५३॥
- -
असङ्कलितकापिलैर्मधुहराक्षिपूज्याम्बुज-
प्रभाङ्घ्रिजनिमोत्तमो परिषिचेद्यदिन्दुप्रभम् ।
तं डिण्डीरनिभोत्तमोत्तम महाखण्डाज्यदध्ना परं
क्षीराद्यैरभिषिच्य मुक्तिपरमानन्दं लभे शाम्भवम् ॥ ४०.३०॥
- -
किं चण्डभानुकरमण्डलदण्डितानि काष्ठामुखेषु गलितानि नमस्ततीति ।
यादृक्च तादृगथ शङ्करलिङ्गसङ्गभङ्गीनि
पापकलशैलकुलानि सद्यः ।
श्रीमृत्युञ्जय रञ्जय त्रिभुवनाध्यक्ष प्रभो पाहि नः ॥ ४१.४६॥
- -
यत्पादाम्बुजपूजया हरिरभूदर्च्यो यदङ्घ्र्यर्चना-
दर्च्याऽभूत् कमला विधिप्रभृतयो ह्यर्च्या यदाज्ञावशात् ।
तं कालान्तकमन्तकान्तकमुमाकान्तं मुहुः सन्ततं
सन्तः स्वान्तसरोजराजचरणाम्भोजं भजन्त्यादरात् ॥ ४२.१९॥
किं वा धर्मशतायुतार्जितमहासौख्यैकसीमायुतं
नाकं पातमहोग्रदुःखनिकरं देवेषु तुष्टिप्रदम् ।
तस्माच्छङ्करलिङ्गपूजनमुमाकान्तप्रियं मुक्तिदं
भूमानन्दघनैकमुक्तिपरमानन्दैकमोदं महः ॥ ४२.२०॥
ये शाम्भवाः शिवरताः शिवनाममात्र-
शब्दाक्षरज्ञहृदया भसितत्रिपुण्ड्राः ।
यां प्राप्नुवन्ति गतिमीशपदाम्बुजोद्यद्-
ध्यानानुरक्तहृदया न हि योगसाङ्ख्यैः ॥ ४२.२१॥
- -
अगाध(बोध)वेदवाक्यतो न चाधिभेषजं
भवेदुमाधवाङ्घ्रिपङ्कजस्मृतिः प्रबोधमोक्षदा ।
प्रबुद्धभेदवासनानिरुद्धहृत्तमोभिदे
महारुजाघवैद्यमीश्वरं हृदम्बुजे भजे ॥ ४३.४०॥
द्यतत्प्रदग्धकामदेह दुग्धसन्निभं प्रमुग्धसामि ।
सोमधारिणं श्रुतीड्यगद्यसंस्तुतं त्वभेद्यमेकशङ्करम् ॥ ४३.४१॥
वरः कङ्कः काको भवदुभयजातेषु नियतं
महाशङ्कातङ्कैर्विधिविहितशान्तेन मनसा ।
यदि स्वैरं ध्यायन्नगपतिसुतानायकपदं
स एवायं धुर्यो भवति मुनिजातेषु नियतम् ॥ ४३.४२॥
कः कालान्तकपादपद्मभजनादन्यद्धृदा कष्टदां
धर्माभासपरम्परां प्रथयते मूर्खो खरीं तौरगीम् ।
कर्तुं यत्नशतैरशक्यकरणैर्विन्देत दुःखादिकं (दुःखाधिकं)
तद्वत्साम्बपदाम्बुजार्चनरतिं त्यक्त्वा वृथा दुःखभाक् ॥ ४३.४३॥
- -
यः कोऽपि प्रसभं प्रदोषसमये बिल्वीदलालङ्कृतं
लिङ्गं तुङ्गमपारपुण्यविभवैः पश्येदथार्चेत वा ।
प्राप्तं राज्यमवाप्य कामहृदयस्तुष्येदकामो यदि
मुक्तिद्वारमपावृतं स तु लभेच्शम्भोः कटाक्षाङ्कुरैः ॥ ४८.२९॥
अचलातुलराजकन्यकाकुचलीलामलबाहुजालमीशम् ।
भजतामनलाक्षिपादपद्मं भवलीलं न भवेत चित्तबालम् ॥ ४८.३०॥
- -
॥ इति ऋभुगीतान्तर्गते शिवस्तुतिश्लोकसंनयनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । संनयनम् । ॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . various . ..
Selected Shiva Stuti Shlokas collated from various Adhyaya-s of SR Amsa06
Notes :
Shiva Rahasyam Amsa-06 consists of the
50 Adhyaya-s that comprise the Ribhu Gita.
The shlokas composed or spoken by Ribhu,
Skanda, Suta et al for eulogizing Shiva;
that eventuate sporadically in various
Adhyaya-s of Shiva Rahasyam Amsa-06,
are collated on this page.
Proofread by Ruma Dewan