शाम्भवकृता शिवस्तुतिः
नमो नमस्तेऽस्तु नमो नमस्ते नमो नमस्ते गिरिजासहाय ।
मृत्युञ्जयानामय मामवाव गतिस्त्वमेवासि ममेन्दुमौले ॥ १॥
त्वं कालकूटादिविषोद्भवानि दुःखानि सर्वाणि सुरासुराणाम् ।
दूरीकरोषि त्रिजगञ्जनित्री गौरी तवार्धाङ्गमनङ्गशत्रो ॥ २॥
यो मङ्गलामङ्गलसूत्रसङ्गः स शङ्ग भङ्गाय कदापि नासीत् ।
स तावदाशु स्मृत एव शम्भो शुभानि सूते सुतरां ततानि ॥ ३॥
सन्तानसङ्घातममूहवृद्धिः समृद्धिरीशान पदे स्मृते मे ।
सम्भाविता तात विमुक्तिरन्ते निरन्तरायासुरवृन्दवन्द्य ॥ ४॥
यत्ते महादेवपदारविन्दमानन्दधाराम्बुदसुन्दरं मे ।
आनन्दमत्यद्भुतमातनोति सन्दर्शनादेव पिनाकपाणिः ॥ ५॥
कल्याणराशिः समुदेति वृद्धिं नष्टो महापातकपर्वतोऽपि ।
आनन्दगङ्गावितरङ्गभङ्गसङ्गेन सिक्तं कुरुते मनो मे ॥ ६॥
अपारपुण्यानि फलोन्मुखानि तपांसि दानान्यमितानि तानि ।
आनन्दगङ्गा ववृधे समृद्धा मतेः प्रवृद्धा मम चन्द्रमौले ॥ ७॥
त्वत्पादपद्मस्मरणेन्दुधाराप्यानन्दधारा तनुते विचित्रा ।
त्रिनेत्र तत्पात्रमहं पवित्रं त्वन्नेत्रसंसर्गविधूततन्त्रम् ॥ ८॥
यत्पादसेवानिरताः कृतार्थाः सुरेन्द्रलोकादिपदार्थमात्रे ।
वाञ्छां न कुर्वन्ति सुमेरुहस्ताः हस्तेन किं वा यवसं विधत्ते ॥ ९॥
त्वत्सेवया केवलमिन्दुमौले लक्ष्मीः पुरो धावति वन्दिरूपा ।
वाणी च वाणीरमणं विहाय उमासहाय स्मरणानुरागा ॥ १०॥
यागैर्न योगैरपि सागरान्तमहीप्रदानैरपि गोप्रदानैः ।
सुखान्यपाराणि न चन्द्रमौले त्वत्पादुकाराधनहेतुकाभिः ॥ ११॥
अपारसंसारमहाम्बुराशिविशोषणाय स्मरणं तवैव ।
महाग्रिकल्पान्यतिपातकानि धारा धरत्येतदुमासहाय ॥ १२॥
मम त्वदीयश्चरणः प्रभूतमैश्वर्यमाकल्पमनन्यलभ्यम् ।
सम्पादयत्येव विमुक्तिमन्ते किमन्यदत्रापि वराय योग्यम् ॥ १३॥
यस्मादिहामुत्र सुखप्रवाहाः त्वत्पादपद्मानुविलोकनेन ।
अतः किमन्यद्वरणीयमद्य यद्यस्ति तन्मे वद सावधानम् ॥ १४॥
स्वर्गापवर्गप्रदमित्यवैमि निधानदानक्षममित्यवैमि ।
त्वत्पादुकाध्यानमतो महेश किं देयमप्यस्ति जगत्त्रयेऽपि ॥ १५॥
अतः परं केवलमिन्दुमौले त्वत्पादपद्मस्मरणानुरक्तिः ।
विरक्तिरप्यब्जजलोकवासेऽप्यस्तु स्मरारे स्मर मामनाथम् ॥ १६॥
अनाथनाथस्त्वमुमासहाय मामप्यनाथं शरणं गतं भो ।
प्रपन्नमन्दार हरामरेश त्वया सनाथं कुरु मामनाथम् ॥ १७॥
यत्ते पदाम्भोरुहमब्जजादिमनःसरोजासनसन्निविष्टम् ।
तत्कष्टनाशाय समर्थमेव स्मृतं कदाचिन्मरणक्षणे वा ॥ १८॥
अर्धेन्दुमौले मरणक्षणे मे विभूतिरुद्राक्षविभूषणस्य ।
त्वत्पादपद्मस्मरणानुरागो भवत्वयं तात तव प्रसादः ॥ १९॥
तातस्त्वमेवासि ममेन्दुमौले माता भवानी युवयोः प्रसादात् ।
महेश्वराराधकसन्ततिर्मे सदा प्रवृद्धाऽस्तु वरोऽयमेकः ॥ २०॥
मत्सन्ततिः शङ्करपूजनेन दिने दिने वृद्धिमुपेत्य नित्यम् ।
करोतु गौरीरमणाङ्घ्रिपूजां प्रजाधनप्राणनहेतुभूताम् ॥ २१॥
लोके महेशार्चकपादुकार्चा धनार्जनासक्तधियो महान्तः ।
सुखानि भुक्त्वा सुकृतैरुदारैः दारैः कुमारैरपि भाग्यवन्तः ॥ २२॥
अनन्तकल्याणपरम्पराणां निदानमीशस्मरणं वरेण्यम् ।
तदेव तावन्मम सर्वदाऽस्तु मत्प्रार्थनीयं च तदेव शम्भो ॥ २३॥
शम्भो भवानीरमण प्रभो मां त्वद्दासदासादिपरम्परायाम् ।
विलोक्य वा पाहि कृपानिधान गतिस्त्वमेवासि ममेन्दुमौले ॥ २४॥
त्वमेव माताऽसि जगञ्जनित्री प्रिये महेशस्य पिता त्वमेव ।
महेश तस्मादव दीनबन्धो दयारसार्द्राक्षितटप्रसादैः ॥ २५॥
अपारपापप्रलयानलस्त्वं त्वत्पादपद्मस्मरणं क्षणं वा ।
अक्षीणपुण्याभरणेन लभ्यः त्वमीश ते पादमनुस्मरामि ॥ २६॥
श्रीकालकालहृदये कलयाप्नि नित्यं त्वां कालकालमहिले कलयेऽनुवेलम् ।
मच्चित्तमस्तु युवयोश्चरणारविन्दे वन्दे मुहुर्मुहुरहं विजहामि शोकम् ॥ २७॥
हे भूतनाथ भगवन् गिरिजासहाय हे गौरि देवि गिरिजे शिववल्लभे माम् ।
पाहि स्मरान्तक यमान्तक चन्द्रमौले पाहि स्मृताऽपि मधुकैटभहन्त्रि धात्रि ॥ २८॥
पाहि प्रभो भवभयापह मोहशत्रो पाहि त्रिलोचन सुरासुरसार्वभौम ।
पाहि प्रबोधजननि प्रलयावसान श्रीभललोचन विहारविनोदलीले ॥ २९॥
पाहि प्रपन्नसुरलोकविलोकनेन कृत्वा सुरारिविलयं करुणानिधाने ।
पाहि स्मरारिकरचारुविचारिताङ्गि श्रीमङ्गले सकलमङ्गलदानलोले ॥ ३०॥
पाहि प्रसीद शिवभक्तमनन्यधन्य मान्यं मदन्यमपि धन्यमनन्यचित्तम् ।
पाहि प्रसादसुमुखैः करुणाकटाक्षैः दाक्षायणि प्रणतपापविनाशदक्षे ॥ ३१॥
पाहि त्वमेव गतिरित्यनुवारमीश त्वत्पादपद्मभजने करवाणि वाणीः ।
सैषा मम स्फुरतु पाहि शिवे भवानि त्वत्पादपद्मभजने रतिरस्तु नित्यम् ॥ ३२॥
पाहि स्मरामि हर ते चरणारविन्दं मन्दारकुन्दनवबिल्वदलादिपूज्यम् ।
पाहि स्मरामि गिरिराजसुते त्वदीय पादाम्बुजं त्रिदशचित्तकलत्रपात्रम् ॥ ३३॥
वन्दे सर्वसुरासुरप्रभुमुमाकान्तं प्रशान्तं मुहुः
सन्तानद्रुमपुण्यमण्टपमहासिंहासनाधिष्ठितम् ।
आनम्रामरवृन्दमौलिविलसत्कोटीरदिव्यप्रभा-
पुञ्जव्यञ्जितपादुके तव भजे मृत्युञ्जयावाव माम् ॥ ३४॥
त्वामाराध्यतमं वदन्ति मुनयः सोमावतंसं प्रभुं
वेदान्ता अपि संस्तुवन्ति भगवंस्त्वत्पादपद्मं मुहुः ।
त्वद्रूपं विदितं न योगिनिकरैः यागैश्च दानैस्तथा
दीनानामवनैश्च निश्चितमिदं सर्वात्मना शङ्कर ॥ ३५॥
शर्वाणीकुचहेमकुम्भविलसत्काश्मीररेणुपूरा-
पूरितदिव्यकान्तिरुचिरत्वत्पादपद्मं मुदा ।
वन्दे सुन्दरम द्रिजाकर तलालङ्कारसाराकरं
वारं वारमनुस्मरामि सकलाभीष्टप्रदानाकरम् ॥ ३६॥
कारुण्यामृतसागरामरवरापारानतिव्यत्यय-
व्यत्यस्तोन्नतपादकामितमणिश्रीरञ्जितं मां कुरु ।
त्वामेवाहमुपागतः शरणमित्यर्धेन्दुमौले स्मर
स्मर्तव्येष्वहमेक एव भगवन् किं नावशिष्टः प्रभो ॥ ३७॥
कल्याणानि तनोति मे तव पदाम्भोजं विपत्सन्ततिं
दूरीकृत्य महाघसागरमहाकल्लोलमाला अपि ।
लीला ते खलु कालकाल जगतां सृष्टिस्थितिध्वंसना-
न्यायासोऽपि न तत्र तैलततमप्येतत्तव क्रीडनम् ॥ ३८॥
मामा मुञ्च महेश मामकधिया मद्भागधेयं प्रियं
शम्भो त्वच्चरणारविन्दभजनं तन्मे निधिः तद्धनम् ।
तन्मे सौख्यमहाम्बुधिश्च तरणोपायोप्यपायाम्बुधेः
आनन्दाम्बुधिवीचिकादिरचना चातुर्यमर्यादभूः ॥ ३९॥
॥ इति शिवरहस्यान्तर्गते शाम्भवकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः २५। ३२-७० ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 25. 32-70 ..
Proofread by Ruma Dewan