शिवगणाःकृता शिवस्तुतिः
त्वं सच्चिदानन्दघनोऽसि सेतुविधारणो भूतपतिस्तथा वयम् ।
आनन्दलेशेन चिदामलेन सत्वेन युक्ता धुतकिल्बिषाश्च ॥ १॥
जनिता पवनानलाब्जबन्धोर्जनिता भूमिदिवोर्मतेश्च शम्भो ।
जगतो जनिता महेश्वरस्त्वं जनिता वृत्रहणो सुरान्तकस्व ॥ २॥
वर्षासु मेघगणगर्जनदुर्दिनेषु नीलाभ्रमध्यवहगर्जितविद्युदुत्थः ।
मधुरुशगतभानुहस्तमध्यः सुकृपातर्पणवर्षकालजातः ॥ ३॥
वर्ष्योऽसि मेध्योऽसि च वैद्युतोऽसि अतप्यवर्योऽसि महेश्वरस्त्वम् ।
त्वं रुद्रमन्त्रैः प्रतिपादितोऽसि दीनानिमान् पाहि महेश दृश्या ॥ ४॥
स्वद्दर्शनान्महादेव प्रदोषे शैवपूजितम् ।
लिङ्गं मनोहरं दृष्टं बिल्वपत्रादिपूजितम् ॥ ५॥
स्वदर्शनात्पापयुक्तो मुक्तोऽयं त्वत्कृपावलात् ।
त्वदर्शनमघौघानां नाशकं भीमहेश्वर ॥ ६॥
त्वन्नामस्तुतिमात्रेण दग्धपातकपर्वता ।
भविष्यन्ति महादेव नानापापयुता नराः ॥ ७॥
तव पादाम्बुजद्वन्द्वध्यातनिर्धृतकल्मषाः ।
तव लिङ्गार्चनान सर्वे पुनन्ति भुवनं जनाः ॥ ८॥
॥ इति शिवरहस्यान्तर्गते शिवगणाःकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ३९। ६-१३॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 39. 6-13..
Notes:
Shiva Gana-s highlight the importance of worshipping Shiva and having darshana of Shivalinga especially during Pardosham. The stuti is in context with Shiva having directed His gana-s to go to Yama and bring back from Naraka the soul of Sudarshana who had passed away soon after witnessing Pradosha Puja conducted at his home by a guest.
The shlokas have been renumbered for readers' convenience.
Proofread by Ruma Dewan