बाणकृता शिवस्तुतिः
महादेव कर्पूरगौरामरेन्द्र महामेरुकोदण्ड चण्डप्रचण्ड ।
महाचण्डवेतण्ड शुण्डोरुदण्डैर्हृतापारलोलाब्जिनीपत्रपूज्य ॥ १॥
कुण्डलीशकृतकुण्डल शम्भो खण्डिताखिलसुरद्रुमषण्ड ।
ब्राह्ममुण्डकलितामलमाल स्थूललिङ्गगणमण्डलसंस्थ ॥ २॥
नवचन्द्राभरणोत्तमाङ्ग गङ्गाकलितालक भूधरोरुमाल ।
घृतहालाहलकण्ठमूल बाहुस्फुरदुत्तप्तशिखाविधूमकील ॥ ३॥ (कूल)
वसुधाधरधारकं महेशं विबुधाधीश्वरसन्नताङ्घ्रियुग्मम् ।
गिरिकन्दरसंस्थितान्तरङ्गं भजाम्यहं सिन्धुरकृत्तिचेलम् ॥ ४॥
नीलाभ्रसन्निभमहामहिषाधिरूढः
चण्डांशुजप्रबलसर्पगणादिपाशैः ।
लिङ्गालिङ्गनतत्परं द्विजवरं कर्षन्तमत्युन्मुखं
कालस्त्वत्पदताडितो द्विजसुते दत्तायुषं त्वां नुमः ॥ ५॥
विधिकलितकपालजालमालं बलितनयार्चितबाणलिङ्गलोलम् ।
करविवृतकपालव्यालमालं सशूलं गलधृतगरनीलं कालकालं भजेऽहम् ॥ ६॥
अच्छा वाक् तस्य शम्भो तत्र निखिलमहो सुष्टुतिं वीरयामि
त्वल्लिङ्गेक्षासुचक्षुः भवदमलकथाकर्णनैः सुश्रवाहम् ।
त्वत्पादार्चासुहस्तस्तव पदकमलध्यानतः सन्मनाऽहं
सर्वं चाङ्गं स्थिरं च त्वयि भवति विभो शङ्कराद्य प्रसीद ॥ ७॥
माकन्दं पिकसुन्दरीव भगवन् कान्ता यथा कामुकं
मत्तालिः सरसीरुहं द्विजगणो दातारमाकाङ्क्षते ।
तद्वत्त्वां परिचिन्तयामि सततं तूर्णं कृपावीक्षणैः
सम्पूर्णं कुरु मामकिञ्चनमहो भाग्यैरभाग्यालसैः ॥ ८॥
॥ इति शिवरहस्यान्तर्गते बाणकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः १०। ५५-६२, ७०-७३॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 10. 55-62, 70-73..
Notes:
Bana, the son of asura Mahabali, recites Stuti to Shiva.
The shlokas have been renumbered for readers' convenience.
Proofread by Ruma Dewan