ब्रह्मकृतं शिवस्तोत्रम्
(सौरपुराणे त्रयोविंशत्यध्यायान्तर्गतम्)
ब्रह्मोवाच-
नमस्तेऽस्तु महादेव नमस्ते परमेश्वर ।
नमः शिवाय देवाय नमस्ते ब्रह्मरूपिणे ॥ २०॥
यस्य द्यौरभवन्मूर्धा पादौ पृथ्वी दिशो भुजाः ।
आकाशमुदरं तस्मै विराजे प्रणमाम्यहम् ॥ ३४॥
सन्तापयति यो नित्यं स्वभाभिर्भासयन्दिशः ।
ब्रह्मतेजोमयं विश्वं तस्मै सूर्यात्मने नमः ॥ ३५॥
हव्यं वहति यो नित्यं रोद्री तेजोमयी तनुः ।
कव्यं पितृगणानां च तस्मै वह्न्यात्मने नमः ॥ ३६॥
आप्याययति यो नित्यं स्वधाम्ना सकलं जगत् ।
पीयते देवतासन्धैस्तस्मै चन्द्रात्मने नमः ॥ ३७॥
बिभर्त्यशेषभूतानि योऽन्तश्चरति सर्वदा ।
शक्तिर्माहेश्वरी तुभ्यं तस्मै वाय्वात्मने नमः ॥ ३८॥
सृजत्यशेषमेवेदं यः स्वकर्मानुरूपतः ॥
स्वात्मन्यवस्थितस्तस्मै चतुर्वक्त्रात्मने नमः ॥ ३९॥
यः शेते शेषशयने विश्वमावृत्य मायया ।
आत्मानुभूतियोगेन तस्मै विश्वात्मने नमः ॥ ४०॥
बिभर्ति शिरसा नित्यं द्विसप्तभुवनात्मकम् ।
ब्रह्माण्डं योऽखिलाधारं तस्मै शेषात्मने नमः ॥ ४१॥
यः परान्ते परानन्दं पीत्वा दिव्यैकसाक्षिणम् ।
नृत्यत्यनन्तमहिमा तस्मै रुद्रात्मने नमः ॥ ४२॥
योऽन्तरा सर्वभूतानां नियन्ता तिष्ठतीश्वरः ।
तं सर्वसाक्षिणं देवं नमस्ते परमात्मने ॥ ४३॥
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु ।
कुक्षौ समुद्राश्चत्वारस्तस्मै व्योमात्मने नमः ॥ ४४॥
यं विनिद्रा यतश्वासाः सन्तुष्टाः समदर्शिनः ॥
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ ४५।
यस्य भासा विभातीदं तदहं तमसः परम् ।
तत्त्वं सदा निराकारं चिद्रूपं पारमेश्वरम् ॥ ४६॥
यया सन्तरते मायां योगी सङ्क्षीणकल्मषः ।
अपरान्तामपर्यन्तां तस्मै विद्यात्मने नमः ॥ ४७॥
नित्यानन्दं निराधारं निष्कलं परमं शिवम् ।
प्रपद्ये परमात्मानं भवन्तं परमेश्वरम् ॥ ४८॥
एवं स्तुत्वा महादेवं ब्रह्मा तद्भावभावितः ।
प्राञ्जलिः प्रणतस्तस्थौ गृणन्ब्रह्म सनातनम् ॥ ४९॥
ततस्तत्य महादेवो नित्ययोगमनुत्तमम् ।
ऐश्वर्यं ब्रह्मसद्भावं वैराग्यं च ददो हरः ॥ ५०॥
इति सौरपुराणे त्रयोविंशत्यध्यायान्तर्गतं ब्रह्मकृतं
शिवस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by PSA Easwaran