शिवनिर्दिष्ट शिववन्दना
ये मुक्तिदायक महेश पिनाकपाणे शम्भो गिरीश हर शङ्कर चन्द्रमौले ।
विश्वेश्वरान्धकरिपो पुरसूदनेति मामर्चयन्त्यनुवदन्ति त एव धन्याः ॥ १८९॥
ये देवदेव जगदीश्वर पञ्चवक्त्र श्रीनीलकण्ठ वरदोत्तम विश्वबाहो ।
सोमाग्निभानुनयनामल शङ्करेति मामर्चयन्त्यनुवदन्ति त एव धन्याः ॥ १९०॥
ये शर्व भालनयनाखिलविश्वमूर्ते कल्याणभूधरधनुर्धर शूलपाणे ।
भर्ग त्रिलोचन भगाक्षिहराजरेति मामर्चयन्त्यनुवदन्ति त एव धन्याः ॥ १९१॥
ये विष्णुवल्लभ सदाशिव कालकाल कालाग्निरुद्र करुणाकर दीनबन्धो ।
कर्पूरगौर परमेश महेश्वरेति मामर्चयन्त्यनुवदन्ति त एव धन्याः ॥ १९२॥
ये वामदेव भवभञ्जन भूतिभूष भूतेश खण्डपरशो प्रमथाधिनाथ ।
विश्वाधिक त्रिदशवन्द्य सुरेश्वरेति मामर्चयन्त्यनुवदन्ति त एव धन्याः ॥ १९३॥
ये भक्तवत्सल जटापटलाबलम्बिबालेन्दुखण्ड रुचिमण्डलमण्डिताङ्ग ।
रत्नस्फुरद्भुजगराजविभूषणेति मामर्चयन्त्यनुवदन्ति त एव धन्याः ॥ १९४॥
ये भीम षण्मुखगुरो मृगशावहस्त शार्दूलचर्मवसनाव्यय सत्यन्ध ।
शैलाधिराजनिलय त्रिपुरान्तकेति मामर्चयन्त्यनुवदन्ति त एव धन्याः ॥ १९५॥
ये भीम रुद्र वृषभध्वज वीरभद्रभद्रावतार भगवन् भवभावरूप ।
निःसङ्ग निर्मल निरञ्जन निर्गुणेति मामर्चयन्त्यनुवदन्ति त एव धन्याः ॥ १९६॥
ये कालकूटविषभूरिभयार्तदेवसंरक्षकाद्य विषमाक्ष समस्तसाक्षिन् ।
सूक्ष्मातिसूक्ष्म शिव दक्षमखान्तकेति मामर्चयन्त्यनुवदन्ति त एव धन्याः ॥ १९७॥
ये यज्ञशासन वृषासन धर्मरूप यज्ञादिकर्मफलदायक यज्ञमूर्ते ।
सृष्टिस्थितिप्रलयकारण सात्विकेति मामर्चयन्त्यनुवदन्ति त एव धन्याः ॥ १९८॥
ये नीललोहित दिगम्बर कृत्तिवासः श्रीकण्ठ शान्त निरुपाधिक निर्विकार ।
मृत्युञ्जयाव्यय निधीश गणेश्वरेति मामर्चयन्त्यनुवदन्ति त एव धन्याः ॥ १९९॥
ये सोम साम्ब शिपिविष्ट जगन्निवास कैलासवास मुनिहृत्कमलाधिवास ।
सोमावतंस शितिकण्ठ शिवाप्रियेति मामर्चयन्त्यनुवदन्ति त एव धन्याः ॥ २००॥
(फलम्)
मन्नामामृतपायिनः स्वजननीस्तन्यं पुनः सर्वथा
नो काङ्क्षन्ति न चाप्नुवन्ति सततं मत्पादपद्मार्चकाः ।
मल्लिङ्गार्चनतत्पराः मम हिता मल्लोक एवानिशं
सन्तिष्ठन्ति निरस्तदुःखनिकरा मद्भक्तवर्या मुदा ॥ २०१॥
मल्लिङ्गसम्पूजनसक्तचित्ता मद्भक्तपूजार्थमुपात्तवित्ताः ।
मन्नामसङ्कीर्तनपूतचित्ताः वसन्ति मन्नामसुधैकचित्ताः ॥ २०२॥
सन्तः क्वचित्सन्ति निशान्तमीशं स्वान्तःस्थितं सन्ततमर्चयन्तः ।
मामेव विश्वेशमनन्तमाद्यमवेद्यमेकं निगमान्तवेद्यम् ॥ २०३॥
॥ इति शिवरहस्यान्तर्गते शिवनिर्दिष्ट शिववन्दना सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १ । १८९-२०२॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 1 . 189-202..
Notes:
The source text has a numbering error from shloka 194 onwards that has been rectified for this webpage.
Proofread by Ruma Dewan